पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ५२

विकिस्रोतः तः
Jump to navigation Jump to search

व्यास उवाच-
भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे
ओष्ठावलोमकौ स्पृष्ट्वा वासो विपरिधाय च १
रेतोमूत्रपुरीषाणामुत्सर्गेऽनृतभाषणे
ष्ठीवित्वाऽध्ययनारंभे कासश्वासागमे तथा २
चत्वरं वा श्मशानं वा समाक्रम्य द्विजोत्तमः
संध्ययोरुभयोस्तद्वदाचांतोऽप्याचमेत्पुनः ३
चंडालम्लेच्छसंभाषे स्त्रीशूद्रोच्छिष्टभाषणे
उच्छिष्टं पुरुषं दृष्ट्वा भोज्यं चापि तथाविधम् ४
आचामेदश्रुपाते वा लोहितस्य तथैव च
भोजने संध्ययोः स्नात्वा पीत्वा मूत्रपुरीषयोः ५
आगतो वाचमेत्सुप्त्वा सकृत्सकृदथान्यतः
अग्नेर्गवामथालंभे स्पृष्ट्वा प्रयतमेव वा ६
स्त्रीणामथात्मनः स्पर्शे नीलद्यं वा परिधाय च
उपस्पर्शेज्जलं वार्तं तृणं वा भूमिमेव च ७
केशानां चात्मनः स्पर्शे वाससः स्खलितस्य च
अनुष्णाभिरकेशाभिरदुष्टाभिश्च धर्मतः ८
शौचेऽप्सु सर्वदा चामेदासीनः प्रागुदङ्मुखः
शिरः प्रावृत्य कंठं वा मुक्तकेशशिखोऽपि वा ९
अकृत्वा पादयोः शौचं मार्गतो न शुचिर्भवेत्
सोपानत्कोपानस्थो वा नोष्णीषी चाचमेद्बुधः १०
न चैव वर्षधाराभिर्न तिष्ठन्नुद्धृतोदकैः
नैकहस्तार्पितजलैर्विना सूत्रेण वा पुनः ११
न पादुकासनस्थो वा बहिर्जानुरथापि वा
न जल्पन्न हसन्प्रेक्षन्शयानस्तल्प एव च १२
नाविक्षिताभिः फेनाद्यैरुपेताभिरथापि वा
शूद्राशुचिकरोन्मुक्तैर्नक्षाराभिस्तथैव च १३
न चैवांगुलिभिः शब्दं न कुर्यान्नान्यमानसः
न वर्णरसदुष्टाभिर्न चैव प्रदरोदकैः १४
न पाणिक्षुभिताभिर्वा न बहिर्गंध एव वा
हृद्गाभिः पूयते विप्रः कंठ्याभिः क्षत्रियः शुचिः १५
प्राशिताभिस्तथा वैश्यः स्त्रीशूद्रौ स्पर्शतोंऽततः
अंगुष्ठमूलांतरतो रेखायां ब्राह्ममुच्यते १६
अंतरांगुष्ठदेशिन्यैः पितॄणां तीर्थमुच्यते
कनिष्ठामूलतः पश्चात्प्राजापत्यं प्रचक्षते १७
अंगुल्यग्रं स्मृतं दैवं तदेवार्षं प्रकीर्तितम्
मूलेन दैवमार्षं स्यादाग्नेयं मध्यतः स्मृतम् १८
तदेव सौमिकं तीर्थमेतज्ज्ञात्वा न मुह्यति
ब्राह्मेणैव तु तीर्थेन द्विजो नित्यमुपस्पृशेत् १९
होमयेद्वाथ दैवेन न तु पित्र्येण वै द्विजाः
त्रिःप्राश्नीयादपः पूर्वं ब्राह्मेण प्रयतस्ततः २०
संमृज्यांगुष्ठमूलेन मुखं वै समुपस्पृशेत्
अंगुष्ठानामिकाभ्यां तु स्पृशेन्नेत्रद्वयं ततः २१
तर्जन्यंगुष्ठयोगेन स्पृशेन्नासापुटद्वयम्
कनिष्ठांगुष्ठयोगेन श्रवणे समुस्पृशेत् २२
सर्वासामथयोगेन हृदयं तु तनवा
स्पृशेद्वै शिरसस्तद्वदंगुष्ठेनांसकद्वयम् २३
त्रिःप्राश्नीयाद्यदंभस्तु प्रीतास्तेनास्य देवताः
