पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ३९

विकिस्रोतः तः
Jump to navigation Jump to search

नारद उवाच-
अथ संध्यां समासाद्य स विद्यांतीर्थमुत्तमम्
उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशयः १
रामस्य च प्रसादेन तीर्थराजं कृतं पुरा
तल्लौहित्यं समासाद्य विंद्याद्बहुसुवर्णकम् २
करतोयां समासाद्य त्रिरात्रोपोषितो नरः
अश्वमेधमवाप्नोति शक्रलोकं च गच्छति ३
गंगायास्त्वथ राजेंद्र सागरस्य च संगमे
अश्वमेधं दशगुणं प्रवदंति मनीषणः ४
गंगायास्तु परं द्वीपं प्राप्य यः स्नाति भारत
त्रिरात्रोपोषितो राजन्सर्वकाममवाप्नुयात् ५
ततो वैतरणीं गत्वा नदीं पापप्रमोचनीम्
विरजं तीर्थमासाद्य विराजति यथा शशी ६
प्रभावे च कुलं पूत्वा सर्वपापं व्यपोहति
गोसहस्रफलं लब्ध्वा पुनाति स्वकुलं नरः ७
शोणस्य ज्योतिरथ्याश्च संगमे निवसञ्छुचिः
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ८
शोणस्य नर्मदायाश्च प्रभवे कुरुपुंगव
वंशगुल्ममुपस्पृश्य वाजिमेधफलं लभेत् ९
ऋषभं तीर्थमासाद्य कोशलायां नराधिप
वाजिमेधमवाप्नोति त्रिरात्रोपोषितो नरः १०
कोशलायां समासाद्य कालतीर्थमुपस्पृशेत्
वृषभैकादशगुणं लभते नात्र संशयः ११
पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः
गोसहस्रफलं विंद्यात्कुलं चैव समुद्धरेत् १२
ततो बदारिकातीर्थे स्नात्वा प्रयतमानसः
दीर्घायुष्यमवाप्नोति स्वर्गलोकं च गच्छति १३
ततो महेंद्रमासाद्य जामदग्न्यनिषेवितम्
रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् १४
मतंगस्य तु केदारं तत्रैव भरतर्षभ
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् १५
श्रीपर्वतं समासाद्य नदीतीरमुपस्पृशेत्
अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति १६
श्रीपर्वते महादेवो देव्या सह महाद्युतिः
न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः १७
तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः
अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति १८
ऋषभं पर्वतं गत्वा भांडेषु सुरपूजितम्
वाजपेयमवाप्नोति नाकपृष्ठे च मोदते १९
ततो गच्छेत कावेरीं वृतामृप्सरसां गणैः
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् २०
तत्र तीर्थे समुद्रस्य कन्यातीर्थमुपस्पृशेत्
तत्रोपस्पृश्य राजेंद्र सर्वपापैः प्रमुच्यते २१
अथ गोकमर्णमासाद्य त्रिषुलोकेषु विश्रुतम्
समुद्रमध्ये राजेंद्र सर्वलोकनमस्कृतम् २२
यत्र ब्रह्मादयो देवा मुनयश्च तपोधनाः
भूतयक्षाः पिशाचाश्च किन्नराः समहोरगाः २३
सिद्धचारणगंधर्वा मानुषाः पन्नगास्तथा
सरितः सागराः शैला उपासंते उमापतिम् २४
तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः
दशाश्वमेधमाप्नोति गाणपत्यं च विंदति २५
उपोष्य द्वादशरात्रं कृतार्थो जायते नरः
तस्मिन्नेव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतम् २६
त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत्
निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप २७
गायत्रीं पठते यस्तु योनिसंकरजो द्विजः
गाथा वा गीतिका वाणी तस्य संपद्यते नृप २८
अब्राह्मणस्य पठतः सावित्री तूपनश्यति
संवर्तस्य तु विप्रर्षे वापीमासाद्य दुर्ल्लभाम् २९
रूपस्य भागी भवति सुभगश्चाभिजायते
ततो वेणां समासाद्य तर्पयेत्पितृदेवताः ३०
मयूरहंससंयुक्तं विमानं लभते नरः
ततो गोदावरीं प्राप्य नित्यसिद्धनिषेविताम् ३१
