पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः २५

विकिस्रोतः तः

नारदउवाच-।
वितस्तां च समासाद्य संतर्प्य पितृदेवताः ।
नरः फलमवाप्नोति वाजपेयस्य भारत १।
काश्मीरेष्वेव नागस्य भवनं तक्षकस्य च ।
वितस्ताख्यमिति ख्यातं सर्वपापप्रमोचनम् २।
तत्र स्नात्वा नरो नूनं वाजपेयमवाप्नुयात् ।
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ३।
ततो गच्छेत मलदं त्रिषु लोकेषु विश्रुतम् ।
पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि ४।
चरुं सप्तार्चिषे राजन्यथाशक्ति निवेदयेत् ।
पितॄणामक्षयं दानं प्रवदंति मनीषिणः ५।
गवांशतसहस्रेण राजसूयशतेन च ।
अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्चरुः ६।
ततो निवृत्तो राजेंद्र रुद्रास्पदमथाविशेत् ।
अभिगम्य महादेवमश्वमेधफलं लभेत् ७।
मणिमंतं समासाद्य ब्रह्मचारी समाहितः ।
एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत् ८।
अथ गच्छेत राजेंद्र देविकां लोकविश्रुताम् ।
प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ ९।
त्रिशूलपाणेः स्थानं यत्त्रिषुलोकेषु विश्रुतम् ।
देविकायां नरः स्नात्वा अभ्यर्च्य च महेश्वरम् १०।
यथाशक्ति नरस्तत्र निवेद्य भरतर्षभ ।
सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् ११।
कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसंमतम् ।
तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत १२।
यजनं याजनं गत्वा तथैव ब्रह्मवालकम् ।
पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः १३।
अर्द्धयोजनविस्तारां पंचयोजनमायताम् ।
एतावद्देविकामाहुः पुण्यां देवर्षिसंमताम् १४।
ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् ।
यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः १५।
दीर्घसत्रमुपासंते दीक्षिता नियतव्रताः ।
गमनादेव राजेंद्र दीर्घसत्रमरिंदम १६।
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ।
ततो विनाशनं गच्छेन्नियतो नियताशनः १७।
गच्छंत्यंतर्हिता यत्र मेरुपृष्ठे सरस्वती ।
चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते १८।
स्नात्वा तु चमसोद्भेदे अग्निष्टोमफलं लभेत् ।
शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत् १९।
नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात् ।
शशयानं च राजेंद्र तीर्थमासाद्य दुर्लभम् २०।
शशरूपप्रतिच्छन्ना पुष्करा यत्र भारत ।
सरस्वत्यां महाभाग अनुसंवत्सरंहिते २१।
स्नायंते भरतश्रेष्ठ वृत्ता वै कार्त्तिकीं सदा ।
तत्र स्नात्वा नरव्याघ्र द्योतते शिववत्सदा २२।
गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ ।
कुमारकोटिमासाद्य नियतः कुरुनंदन २३।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।
गवामयुतमाप्नोति कुलं चैव समुद्धरेत् २४।
ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहिताः ।
पुरा यत्र महाराज ऋषिकोटिः समाहिता २५।
वर्षेण च समाविष्टा देवदर्शनकांक्षया ।
अहंपूर्वमहंपूर्वं द्रक्ष्यामि वृषभध्वजम् २६।
एवं संप्रस्थिता राजनृषयः किलभारत ।
ततो योगीश्वरेणापि योगमास्थाय भूपते २७।
तेषां मन्युप्रशांत्यर्थमृषीणां भावितात्मनाम् ।
सृष्टा तु कोटिरुद्राणामृषीणामग्रतः स्थिता २८।
मया पूर्वं हरो दृष्टो इति ते मेनिरे पृथक् ।
तेषां तुष्टो महादेव ऋषीणामुग्रतेजसाम् २९।
भक्त्या परमया राजन्वरं तेषां प्रदत्तवान् ।
अद्यप्रभृति युष्माकं धर्मवृद्धिर्भविष्यति ३०।
तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः ।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ३१।
ततो गच्छेत राजेंद्र संगमं लोकविश्रुतम् ।
सरस्वत्यां महापुण्यमुपासीत जनार्दनम् ३२।
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः ।
अभिगच्छंति राजेंद्र चैत्रशुक्लचतुर्दशीम् ३३।
तत्र स्नात्वा नरव्याघ्र विंदेद्बहुसुवर्णकम् ।
सर्वपापविशुद्धात्मा शिवलोकं च गच्छति ३४।
ऋषीणां यत्र सत्राणि समाप्तानि नराधिप ।
तत्रावसानमासाद्य गोसहस्रफलं लभेत् ३५।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे पंचविंशोऽध्यायः २५