ब्रह्माविष्णुर्महेशश्च भवंतीत्यनुशुश्रुम २४
गंगा च यमुना चैव प्रीयेते परिमार्जनात्
संस्पृष्टयोर्लोचनयोः प्रीयेते शशिभास्करौ २५
नासत्यदस्रौ प्रीयेते स्पृशेन्नासापुटद्वयम्
कर्णयोः स्पृष्टयोस्तद्वत्प्रीयेते चानिलानलौ २६
संस्पृष्टे हृदये चास्य प्रीयंते सर्वदेवताः
मूर्ध्नि संस्पर्शनादेकः प्रीतः स पुरुषो भवेत् २७
नोच्छिष्टं कुर्वते वक्त्रे विप्रुषोंगे लगंति याः
दंतवद्दंतलग्नेषु जिह्वास्पर्शे शुचिर्भवेत् २८
स्पृशंति बिंदवः पादौ य आचामयतः परान्
भूमिपांशुसमा ज्ञेया न तैरस्पृश्यता भवेत् २९
मधुपर्के च सोमे च तांबूलस्य च भक्षणे
फलमूले चेक्षुदंडेन दोषं प्राह वै मनुः ३०
प्रचरंश्चान्नपानेषु द्रव्यहस्तो भवेन्नरः
भूमौ निक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत् ३१
तैजसं वै समादाय यद्युच्छिष्टो भवेद्द्विजः
भूमौ निक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत् ३२
यद्यद्द्रव्यं समादाय भवेदुच्छेषणान्वितः
अनिधायैव तद्द्रव्यं भूमौ त्वशुचितामियात् ३३
वस्त्रादिषु विकल्पः स्यात्तत्संस्पृश्याचमेदिह
अरण्ये निर्जने रात्रौ चौरव्याघ्राकुले पथि ३४
कृत्वा मूत्रं पुरीषं वा द्रव्यहस्तो न दुष्यति
निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्मुखः ३५
अह्नि कुर्याच्छकृन्मूत्रं रात्रौ चेद्दक्षिणामुखः
अंतर्धाय महीं काष्टैः पत्रैर्लोष्टतृणेन वा ३६
प्रावृत्य च शिरः कुर्याद्विण्मूत्रस्य विसर्जनम्
छायाकूपनदीगोष्ठचैत्यांभः पथि भस्मसु ३७
अग्नौ चैव श्मशाने च विण्मूत्रं न समाचरेत्
न गोमयेन काष्ठे वा महावृक्षेऽथ शाद्वले ३८
न तिष्ठन्न च निर्वासा न च पर्वतमंडले
न जीर्णदेवायतने वल्मीके न कदाचन ३९
न ससत्वेषु गर्तेषु न गच्छन्न समाचरेत्
तुषांगारकपालेषु राजमार्गे तथैव च ४०
न क्षेत्रे न बिले वापि न तीर्थे न चतुष्पथे
नोद्यानेऽपासमीपे वा नोषरे नगराशये ४१
न सोपानत्पादुको वा छत्री वा नांतरिक्षके
न चैवाभिमुखः स्त्रीणां गुरुब्राह्मणयोर्गवाम् ४२
न देवदेवालययोरपामपि कदाचन
न ज्योतींषि निरीक्षन्वानवाप्रतिमुखोथ वा ४३
प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च
आहृत्य मृत्तिकां कूलाल्लेपगंधापकर्षणीम् ४४
कुर्यादतंद्रितः शौचं विशुद्धैरुद्धृतोदकैः
नाहरेन्मृतिकां विप्रः पांशुलां न सकर्दमाम् ४५
न मार्गान्नोषराद्देशाच्छौचशिष्टां परस्य च
न देवायतनात्कूपाद्धाम्नो न च जलात्तथा ४६
उपस्पृशेत्ततो नित्यं पूर्वोक्तेन विधानतः ४७
इति श्रीपाद्मे महापुराणे स्वर्गखंडे कर्मयोगकथने
द्विपंचाशत्तमोऽध्यायः ५२