पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः २३

विकिस्रोतः तः
Jump to navigation Jump to search

नारद उवाच-
एवं बहुतिथे काले लोमशो मुनिसत्तमः
आगतश्च महाभागस्तत्र यादृच्छिको मुनि १
तं दृष्ट्वा ब्राह्मणं सर्वे पिशाचाः क्षुत्समाकुलाः
धावंतो ह्यत्तुकामास्ते मिलित्वा यूथवर्तिनः २
दह्यमानास्तु तीव्रेण तेजसा लोमशस्य तु
असमर्थाः पुरः स्थातुं ते सर्वे दूरतः स्थिताः ३
तत्र पूर्वकर्मबलात्पिशाचः सह वै द्विजः
समीक्ष्य लोमशं राजन्साष्टांगं प्रणिपत्य च ४
उवाच सूनृतां वाचं बद्ध्वा शिरसि चांजलिम्
महाभाग्योदये विप्र साधूनां संगतिर्भवेत् ५
गंगादिपुण्यतीर्थेषु यो नरः स्नाति सर्वथा
यः करोति सतां संगं तयोः सत्संगमो वरः ६
गुरूणां संगमो विप्र दृष्टादृष्टफलो भुवि
स्वर्गदो रोगहारी च किं तमोपहरो मतः ७
इत्युक्त्वा कथयामास पूर्ववृत्तांतमद्भुतम्
इमा गंधर्वकन्यास्ता मुने सोऽहं द्विजात्मजः ८
सर्वे पिशाचरूपेण मिथः शापविमोहिताः
दीनाननास्सुतिष्ठामस्तवाग्रे मुनिसत्तम ९
त्वद्दर्शनेन बालानां निस्तारो नो भविष्यति
सूर्योदये तमस्तोमः किं नु लीयेत पुष्करे १०
श्रुत्वैतल्लोमशो वाक्यं कृपार्द्रीकृतमानसः
प्रत्युवाच महातेजा दुःखितं तं मुनेः सुतम् ११
मत्प्रसादाच्च सर्वेषां स्मृतिः सपदि जायताम्
धर्मे च वर्ततां येन मिथः शापो लयं व्रजेत् १२
पिशाच उवाच-
महर्षे कथ्यतां धर्मो मुच्येम येन किल्बिषात्
नायं कालो विलंबस्य शापाग्निर्दारुणो यतः १३
लोमश उवाच-
मया सार्द्धं प्रकुर्वंतु रेवास्नानं विधानतः
शापान्मोक्ष्यति वो रेवा नान्यथा निष्कृतिर्भवेत् १४
शृणुष्वावहितो विप्र पापनाशो ध्रुवं नृणाम्
रेवास्नानेन जायेत इति मे निश्चिता मतिः १५
सप्तजन्मकृतं पापं वर्तमानं च पातकम्
रेवास्नानं दहेत्सर्वं तूलराशिमिवानलः १६
प्रायाश्चित्तं न पश्यंति यस्मिन्पापे पिशाचक
तत्सर्वं नर्मदातोये स्नानमात्रेण नश्यति १७
ज्ञानकृन्नर्म्मदास्नानमतो मोक्षफला हि सा
हिमवत्पुण्यतीर्थानि सर्वपापहराणि वै १८
इंद्रलोकप्रदं हीदं निर्मितं ब्रह्मवादिभिः
सर्वकामफला रेवा मोक्षदा परिकीर्तिता १९
पापघ्नी पापहारिणी सर्वकामफलप्रदा
विष्णुलोकदआप्लावो नार्मदः पापनाशनः २०
यामुनः सूर्यलोकाय भवेदाप्लाव उत्तमः
सारस्वतोघविध्वंसी ब्रह्मलोकफलप्रदः २१
विशालफलदा प्रोक्ता विशाला हि पिशाचक
पापेंधनदवाग्निस्तु गर्भहेतुक्रियापहः २२
विष्णुलोकाय मोक्षाय नार्मदः परिकीर्तितः
सरयूगंडकीसिंधुश्चंद्रभागा च कौशिकी २३
तापी गोदावरी भीमा पयोष्णी कृष्णवेणिका
कावेरी तुंगभद्रा च अन्याश्चापि समुद्रगाः २४
तासु रेवा परा प्रोक्ता विष्णुलोकप्रदायिनी
रेवा तु प्राप्यते पुण्यैः पूर्वजन्मकृतैर्द्विज
अपुनर्भवदं तत्र मज्जनं मुनिपुत्रक २५
गायंति देवाः सततं दिविष्ठा रेवा कदा दृष्टिगता हि नो भवेत्
स्नाता नरा यत्र न गर्भवेदनां पश्यंति तिष्ठंति च विष्णुसन्निधौ २६
मज्जंति ये प्रत्यहमत्र मानवा रेवासुतो ये बहुपापकंचुकाः
मज्जंति ते नो निरयेषु धर्म्मतः स्वर्गे तु ते चारुचरंति देववत् २७
तीव्रैर्व्रतैर्दानतपोभिरध्वरैः सार्धं विधात्रा तुलया धृता पुरा
रेवापिशाचाशु तयोर्द्वयोरभूद्रेवा वरा तत्र च मोक्षसाधिका २८
नारद उवाच-
एतच्छ्रुत्वा वचस्तस्य लोमशस्य पिशाचकाः
तेन सार्द्धं ययुः शीघ्रं रेवामज्जनहेतवे २९
ततो दैवात्समुत्पन्नो रेवारोधसि मारुतः
तेषां प्रवाहस्पृष्टानां गात्रे जलकणप्रदः ३०
रेवाजलकणस्पर्शात्पैशाच्यात्ते विमोचिताः
तत्क्षणाद्दिव्यवपुषः प्रशशंसुश्च नर्मदाम् ३१
ततो लोमशवाक्येन ताश्च गंधर्वकन्यकाः
परिणीताः सुखं तेन विप्रेण नर्मदातटे ३२
उवास सुचिरं कालं स्नानपानावगाहनैः
अर्चित्वा नर्मदामत्र विष्णुलोकं गताश्च ते ३३
एवं ते कथितो राजन्नर्मदागुणसंश्रयः
इतिहासो महापुण्यः श्रवणात्पापनाशनः ३४
इति श्रीपाद्मे महापुराणे स्वर्गखंडे त्रयोविंशोऽध्यायः २३