पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ३५

विकिस्रोतः तः
Jump to navigation Jump to search

नारद उवाच-
अथान्यत्तत्र वै लिंगं कपर्दीश्वरमुत्तमम्
स्नात्वा तत्र विधानेन तर्पयित्वा पितॄन्नृप १
मुच्यते सर्वपापेभ्यो मुक्तिं भुक्तिं च विंदति
पिशाचमोचनं नाम तीर्थमन्यत्ततः स्थितम् २
तत्राश्चर्यमयो देवो मुक्तिदः सर्वदोषहः
कश्चिद्दैत्यो जगामेदं शार्दूलो घोररूपधृक् ३
मृगीमेकां भक्षयितुं कपर्दीश्वरमुत्तमम्
तत्र सा भीतहृदया कृत्वा कृत्वा प्रदक्षिणम् ४
धावमाना सुसंभ्रांता व्याघ्रस्य वशमागता
तां विदार्य नखैस्तीक्ष्णैः शार्दूलः स महाबलः ५
जगाम चान्यं विजनं देशं दृष्ट्वा मुनीश्वरान्
मृतमात्रा च सा बाला कपर्दीशाग्रतो मृगी ६
अदृश्यत महाज्वाला व्योम्नि सूर्यसमप्रभा
त्रिनेत्रा नीलकंठा च शशांकांकित मूर्द्धजा ७
वृषाधिरूढा पुरुषैस्तादृशैरेव संवृता
पुष्पवृष्टिं विमुंचंति खेचरास्तत्समंततः ८
गणेश्वरी स्वयं भूत्वा न दृष्टा तत्क्षणात्ततः
दृष्ट्वा तदाश्चर्यवरं प्रशशंसुः सुरादयः ९
तन्महेशस्य वै लिंगं कपर्दीश्वरमुत्तमम्
स्मृत्वैवाशेषपापौघात्क्षिप्रमस्य विमुंचति १०
कामक्रोधादयो दोषा वाराणसी निवासिनाम्
विघ्नाः सर्वे विनश्यंति कपर्दीश्वरपूजनात् ११
तस्मात्सदैव द्रष्टव्यं कपर्दीश्वरमुत्तमम्
पूजितव्यं प्रयत्नेन स्तोतव्यं वैदिकैस्तवैः १२
ध्यायतां चात्र नियतं योगिनां शांतचेतसाम्
जायते योगसिद्धिः स्यात्षण्मासेन न संशयः १३
ब्रह्महत्यादयः पापा विनश्यंत्यस्य पूजनात्
पिशाचमोचने कुंडे स्नातः स्यात्प्रशमो यतः १४
तस्मिन्क्षेत्रे पुरा विप्रस्तपस्वी संशितव्रतः
शंकुकर्ण इति ख्यातः पूजयामास शंकरम् १५
जजाप रुद्रमनिशं प्रणवं ब्रह्मरूपिणम्
पुष्पधूपादिभिस्तोत्रैः नमस्कारैः प्रदक्षिणैः १६
उपासीतात्र योगात्मा कृत्वा दीक्षां तु नैष्ठिकीम्
कदाचिदागतं प्रेतं पश्यति स्म क्षुधान्वितम् १७
अस्थिचर्म पिनद्धांगं निश्वसंतं मुहुर्मुहुः
तं दृष्ट्वा स मुनिश्रेष्ठः कृपया परया युतः १८
प्रोवाच को भवान्कस्माद्देशाद्देशमिमं श्रितः
तस्मै पिशाचः क्षुधया पीड्यमानोऽब्रवीद्वचः १९
पूर्वजन्मन्यहं विप्रो धनधान्यसमन्वितः
पुत्रपौत्रादिभिर्युक्तः कुटुंबभरणोत्सुकः २०
न पूजिता महादेवा गावोऽप्यतिथयस्तथा
न कदाचित्कृतं पुण्यमल्पं वानल्पमेव च २१
एकदा भगवान्देवो वृषभेश्वरवाहनः
विश्वेश्वरो वाराणस्यां दृष्टः स्पृष्टो नमस्कृतः २२
तदाचिरेण कालेन पंचत्वमहमागतः
न दृष्टं तन्महाघोरं यमस्य सदनं मुने २३
पिपासयाधुनाक्रांतो न जानामि हिताहितम्
यदि कंचित्समुद्धर्तुमुपायं पश्यसि प्रभो २४
कुरुष्व तं नमस्तुभ्यं त्वामहं शरणं गतः
इत्युक्तः शंकुकर्णोऽथ पिशाचमिदमब्रवीत् २५
तादृशो नहि लोकेस्मिन्विद्यते पुण्यकृत्तमः
यत्त्वया भगवान्पूर्वं दृष्टो विश्वेश्वरः शिवः २६
संस्पृष्टो वंदितो भूयः कोऽन्यस्त्वत्सदृशो भुवि
तेन कर्मविपाकेन देशमेतं समागतः २७
स्नानं कुरुष्व शीघ्रं त्वमस्मिन्कुंडे समाहितः
