पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः २२

विकिस्रोतः तः
Jump to navigation Jump to search

नारद उवाच-
एवं ते कथितं राजन्नर्मदातीर्थमुत्तमम्
पुरा गंधर्वकन्यानां शापजं भयमुल्बणम् १
नाशितं तन्महाराज रेवाजलकणाग्निना
रेवाजलकणस्पर्शान्मुक्तो भवति मानवः २
युधिष्ठिर उवाच-
भगवन्बहुकन्याभिः शापो लंभि कथं कुतः
कस्यापत्यानि तास्तासां नाम किं कीदृशं वयः ३
कथं रेवाजलस्पर्शाद्विपाकाच्छापसंभवात्
विमुक्ताः कुत्र ताः सस्नुः सर्वं मे कथय प्रभो ४
नर्मदातीर्थमाहात्म्यं चमत्कारकरं भवेत्
श्रवणादपि पापानां मलनाशनमुच्यते ५
नर्मदानर्मदाशब्दो येन केनचिदुच्यते
तस्य स्याच्छाश्वती मुक्तिर्यावदाचंद्र तारकम् ६
व्याहृतं भवता पूर्वं रेवामाहात्म्यमुत्तमम्
तथापि चरितं साधो यदेतत्तन्निगद्यताम् ७
अथ चोत्तमवार्ताया सेवितव्या मनीषिभिः
अतः पृच्छामि विप्रेंद्र रेवामाहात्म्यमुत्तमम्
इतिहासं वद विभो कन्यानां चरितोज्ज्वलम् ८
नारद उवाच-
श्रूयतां राजशार्दूल धर्मगर्भापरा कथा
यथारणिर्वह्निगर्भा धर्म्मस्तु ब्रह्मसूरिव ९
गंधर्वः शुकसंगीतिस्तस्य कन्या प्रमोहिनी
सुशीलस्य सुशीला च सुस्वरा स्वरवेदिनः १०
सुतारा चंद्रकांतस्य चंद्रिका सुप्रभस्य च
इमानि वरनामानि तासामप्सरसां नृप ११
कुमार्यः पंच सर्वास्ता वयसा सुभगाः पुनः
भाषंते च मिथस्तास्तु भगिन्य इव सर्वदा १२
चंद्रादिव विनिष्क्रांताश्चंद्रिका इव सोज्ज्वलाः
चंद्राननाः सुकेश्यश्च चंद्रकांताइवोज्ज्वलाः १३
देवेष्वेता विलासिन्यः कौमुद्यः कैरवेष्विव
लावण्यपिंडसंभूता दिव्यरूपा मनोहराः १४
उद्भिन्नकुचपद्मिन्यः केतक्य इव माधवे
उत्पन्नयौवनैः कांता वल्लीव नवपल्लवैः १५
हेमगौराश्च हेमाभा हेमाभरणभूषिताः
हेमचंपकमालिन्यो हेमच्छविसुवाससः १६
स्वरग्रामावलीहासु विविधा मूर्च्छनासु च
तालवाद्यविनोदेषु वेणुवीणाप्रवादने १७
मृदंगनादसंभिन्नलास्यमध्यलयेषु च
चित्रादिषु विनोदेषु कलासु च विशारदाः १८
एवंभूताश्च ताः कन्या मुमुहुः क्रीडनैर्वरैः
पितृभिर्लालिताः सर्वाश्चेरुश्च धनदालये १९
कौतुकादेकदा पंच मिलित्वा मासि माधवे
कन्या मंदारपुष्पाणि विचिन्वंत्यो वनाद्वनम् २०
गौरीं समाराधयितुं स्वरांगनाः कदाचिदच्छोदसरोवरं ययुः
हेमांबुजानि प्रवराणि ताः पुनस्तस्मादुपादाय वरोत्पलैः सह २१
वैडूर्यशुद्धस्फटिकप्रकुट्टिमे स्नात्वा तु घट्टे परिधाय चांबरम्
