पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः २५

विकिस्रोतः तः
Jump to navigation Jump to search

नारदउवाच-
वितस्तां च समासाद्य संतर्प्य पितृदेवताः
नरः फलमवाप्नोति वाजपेयस्य भारत १
काश्मीरेष्वेव नागस्य भवनं तक्षक स्यच
वितस्ताख्यमिति ख्यातं सर्वपापप्रमोचनम् २
तत्र स्नात्वा नरो नूनं वाजपेयमवाप्नुयात्
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ३
ततो गच्छेत मलदं त्रिषु लोकेषु विश्रुतम्
पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि ४
चरुं सप्तार्चिषे राजन्यथाशक्ति निवेदयेत्
पितॄणामक्षयं दानं प्रवदंति मनीषिणः ५
गवांशतसहस्रेण राजसूयशतेन च
अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्चरुः ६
ततो निवृत्तो राजेंद्र रुद्रास्पदमथाविशेत्
अभिगम्य महादेवमश्वमेधफलं लभेत् ७
मणिमंतं समासाद्य ब्रह्मचारी समाहितः
एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत् ८
अथ गच्छेत राजेंद्र देविकां लोकविश्रुताम्
प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ ९
त्रिशूलपाणेः स्थानं यत्त्रिषुलोकेषु विश्रुतम्
देविकायां नरः स्नात्वा अभ्यर्च्य च महेश्वरम् १०
यथाशक्ति नरस्तत्र निवेद्य भरतर्षभ
सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् ११
कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसंमतम्
तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत १२
यजनं याजनं गत्वा तथैव ब्रह्मवालकम्
पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः १३
अर्द्धयोजनविस्तारां पंचयोजनमायताम्
एतावद्देविकामाहुः पुण्यां देवर्षिसंमताम् १४
ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम्
यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः १५
दीर्घसत्रमुपासंते दीक्षिता नियतव्रताः
गमनादेव राजेंद्र दीर्घसत्रमरिंदम १६
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः
ततो विनाशनं गच्छेन्नियतो नियताशनः १७
गच्छंत्यंतर्हिता यत्र मेरुपृष्ठे सरस्वती
चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते १८
स्नात्वा तु चमसोद्भेदे अग्निष्टोमफलं लभेत्
शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत् १९
नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात्
शशयानं च राजेंद्र तीर्थमासाद्य दुर्लभम् २०
शशरूपप्रतिच्छन्ना पुष्करा यत्र भारत
सरस्वत्यां महाभाग अनुसंवत्सरंहिते २१
स्नायंते भरतश्रेष्ठ वृत्ता वै कार्त्तिकीं सदा
तत्र स्नात्वा नरव्याघ्र द्योतते शिववत्सदा २२
गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ
कुमारकोटिमासाद्य नियतः कुरुनंदन २३
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
गवामयुतमाप्नोति कुलं चैव समुद्धरेत् २४
ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहिताः
पुरा यत्र महाराज ऋषिकोटिः समाहिता २५
वर्षेण च समाविष्टा देवदर्शनकांक्षया
अहंपूर्वमहंपूर्वं द्रक्ष्यामि वृषभध्वजम् २६
एवं संप्रस्थिता राजनृषयः किलभारत
ततो योगीश्वरेणापि योगमास्थाय भूपते २७
तेषां मन्युप्रशांत्यर्थमृषीणां भावितात्मनाम्
सृष्टा तु कोटिरुद्राणामृषीणामग्रतः स्थिता २८
मया पूर्वं हरो दृष्टो इति ते मेनिरे पृथक्
तेषां तुष्टो महादेव ऋषीणामुग्रतेजसाम् २९
भक्त्या परमया राजन्वरं तेषां प्रदत्तवान्
अद्यप्रभृति युष्माकं धर्मवृद्धिर्भविष्यति ३०
तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ३१
ततो गच्छेत राजेंद्र संगमं लोकविश्रुतम्
सरस्वत्यां महापुण्यमुपासीत जनार्दनम् ३२
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः
अभिगच्छंति राजेंद्र चैत्रशुक्लचतुर्दशीम् ३३
तत्र स्नात्वा नरव्याघ्र विंदेद्बहुसुवर्णकम्
सर्वपापविशुद्धात्मा शिवलोकं च गच्छति ३४
ऋषीणां यत्र सत्राणि समाप्तानि नराधिप
तत्रावसानमासाद्य गोसहस्रफलं लभेत् ३५
इति श्रीपाद्मे महापुराणे स्वर्गखंडे पंचविंशोऽध्यायः २५