गवामयमवाप्नोति वायुलोकं च गच्छति
वेणायाः संगमे स्नात्वा वाजपेयफलं लभेत् ३२
वरदासंगमं स्नात्वा गोसहस्रफलं लभेत्
ब्रह्मस्थूणां समासाद्य त्रिरात्रोपोषितो नरः ३३
गोसहस्रफलं विंद्यात्स्वर्गलोकं च गच्छति
कुब्जावनं समासाद्य ब्रह्मचारी समाहितः ३४
त्रिरात्रोपोषितः स्नात्वा गोसहस्रफलं लभेत्
ततो देवह्रदे स्नात्वा कृष्णवेणा जलोद्भवे ३५
ज्योतिर्मात्र ह्रदे चैव तथा कन्याश्रमे नृप
यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः ३६
अग्निष्टोमशतं विंद्याद्गमनादेव तत्र तु
सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत् ३७
जातिमात्र ह्रदे स्नात्वा भवेज्जातिस्मरो नरः
शरभंगाश्रमं गत्वा शुकस्य च महात्मनः ३८
पितृदेवार्चनरतो गोसहस्रफलं लभेत्
दंडकारण्यमासाद्य महाराज उपस्पृशेत् ३९
शरभंगाश्रमं गत्वा शुकस्य च महात्मनः
न दुर्गतिमवाप्नोति पुनाति स्वकुलं नरः ४०
ततः सूर्यारकं गच्छेज्जमदग्निनिषेवितम्
रामतीर्थं नरः स्नात्वा विंद्याद्बहुसुवर्णकम् ४१
सप्तगोदावरीं स्नात्वा नियतो नियताशनः
महापुण्यमवाप्नोति देवलोकं च गच्छति ४२
ततो देवपथं गच्छेन्नियतो नियताशनः
देवसत्रस्य यत्पुण्यं तदवाप्नोति मानवः ४३
तुंगकारण्यमासाद्य ब्रह्मचारी जितेंद्रियः
वेदानध्यापयत्तत्र मुनीन्सारस्वतः पुरा ४४
तत्र वेदान्प्रणष्टांस्तु मुनेरांगिरसः सुतः
उपविष्टो महर्षीणामुत्तरीयेषु भारत ४५
ॐकारेण यथान्यायंसम्यगुच्चारितेन ह
येन यत्पूर्वमभ्यस्तं तस्य तत्समुपस्थितम् ४६
ऋषयस्तत्र देवाश्च वरुणोऽग्निप्रजापतिः
हरिर्नारायणो देवो महादेवस्तथैव च ४७
पितामहश्च भगवान्देवैस्सह महाद्युतिः
भृगुं नियोजयामास याजनार्थे महाद्युतिम् ४८
ततः स चक्रे भगवानृषीणां विधिवत्तदा
सर्वेषां पुनराधानं देवदृष्टेन कर्मणा ४९
आज्यभागेन वै तत्र तर्पितास्तु यथाविधि
देवास्त्रिभुवनं याता ऋषयश्च यथासुखम् ५०
तदरण्यं प्रविष्टस्य तुंगकं राजसत्तम
पापं विनश्यते सद्यः स्त्रिया वै पुरुषस्य वा ५१
तत्र मासं वसेद्धीरो नियतो नियताशनः
ब्रह्मलोकं व्रजेद्राजन्पुनीते च कुलं पुनः ५२
मेधावनं समासाद्य पितृदेवांश्च तर्पयेत्
अग्निष्टोममवाप्नोति स्मृतिं मेधां च विंदति ५३
तत्र कालंजरं गत्वा गोसहस्रफलं लभेत्
आत्मानं साधयेत्तत्र गिरौ कालंजरे नृप ५४
स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः
ततो गिरिवरश्रेष्ठे चित्रकूटे विशांपते ५५
मंदाकिनीं समासाद्य नदीं पापविमोचनीम्
अत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः ५६
अश्वमेधमवाप्नोति गतिं च परमां व्रजेत्
ततो गच्छेत राजेंद्र गुहस्थानमनुत्तमम् ५७
यत्र देवो महासेनो नित्यं सन्निहितो नृप
पुमांस्तत्र नरःश्रेष्ठ गमनादेव सिध्यति ५८
कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्
प्रदक्षिणमुपावृत्य यशःस्थानं व्रजेन्नरः ५९
अभिगम्य महादेवं विराजति यथा शशी
तत्र कूपो महाराज विश्रुतो भरतर्षभ ६०
समुद्रा यत्र चत्वारो निवसंति युधिष्ठिर
ततोपस्पृश्य राजेंद्र कृत्वा चापि प्रदक्षिणम् ६१
नियतात्मा नरः पूतो गच्छेत परमां गतिम्
ततो गच्छेत्कुरुश्रेष्ठ शृंगवेरपुरं महत् ६२
यत्र तीर्णो महाप्राज्ञो रामो दाशरथिः पुरा
गंगायां तु नरः स्नात्वा ब्रह्मचारी जितेंद्रियः ६३
विधूतपाप्मा भवति वाजपेयं च विंदति
ततो मुंजवटं गछेत्स्थानं देवस्य धीमतः ६४
अभिगम्य महादेवमभ्यर्च्य च नराधिप
प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात् ६५
