पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ५०

विकिस्रोतः तः
Jump to navigation Jump to search
स्वर्गखण्डः

अध्यायः १

अध्यायः २

अध्यायः ३

अध्यायः ४

अध्यायः ५

अध्यायः ६

अध्यायः ७

अध्यायः ८

अध्यायः ९

अध्यायः १०

अध्यायः ११

अध्यायः १२

अध्यायः १३

अध्यायः १४

अध्यायः १५

अध्यायः १६

अध्यायः १७

अध्यायः १८

अध्यायः १९

अध्यायः २०

अध्यायः २१

अध्यायः २२

अध्यायः २३

अध्यायः २४

अध्यायः २५

अध्यायः २६

अध्यायः २७

अध्यायः २८

अध्यायः २९

अध्यायः ३०

अध्यायः ३१

अध्यायः ३२

अध्यायः ३३

अध्यायः ३४

अध्यायः ३५

अध्यायः ३६

अध्यायः ३७

अध्यायः ३८

अध्यायः ३९

अध्यायः ४०

अध्यायः ४१

अध्यायः ४२

अध्यायः ४३

अध्यायः ४४

अध्यायः ४५

अध्यायः ४६

अध्यायः ४७

अध्यायः ४८

अध्यायः ४९

अध्यायः ५०

अध्यायः ५१

अध्यायः ५२

अध्यायः ५३

अध्यायः ५४

अध्यायः ५५

अध्यायः ५६

अध्यायः ५७

अध्यायः ५८

अध्यायः ५९

अध्यायः ६०

अध्यायः ६१

अध्यायः ६२

ऋषय ऊचुः-
भवता कथितं सर्वं यत्किंचित्पृष्टमेव च
इदानीमपि पृच्छाम एकं वद महामते १
एतेषां खलु तीर्थानां सेवनाद्यत्फलं लभेत्
सर्वेषां किल कृत्वैकं कर्म केन च लभ्यते २
एतन्नो ब्रूहि सर्वज्ञ कर्मैवं यदि वर्तते
सूत उवाच-
कर्मयोगः किल प्रोक्तो वर्णानां द्विजपूर्वशः ३
नानाविधो महाभागास्तत्र चैकं विशिष्यते
हरिभक्तिः कृता येन मनसा वचसा गिरा ४
जितं तेन जितं तेन जितमेव न संशयः
हरिरेव समाराध्यः सर्वदेवेश्वरेश्वरः ५
हरिनाममहामंत्रैर्नश्येत्पापपिशाचकम्
हरेः प्रदक्षिणं कृत्वा सकृदप्यमलाशयाः ६
सर्वतीर्थसमाप्लावं लभंते यन्न संशयः
प्रतिमां च हरेर्दृष्ट्वा सर्वतीर्थफलं लभेत् ७
विष्णुनामपरं जप्त्वा सर्वमंत्रफलं लभेत्
विष्णुप्रसादतुलसीमाघ्राय द्विजसत्तमाः ८
प्रचंडं विकरालं तद्यमस्यास्यं न पश्यति
सकृत्प्रणामी कृष्णस्य मातुः स्तन्यं पिबेन्नहि ९
हरिपादे मनो येषां तेभ्यो नित्यं नमोनमः
पुल्कसः श्वपचो वापि ये चान्ये म्लेच्छजातयः १०
तेऽपि वंद्या महाभागा हरिपादैकसेवकाः
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ११
हरौ भक्तिं विधायैव गर्भवासं न पश्यति
हरेरग्रे स्वनैरुच्चैर्नृत्यंस्तन्नामकृन्नरः १२
पुनाति भुवनं विप्रा गंगादि सलिलं यथा
दर्शनात्स्पर्शनात्तस्य आलापादपि भक्तितः १३
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः
हरेः प्रदक्षिणं कुर्वन्नुच्चैस्तन्नामकृन्नरः १४
करतालादिसंधानं सुस्वरं कलशब्दितम्
