पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः २७

विकिस्रोतः तः
Jump to navigation Jump to search

नारद उवाच-
ततो गच्छेत धर्मज्ञ कन्यातीर्थमनुत्तमम्
कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत् १
ततो गच्छेन्नरव्याघ्र ब्रह्मणः स्थानमुत्तमम्
तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः २
ब्राह्मणस्तु विशुद्धात्मा गच्छेत परमां गतिम्
ततो गच्छेन्नरव्याघ्र सोमतीर्थमनुत्तमम् ३
तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात्
सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप ४
यत्र मंकणकः सिद्धो ब्रह्मर्षिर्लोकविश्रुतः
पुरा मंकणको राजन्कुशाग्रेणेति विश्रुतम् ५
क्षतः किल करे राजन्तस्य शाकरसोऽस्रवत्
स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः ६
ननर्त किल विप्रर्षिर्विस्मयोत्फुल्ललोचनः
ततस्तस्मिन्प्रनृत्ते वै स्थावरं जंगमं च यत् ७
प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम्
ब्रह्मादिभिस्ततो देवैर्ऋषिभिश्च तपोधनैः ८
विज्ञप्तो वै ऋषेरर्थे महादेवो नराधिप
नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ९
ततो देवो मुनिं दृष्ट्वा हर्षाविष्टेन चेतसा
नृत्यंतमब्रवीच्चैनं स्थिराणां हितकाम्यया १०
अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान्
हर्षस्थानं किमर्थं वा तवाद्य मुनिपुंगव ११
ऋषिरुवाच-
तपस्विनो धर्म्मपथस्थितस्य द्विजसत्तम
किं न पश्यसि मे ब्रह्मन्क्षताच्छाकरसं सृतम् १२
यं दृष्ट्वा संप्रनृत्तोऽहं हर्षेण महता वृतः
तं प्रहस्याब्रवीद्देव ऋषिं रागेण मोहितम् १३
अहं तु विस्मयं विप्र न गच्छामीह पश्य माम्
एवमुक्त्वा नरश्रेष्ठ महादेवेन वै तदा १४
अंगुल्यग्रेण राजेंद्र स्वांगुष्ठस्ताडितोऽनघ
तस्य भस्मक्षताद्राजन्निःसृतं हिमसंनिभम् १५
यं दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः
नान्यं देवादहं मन्ये रुद्रात्परतरं महत् १६
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक्
त्वया सृष्टमिदं विश्वं त्रैलोक्यं सचराचरम् १७
त्वामेव भगवन्सर्वे प्रविशंति युगक्षये
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया १८
त्वयि सर्वेश दृश्यंते सुराः शक्रादयोऽनघ
सर्वस्त्वमसि लोकानां कर्ता कारयितान्वहम् १९
त्वत्प्रसादात्सुराः सर्वे मोदंतीहाकुतोभयाः
एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽब्रवीत् २०
त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै
ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत् २१
तपस्ते वर्द्धतां विप्र मत्प्रसादात्सहस्रधा
आश्रमे चेह वत्स्यामि त्वया सार्द्धं महामुने २२
सप्तसारस्वते स्नात्वा अर्चयिष्यंति ये तु माम्
न तेषां दुर्लभं किंचिदिह लोके परत्र वा २३
गच्छेत्सारस्वतं चापि लोकं नास्त्यत्र संशयः
एवमुक्त्वा महादेवस्तत्रैवांतरधीयत २४
ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम्
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः २५
कार्तिकेयश्च भगवांस्त्रिसंध्यां किल भारत
सान्निध्यमकरोत्तत्र भार्गवप्रियकाम्यया २६
कपालमोचनं तीर्थं सर्वपापप्रणाशनम्
तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते २७
अग्नितीर्थं ततो गच्छेत्स्नात्वा च भरतर्षभ
अग्निलोकमवाप्नोति कुलं चैव समुद्धरेत् २८
विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम
तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते २९
ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः
तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते ३०
पुनात्या सप्तमं चैव कुलं नास्त्यत्र संशयः