ततो गच्छेत राजेंद्र प्रयागमृषिसंस्तुतम्
यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ६६
लोकपालाश्च सिद्धाश्च निरताः पितरस्तथा
सनत्कुमारप्रमुखास्तथैव च महर्षयः ६७
तथा नागाः सुपर्णाश्च सिद्धाः शुक्रधरास्तथा
सरितः सागराश्चैव गंधर्वाप्सरसस्तथा ६८
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः
तत्र त्रीण्यपि कुंडानि तयोर्मध्येन जाह्नवी ६९
प्रयागात्समतिक्रांता सर्वतीर्थपुरस्कृता
तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता ७०
यमुनागंगया सार्द्धं संगता लोकभाविनी
गंगायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् ७१
प्रयागं जघनस्यांतमुपस्थमृषयो विदुः
प्रयागं सुप्रतिष्ठानं कंबलाश्वतरावुभौ ७२
तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः
तत्र वेदाश्च यज्ञाश्च मूर्त्तिमंतो युधिष्ठिर ७३
प्रजापतिमुपासंत ऋषयश्च महानघाः
यजंते क्रतुभिर्देवांस्तथा चक्रधरा नृप ७४
ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत
प्रयागं सर्वतीर्थेभ्यः प्रभावेणाधिकं प्रभो ७५
श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि
मूर्धका नमनाद्वापि सर्वपापैः प्रमुच्यते ७६
तत्राभिषेकं यः कुर्यात्संगमे संशितव्रतः
पुण्यं सुमहदाप्नोति राजसूयाश्वमेधयोः ७७
एषा यजनभूमिर्हि देवानामपि तत्कथा
दत्तं तत्र स्वल्पमपि महद्भवति भारत ७८
न देववचनात्तात न लोकवचनादपि
मतिरुत्क्रमणीया ते प्रयागमरणं प्रति ७९
दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः
येषां सान्निध्यमत्रैव कीर्त्तितं कुरुनंदन ८०
चतुर्विद्ये च यत्पुण्यं सत्यवादिषु चैव यत्
स्नातएवतदाप्नोतिगंगायामुनसंगमे ८१
ततो भोगवती नाम वासुकेस्तीर्थमुत्तमम्
तत्राभिषेकं यः कुर्यात्सोऽश्वमेधमवाप्नुयात् ८२
तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम्
दशाश्वमेधिकं चैव गंगायां कुरुनंदन ८३
कुरुक्षेत्रसमा गंगा यत्र तत्रावगाहिता
विशेषो वै कनखले प्रयागं परमं महत् ८४
यद्यकार्यशतं कृत्वा कृतं गंगावसेवनम्
सर्वं तत्तस्य गंगापो दहत्यग्निरिवेंधनम् ८५
सर्वं दहति गंगापस्तूलराशिमिवानलः
सर्वं कृतयुगे पुण्यं त्रेतायां पुष्करं स्मृतम् ८६
द्वापरे तु कुरुक्षेत्रं गंगा कलियुगे स्मृता
पुष्करे तु तपस्तप्येद्दानं दद्यान्महालये ८७
मलये त्वग्निमारोहेद्भृगुतुंगे त्वनाशनम्
पुष्करे तु कुरुक्षेत्रे गंगापो मध्यगेषु च ८८
सद्यस्तारयते जंतुः सप्तसप्तावरांस्तथा
पुनाति कीर्त्तिता पापं दृष्ट्वा पुण्यं प्रयच्छति ८९
अवगाढा च पीत्वा च पुनात्यासप्तमं कुलम्
यावदस्थि मनुष्यस्य गंगायाः स्पृशते जलम् ९०
तावत्स पुरुषो राजन्स्वर्गलोके महीयते
यथा पुण्यानि तीर्थानि पुण्यान्यायतनानि च ९१
उपास्य पुण्यं लब्ध्वा च भवति परलोकभाक्
न गंगा सदृशं तीर्थं न देवः केशवात्परः ९२
ब्राह्मणेभ्यः परं नास्ति एवमाह पितामहः
यत्र गंगा महाराज स देशस्तत्र योजनम् ९३
सिद्धक्षेत्रं च विज्ञेयं गंगातीरसमाश्रितम्
इदं सत्यं द्विजातीनां साधूनां मानसेषु च ९४
मुक्तिं चैव जपेत्कर्णे शिष्टस्यानुगतस्य च
इदं धर्म्यमिदं मेध्यमिदं स्वर्ग्यमिदं सुखम् ९५
इदं पुण्यतमं रम्यं पावनं धर्ममुत्तमम्
महीशीर्षमिदं गुह्यं सर्वपापप्रमोचनम् ९६
अधीत्य द्विजमध्ये च निर्मलत्वमवाप्नुयात्
श्रीमत्स्वर्ग्यं महापुण्यं सपत्नशमनं शिवम् ९७
मेधाजननमग्र्यं वै तीर्थवंशानुकीर्त्तनम्
