पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ५७

विकिस्रोतः तः
Jump to navigation Jump to search

व्यास उवाच-
अथातः संप्रवक्ष्यामि दानधर्म्ममनुत्तमम्
ब्रह्मणाभिहितं पूर्वमृषीणां ब्रह्मवादिनाम् १
अर्थानामुचितं पात्रे श्रद्धया प्रतिपादनम्
दानमित्यभिनिर्दिष्टं भुक्तिमुक्तिफलप्रदम् २
यो ददाति विशिष्टेभ्यः श्रद्धया परया युतः
तद्वै दत्तमहं मन्ये शेषं कस्यापि रक्षति ३
नित्यं नैमित्तिकं काम्यं त्रिविधं दानमुच्यते
चतुर्थं विमलं प्रोक्तं सर्वदानोत्तमोत्तमम् ४
अहन्यहनि यत्किंचिद्दीयते नुपकारिणे
अनुद्दिश्यफलं तस्माद्ब्राह्मणाय तु नित्यकम् ५
यत्तु पापोपशांत्यर्थं दीयते विदुषां करे
नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुत्तमम् ६
अपत्यविजयैश्वर्य सुखार्थं यत्प्रदीयते
दानं तत्काम्यमाख्यातमृषिभिर्धर्मचिंतकैः ७
यदीश्वरस्य प्रीत्यर्थं ब्रह्मवित्सु प्रदीयते
चेतसा धर्मयुक्तेन दानं तद्विमलं शिवम् ८
दानधर्मं निषेवेत पात्रमासाद्य शक्तितः
उपास्यते तु तत्पात्रं यत्तारयति सर्वतः ९
कुटुंबभुक्तिवसनाद्देयं यदतिरिच्यते
अन्यथा दीयते यद्वै न तद्दानं फलप्रदम् १०
श्रोत्रियाय कुलीनाय विनीताय तपस्विने
व्रतस्थाय दरिद्राय प्रदेयं भक्तिपूर्वकम् ११
यस्तु दद्यान्महीं भक्त्या ब्राह्मणायाहिताग्नये
स याति परमं स्थानं यत्र गत्वा न शोचति १२
इक्षुभिः संयुतां भूमिं यवगोधूमशालिनीम्
ददाति वेदविदुषे यः स भूयो न जायते १३
गोचर्ममात्रामपि वा यो भूमिं संप्रयच्छति
ब्राह्मणाय दरिद्राय सर्वपापैः प्रमुच्यते १४
भूमिदानात्परं दानं विद्यते नेह किंचन
अन्नदानं तेन तुल्यं विद्यादानं ततोधिकम् १५
यो ब्राह्मणाय शांताय शुचये धर्मशीलिने
ददाति विद्यां विधिना ब्रह्मलोके महीयते १६
दद्यादहरहः स्वर्णं श्रद्धया ब्रह्मचारिणे
सर्वपापविनिर्मुक्तो ब्रह्मणः स्थानमाप्नुयात् १७
गृहस्थायान्नदानेन फलमाप्नोति मानवः
अन्नमेवास्य दातव्यं दत्वाप्नोति परां गतिम् १८
वैशाख्यां पूर्णमास्यां तु ब्राह्मणान्सप्त पंच वा
उपोष्य विधिना शांतः शुचिः प्रयतमानसः १९
पूजयित्वा तिलैः कृष्णैर्मधुना च विशेषतः
प्रीयतां धर्मराजेति यदा मनसि वर्त्तते २०
यावज्जीवं तु यत्पापं तत्क्षणादेव नश्यति
कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी २१
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम्
घृतान्नमुदकुंभं च वैशाख्यां तु विशेषतः २२
निर्द्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात्
सुवर्णतिलयुक्तैस्तु ब्राह्मणान्सप्त पंच वा २३
तर्पयेदुदपात्रैस्तु ब्रह्महत्यां व्यपोहति
माघमासे तमिस्रे तु द्वादश्यां समुपोषितः २४
शुक्लांबरधरः कृष्णैस्तिलैर्हुत्वा हुताशनम्
प्रदद्याद्ब्राह्मणेभ्यस्तु तिलानेव समाहितः २५
जन्मप्रभृति यत्पापं सर्वं तरति वै द्विजः
अमावास्यामनुप्राप्य ब्राह्मणाय तपस्विने २६
