पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः १२
वसिष्ठ उवाच-
प्रदक्षिणमुपावृत्तो जंबूमार्गे समाविशेत्
जंबूमार्गं समाविश्य पितृदेवर्षिपूजितम् १
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति
तत्रोष्य रजनीः पंच षष्ठकालेश्नुवन्नरः २
न दुर्गतिमवाप्नोति सिद्धिं चाप्नोत्यनुत्तमाम्
जंबुमार्गादुपावृत्तो गच्छेत्तु दुलिकाश्रमम् ३
न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते
अगस्त्याश्रममासाद्य पितृदेवार्चने रतः ४
त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत्
शाकवृत्तिः फलैर्वापि कौमारं विंदते परम् ५
कन्याश्रमं समासाद्य श्रीपुष्टं लोकपूजितम्
धर्मारण्यं हि तत्पुण्यमाद्यं च पार्थिवर्षभ ६
यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते
अर्चयित्वा पितॄन्देवान्प्रयतो नियताशनः ७
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते
प्रादक्षिण्यं ततः कृत्वा ययातिपतनं व्रजेत् ८
हयमेधस्य यज्ञस्य फलमाप्नोति तत्र वै
महाकालमतो गच्छेन्नियतो नियताशनः ९
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत्
ततो गच्छेत धर्मज्ञ स्थानं तीर्थमुमापतेः १०
नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम्
तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् ११
महादेवप्रसादाच्च गाणपत्यमवाप्नुयात्
समृद्धमसपत्नं तु श्रियायुक्तं नरोत्तम १२
नर्मदां तु समासाद्य नदीं त्रैलोक्यविश्रुताम्
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् १३
इति श्रीपाद्मे महापुराणे स्वर्गखंडे द्वादशोऽध्यायः १२