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ९८
महीं विजयते राजा वैश्यो धनमवाप्नुयात्
शूद्रो यातीप्सितान्कामान्ब्राह्मणः पारगः पठन् ९९
यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं सदा शुचि
जातिस्मरत्वमाप्नोति नाकपृष्ठे च मोदते १००
गम्यान्यपि च तीर्थानि कीर्तितान्यगमान्यपि
मनसाप्यभिगच्छेत सर्वतीर्थमनीषया १०१
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः
ऋषिभिर्देवकल्पैश्च कृतानि सुकृतैषिभिः १०२
एवं त्वमपि कौरव्य विधिनानेन सुव्रत
व्रज तीर्थानि नियतः पुण्यं पुण्येन वर्द्धते १०३
भावितैः करणैः पूर्वमास्तिक्याछ्रुतिदर्शनात्
प्राप्यंते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः १०४
नाकृतो नाकृतात्मा च नाशुचिर्न च तस्करः
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः १०५
त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना
पितरस्तर्पितास्तात सर्वे च प्रपितामहाः
पितामहपुरोगाश्च देवाः सर्षिगणास्तथा १०६
वसिष्ठ उवाच-
त्वं च धर्मेण धर्मज्ञ नित्यमेवाभितोषिताः
दिलीपकीर्तिं महतीं प्राप्स्यसे भुवि शाश्वतीम् १०७
नारद उवाच-
एवमुक्त्वाभ्यनुज्ञाप्य वसिष्ठो भगवानृषिः
प्रीतः प्रीतेनमनसा तत्रैवांतरधीयत १०८
दिलीपः कुरुशार्दूल शास्त्रतत्त्वार्थदर्शनात्
वसिष्ठवचनाच्चैव पृथिवीमनुचक्रमे १०९
एवमेषा महाभाग प्रतिष्ठाने प्रतिष्ठिता
तीर्थयात्रा महापुण्या सर्वपापप्रमोचनी ११०
अनेन विधिना यस्तु पृथिवीं पर्यटिष्यति
अश्वमेधशतं साग्रं फलं प्रेत्यैष भोक्ष्यते १११
ततश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम्
दिलीपः पार्थ नृपतिर्यथापूर्वमवाप्तवान् ११२
नेता च त्वमृषीन्यस्मात्तस्मात्तेष्टगुणं फलम्
रक्षोगणविकीर्णानि तीर्थान्येतानि भारत ११३
न गतिर्विद्यतेऽन्यस्य त्वामृते कुरुनंदन
इदं देवर्षिचरितं सर्वतीर्थानुसंश्रितम् ११४
यः पठेत्कल्यमुत्थाय सर्वपापैः प्रमुच्यते
ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ कश्यपः ११५
आत्रेयस्त्वथ कौंडिन्यो विश्वामित्रोऽथ गौतमः
असितो देवलश्चैव मार्कंडेयोऽथ गालवः ११६
भरद्वाजस्य शिष्यश्च मुनिरुद्दालकस्तथा
शौनकः सह पुत्रेण व्यासश्च तपतां वरः ११७
दुर्वासाश्च मुनिश्रेष्ठो जाबालिश्च महातपाः
एते ऋषिवराः सर्वे त्वत्प्रतीक्ष्यास्तपोधनाः ११८
एभिः सह महाभाग तीर्थान्येतान्यनुव्रज
प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः ११९
यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः
तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे १२०
यथा भगीरथो राजा यथा रामश्च विश्रुतः
यथा वै वृत्रहा सर्वान्सपत्नानदहत् पुरा १२१
त्रैलोक्यं पालयामास देवराट्विगतज्वरः
तथा शत्रुक्षयं कृत्वा त्वं प्रजाः पालयिष्यसि १२२
स्वधर्मेणार्जितामुर्वीं प्राप्य राजीवलोचन
ख्यातिं यास्यसि वीर्येण कार्त्तवीर्यार्जुनो यथा १२३
सूत उवाच-
एवमाभाष्य राजानं नारदो भगवानृषिः
अनुज्ञाप्य महाराजं तत्रैवांतरधीयत १२४
युधिष्ठिरोऽपि धर्मात्मा ऋषिभिः सह सुव्रतः
जगामाखिलतीर्थानि सादरः पृथिवीपतिः १२५
मयोक्तामृषयः सर्वे तीर्थयात्राश्रयां कथाम्
यः पठेच्छृणुयाद्वापि स मुक्तः सर्वपातकैः १२६
मयोक्तमखिलं तत्त्वं किं भूयः श्रोतुमिच्छथ
ऋषीणां पुण्यकीर्तीनां नावक्तव्यं ममास्ति वै १२७
इति श्रीपाद्मे महापुराणे स्वर्गखंडे नानाविधतीर्थकथनं
नाम नवत्रिंशोऽध्यायः ३९