पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ४७

विकिस्रोतः तः
Jump to navigation Jump to search
स्वर्गखण्डः

अध्यायः १

अध्यायः २

अध्यायः ३

अध्यायः ४

अध्यायः ५

अध्यायः ६

अध्यायः ७

अध्यायः ८

अध्यायः ९

अध्यायः १०

अध्यायः ११

अध्यायः १२

अध्यायः १३

अध्यायः १४

अध्यायः १५

अध्यायः १६

अध्यायः १७

अध्यायः १८

अध्यायः १९

अध्यायः २०

अध्यायः २१

अध्यायः २२

अध्यायः २३

अध्यायः २४

अध्यायः २५

अध्यायः २६

अध्यायः २७

अध्यायः २८

अध्यायः २९

अध्यायः ३०

अध्यायः ३१

अध्यायः ३२

अध्यायः ३३

अध्यायः ३४

अध्यायः ३५

अध्यायः ३६

अध्यायः ३७

अध्यायः ३८

अध्यायः ३९

अध्यायः ४०

अध्यायः ४१

अध्यायः ४२

अध्यायः ४३

अध्यायः ४४

अध्यायः ४५

अध्यायः ४६

अध्यायः ४७

अध्यायः ४८

अध्यायः ४९

अध्यायः ५०

अध्यायः ५१

अध्यायः ५२

अध्यायः ५३

अध्यायः ५४

अध्यायः ५५

अध्यायः ५६

अध्यायः ५७

अध्यायः ५८

अध्यायः ५९

अध्यायः ६०

अध्यायः ६१

अध्यायः ६२

मार्कंडेय उवाच-
शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु
नैमिषं पुष्करं चैव गोतीर्थं सिंधुसागरम् १
कुरुक्षेत्रं गया चैव गंगासागरमेव च
एते चान्ये च बहवो ये च पुण्याः शिलोच्चयाः २
दशतीर्थसहस्राणि त्रिंशत्कोट्यस्तथापरे
प्रयागे संस्थिता नित्यमेवमाहुर्मनीषिणः ३
त्रीणि चाप्यग्निकुंडानि येषां मध्ये तु जाह्नवी
प्रयागादभिनिष्क्रांता सर्वतीर्थपुरस्कृता ४
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता
गंगायमुनया सार्धं संस्थिता लोकभाविनी ५
गंगायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम्
प्रयागं राजशार्दूल कलां नार्हंति षोडशीम् ६
तिस्रः कोट्योऽर्द्धकोटी च तीर्थानां वायुरब्रवीत्
दिव्यं भुव्यंतरिक्षे च तत्सर्वं जाह्नवि स्मृता ७
प्रयागं समधिष्ठानं कंबलाश्वतरावुभौ
भोगवत्यथ या चैव वेदिरेषा प्रजापतेः ८
तत्र देवाश्च यज्ञाश्च मूर्तिमंतो युधिष्ठिर
पूजयंति प्रयागं ते ऋषयश्च तपोधनाः ९
यजंते क्रतुभिर्देवांस्तथा बहुधना नृपाः
ततः पुण्यतमो नास्ति त्रिषु लोकेषु भारत १०
प्रभावात्सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो
दशतीर्थसहस्राणि तिस्रः कोट्यस्तथापरे ११
यत्र गंगा महाभागा स देशस्तत्तपोवनम्
सिद्धक्षेत्रं तु तज्ज्ञेयं गंगातीरसमाश्रितम् १२
इति सत्यं द्विजातीनां साधूनामात्मजस्य वा
सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य वा १३
इदं धन्यमिदं स्वर्ग्यमिदं सेव्यमिदं शुभम्
इदं पुण्यमिदं रम्यं पावनं धर्ममुत्तमम् १४
महर्षीणामिदं गुह्यं सर्वपापप्रणाशनम्
अधीत्य च द्विजो ध्यायन्निर्मलत्वमवाप्नुयात् १५
यश्चेदं शृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः
जातिस्मरत्वं लभते नाकपृष्ठे च मोदते १६
प्राप्यंते तानि तीर्थानि सद्भिः शिष्टार्थदर्शिभिः
स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव १७
त्वया तु सम्यक्पृष्टेन कथितं तु मया विभो
पितरस्तारिताः सर्वे तारिताश्च पितामहाः १८
प्रयागस्य तु सर्वे ते कलां नार्हंति षोडशीम्
एवं ज्ञानं च योगं च तीर्थं चैव युधिष्ठिर १९
बहुक्लेशेन युज्यंते ततो यांति परां गतिम्
प्रयागस्मरणाल्लोकः स्वर्गलोकं च गच्छति २०
इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्ये
सप्तचत्वारिंशोऽध्यायः ४७