पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः १७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

नारद उवाच-
उत्तरे नर्मदाकूले तीर्थं योजनविस्तृतम्
पत्रेश्वरेति विख्यातं सर्वपापहरं परम् १
तत्र स्नात्वा नरो राजन्दैवतैः सह मोदते
पंचवर्षसहस्राणि क्रीडते कामरूपधृक् २
गर्जनं तु ततो गच्छेद्यत्र मेघ उपस्थितः
इंद्रजिन्नाम संप्राप्तं तस्य तीर्थप्रभावतः ३
मेघरावं ततो गच्छेद्यत्र मेघाभिगर्जितम्
मेघनादो गणस्तत्र वरसंपन्नतां गतः ४
ततो गच्छेत राजेंद्र ब्रह्मावर्तमिति स्मृतम्
तत्र संनिहितो ब्रह्मा नित्यमेव युधिष्ठिर ५
तत्र स्नात्वा तु राजेंद्र ब्रह्मलोके महीयते
ततोंऽगारेश्वरे तीर्थे नियतो नियमाशनः ६
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति
ततो गच्छेत राजेंद्र कपिलातीर्थमुत्तमम् ७
तत्र स्नात्वा नरो राजन्गोप्रदानफलं लभेत्
कांचीतीर्थं ततो गच्छेद्देवर्षिगणसेवितम् ८
तत्र स्नात्वा नरो राजन्गोलोकं समवाप्नुयात्
ततो गच्छेत्तु राजेंद्र कुंडलेश्वरमुत्तमम् ९
तत्र संनिहितो रुद्रस्तिष्ठते उमया सह
तत्र स्नात्वा तु राजेंद्र अवध्यस्त्रिदशैरपि १०
पिप्पलेश्वरं ततो गच्छेत्सर्वपापप्रणाशनम्
तत्र गत्वा तु राजेंद्र रुद्रलोके महीयते ११
ततो गच्छेत्तु राजेंद्र विमलं विमलेश्वरम्
तत्र देवशिखा रम्या ईश्वरेण निपातिता १२
तत्र प्राणान्परित्यज्य रुद्रलोकमवाप्नुयाम्
ततः पुष्करिणीं गच्छेत्तत्र स्नानं समाचरेत् १३
स्नानमात्रे नरस्तत्र इंद्रस्यार्द्धासनं लभेत्
नर्मदा सरितां श्रेष्ठा रुद्रदेहाद्विनिःसृता १४
तारयेत्सर्वभूतानि स्थावराणि चराणि च
सर्वदेवातिदेवेन ईश्वरेण महात्मना १५
कथिता ऋषिसंघेभ्यो ह्यस्माकं च विशेषतः
मुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी १६
रुद्रदेहाद्विनिष्क्रांता लोकानां हितकाम्यया
सर्वपापहरा नित्यं सर्वप्राणिनमस्कृता १७
संस्तुता देवगंधर्वैरप्सरोभिस्तथैव च
नमः पुण्यजले आद्ये नमः सागरगामिनि १८
नमोस्तु ते ऋषिगणैः शंकरदेहनिःसृते
नमोस्तु ते धर्मवृते वरानने नमोस्तु ते देवगणैकवंदिते १९
नमोस्तु ते सर्वपवित्रपावने नमोस्तु ते सर्वजगत्सुपूजिते
यश्चेदं पठते स्तोत्रं नित्यं शुद्धेन मानवः २०
ब्राह्मणो वेदमाप्नोति क्षत्त्रियो विजयी भवेत्
वैश्यस्तु लभते लाभं शूद्रश्चैव शुभां गतिम् २१
अन्नार्थी लभते ह्यन्नं स्मरणादेव नित्यशः
नर्मदां सेव्यते नित्यं स्वयं देवो महेश्वरः
तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी २२
इति श्रीपाद्मे महापुराणे स्वर्गखंडे सप्तदशोऽध्यायः १७