सामग्री पर जाएँ

पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ५१

विकिस्रोतः तः

ऋषय ऊचु-
कर्मयोगः कथं सूत येन चाराधितो हरिः ।
प्रसीदति महाभाग वद नो वदतां वर १।
येनासौ भगवानीशः समाराध्यो मुमुक्षुभिः ।
तद्वदाखिललोकानां रक्षणं धर्मसंग्रहम् २।
तं कर्मयोगं वद नः सूत मूर्तिमयस्तु यः ।
इति शुश्रूषवो विप्रा भवदग्रे व्यवस्थिताः ३।
सूत उवाच-
एवमेव पुरा पृष्टो व्यासः सत्यवतीसुतः ।
ऋषिभिरग्निसंकाशैर्व्यासस्तानाह तच्छृणु ४।
व्यास उवाच-
शृणुध्वंमृषयः सर्वे वक्ष्यमाणं सनातनम् ।
कर्मयोगं ब्राह्मणानामात्यंतिकफलप्रदम् ५।
आम्नायसिद्धमखिलं ब्राह्मणार्थं प्रदर्शितम् ।
ऋषीणां शृण्वतां पूर्वं मनुराह प्रजापतिः ६।
सर्वव्याधिहरं पुण्यमृषिसंघैर्निषेवितम् ।
समाहितधियो यूयं शृणुध्वं गदतो मम ७।
कृतोपनयनो वेदानधीयीत द्विजोत्तमः ।
गर्भाष्टमेऽष्टमेवाब्दे स्वसूत्रोक्तविधानतः ८।
दंडी च मेखली सूत्री कृष्णाजिनधरो मुनिः ।
भिक्षाहारो गुरुहितो वीक्ष्यमाणो गुरोर्मुखम् ९।
कार्पासमुपवीतार्थं निर्मितं ब्रह्मणा पुरा ।
ब्राह्मणानां त्रिवृत्सूत्रं कौशं वा वस्त्रमेव वा १०।
सदोपवीती चैव स्यात्सदाबद्ध शिखो द्विजः ।
अन्यथा यत्कृतं कर्म्म तद्भवत्ययथाकृतम् ११।
वसेदविकृतं वासः कार्पासं वा कषायकम् ।
तदेव परिधानीयं शुक्लं तांतवमुत्तमम् १२।
उत्तरं तु समाम्नातं वासः कृष्णाजिनं शुभम् ।
अभावे गावयमपि रौरवं वा विधीयते १३।
उद्धृत्य दक्षिणं बाहुं सव्यबाहौ समर्पितम् ।
उपवीतं भवेन्नित्यं निवीतं कंठसज्जने १४।
सव्यबाहुं समुद्धृत्य दक्षिणे तु धृतं द्विजाः ।
प्राचीनावीतमित्युक्तं पित्र्येकर्मणि योजयेत् १५।
अग्न्यागारे गवां गोष्ठे होमे तप्ये तथैव च ।
स्वाध्याये भोजने नित्यं ब्राह्मणानां च सन्निधौ १६।
उपासने गुरूणां च संध्ययोः साधुसंगमे ।
उपवीती भवेन्नित्यं विधिरेष सनातनः १७।
मौंजी त्रिवृत्समां श्लिष्टां कुर्याद्विप्रस्य मेखलाम् ।
मुंजाभावे कुशेनाहुर्ग्रंथिनैकेन वा त्रिभिः १८।
धारयेद्वैणवपालाशौ दंडौ केशांतिकौ द्विजः ।
यज्ञार्हवृक्षजं वाथ सौम्यमव्रणमेव च १९।
सायंप्रातर्द्विजः संध्यामुपासीत समाहितः ।
कामाल्लोभाद्भयान्मोहात्त्यक्त्वैनां पतितो भवेत् २०।
अग्निकार्यं ततः कुर्यात्सायंप्रातः प्रसन्नधीः ।
स्नात्वा संतर्पयेद्देवानृषीन्पितृगणांस्तथा २१।
देवताभ्यर्चनं कुर्यात्पुष्पैः पत्रैर्यवांबुभिः ।
अभिवादनशीलः स्यान्नित्यं वृद्धेषु धर्मतः २२।
असावहं भो नामेति सम्यक्प्रणतिपूर्वकम् ।
आयुरारोग्यसिद्ध्यर्थं तंद्रादिपरिवर्जितः २३।
आयुष्मान्भव सौम्येति वचो विप्रोऽभिवादने ।
आकारश्चास्य नाम्नोंऽते वाच्यः पूर्वाक्षरप्लुतः २४।
यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् ।
नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः २५।
व्यत्यस्तपाणिना कार्यं पादसंग्रहणं गुरोः ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः २६।
लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा ।
अवाप्य प्रयतो ज्ञानं तं पूर्वमभिवादयेत् २७।
नोदकं धारयेद्भैक्ष्यं पुष्पाणि समिधस्तथा ।
एवंविधानि चान्यानि न देवार्थेषु कर्म्मसु २८।
ब्राह्मणं कुशलं पृच्छेत्क्षत्रबंधुमनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च २९।
उपाध्यायः पिता ज्येष्ठो भ्राता त्राता च भीतितः ।
मातुलः श्वशुरश्चैव मातामह पितामहौ ३०।
वर्णश्रेष्ठः पितृव्यश्च पुंसोऽत्र गुरवः स्मृताः ।
माता मातामही गुर्वी पितुर्मातुश्च सोदराः ३१।
श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रियः ।
ज्ञेयस्तु गुरुवर्गोऽयं मातृतः पितृतो द्विजाः ३२।
अनुवर्तनमेतेषां मनोवाक्कायकर्मभिः ।
गुरून्दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलि ३३।
नैतैरुपविशेत्सार्द्धं विवदेन्नात्मकारणात् ।
जीवितार्थमपि द्वेषाद्गुरुभिर्नैव भाषणम् ३४।
उद्रिक्तोऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः ।
