पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ३०

विकिस्रोतः तः
Jump to navigation Jump to search

नारद उवाच-
अत्र ते वर्णयिष्यामि इतिहासं पुरातनम्
पुरा कृतयुगे राजन्निषधे नगरे वरे १
आसीद्वैश्यः कुबेराभो नामतो हेमकुंडलः
कुलीनः सत्क्रियो देवद्विजपावकपूजकः २
कृषिवाणिज्यकर्त्तासौ विविधक्रयविक्रयी
गोघोटकमहिष्यादि पशुपोषणतत्परः ३
पयो दधीनि तक्राणि गोमयानि तृणानि च
काष्ठानि फलमूलानि लवणाद्रा र्!दिपिप्पली ४
धान्यानि शाकतैलानि वस्त्राणि विविधानि च
धातूनिक्षुविकारांश्च विक्रीणीते स सर्वदा ५
इत्थं नानाविधैर्वैश्य उपायैरपरैस्तथा
उपार्जयामास सदा अष्टौ हाटककोटयः ६
एवं महाधनः सोथ हाकर्णपलितोभवत्
पश्चाद्विचार्य संसारक्षणिकत्वं स्वचेतसि ७
तद्धनस्य षडंशेन धर्मकार्यं चकार सः
विष्णोरायतनं चक्रे गृहं चक्रे शिवस्य च ८
तडागं खानयामास विपुलं सागरोपमम्
वाप्यश्च पुष्करिण्यश्च बहुधा तेन कारिताः ९
वटाश्वत्थाम्रकंकोल जंबू निंबादि काननम्
स्वसत्वेन तदा चक्रे तथा पुष्पवनं शुभम् १०
उदयास्तमनं यावदन्नपानं चकार सः
पुराद्बहिश्चतुर्दिक्षु प्रपां चक्रेऽतिशोभनाम् ११
पुराणेषु प्रसिद्धानि यानि दानानि भूपते
ददौ तानि सधर्म्मात्मा नित्यं दानपरस्तदा १२
यावज्जीवकृते पापे प्रायाश्चित्तमथाकरोत्
देवपूजापरो नित्यं नित्यं चातिथिपूजकः १३
तस्येत्थं वर्त्तमानस्य संजातौ द्वौ सुतौ नृप
तौ सुप्रसिद्ध नामानौ श्रीकुंडल विकुंडलौ १४
तयोर्मूर्ध्नि गृहं त्यक्त्वा जगाम तपसे वनम्
तत्राराध्य परं देवं गोविंदं वरदं प्रभुम् १५
तपःक्लिष्ट शरीरोऽसौ वासुदेवमनाः सदा
प्राप्तः स वैष्णवं लोकं यत्र गत्वा न शोचति १६
अथ तस्य सुतौ राजन्महामान समन्वितौ
तरुणौ रूपसंपन्नौ धनगर्वेण गर्वितौ १७
दुःशीलौ व्यसनासक्तौ धर्मकर्माद्यदर्शकौ
न वाक्यं चागतौ मातुर्वृद्धानां वचनं तथा १८
कुमार्गगौ दुरात्मानौ पितृमित्रनिषेधकौ
अधर्मनिरतौ दुष्टौ परदाराभिगामिनौ १९
गीतवादित्रनिरतौ वीणावेणुविनोदिनौ
वारस्त्रीशतसंयुक्तौ गायंतौ चेरतुस्तदा २०
चाटुकारजनैर्युक्तौ बिंबोष्ठीषु विशारदौ
सुवेषौ चारुवसनौ चारुचंदनरूषितौ २१
तथा सुगंधिमालाढ्यौ कस्तूरीलक्ष्मलक्षितौ
नानालंकारशोभाढ्यौ मौक्तिकाहारहारिणौ २२
गजवाजिरथौघेन क्रीडंतौ तावितस्तदा
मधुपानसमायुक्तौ परस्त्रीरतिमोहितौ २३
नाशयंतौ पितृद्रव्यं सहस्रं ददतुः शतम्
तस्थतुः स्वगृहे रम्ये नित्यं भोगपरायणौ २४
इत्थं तु तद्धनं ताभ्यां विनियुक्तमसद्व्ययैः
वारस्त्री विट शैलूष मल्ल चारण बंदिषु २५
अपात्रे तद्धनं दत्तं क्षिप्तं बीजमिवोषरे
न सत्पात्रे च तद्दत्तं न ब्राह्मणमुखे हुतम् २६
नार्चितो भूतभृद्विष्णुः सर्वपापप्रणाशनः
उभयोरेव तद्द्रव्यमचिरेण क्षयं ययौ २७
ततस्तौ दुःखमापन्नौ कार्पण्यं परमं गतौ
शोचमानौ तु मुह्यंतौ क्षुत्पीडादुःखपीडितौ २८
तयोस्तु तिष्ठतोर्गेहे नास्ति यद्भुज्यते तदा
स्वजनैर्बांधवैस्सर्वैः सेवकैरुपजीविभिः २९
द्रव्याभावे परित्यक्तौ चिंत्यमानौ ततः पुरे
पश्चाच्चौर्य्यं समारब्धं ताभ्यां च नगरे नृप ३०
राजतो लोकतो भीतौ स्वपुरान्निःसृतौ तदा
चक्रतुर्वनवासं तौ सर्वेषामुपपीडितौ ३१
जघ्नतुः सततं मूढौ शितैर्बाणैर्विषार्पितैः
नानापक्षिवराहांश्च हरिणान्रोहितांस्तथा ३२
शशकाञ्छल्लकान्गोधान्श्वापदांश्चेतरान्बहून्
महाबलौ भिल्लसंगावाखेटकभुजौ सदा ३३
एवं मांसमयाहारौ पापाहारौ परंतप
कदाचिद्भूधरं प्राप्तो ह्येकोऽन्यश्च वनं गतः ३४
शार्दूलेन हतो ज्येष्ठः कनिष्ठः सर्पदंशितः
एकस्मिन्दिवसे राजन्पापिष्ठौ निधनं गतौ ३५
यमदूतैस्ततोबद्ध्वा पापैर्नीतौ यमालयम्
गत्वाभिजगदुःसर्वे ते दूताः पापिनावुभौ ३६
धर्मराज नरावेतावानीतौ तव शासनात्
आज्ञां देहि स्वभृत्येषु प्रसीद करवाम किम् ३७
आलोच्य चित्रगुप्तेन तदा दूताञ्जगौ यमः
एकस्तु नीयतां वीर निरयं तीव्रवेदनम् ३८
अपरः स्थाप्यतां स्वर्गेयत्र भोगा ह्यनुत्तमाः
कृतांताज्ञां ततः श्रुत्वा दूतैश्च क्षिप्रकारिभिः ३९
निक्षिप्तो रौरवे घोरे यो ज्येष्ठो हि नराधिप
तेषां दूतवरः कश्चिदुवाच मधुरं वचः ४०
विकुंडल मया सार्द्धमेहि स्वर्गं ददामि ते
भुंक्ष्व भोगान्सुदिव्यांस्त्वमर्जितान्स्वेन कर्मणा ४१
इति श्रीपाद्मे महापुराणे स्वर्गखंडे त्रिंशोऽध्यायः ३०