मौनेन च स्थंडिलपिंडिकामयीं सुवर्णमुक्ताभरणां विनिर्ममुः २२
समर्चितां चंदनगंधकुंकुमैरभ्यर्च्य गौरीं वरपंकजादिभिः
नानोपहारैः शुभभक्तिभाविता लास्यप्रयोगैर्ननृतुः कुमारिकाः २३
गांधर्वमाश्रित्य परं स्वरं ततो गेयं स्वभावध्वनिभिः समूर्छनम्
एणीदृशस्ताः प्रजगुः कलाक्षरं तारप्रवृद्धं गतिभिश्च सुस्वरम् २४
तस्मिन्सुभावे रसवर्षहर्षं कन्यास्वलं निर्भरचित्तवृत्तिषु
अच्छोदतीर्थे प्रवरे तदागतः स्नातुं मुनेर्वेदनिधेः सुतोग्रजः २५
रूपेण निःसीमतरो वराननः प्रफुल्लपद्मायतलोचनो युवा
विस्तीर्णवक्षाः सुभुजोऽतिसुंदरः श्यामच्छविः कामइवापरो हि सः २६
स ब्रह्मचारी सुशिखो हि शोभते दंडेन युक्तो धनुषेव मन्मथः
एणाजिनप्रावरणः समुद्रधृग्हेमाभमौंजीकटिमेखलः परः २७
तं दृष्ट्वा ब्राह्मणं बालास्तास्तत्र सरसस्तटे
जहृषुः कौतुकाविष्टा अयं नो भवितातिथिः २८
संत्यक्तगीतनृत्यास्तास्तस्यालोकनलालसाः
हरिण्यो लुब्धकेनेव विद्धाः कामेन सायकैः २९
पश्यपश्येति जल्पंत्यो मुग्धाः पंच ससंभ्रमम्
तस्मिन्विप्रवरे यूनि कामदेवभ्रमं ययुः ३०
पुनःपुनस्तमभ्यर्च्य नयनैः पंकजैरिव
पश्चाद्विचारमारब्धमप्सरोभिः परस्परम् ३१
यद्ययं कामदेवो हि रतिहीनः कथं भवेत्
अथवाह्यश्विनौ देवौ तावुभौ युगचारिणौ ३२
गंधर्वः किन्नरो वाथ सिद्धो वा कामरूपधृक्
ऋषिपुत्रोऽथवा कश्चित्कश्चिद्वा मनुजोत्तमः ३३
अस्ति वा कश्चिदेवायं धात्रा सृष्टो हि नः कृते
यथाभाग्यवतामर्थे निधानं पूर्वकर्मभिः ३४
तथास्माकं कुमारीणां गौर्यानीतो वरोत्तमः
करुणाजलकल्लोल लब्धाद्री र्कृ!तचित्तया ३५
मया वृतस्त्वया चायं त्वया वृतस्तथानया
एवं पंचसुकन्यासु वदंतीषु नृपोत्तम ३६
श्रुत्वा तद्वचनं तत्र कृतमाध्याह्निकक्रियः
चिंतयामास मेधावी किं कृत्वा सुकृतं भवेत् ३७
गाधिसंभवपराशरादयः कंडुदेवलमुखाश्च ये द्विजाः
तेऽपि योगि बलिनो विमोहिताः लीलया तदबलाभिरद्भुतम् ३८
योषितां नयनतीक्ष्णसायकैर्भ्रूलतासुदृढचापनिर्गतैः
धन्विना मकरकेतुना हतः कस्य नो पतति वामनो मृगः ३९
तावदेव नयधीर्विराजते तावदेव जनताभयं भवेत्
तावदेव धृतचित्तता भृशं तावदेव गणना कुलस्य च ४०
तावदेव तपसः प्रगल्भता तावदेव शमसेवनं नृणाम्
यावदेव ललनेक्षणा स वैर्माद्यते द्रुतमदैर्न पूरुषः ४१
मोहयंति मदयंति रागिणं योषितः स्वललितैर्मनोहरैः
मोदयंति मदयंति मामिमा धर्मरक्षणपरं हि स्वैर्गुणैः ४२
मांसरक्तमलमूत्रनिर्मिते योषितां वपुषि निर्गुणेऽशुचौ