ब्रह्महत्यादिकं पापं तेनैव करतालितम् १५
हरिभक्तिकथामुक्त्वा ख्यायिकां शृणुयाच्च यः
तस्य संदर्शनादेव पूतो भवति मानवः १६
किं पुनस्तस्य पापानामाशंका मुनिपुंगवाः
तीर्थानां च परं तीर्थं कृष्णनाम महर्षयः १७
तीर्थीकुर्वंति जगतीं गृहीतं कृष्णनाम यैः
तस्मान्मुनिवराः पुण्यं नातः परतरं विदुः १८
विष्णुप्रसादनिर्माल्यं भुक्त्वा धृत्वा च मस्तके
विष्णुरेव भवेन्मर्त्यो यमशोकविनाशनः १९
अर्चनीयो नमस्कार्यो हरिरेव न संशयः
ये महाविष्णुमव्यक्तं देवं वापि महेश्वरम् २०
एकीभावेन पश्यंति न तेषां पुनरुद्भवः
तस्मादनादिनिधनं विष्णुमात्मानमव्ययम् २१
हरिं चैकं प्रपश्यध्वं पूजयध्वं तथैव हि
ये समानं प्रपश्यंति हरिं वै देवतांतरम् २२
ते यांति नरकान्घोरांन्न तांस्तु गणयेद्धीरः
मूर्खं वा पंडितं वापि ब्राह्मणं केशवप्रियम् २३
श्वपाकं वा मोचयति नारायणः स्वयं प्रभुः
नारायणात्परो नास्ति पापराशि दवानलः २४
कृत्वापि पातकं घोरं कृष्णनाम्ना विमुच्यते
स्वयं नारायणो देवः स्वनाम्नि जगतां गुरुः २५
आत्मनोऽभ्यधिकां शक्तिं स्थापयामास सुव्रताः
अत्र ये विवदंते वै आयासलघुदर्शनात् २६
फलानां गौरवाच्चापि ते यांति नरकं बहु
तस्माद्धरौ भक्तिमान्स्याद्धरिनामपरायणः २७
पूजकं पृष्ठतो रक्षेन्नामिनं वक्षसि प्रभुः
हरिनाममहावज्रं पापपर्वतदारणे २८
तस्य पादौ तु सफलौ तदर्थं गतिशालिनौ
तावेव धन्यावाख्यातौ यौ तु पूजाकरौ करौ २९
उत्तमांगमुत्तमांगं तद्धरौ नम्रमेव यत्
सा जिह्वा या हरिं स्तौति तन्मनस्तत्पदानुगम् ३०
तानि लोमानि चोच्यंते यानि तन्नाम्नि चोत्थितम्
कुर्वंति तच्च नेत्रांबु यदच्युतप्रसंगतः ३१
अहो लोका अतितरां दैवदोषेण वंचिताः
नामोच्चारणमात्रेण मुक्तिदं न भजंति वै ३२
वंचितास्ते च कलुषाः स्त्रीणां संगप्रसंगतः
प्रतिष्ठंति च लोमानि येषां नो कृष्णशब्दने ३३
ते मूर्खा ह्यकृतात्मानः पुत्रशोकादि विह्वलाः
रुदंति बहुलालापैर्न कृष्णाक्षरकीर्तने ३४
जिह्वां लब्ध्वापि लोकेऽस्मिन्कृष्णनामजपेन्नहि
लब्ध्वापि मुक्तिसोपानं हेलयैव च्यवंति ते ३५
तस्माद्यत्नेन वै विष्णुं कर्मयोगेन मानवः
कर्मयोगार्च्चितो विष्णुः प्रसीदत्येव नान्यथा ३६
तीर्थादप्यधिकं तीर्थं विष्णोर्भजनमुच्यते
सर्वेषां खलु तीर्थानां स्नानपानावगाहनैः ३७
यत्फलं लभते मर्त्यस्तत्फलं कृष्णसेवनात्
यजंते कर्मयोगेन धन्या एव नरा हरिम् ३८
तस्माद्भजध्वं मुनयः कृष्णं परममंगलम् ३९
इति श्रीपाद्मे महापुराणे स्वर्गखंडे विष्णुभक्तिप्रशंसनं नाम पंचाशत्तमोऽध्यायः ५०