येनेमां कुत्सितां योनिं क्षिप्रमेव प्रहास्यसि २८
स एवमुक्तो मुनिना पिशाचो दयालुना देववरं त्रिनेत्रम्
स्मृत्वा कपर्दीश्वरमीशितारं चक्रे समाधाय मनोवगाहम् २९
तदावगाढो मुनिसन्निधाने ममार दिव्याभरणोपपन्नः
अदृश्यतार्कप्रतिमो विमाने शशांकचिह्नीकृतचारुमौलि ३०
विभाति रुद्रैः सहितो दिविष्ठैः समाभृतो योगिरिभरप्रमेयैः
स वालखिल्यादिभिरेष देवो यथोदये भानुरशेषदेवः ३१
स्तुवंति सिद्धादि विदेवसंघा नृत्यंति दिव्याप्सरसोऽभिरामाः
मुंचंति वृष्टिं कुसुमांबुमिश्रां गंधर्वविद्याधरकिन्नराद्याः ३२
संस्तूयमानोऽथ मुनींद्रसंघैरवाप्य बोधं भगवत्प्रसादात्
समाविशन्मंडलमेतदग्र्यं त्रयीमयं यत्र विभाति रुद्रः ३३
दृष्ट्वा विमुक्तं स पिशाचभूतं मुनिः प्रहृष्टो मनसा महेशम्
विचिंत्य रुद्रं कविमेकमग्निं प्रणम्य तुष्टाव कपर्दिनं तम् ३४
शंकुकर्ण उवाच-
कपर्दिनं त्वां परतः परस्ताद्गोप्तारमेकं पुरुषं पुराणम्
व्रजामि योगेश्वरमीप्सितारमादित्यमग्निं कपिलाधिरूढम् ३५
त्वां ब्रह्मसारं हृदि संनिविष्टं हिरण्मयं योगिनमादिमं तम्
व्रजामि रुद्रं शरणं दिविष्ठं महामुनिं ब्रह्ममयं पवित्रम् ३६
सहस्रपादाक्षिशिरोभियुक्तं सहस्ररूपं तमसः परस्तात्
तं ब्रह्मपारं प्रणमामि शंभुं हिरण्यगर्भाधिपतिं त्रिनेत्रम् ३७
यत्र प्रसूतिर्जगतो विनाशो येनावृतं सर्वमिदं शिवेन
तं ब्रह्मपारं भगवंतमीशं प्रणम्य नित्यं शरणं प्रपद्ये ३८
अलिंगमालोकविहीनरूपं स्वयंप्रभुं चित्पतिमेकरूपम्
तं ब्रह्मपारं परमेश्वरं त्वां नमस्करिष्ये न यतोऽन्यदस्ति ३९
यं योगिनस्त्यक्तसबीजयोगा लब्ध्वा समाधिं परमात्मभूताः
पश्यंति देवं प्रणतोऽस्मि नित्यं तं ब्रह्मपारं परमस्वरूपम् ४०
न यत्र नामादिविशेष कॢप्तिर्न संदृशे तिष्ठति यत्स्वरूपम्
तं ब्रह्मपारं प्रणतोऽस्मि नित्यं स्वयंभुवं त्वां शरणं प्रपद्ये ४१
यद्वेदवादाभिरता विदेहं सब्रह्मविज्ञानमभेदमेकम्
पश्यंत्यनेकं भवतः स्वरूपं तं ब्रह्मपारं प्रणतोऽस्मि नित्यम् ४२
यतः प्रधानं पुरुषः पुराणो बिभर्ति तेजः प्रणमंति देवाः
नमामि तं ज्योतिषि सन्निविष्टं कालं बृहंतं भवतः स्वरूपम् ४३
व्रजामि नित्यं शरणं गुहेशं स्थाणुं प्रपद्ये गिरिशं पुराणम्
शिवं प्रपद्ये हरिमिंदुमौलिं पिनाकिनं त्वां शरणं व्रजामि ४४
स्तुत्वैवं शंकुकर्णोऽपि भगवंतं कपर्दिनम्
पपात दंडवद्भूमौ प्रोच्चरन्प्रणवं परम् ४५
तत्क्षणात्परमं लिंगं प्रादुर्भूतं शिवात्मकम्
ज्ञानमानंदमत्यंतं कोटिज्वालाग्निसन्निभम् ४६
शंकुकर्णोऽथ मुक्तात्मा तदात्मा सर्वगोऽमलः
निलिल्ये विमले लिंगे तदद्भुतमिवाभवत् ४७
एतद्रहस्यमाख्यातं माहात्म्यं ते कपर्द्दिनः
न कश्चिद्वेत्ति तमसा विद्वानप्यत्र मुह्यति ४८
य इमां शृणुयान्नित्यं कथां पापप्रणाशिनीम्
त्यक्तपापविशुद्धात्मा रुद्रसामीप्यमाप्नुयात् ४९
पठेच्च सततं शुद्धो ब्रह्मपारं महास्तवम्
प्रातर्मध्याह्नसमये स योगं प्राप्नुयात्परम् ५०
इति श्रीपाद्मे महापुराणे स्वर्गखंडे वाराणसीमाहात्म्ये पंचत्रिंशोऽध्यायः ३५