सामग्री पर जाएँ

पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ११

विकिस्रोतः तः

वसिष्ठ उवाच-
अनेन तव धर्मज्ञ प्रश्रयेण दमेन च ।
सत्येन च महाभाग तुष्टोस्मि तव सर्वशः १।
यस्येदृशस्ते धर्मोयं पितरस्तारितास्त्वया ।
तेन पश्यसि मां पुत्र याज्यश्चासि ममानघ २।
प्रीतिर्मे वर्द्धते तेऽद्य ब्रूहि किं करवाणि ते ।
यद्वक्ष्यसि नरश्रेष्ठ तस्य दातास्मि तेनघ ३।
दिलीप उवाच-।
वेदवेदांगतत्त्वज्ञ सर्वलोकाभिपूजित ।
कृतमित्येव मन्ये हि यदहं दृष्टवान्प्रभुम् ४।
यदि त्वहमनुग्राह्यस्तव धर्म्मभृतां वर ।
प्रक्ष्यामि हृत्स्थं संदेहं तन्मे त्वं वक्तुमर्हसि ५।
अस्ति मे भगवन्कश्चित्तीर्थे यो धर्मसंशयः ।
तदहं श्रोतुमिच्छामि पृथक्संकीर्तनं त्वया ६।
प्रदक्षिणां यः पृथिवीं करोति द्विजसत्तम ।
किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तपोधन ७।
वसिष्ठ उवाच-।
कथयिष्यामि तदहमृषीणां मत्परायणम् ।
तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम् ८।
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ९।
प्रतिग्रहादुपावृत्तः संतुष्टो नियतः शुचिः ।
अहंकारनिवृत्तश्च स तीर्थफलमश्नुते १०।
अकल्किको निराहारोऽलब्धाहारो जितेंद्रियः ।
विमुक्तः सर्वदोषैर्यः स तीर्थफलमश्नुते ११।
अक्रोधनश्च राजेंद्र सत्यशीलो दृढव्रतः ।
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते १२।
ऋषिभिः क्रतवः प्रोक्ता देवेष्वपि यथाक्रमम् ।
फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः १३।
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते ।
बहूपकरणा यज्ञा नानासंभारविस्तराः १४।
प्राप्यंते पार्थिवैरेते समृद्धैर्वा नरैः क्वचित् ।
न निर्धनैर्नरगणैरेकात्मभिरसाधनैः १५।
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं जनेश्वर ।
तुल्यो यज्ञफलैः पुण्यैस्तं निबोध महीपते १६।
ऋषीणां परमं गुह्यमिदं धर्म्मभृतां वर ।
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते १७।
अनुपोष्य त्रिरात्राणि तीर्थाभिगमनेन च ।
अदत्वा कांचनं गाश्च दरिद्रो नाम जायते १८।
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् १९।
नृलोके देवलोकस्य तीर्थं त्रैलोक्यविश्रुतम् ।
पुष्करं तीर्थमासाद्य देवदेवसमो भवेत् २०।
दशकोटिसहस्राणि तीर्थानां वै महीपते ।
सान्निध्यं पुष्करे येषां त्रिसंध्यं सूर्यवंशज २१।
आदित्या वसवो रुद्रा साध्याश्च समरुद्गणाः ।
गंधर्वाप्सरसश्चैव तत्र सन्निहिताः प्रभो २२।
यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा ।
दिव्ययोगा महाराज पुण्येन महता द्विजाः २३।
मनसाप्यभिकामस्य पुष्कराणि मनीषिणः ।
पूयंते सर्वपापानि नाकपृष्ठे च पूज्यते २४।
अस्मिंस्तीर्थे महाभाग नित्यमेव पितामहः ।
उवास परमप्रीतो देवदानवसंमतः २५।
पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः ।
सिद्धिं परमिकां प्राप्ताः पुण्येन महतान्विताः २६।
तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः ।
अश्वमेधाद्दशगुणं प्रवदंति मनीषिणः २७।
अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः ।
तेनैति पूजिताँल्लोकान्ब्रह्मणः सदने स्थितान् २८।
सायंप्रातः स्मरेद्यस्तु पुष्कराणि कृतांजलि ।
उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु पार्थिव २९।
जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा ।
पुष्करे गतमात्रस्य सर्वमेव प्रणश्यति ३०।
यथा सुराणां सर्वेषामादिस्तु मधुसूदनः ।
तथैव पुष्करो राजन्तीर्थानामादिरुच्यते ३१।
उष्ट्वा द्वादशवर्षाणि पुष्करे नियतः शुचिः ।
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति ३२।
यस्तु वर्षशतं पूर्णमग्निहोत्रमुपाश्नुते ।
कार्तिकीं वा वसेदेकां पुष्करे सममेव तत् ३३।
दुष्करं पुष्करे गंतुं दुष्करं पुष्करे तपः ।
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् ३४।
त्रीणि शृंगाणि शुभ्राणि त्रीणि प्रस्रवणानि च ।
पुष्कराण्यादि तीर्थानि न विद्मस्तत्र कारणम् ३५।
उष्ट्वा द्वादशवर्षाणि नियतो नियताशनः ।
स मुक्तः सर्वपापेभ्यो सर्वक्रतुफलं लभेत् ३६।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे पुष्करतीर्थमाहात्म्य-।
वर्णनंनाम एकादशोऽध्यायः ११