कामिनस्तु परिकल्प्य चारुतामाविशंति सुविमूढचेतसः ४३
दारुणा हि परिकीर्तितांगना साधुभिर्विमलबुद्धिभिर्बुधैः
यावदेव न समीपगा इमास्तावदेव हि गृहं व्रजाम्यहम् ४४
समीपं तस्य यावन्न आगच्छंति वरस्त्रियः
वैष्णवेन प्रभावेण तावदंतर्दधे द्विजः ४५
तस्य योगबलाद्भूप गतस्यादर्शनं तदा
दृष्ट्वा तदद्भुतं कर्म वैष्णवब्रह्मचारिणः ४६
वित्रस्तनयना बाला कुरंग्य इव कातराः
संक्रांतनयनाः शून्या ददृशुस्ता दिशोदश ४७
कन्या ऊचुः-
इंद्रजालं स्फुटं वेत्ति मायां जानाति वा पुनः
दृष्टोऽप्यदृष्टरूपोभूदित्यूचुस्ताः परस्परम् ४८
व्याप्तं च हृदयं तासां तदैव विरहाग्निना
ज्वलद्दावानलेनेव सुस्निग्धं सर्वकाननम् ४९
त्यजेंद्रजालिकां विद्यां कांत दर्शय सत्वरम्
आत्मानं न हि ते युक्तं प्राग्ग्रासे मक्षिकोपमम् ५०
हा कष्टं दर्शितः कस्माद्धात्रा त्वं घटितः कुतः
ज्ञातं महानुसंतापहेतुर्नः स्वं विनिर्मितः ५१
कच्चित्ते निर्दयं चेतः कच्चिदस्मासु नो मतिः
कच्चित्क्रूरोऽसि हे कांत कच्चिन्मुष्णासि नो मनः ५२
कच्चिन्न प्रत्ययोस्मा सु कच्चिदस्मान्परीक्षसे
कच्चिन्निर्ममता शीलः कच्चिन्मायाविशारदः ५३
कच्चिच्चित्ते प्रवेष्टुं च वेत्सि विज्ञानलाघवम्
कच्चिन्निष्क्रमणोपायं न जानासि कुतः पुनः ५४
कच्चिद्विनापराधं तु किमस्मासु प्रकुप्यसे
कच्चिद्दुःखं न जानासि परेषां विप्रलंभनम् ५५
त्वद्दर्शनं विना नष्टा हृदयेश्वर सांप्रतम्
न जीवामोऽथ जीवामः पुनस्त्वद्दर्शनाशया ५६
वयं च नीयतां तत्र शीघ्रं यत्र गतो भवान्
त्वद्दर्शनहरो धाता व्यधान्मोदांकुरच्छिदाम् ५७
सर्वथा दर्शनं देहि कारुण्यं भज सर्वथा
पर्य्यंतं न प्रपश्यंति कस्य चित्सुजना जनाः ५८
इत्थं विलप्यताः कन्याः प्रतीक्ष्य च बहुक्षणम्
पितुर्भयाद्गृहं गंतुं शीघ्रमारेभिरे ततः ५९
तत्प्रेमनिगडैर्बद्धा भृशं विरहविक्लवाः
कथंचिद्धैर्यमालंब्य ताः स्वंस्वं गृहमागताः ६०
आगत्य पतिताः सर्वा मातॄणां तु समीपतः
किमेतन्मातृभिः पृष्टाः कुतः कालात्ययोऽभवत् ६१
क्रीडंत्यः किन्नरीभिस्तु सार्द्धं संगतकं यदा
संस्थितास्तेन न ज्ञातो दिवसोऽच्छोदसरोवरे ६२
पथि श्रांता वयं मातः संतापस्तेन नस्तनौ
मोहेन महता वक्तुं न केनाप्युत्सहामहे ६३
इत्युक्त्वा लुठितास्तत्र मणिभूमौ कुमारिकाः
आकारं गोपयंत्यस्ता मुग्धा जल्पंति मातृभिः ६४
काचिन्नर्तयति क्रीडामयूरं न मुदा तदा