ततो गच्छेत राजेंद्र तीर्थं त्रैलोक्यविश्रुतम् ३१
पृथूदकमिति ख्यातं कार्तिकेयस्य व्नृप
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ३२
अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा
यत्किंचिदशुभं कर्म कृतं मानुषबुद्धिना ३३
तत्सर्वं नश्यते तत्र स्नातमात्रस्य भारत
अश्वमेधफलं चापि लभते स्वर्गमेव च ३४
पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम्
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् ३५
उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम्
पृथूदके जप्यपरो नैव संसरणं लभेत् ३६
गीतं सनत्कुमारेण व्यासेन च महात्मना
वेदे च नियतं राजन्नभिगच्छेत्पृथूदकम् ३७
पृथूदकात्पुण्यतमं नान्यत्तीर्थं नरोत्तम
एतन्मेध्यं पवित्रं च पावनं च न संशयः ३८
तत्र स्नात्वा दिवं यांति अपि पापकृतो जनाः
पृथूदके नरश्रेष्ठमाहुरेवं मनीषिणः ३९
मधुस्रवं च तत्रैव तीर्थं भरतसत्तम
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ४०
ततो गच्छेन्नरश्रेष्ठ तीर्थं देव्या यथाक्रमम्
सरस्वत्यारुणायाश्च संगमं लोकविश्रुतम् ४१
त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया
अग्निष्टोमातिरात्राभ्यां फलं चैव समश्नुते ४२
पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः
अवकीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह ४३
विप्राणामनुकंपार्थं दर्भिणा निर्मितं पुरा
व्रतोपनयनाभ्यां चाप्युपवासेन वा द्विजः ४४
क्रियामंत्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः
क्रियामंत्रविहीनोऽपि तत्र स्नात्वा नरर्षभ ४५
चीर्णव्रतो भवेद्विप्रो दृष्टमेतत्पुरातनम्
समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा ४६
तत्र स्नात्वा नरव्याघ्र न दुर्गतिमवाप्नुयात्
फलानि गोसहस्राणां चतुर्णां विंदते च सः ४७
ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम्
साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते ४८
उभयोर्हि नरः स्नात्वा गोसहस्रफलं लभेत्
दानं वाप्युपवासो वा सहस्रगुणितो भवेत् ४९
ततो गच्छेत राजेंद्र रेणुकातीर्थमुत्तमम्
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ५०
सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत्
विमोचन उपस्पृश्य जितमन्युर्जितेंद्रियः ५१
प्रतिग्रहकृतैः पापैः सर्वैः संपरिमुच्यते
ततः पंचवटं गत्वा ब्रह्मचारी जितेंद्रियः ५२
पुण्येन महता युक्तः स्वर्गलोके महीयते
यत्र योगीश्वरः स्थाणुः स्वयमेव वृषध्वजः ५३
तमर्चयित्वा देवेशं गमनादेव सिध्यति
तैजसं वारुणं तीर्थं दीप्यते स्वेन तेजसा ५४
यत्र ब्रह्मादिभिर्देवैर्ऋषिभिश्च तपोधनैः
सैनापत्ये च देवानामभिषिक्तो गुहस्तदा ५५
तैजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह
कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेंद्रियः ५६
सर्वपापविशुद्धात्मा रुद्रलोकं प्रपद्यते
स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः ५७
अग्निष्टोममवाप्नोति ब्रह्मलोकं च गच्छति
ततो गच्छेदनरकं तीर्थसेवी नराधिप ५८
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात्
तत्र ब्रह्मा स्वयं नित्यं देवैस्सह महीयते ५९
अध्यास्ते पुरुषव्याघ्र नारायणपरागमैः
सान्निध्यं चैव राजेंद्र रुद्रवेद्यां कुरुद्वह ६०
अभिगम्य तु तां देवीं न दुर्गतिमवाप्नुयात्
तत्रैव च महाराज विश्वेश्वरमुमापतिम् ६१
अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः
नारायणं चाभिगम्य पद्मनाभमरिंदम ६२
शोभमानो महाराज विष्णुलोकं प्रपद्यते
तीर्थेषु सर्वदेवानां स्नातमात्रो नराधिप ६३
सर्वदुःखपरित्यक्तो द्योतते शिववत्सदा
