पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ४६

विकिस्रोतः तः
Jump to navigation Jump to search
स्वर्गखण्डः

अध्यायः १

अध्यायः २

अध्यायः ३

अध्यायः ४

अध्यायः ५

अध्यायः ६

अध्यायः ७

अध्यायः ८

अध्यायः ९

अध्यायः १०

अध्यायः ११

अध्यायः १२

अध्यायः १३

अध्यायः १४

अध्यायः १५

अध्यायः १६

अध्यायः १७

अध्यायः १८

अध्यायः १९

अध्यायः २०

अध्यायः २१

अध्यायः २२

अध्यायः २३

अध्यायः २४

अध्यायः २५

अध्यायः २६

अध्यायः २७

अध्यायः २८

अध्यायः २९

अध्यायः ३०

अध्यायः ३१

अध्यायः ३२

अध्यायः ३३

अध्यायः ३४

अध्यायः ३५

अध्यायः ३६

अध्यायः ३७

अध्यायः ३८

अध्यायः ३९

अध्यायः ४०

अध्यायः ४१

अध्यायः ४२

अध्यायः ४३

अध्यायः ४४

अध्यायः ४५

अध्यायः ४६

अध्यायः ४७

अध्यायः ४८

अध्यायः ४९

अध्यायः ५०

अध्यायः ५१

अध्यायः ५२

अध्यायः ५३

अध्यायः ५४

अध्यायः ५५

अध्यायः ५६

अध्यायः ५७

अध्यायः ५८

अध्यायः ५९

अध्यायः ६०

अध्यायः ६१

अध्यायः ६२

युधिष्ठिर उवाच-
श्रुतं मे ब्रह्मणा प्रोक्तं पुराणे पुण्यसम्मितम्
तीर्थानां तु सहस्राणि शतानि नियुतानि च १
सर्वे पुण्याः पवित्राश्च गतिश्च परमा स्मृता
पृथिव्यां नैमिषं पुण्यमंतरिक्षे च पुष्करम् २
प्रयागमपि लोकानां कुरुक्षेत्रं विशिष्यते
सर्वाणि संपरित्यज्य कथमेकं प्रशंससि ३
अप्रमाणमिदं प्रोक्तमश्रद्धेयमनुत्तमम्
गतिं च परमां दिव्यां भोगांश्चैव यथेप्सितान् ४
किमर्थमल्पयोगेन बहुधर्मं प्रशंससि
एतं मे संशयं ब्रूहि यथादृष्टं यथाश्रुतम् ५
मार्कंडेय उवाच-
अश्रद्धेयं न वक्तव्यं प्रत्यक्षमपि तद्भवेत्
नरस्य श्रद्दधानस्य पापोपहतचेतसः ६
अश्रद्दधानो ह्यशुचिर्दुर्मतिस्त्यक्तमंगलः
एते पातकिनः सर्वे तेनेदं भाषितं मया ७
शृणु प्रयागमाहात्म्यं यथादृष्टं यथाश्रुतम्
प्रत्यक्षं च परोक्षं च यथान्यत्संभविष्यति ८
यथैवान्यन्मया दृष्टं पुरा राजन्यथाश्रुतम्
शास्त्रं प्रमाणं कृत्वा तु पूज्यते योगमात्मनः ९
क्लिश्यते चापरस्तत्र नैव योगमवाप्नुयात्
जन्मांतरसहस्रेभ्यो योगो लभ्येत मानवैः १०
यथायोगसहस्रेण योगो लभ्येत मानवैः
यस्तु सर्वाणि रत्नानि ब्राह्मणेभ्यः प्रयच्छति ११
तेन दानेन दत्तेन योगो लभ्येत मानवैः
प्रयागे तु मृतस्येदं सर्वं भवति नान्यथा १२
प्रधानहेतुं वक्ष्यामि श्रद्दधत्सु च भारत
यथा सर्वेषु भूतेषु सर्वत्रैव तु दृश्यते १३
ब्रह्म नैवास्ति वै किंचिद्यद्वक्तुं त्विदमुच्यते
यथा सर्वेषु भूतेषु ब्रह्म सर्वत्र पूज्यते १४
एवं सर्वेषु लोकेषु प्रयागः पूज्यते बुधैः
पूज्यते तीर्थराजस्य सत्यमेतद्युधिष्ठिर १५
ब्रह्मापि स्मरते नित्यं प्रयागं तीर्थमुत्तमम्
तीर्थराजमनुप्राप्य नैवान्यत्किंचिदिच्छति १६
को हि देवत्वमासाद्य मानुषत्वं चिकीर्षति
अनेनैवानुमानेन त्वं ज्ञास्यसि युधिष्ठिर १७
यथा पुण्यमपुण्यं वा तथैव कथितं मया
युधिष्ठिर उवाच-
श्रुतं तद्यत्त्वया प्रोक्तं विस्मितोऽहं पुनः पुनः १८
कथं योगेन तत्प्राप्तिः स्वर्गलोकस्तु कर्मणा
तदा च लभते भोगान्गां च तत्कर्मणां फलम् १९
तानि कर्माणि पृच्छामि पुनर्यैः प्राप्यते महीम्
मार्कंडेय उवाच-
शृणुराजन्महाबाहो यथोक्तकर्म्मणा मही २०
गामग्निं ब्राह्मणं शास्त्रं कांचनं सलिलं स्त्रियः
मातरं पितरं चैव यो निंदति नराधिप २१
नैतेषामूर्ध्वगमनमेवमाह प्रजापतिः
एवं योगस्य संप्राप्तिः स्थानं परमदुर्लभम् २२
गच्छंति नरकं घोरं ये नराः पापकारिणः
हस्त्यश्वं गामनड्वाहं मणिमुक्तादि कांचनम् २३
परोक्षं हरते यस्तु पश्चाद्दानं प्रयच्छति
न ते गच्छंति वै स्वर्गं दातारो यत्र भोगिनः २४
अनेन कर्म्मणा युक्ताः पच्यंते नरकेऽधमाः
एवं योगं च धर्म्मं च दातारं च युधिष्ठिर २५
यथा सत्यमसत्यं वा अस्ति नास्तीति यत्फलम्
निरुक्तं तु प्रवक्ष्यामि यथायं स्वयमाप्नुयात् २६
इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्ये
षट्चत्वारिंशोऽध्यायः ४६