पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ०८

विकिस्रोतः तः
Jump to navigation Jump to search

ऋषय ऊचुः-
जंबूखंडस्त्वया प्रोक्तो यथावदिह सत्तमः
विष्कंभस्य च प्रब्रूहि परिमाणं हि तत्त्वतः १
समुद्रस्य प्रमाणं च सम्यगच्छिद्र दर्शनः
शाकद्वीपं च नो ब्रूहि कुशद्वीपं च धार्मिकम् २
शाल्मलं चैव तत्त्वेन क्रौंचद्वीपं तथैव च
सूत उवाच-
विप्राः सुबहवो द्वीपाः यैरिदं संततं जगत्
सप्तद्वीपान्प्रवक्ष्यामि शृणुध्वं द्विजपुंगवाः ३
अष्टादशसहस्राणि योजनानि द्विजोत्तमाः
षट्शतानि च पूर्णानि विष्कंभो जंबुपर्वतः ४
लवणस्य समुद्रस्य विष्कंभो द्विगुणः स्मृतः
नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ५
नैकधातुविचित्रैश्च पर्वतैरुपशोभितः
सिद्धचारणसंकीर्णैः सागरः परिमंडलः ६
शाकद्वीपं च वक्ष्यामि यथावदिह सत्तमाः
शृणुताद्य यथान्यायं ब्रुवतो मम धार्मिकाः ७
जंबुद्वीपप्रमाणेन द्विगुणः स द्विजर्षभाः
विष्कंभेन महाभागाः सागरोऽपि विभागशः ८
क्षीरोदो मुनिशार्दूला येन संपरिवारितः
तत्र पुण्याजनपदास्तत्र न म्रियते जनः ९
कुत एव हि दुर्भिक्षं क्षमा तेजोयुता हि ते
शाकद्वीपस्य संक्षेपो यथावन्मुनिसत्तमाः
उक्त एष महाभागाः किमन्यत्कथयामि वः १०
ऋषय ऊचुः-
शाकद्वीपस्य संक्षेपो यथावदिह धार्मिक
उक्तस्त्वया महाप्राज्ञ विस्तरं ब्रूहि तत्त्वतः ११
सूत उवाच-
तथैव पर्वता विप्राः सप्तात्र मणिपर्वताः
रत्नाकरास्तथा नद्यस्तेषां नामानि वर्णये १२
अतीवगुणवत्सर्वं तत्त्वं पृच्छथ धार्मिकाः
देवर्षिगंधर्वयुतः प्रथमो मेरुरुच्यते १३
प्रागायतो महाभागा मलयोनाम पर्वतः
ततो मेघाः प्रवर्त्तंते प्रभवंति च सर्वशः १४
ततः परेण मुनयो जलधारो महागिरिः
ततो नित्यमुपादत्ते वासवः परमं जलम् १५
ततो वर्षं प्रभवति वर्षाकाले द्विजोत्तमाः
उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितम् १६
रेवती दिवि नक्षत्रं पितामहकृतो विधिः
उत्तरेण तु विप्रेंद्राः श्यामो नाम महागिरिः १७
नवमेघप्रभः प्रांशुः श्रीमानुज्ज्वलविग्रहः
यतः श्यामत्वमापन्नाः प्रजा मुदितमानसाः १८
ऋषय ऊचुः-
सुमहान्संशयोऽस्माकं प्राप्तोयं सूत यत्त्वया
प्रजाः कथं सूत सम्यक्संप्राप्ताः श्यामतामिह १९
सूत उवाच-
सर्वेष्वेव महाप्राज्ञा द्वीपेषु मुनिपुंगवाः
गौरः कृष्णश्च पतगस्तयोर्वर्णांतरे द्विजाः २०
श्यामो यस्मात्प्रवृत्तो वै तस्मात्श्यामगिरिः स्मृतः
ततः परं मुनिश्रेष्ठा दुर्गशैलो महोदयः २१
केशरी केशरयुतो यतो वातः प्रवर्त्तते
तेषां योजनविष्कंभो द्विगुणः प्रविभागशः २२
वर्षाणि तेषु विप्रेंद्राः संप्रोक्तानि मनीषिभिः
महामेरुर्महाकाशो जलदः कुमुदोत्तरम् २३
जलधारो महाप्राज्ञः सुकुमार इति स्मृतः
रेवतस्य तु कौमारः श्यामश्च मणिकांचनः २४
केशरस्याथ मौदाकी परेण तु महान्पुमान्
परिवार्य्यं तु विप्रेंद्रा दैर्घ्यं ह्रस्वत्वमेव च २५
जंबूद्वीपेन संख्यातस्तस्य मध्ये महाद्रुमः
शाको नाम महाप्राज्ञाः प्रजास्तस्य सहानुगाः २६
तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः
तत्र गच्छंति सिद्धाश्च चारणा दैवतानि च २७
धार्मिकाश्च प्रजाः सर्वाः चत्वारो गतमत्सराः
वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते २८
दीर्घायुषो महाप्राज्ञा जरामृत्युविवर्जिताः
प्रजास्तत्र विवर्द्धंते वर्षास्विव समुद्रगाः २९
नद्यः पुण्यजलास्तत्र गंगा च बहुधा गता
सुकुमारी कुमारी च शीता शीतोदका तथा ३०
महानदी च भो विप्रास्तथा मणिजला नदी
इक्षुवर्द्धनिका चैव नदी मुनिवराः स्मृताः ३१
ततः प्रवृत्ताः पुण्योदा नद्यः परमशोभनाः
सहस्राणां शतान्येव यतो वर्षति वासवः ३२
न तासां नामधेयानि परिस्मर्तुं तथैव च
शक्यंते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः ३३
ततः पुण्या जनपदाश्चत्वारो लोकविश्रुताः
मृगाश्च मशकाश्चैव मानसा मल्लकास्तथा ३४
मृगाश्च ब्रह्मभूयिष्ठाः स्वकर्मनिरता द्विजाः
मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः ३५
मानसाश्च महाभागा वैश्यधर्मोपजीविनः
सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः ३६
शूद्रास्तु मल्लका नित्यं पुरुषा धर्मशीलिनः
न तत्र राजा विप्रेंद्रा न दंडो न च दंडिकाः ३७
स्वधर्मेणैव धर्मज्ञास्ते रक्षंति परस्परम्
एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुम् ३८
एतदेव च श्रोतव्यं शाकद्वीपे महौजसि ३९
इति श्रीपाद्मे महापुराणे स्वर्गखंडेऽष्टमोऽध्यायः ८