न पाठयति तं कीरं पंजरेऽन्या कुतूहलात् ६५
लालयेन्नकुलं नान्या नोल्लापयति सारिकाम्
अपरातीव संमुग्धा नैव खेलति सारसैः ६६
भेजिरे न विनोदं ता रेमिरे नैव मंदिरे
ऊचिरे बांधवैर्नालं वीणावाद्यं न चक्रिरे ६७
कल्पद्रुमप्रसूनं यत्सर्वं तच्चानलोपमम्
मंदारकुसुमामोदि न पपुर्मधुरं मधु ६८
योगिन्य इव ताः कन्या नासाग्रन्यस्तलोचनाः
अलक्ष्यध्यानसंतानाः पुरुषोत्तममानसाः ६९
चंद्रकांतमणिच्छन्ने स्रवद्वारिणि कंदरे
क्षणं वातायने स्थित्वा जलयंत्रगृहेक्षणम् ७०
रचयंति क्षणं शय्यां दीर्घिकां भोजिनीदलैः
वीज्यमानाः सखीभिस्ताः शीतलैर्नलिनीदलैः ७१
इत्थं युगसमां रात्रिमनयंस्ता वरस्त्रियः
कथंचिद्धारणं कृत्वा विह्वलाः सज्वरा इव ७२
प्रातर्व्योममणिं दृष्ट्वा मन्यमानाः स्वजीवितम्
विज्ञाप्य मातरं स्वांस्वां गौरीं पूजयितुं गताः ७३
स्नात्वा तेन विधानेन पुष्पैर्धूपैस्तथा पुनः
विधाय पूजनं देव्या गायंत्यस्तत्र ताः स्थिताः ७४
एतस्मिन्नंतरे विप्रः स्नातुं सोऽपि समागतः
पितुराश्रमतस्तस्मादच्छोदेऽत्र सरोवरे ७५
मित्रं दृष्ट्वैव रात्र्यंते पद्मिन्य इव कन्यकाः
तत्फुल्लनयना जातास्तं दृष्ट्वा ब्रह्मचारिणम् ७६
गत्वा तत्रैव ताः कन्या समीपं ब्रह्मचारिणः
सव्यापसव्यबंधेन भुजपाशं च चक्रिरे ७७
गतोऽसि प्रिय पूर्वेद्युर्गंतुमद्य न लभ्यते
वृतस्त्वं नूनमस्माभिर्नात्र तेऽस्ति विचारणा ७८
इत्युक्तो ब्राह्मणः प्राह प्रहसन्बाहुपाशगः
युष्माभिरुच्यते भद्रमनुकूलं प्रियं वचः ७९
प्रथमाश्रमनिष्ठस्य किंतु नश्येत मे व्रतम्
विद्याभ्यसनशीलस्य नाभूत्पारं गुरोः कुले ८०
आश्रमे यत्र यो धर्मो रक्षणीयः सुपंडितैः
विवाहोऽयमतो मन्ये न धर्म इति कन्यकाः ८१
आकर्ण्य विप्रवाक्यानि विप्रमूचुर्वरस्त्रियः
सकलध्वनिसोत्कंठ्यो कोकिलाइव माधवे ८२
धर्मादर्थोऽर्थतः कामः कामात्सुखफलोदयः
इत्येवं निश्चयज्ञास्ते वर्णयंति विपश्चितः ८३
सकामो धर्मबाहुल्यात्पुरतस्ते समुत्थितः
सेव्यतां विविधैर्भोगैः स्वच्छाभूमिरियं यतः ८४
श्रुत्वा तद्वचनं तासां प्राह गंभीरया गिरा
तथ्यं वो वचनं किंतु ममाप्यावश्यकं व्रतम् ८५
प्राप्यानुज्ञां गुरोः कुर्वे विवाहकर्म नान्यथा
इत्युक्ताः पुनरूचुस्ताः स्फुटं मूढोऽसि सुंदर ८६
सिद्धौषधं ब्रह्मधिया रसायनं सिद्धिर्निधिः साधुकुला वरांगनाः
मंत्रस्तथा सिद्धरसश्च धर्मतो मुने निषेव्याः सुधिया समागताः ८७