यत्किंचिद्देवदेवेशं दद्याच्चोद्दिश्य केशवम्
प्रीयतामीश्वरो विष्णुर्हृषीकेशः सनातनः २७
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति
यस्तु कृष्णचतुर्दश्यां स्नात्वा देवं पिनाकिनम् २८
आराधयेद्द्विजमुखेन तस्यास्ति पुनर्भवः
कृष्णाष्टम्यां विशेषेण धार्मिकाय द्विजातये २९
स्नात्वाभ्यर्च्य यथान्यायं पादप्रक्षालनादिभिः
प्रीयतां मे महादेवो दद्याद्द्रव्यं स्वकीयकम् ३०
सर्वपापविनिर्मुक्तः प्राप्नोति परमां गतिम्
द्विजैः कृष्णचतुर्दश्यां कृष्णाष्टम्यां विशेषतः ३१
अमावास्यां तथा भक्तैः पूजनीयस्त्रिविक्रमः
एकादश्यां निराहारो द्वादश्यां पुरुषोत्तमम् ३२
अर्चयेद्ब्राह्मणमुखे स गच्छेत्परमं पदम्
एषा तिथिर्वैष्णवी स्याद्द्वादशी शुक्लपक्षतः ३३
तस्यामाराधयेद्देवं प्रयत्नेन जनार्दनम्
यत्किंचिद्देवमीशानमुद्दिश्य ब्राह्मणे शुचौ ३४
दीयते विष्णुमेवापि तदनंतफलं स्मृतम्
यो हि यां देवतामिच्छेत्समाराधयितुं नरः ३५
ब्राह्मणान्पूजयेद्यत्नात्स तस्यास्तोषयेत्ततः
द्विजानां वपुरास्थाय नित्यं तिष्ठंति देवताः ३६
पूज्यंते ब्राह्मणा लाभे प्रतिमादिषु तैः क्वचित्
प्रतिमादिषु यत्नेन तस्मात्फलमभीप्सता ३७
द्विजेषु देवता नित्यं पूजनीया विशेषतः
विभूतिकामः सततं पूजयेद्धि पुरंदरम् ३८
ब्रह्मवर्चसकामस्तु ब्रह्माणं ज्ञानकामुकः
आरोग्यकामोथ रविं धनकामो हुताशनम् ३९
कर्म्मणां सिद्धिकामस्तु पूजयेद्वै विनायकम्
भोगकामस्तु शशिनं बलकामः समीरणम् ४०
मुमुक्षुः सर्वसंसारात्प्रयत्नेनार्चयेद्धरिम्
यस्तु योगं तथा मोक्षमन्विच्छेऽज्ज्ञानमैश्वरम् ४१
अर्चयेत विरूपाक्षं प्रयत्नेन सुरेश्वरम्
ये वांच्छंति महाभोगान्ज्ञानानि च महेश्वरम् ४२
ते पूजयंति भूतेशं केशवं चापि भोगिनः
वारिदस्तृप्तिमाप्नोति जलदानं ततोधिकम् ४३
तैलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम्
भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः ४४
गृहदाताग्र्यवेश्मानि रूप्यदो रूपमुत्तमम्
वासोदश्चंद्रसालोक्यमश्वदो यानमुत्तमम् ४५
अन्नदाता श्रियं स्वेष्टां गोदो ब्राह्मणविष्टपम्
यानशय्याप्रदो भार्य्यामैश्वर्यमभयप्रदः ४६
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मशाश्वतम्
धान्यान्यपि यथाशक्ति विप्रेषु प्रतिपादयेत् ४७
वेदविद्याविशिष्टेषु प्रेत्य स्वर्गं समश्नुते
गवां चान्नप्रदानेन सर्वपापैः प्रमुच्यते ४८
इंधनानां प्रदानेन दीप्ताग्निर्जायते नरः
फलमूलानि पानानि शाकानि विविधानि च ४९
प्रदद्याद्ब्राह्मणेभ्यस्तु मुदायुक्तः सदा भवेत्
औषधं स्नेहमाहारं रोगिणो रोगशांतये ५०
ददानो रोगरहितः सुखी दीर्घायुरेव च
असिपत्रवनं मार्गं क्षुरधारासमन्वितम् ५१
तीक्ष्णतापं च तरति छत्रोपानत्प्रदो नरः
यद्यदिष्टतमं लोके यच्चास्यापेक्षितं गृहे ५२
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता
अयने विषुवे चैव ग्रहणे चंद्रसूर्ययोः ५३