गुरूणामपि सर्वेषां पंच पूज्या विशेषतः ३५।
तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता ।
यो भावयति या सूते येन विद्योपदिश्यते ३६।
ज्येष्ठो भ्राता च भर्ता च पंचैते गुरवः स्मृताः ।
आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः ३७।
पूजनीया विशेषेण पंचैते भूतिमिच्छता ।
यावत्पिता च माता च द्वावेतौ निर्विकारिणौ ३८।
तावत्सर्वं परित्यज्य पुत्रः स्यात्तत्परायणः ।
पिता माता च सुप्रीतौ स्यातां पुत्रगुणैर्यदि ३९।
स पुत्रः सकलं धर्मं प्राप्नुयात्तेन कर्मणा ।
नास्ति मातृसमं दैवं नास्ति पितृसमो गुरुः ४०।
तयोः प्रत्युपकारोऽपि न कथंचन विद्यते ।
तयोर्नित्यं प्रियं कुर्यात्कर्मणा मनसा गिरा ४१।
न ताभ्यामननुज्ञातो धर्ममन्यं समाचरेत् ।
वर्जयित्वा मुक्तिफलं नित्यं नैमित्तिकं तथा ४२।
धर्मसारः समुद्दिष्टः प्रेत्यानंतफलप्रदः ।
सम्यगाराध्य वक्तारं विसृष्टस्तदनुज्ञया ४३।
शिष्यो विद्याफलं भुंक्ते प्रेत्य चापद्यते दिवि ।
यो भ्रातरं पितृसमं ज्येष्ठं मूढोऽवमन्यते ४४।
तेन दोषेण संप्रेत्य निरयं घोरमृच्छति ।
पुंसां वर्त्मनि सृष्टेन पूज्यो भर्ता तु सर्वदा ४५।
अपि मातरि लोकेऽस्मिन्नुपकाराद्धि गौरवम् ।
मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् ४६।
असावहमिति ब्रूयात्प्रत्युत्थायाभिवादयेत् ।
अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ४७।
भो भवत्पूर्वकं त्वेनमभिभाषेत धर्मवित् ।
अभिवाद्यश्च पूज्यश्च शिरसानम्य एव च ४८।
ब्राह्मणक्षत्रियाद्यैश्च श्रीकामैः सादरं सदा ।
नाभिवाद्याश्च विप्रेण क्षत्रियाद्याः कथंचन ४९।
ज्ञानकर्मगुणोपेता यद्यप्येते बहुश्रुताः ।
ब्राह्मणः सर्ववर्णानां स्वस्ति कुर्यादिति श्रुतिः ५०।
सवर्णेन सवर्णानां कार्यमेवाभिवादनम् ।
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ५१।
पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ।
विद्याकर्मवयोबंधुर्वित्तं भवति पंचमम् ५२।
मान्यस्थानानि पंचाहुः पूर्वं पूर्वं गुरूत्तरात् ।
पंचानां त्रिषु वर्णेषु भूयांसि बलवंति च ५३।
यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ।
पंथा देयो ब्राह्मणाय स्त्रियै राज्ञे विचक्षुषे ५४।
वृद्धाय भारभग्नाय रोगिणे दुर्बलाय च ।
भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतोऽन्वहम् ५५।
निवेद्य गुरुवेऽश्नीयाद्वाग्यतस्तदनुज्ञया ।
भवत्पूर्वं चरेद्भैक्ष्यमुपवीती द्विजोत्तमः ५६।
भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ।
मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ५७।
भिक्षेत भिक्षांप्रथमं याचैनं न विमानयेत् ।
सजातीयगृहेष्वेव सार्ववर्णिकमेव वा ५८।
भैक्ष्यस्याचरणं प्रोक्तं पतिता दिवि वर्जितम् ।
वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्म्मसु ५९।
ब्रह्मचार्य्याहरेद्भैक्ष्यं गृहेभ्यः प्रयतोऽन्वहम् ।
गुरोः कुले न भिक्षेत न ज्ञातिकुलबंधुषु ६०।
अलाभेत्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ।
सर्वं वा विचरेद्ग्रामं पूर्वोक्तानामसंभवे ६१।
नियम्य प्रयतो वाचं दिशस्त्वनवलोकयन् ।
समाहृत्य तु भैक्ष्यान्नं यावदर्थममायया ६२।
भुंजीत प्रयतो नित्यं वाग्यतोऽनन्यमानसः ।
भैक्ष्येण वर्तयेन्नित्यं नैवेकान्नो भवेद्व्रती ६३।
भैक्ष्यैण वर्त्तिनो वृत्तिरुपवाससमा स्मृता ।
पूजयेदशनं नित्यमद्याच्चैनमकुत्सयन् ६४।
दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनंदेच्च सर्वशः ।
अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ६५।
अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ।
प्राङ्मुखोऽन्नानि भुंजीत सूर्याभिमुखमेव वा ६६।
नाद्यादुदङ्मुखो नित्यं विधिरेष सनातनः ।
प्रक्षाल्य पाणिपादौ च भुंजानो द्विरुपस्पृशेत् ६७।
शुद्धे देशे समासीनो भुक्त्वा च द्विरुपस्पृशेत् ६८।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे कर्मयोगकथनं नाम एकपंचाशत्तमोऽध्यायः ५१।