सामग्री पर जाएँ

पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ५८

विकिस्रोतः तः

व्यास उवाच-
एवं गृहाश्रमे स्थित्वा द्वितीयं भागमायुषः ।
वानप्रस्थाश्रमं गच्छेत्सदारः साग्निरेव च १।
निक्षिप्य भार्यां पुत्रेषु गच्छेद्वनमथापि वा ।
दृष्ट्वापत्यस्य वापत्यं जर्जरीकृतविग्रहः २।
शुक्लपक्षस्य पूर्वाह्णे प्रशस्ते चोत्तरायणे ।
गत्वारण्यं नियमवांस्तपः कुर्यात्समाहितः ३।
फलमूलानि पूतानि नित्यमाहारमाहरेत् ।
यदाहारो भवेत्तेन पूजयेत्पितृदेवताः ४।
पूजयेदतिथिं नित्यं स्नात्वा चाभ्यर्चयेत्सुरान् ।
गृहादादाय चाश्नीयादष्टौ ग्रासान्समाहितः ५।
जटाश्च बिभृयान्नित्यं नखरोमाणि नोत्सृजेत् ।
स्वाध्यायं सर्वथा कुर्यान्नियच्छेद्वाचमन्यतः ६।
अग्निहोत्रं च जुहुयात्पंचयज्ञान्समाचरेत् ।
उत्पन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा ७।
चीरवासा भवेन्नित्यं स्नायात्त्रिषवणं शुचिः ।
सर्वभूतानुकंपश्च प्रतिग्रहविवर्जितः ८।
दर्शेन पौर्णमासेन यजेत नियतं द्विजः ।
ऋत्विष्ट्याग्रयणे चैव चातुर्मास्यानि कारयेत् ९।
उत्तरायणं च क्रमशो दक्षिणायनमेव च ।
वासंतशारदैर्मेद्ध्यैरुत्पन्नैः स्वयमाहृतैः १०।
पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत्पृथक् ।
देवताभ्यः पितृभ्यश्च दत्त्वा मेध्यतरं हविः ११।
शेषं समुपभुंजीत लवणं च स्वयंकृतम् ।
वर्ज्जयेन्मद्यमांसानि भौमानि कवकानि च १२।
भूस्तृणं शष्पकं चैव श्लेष्मातक फलानि च ।
न फालकृष्टमश्नीयादुत्सृष्टमपि केनचित् १३।
न ग्रामजातान्यार्तोपि पुष्पाणि च फलानि च ।
श्रावणेनैव विधिना वह्निं परिचरेत्सदा १४।
न द्रुह्येत्सर्वभूतानि निर्द्वंद्वो निर्भयो भवेत् ।
न नक्तं किंचिदश्नीयाद्रात्रौ ध्यानपरो भवेत् १५।
जितेंद्रियो जितक्रोधस्तत्त्वज्ञानविचिंतकः ।
ब्रह्मचारी भवेन्नित्यं न पत्नीमपि संश्रयेत् १६।
यस्तु पत्न्या वनं गत्वा मैथुनं कामतश्चरेत् ।
तद्व्रतं तस्य लुप्येत प्रायश्चित्तीयते द्विजः १७।
तत्र यो जायते गर्भो न स स्पृश्यो द्विजातिभिः ।
न हि वेदेधिकारोस्य तद्वंशेप्येवमेव हि १८।
भूमौ शयीत सततं सावित्रीजप्यतत्परः ।
शरण्यः सर्वभूतानां सद्विभागपरः सदा १९।
परिवादं मृषावादं निद्रालस्ये च वर्जयेत् ।
एकाग्निरनिकेतः स्यात्प्रोक्षितां भूमिमाश्रयेत् २०।
मृगैः सह चरेद्दांतस्तैः सहैव च संवसेत् ।
शिलायां शर्करायां वा शयीत सुसमाहितः २१।
सद्यः प्रक्षालको वा स्यान्माससंचयिकोपि वा ।
षण्मासनिचयो वापि समानिचय एव वा २२।
नक्तं चान्नं समश्नीयाद्दिवा चाहृत्य शक्तितः ।
चतुर्थकालको वा स्यात्किं वाप्यष्टमकालिकः २३।
चांद्रायणविधानैर्वा शुक्लेकृष्णे च वर्जयेत् ।
पक्षेपक्षे समश्नीयाद्यवागूं क्वथितां सकृत् २४।
पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा ।
स्वाभाविकैः स्वयंशीर्णैर्वैखानसमते स्थितः २५।
भूमौ वा परिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम् ।
स्थानासनाभ्यां विहरेन्न क्वचिद्धैर्य्यमुत्सृजेत् २६।
ग्रीष्मे पंचतपाश्च स्याद्वर्षास्वभ्रावकाशिकः ।
आर्द्रवासाश्च हेमंते क्रमशो वर्द्धयेत्तपः २७।
उपस्पृशेत्त्रिषवणं पितृदेवांश्च तर्पयेत् ।
एकपादेन तिष्ठेत मरीचिं वा पिबेत्सदा २८।
पंचाग्निधूमगो वा स्यादूष्मगः सोमपोपि वा ।
पयः पिबेच्छुक्लपक्षे कृष्णपक्षे तु गोमयम् २९।
शीर्णपर्णाशनो वा स्यात्कृच्छ्रैर्वा वर्तयेत्सदा ।
योगाभ्यासरतश्च स्याद्रुद्राध्यायी भवेत्सदा ३०।
अथर्वशिरसोध्येता वेदांताभ्यासतत्परः ।
यमान्सेवेत सततं नियमांश्चाप्यतंद्रितः ३१।
अथ चाग्नीन्समारोप्य स्वात्मनि ध्यानतत्परः ३२।
अनग्निरनिकेतो वा मुनिर्मोक्षपरो भवेत् ।
तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ३३।
गृहमेधिषु चान्येषु द्विजेषु वनचारिषु ।
ग्रामादाहृत्य चाश्नीयादष्टौ ग्रासान्वने वसन् ३४।
प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ।
विविधाश्चोपनिषद आत्मसंसिद्धये जपेत् ३५।
विद्याविशेषान्सावित्रीं रुद्राध्यायं तथैव च ।
महाप्रस्थानिकं वासौ कुर्य्यादनशनं तथा ।
अग्निप्रवेशमन्यद्वा ब्रह्मार्पणविधौ स्थितः ३६।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे वानप्रस्थाश्रमाचारधर्मो नामाष्टपंचाशत्तमोऽध्यायः ५८।