संक्रांत्यादिषु कालेषु दत्तं भवति चाक्षयम्
प्रयागादिषु तीर्थेषु पुण्येष्वायतनेषु च ५४
दत्वा चाक्षयमाप्नोति नदीप्रस्रवणेषु च
दानधर्मात्परो धर्मो भूतानां नेह विद्यते ५५
तस्माद्विप्राय दातव्यं श्रोत्रियाय द्विजातिभिः
स्वर्गाय भूतिकामेन तथा पापोपशांतये ५६
मुमुक्षुणा तु दातव्यं ब्राह्मणेभ्यस्तथान्वहम्
दीयमानं तु यो मोहाद्गोविप्राग्निसुरेषु च ५७
निवारयत्यधर्मात्मा तिर्यग्योनिं व्रजेत सः
यस्तु द्रव्यार्जनं कृत्वा नार्चयेद्ब्राह्मणान्सुरान् ५८
सर्वस्वमपहृत्यैनं राजा राष्ट्रात्प्रवासयेत्
यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति ५९
म्रियमाणेषु विप्रेषु ब्राह्मणः स तु गर्हितः
न तस्मात्प्रतिगृह्णीयुः न वसेयुश्च तेन हि ६०
आज्ञायित्वा स्वकाद्राष्ट्राद्राजा तं विप्रवासयेत्
पश्चात्सद्भ्यो ददातीह स्वद्रव्यं धर्मसाधनम् ६१
सपूर्वाभ्यधिकः पापी नरके पच्यते नरः
स्वाध्यायवंतो ये विप्रा विद्यावंतो जितेंद्रियाः ६२
सत्यसंयमसंयुक्तास्तेभ्यो दद्याद्द्विजोत्तमाः
प्रभुक्तमपि विद्वांसं धार्मिकं भोजयेद्द्विजम् ६३
न च मूर्खमवृत्तस्थं दशरात्रमुपोषितम्
सन्निकृष्टमतिक्रम्य श्रोत्रियं यः प्रयच्छति ६४
स तेन कर्मणा पापी दहत्यासप्तमं कुलम्
यदि स्यादधिको विप्रः शीलविद्यादिभिः स्वयम् ६५
तस्मै यत्नेन दातव्यमतिक्रम्य च सन्निधिम्
योर्चितं प्रतिगृह्णीयाद्दद्यादर्चितमेव च ६६
तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये
न वार्यपि प्रयच्छेत नास्तिके हैतुकेपि च ६७
न पाखंडेषु सर्वेषु नावेदविदिधर्मवित्
रूप्यं चैव हिरण्यं च गामश्वं पृथिवीं तिलान् ६८
अविद्वान्प्रतिगृह्णीयाद्भस्मी भवति काष्ठवत्
द्विजातिभ्यो धनं लिप्सेत्प्रशस्तेभ्यो द्विजोतमः ६९
अपि राजन्यवैश्याभ्यां न तु शूद्रात्कथंचन
वृत्तिसंकोचमन्विच्छेन्नेहेत धनविस्तरम् ७०
धनलोभे प्रसक्तस्तु ब्राह्मण्यादेव हीयते
वेदानधीत्य सकलान्यज्ञांश्चावाप्य सर्वशः ७१
न तां गतिमवाप्नोति संतोषाद्यामवाप्नुयात्
प्रतिग्रहरुचिर्न स्याच्छूद्रान्न तु समाहरेत् ७२
स्थित्यर्थादधिकं गृह्णन्ब्राह्मणो यात्यधोगतिम्
यस्तु याति न संतोषं न स स्वर्गस्य भाजनम् ७३
उद्वेजयति भूतानि यथा चौरस्तथैव सः
गुरुं भृत्यांश्चोज्जिहीर्षुस्तर्पयन्देवतातिथीन् ७४
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः
एवं गृहस्थो युक्तात्मा देवतातिथिपूजकः ७५
वर्तमानः संयतात्मा याति तत्परमं पदम्
पुत्रेषु भार्यां निक्षिप्य गत्वारण्यं तु तत्त्ववित् ७६
एकाकी विचरेन्नित्यमुदासीनः समाहितः
एष वः कथितो धर्म्मो गृहस्थानां द्विजोत्तमाः
ज्ञात्वा तु तिष्ठेन्नियतं तथानुष्ठापयेद्द्विजान् ७७
इति देवमनादिमेकमीशं गृहधर्मेण समर्चयेदजस्रम्
समतीत्य स सर्वभूतयोनिं प्रकृतिं याति परं न याति जन्म ७८
इति श्रीपाद्मे महापुराणे स्वर्गखंडे गृहस्थधर्मनिर्णयो
नाम सप्तपंचाशत्तमोऽध्यायः ५७