पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः १७

विकिस्रोतः तः

नारद उवाच-
उत्तरे नर्मदाकूले तीर्थं योजनविस्तृतम् ।
पत्रेश्वरेति विख्यातं सर्वपापहरं परम् १।
तत्र स्नात्वा नरो राजन्दैवतैः सह मोदते ।
पंचवर्षसहस्राणि क्रीडते कामरूपधृक् २।
गर्जनं तु ततो गच्छेद्यत्र मेघ उपस्थितः ।
इंद्रजिन्नाम संप्राप्तं तस्य तीर्थप्रभावतः ३।
मेघरावं ततो गच्छेद्यत्र मेघाभिगर्जितम् ।
मेघनादो गणस्तत्र वरसंपन्नतां गतः ४।
ततो गच्छेत राजेंद्र ब्रह्मावर्तमिति स्मृतम् ।
तत्र संनिहितो ब्रह्मा नित्यमेव युधिष्ठिर ५।
तत्र स्नात्वा तु राजेंद्र ब्रह्मलोके महीयते ।
ततोंऽगारेश्वरे तीर्थे नियतो नियमाशनः ६।
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ।
ततो गच्छेत राजेंद्र कपिलातीर्थमुत्तमम् ७।
तत्र स्नात्वा नरो राजन्गोप्रदानफलं लभेत् ।
कांचीतीर्थं ततो गच्छेद्देवर्षिगणसेवितम् ८।
तत्र स्नात्वा नरो राजन्गोलोकं समवाप्नुयात् ।
ततो गच्छेत्तु राजेंद्र कुंडलेश्वरमुत्तमम् ९।
तत्र संनिहितो रुद्रस्तिष्ठते उमया सह ।
तत्र स्नात्वा तु राजेंद्र अवध्यस्त्रिदशैरपि १०।
पिप्पलेश्वरं ततो गच्छेत्सर्वपापप्रणाशनम् ।
तत्र गत्वा तु राजेंद्र रुद्रलोके महीयते ११।
ततो गच्छेत्तु राजेंद्र विमलं विमलेश्वरम् ।
तत्र देवशिखा रम्या ईश्वरेण निपातिता १२।
तत्र प्राणान्परित्यज्य रुद्रलोकमवाप्नुयाम् ।
ततः पुष्करिणीं गच्छेत्तत्र स्नानं समाचरेत् १३।
स्नानमात्रे नरस्तत्र इंद्रस्यार्द्धासनं लभेत् ।
नर्मदा सरितां श्रेष्ठा रुद्रदेहाद्विनिःसृता १४।
तारयेत्सर्वभूतानि स्थावराणि चराणि च ।
सर्वदेवातिदेवेन ईश्वरेण महात्मना १५।
कथिता ऋषिसंघेभ्यो ह्यस्माकं च विशेषतः ।
मुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी १६।
रुद्रदेहाद्विनिष्क्रांता लोकानां हितकाम्यया ।
सर्वपापहरा नित्यं सर्वप्राणिनमस्कृता १७।
संस्तुता देवगंधर्वैरप्सरोभिस्तथैव च ।
नमः पुण्यजले आद्ये नमः सागरगामिनि १८।
नमोस्तु ते ऋषिगणैः शंकरदेहनिःसृते ।
नमोस्तु ते धर्मवृते वरानने नमोस्तु ते देवगणैकवंदिते १९।
नमोस्तु ते सर्वपवित्रपावने नमोस्तु ते सर्वजगत्सुपूजिते ।
यश्चेदं पठते स्तोत्रं नित्यं शुद्धेन मानवः २०।
ब्राह्मणो वेदमाप्नोति क्षत्त्रियो विजयी भवेत् ।
वैश्यस्तु लभते लाभं शूद्रश्चैव शुभां गतिम् २१।
अन्नार्थी लभते ह्यन्नं स्मरणादेव नित्यशः ।
नर्मदां सेव्यते नित्यं स्वयं देवो महेश्वरः ।
तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी २२।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे सप्तदशोऽध्यायः १७