ततस्त्वस्थिपुरं गच्छेत्तीर्थसेवी नराधिप ६४
पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः
अग्निष्टोमस्य यज्ञस्य फलमाप्नोति भारत ६५
गंगाह्रदश्च तत्रैव कूपश्च भरतर्षभ
तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीयते ६६
तत्र स्नात्वा नरो राजन्ब्रह्मलोके प्रपद्यते
आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् ६७
गतिं परामवाप्नोति कुलं चैव समुद्धरेत्
ततः स्थाणुवटं गछेत्त्रिषुलोकेषु विश्रुतम् ६८
तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात्
बदरीणां वनं गच्छेद्वसिष्ठस्याश्रमं ततः ६९
बदरी भक्ष्यते यत्र त्रिरात्रोपोषितो नरः
सम्यग्द्वादशवर्षाणि बदरीं भक्षयेत्तु यः ७०
त्रिरात्रोपोषितश्चैव भवेत्तुल्यो नराधिप
इंद्रमार्गं समासाद्य तीर्थसेवी नराधिप ७१
अहोरात्रोपवासेन स्वर्गलोके महीयते
एकरात्रं समासाद्य एकरात्रोषितो नरः ७२
नियतः सत्यवादी च ब्रह्मलोके महीयते
तथा गछेच्च राजेंद्र तीर्थं त्रैलोक्यविश्रुतम् ७३
आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः
तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम् ७४
आदित्यलोकं व्रजति कुलं चैव समुद्धरेत्
सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह ७५
सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः
ततो गच्छेत धर्मज्ञ दधीचस्य नराधिप ७६
तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम्
यत्र सारस्वतो यातः सिद्धिं स तपसोनिधिः ७७
तस्मिंस्तीर्थे नरः स्नात्वा वाजपेयफलं लभेत्
सारस्वतीं मतिं चैव लभते नात्र संशयः ७८
ततः कन्याश्रमं गत्वा नियतो ब्रह्मचर्यया
त्रिरात्रमुषितो राजन्नुपवासपरायणः ७९
लभेत्कन्याशतं दिव्यं बह्मलोकं च गच्छति
ततो गच्छेत धर्मज्ञ तीर्थं संनिहितीमपि ८०
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः
मासि मासि समेष्यंति पुण्येन महतान्विताः ८१
सन्निहित्यामुपस्पृश्य राहुग्रस्ते दिवाकरे
अश्वमेधशतं तेन इष्टं भवति शाश्वतम् ८२
पृथिव्यां यानि तीर्थानि अंतरिक्षचराणि च
उदपानाश्च विप्राश्च पुण्यान्यायतनानि च ८३
निःसंशयममावास्यां समेष्यंति नराधिप
मासिमासि नरव्याघ्र सन्निहित्यां जनेश्वर ८४
तीर्थसन्नयनादेव सन्निहिती भुवि विश्रुता
तत्र स्नात्वा च पीत्वा च स्वर्गलोके महीयते ८५
अमावास्यां तथा चैव राहुग्रस्ते दिवाकरे
यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफलं शृणु ८६
अश्वमेधसहस्रस्य सम्यगिष्टस्य यत्फलम्
स्नात एव तदाप्नोति श्राद्धं कृत्वा च मानवः ८७
यत्किंचिद्दुष्कृतं कर्म्म स्त्रिया वा पुरुषस्य वा
स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः ८८
पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति
अभिवाद्य ततो नाम्ना द्वारपालं मचक्रुकम् ८९
गंगाह्रदश्च तत्रैव तीर्थं भरतसत्तम
तत्र स्नायीत धर्मज्ञ ब्रह्मचारी समाहितः ९०
राजसूयाश्वमेधाभ्यां फलं विंदति मानवः
पृथिव्यां नैमिषं पुण्यमंतरिक्षे च पुष्करम् ९१
त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते
पांसवोऽपि कुरुक्षेत्रे वायुनाति समीरिताः ९२
अपि दुष्कृतकर्म्माणं नयंति परमां गतिम्
दक्षिणेन सरस्वत्यामुत्तरेण सरस्वतीम् ९३
ये वसंति कुरुक्षेत्रे ते वसंति त्रिविष्टपे
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ९४
अप्येकां वाचमुत्मृज्य स्वर्गलोके महीयते
ब्रह्मवेद्यां कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् ९५
तस्मिन्वसंति ये राजन्न ते शोच्याः कथंचन
तरंडकारंडकयोर्यदंतरं रामह्रदानां च मचक्रुकस्य च
एतत्कुरुक्षेत्र समंतपंचकं पितामहस्योत्तर वेदिरुच्यते ९६
 इति श्रीपाद्मेमहापुराणे स्वर्गखंडे सप्तविंशोऽध्यायः २७