कार्यं नु दैवाद्यदि सिद्धिमागतं तस्मिन्नुपेक्षां न च यांति नीतिगाः
यस्मादुपेक्षा न पुनः फलप्रदा तस्मान्न दीर्घीकरणं प्रशस्यते ८८
विषादप्यमृतं ग्राह्यममेध्यादपि कांचनम्
नीचादप्युत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि ८९
सांद्रानुरागाः कुलजन्मनिर्मलाः स्नेहार्द्रचित्ता सुगिरः स्वयंवराः
कन्या सुरूपाः खलु चारुयौवना धन्या लभंतेऽत्र नरास्तु नेतरे ९०
क्व वयं सुरसुंदर्य्यः क्व भवांस्तापसो बटुः
दुर्घटस्य विधानेन मन्ये धातैव पंडितः ९१
तस्मादस्मानिदानीं तु स्वीकुर्य्यात्मंगलं भवान्
गांधर्वेण विवाहेन अन्यथा नोपजीवनम् ९२
श्रुत्वा वाक्यं ततः प्राह ब्राह्मणो धर्मवित्तमः
भो मृगाक्ष्यः कथं त्याज्यो धर्मो धर्मधनैर्नरैः ९३
धर्मश्चार्थश्चकामश्च मोक्षश्चैतच्चतुष्टयम्
यथोक्तं फलदं ज्ञेयं विपरीतं तु निष्फलम् ९४
नाकालेऽहं व्रती कुर्यामतो दारपरिग्रहम्
न क्रिया फलमाप्नोति क्रियाकालं न वेत्ति यः ९५
यतो धर्मविचारेऽस्मिन्प्रसक्तं मम मानसम्
तस्माच्छृणुत हे कन्या न समीहे स्वयंवरम् ९६
एवं ज्ञात्वाशयं तस्य समीक्ष्यैव परस्परम्
करात्करं विमुच्याथ जग्राहांघ्रिं प्रमोहिनी ९७
भुजौ जगृहतुस्तस्य सुशीला सुस्वरा तथा
आलिलिंग सुतारा च वक्त्रं चुंबति चंद्रिका ९८
तथापि निर्विकारोऽसौ प्रलयानलसन्निभः
शशाप ब्रह्मचारी ताः क्रोधेनात्यंतमूर्छितः ९९
पिशाच्य इव मां लग्ना तत्पिशाच्यो भविष्यथ
एवं तेनाशु शप्तास्तास्तं त्यक्त्वा पुरतः स्थिताः १००
किमेतच्चेष्टितं पापं ह्यनागसि विचेष्टया
प्रियंकृतोऽप्रियंकृत्वा धिक्त्वां धर्मकृतांतकम् १०१
अनुरक्तेषु भक्तेषु मित्रेषु द्रोहकारिणः
पुंसो लोकोभयोः सौख्यं नाशमेतीति नः श्रुतम् १०२
तस्मात्त्वमपि नः शापात्पिशाचो भव सत्वरम्
इत्युक्त्वापि च ता बाला निःश्वसंत्यः क्रुधाकुलाः १०३
तदेवान्योन्यसंरंभात्तस्मिन्सरसि पार्थिव
ताः कन्या ब्रह्मचारी च सर्वे पैशाच्यमागताः १०४
स पिशाचः पिशाच्यस्ताः क्रंदमानाः सुदारुणम्
क्षपयंति विपाकांस्तान्पूर्वोपात्तस्य कर्म्मणः १०५
स्वकाले प्रभवत्येव पूर्वोपात्तं शुभाशुभम्
स्वच्छायामिव दुर्वारं देवानामपि पार्थिव १०६
क्रंदंति पितरस्तासां मातरस्तत्र तत्र च
भ्रातरश्चैव बालानां दैवं हि दुरतिक्रमम् १०७
अतऊर्ध्वं पिशाचास्ते आहारार्थं सुदुःखिताः
इतस्ततश्च धावंतो वसंति सरसस्तटे १०८
 इति श्रीपाद्मे महापुराणे स्वर्गखंडे द्वाविंशोध्यायः २२