पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः १३
युधिष्ठिर उवाच-
वसिष्ठेन दिलीपाय कथितं तीर्थमुत्तमम्
नर्मदेति च विख्यातं पापपर्वतदारणम् १
भूयश्च श्रोतुमिच्छामि तन्मे कथय नारद
नर्मदायाश्च माहात्म्यं वसिष्ठोक्तं द्विजोत्तम २
कथमेषा महापुण्या नदी सर्वत्र विश्रुता
नर्मदानाम विख्याता तन्मम ब्रूहिनारद ३
नारद उवाच-
नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी
तारयेत्सर्वभूतानि स्थावराणि चराणि च ४
नर्मदायास्तु माहात्म्यं वसिष्ठोक्तं मया श्रुतम्
तदेतद्धि महाराज सर्वं हि कथयामि ते ५
पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती
ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्म्मदा ६
त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम्
सद्यः पुनाति गांगेयं दर्शनादेव नार्मदम् ७
कलिंग देशे पश्चार्द्धे पर्वतेऽमरकंटके
पुण्या च त्रिषु लोकेषु रमणीया मनोरमा ८
सदेवासुरगंधर्वा ऋषयश्च तपोधनाः
तपस्तप्त्वा महाराज सिद्धिं च परमां गताः ९
तत्र स्नात्वा महाराज नियमस्थो जितेंद्रियः
उपोष्य रजनीमेकां कुलानां तारयेच्छतम् १०
जनेश्वरे नरः स्नात्वा पिंडं दत्वा यथाविधि
पितरस्तस्य तृप्यंति यावदाभूतसंप्लवम् ११
पर्वतस्य समंतात्तु रुद्रकोटिः प्रतिष्ठिता
स्नानं यः कुरुते तत्र गंधमाल्यानुलेपनम् १२
प्रीता तस्य भवेत्सर्वा रुद्रकोटिर्न संशयः
पर्वते पश्चिमस्यांते स्वयं देवो महेश्वरः १३
तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेंद्रियः
पितृकार्यं तु कुर्वीत विधिदृष्टेन कर्मणा १४
तिलोदकेन तत्रैव तर्पयेत्पितृदेवताः
आसप्तमं कुलं तस्य स्वर्गे तिष्ठति पांडव १५
षष्टिवर्षसहस्राणि स्वर्गलोके महीयते
अप्सरोगणसंकीर्णो दिव्यस्त्रीपरिवारितः १६
दिव्यगंधानुलिप्तश्च दिव्यालंकारभूषितः
ततः स्वर्गात्परिभ्रष्टो जायते विपुले कुले १७
धनवान्दानशीलश्च धार्मिकश्चैव जायते
पुनः स्मरति तत्तीर्थं गमनं तत्र कुर्वते १८
तारयित्वा कुलशतं रुद्रलोकं स गच्छति
योजनानां शतं साग्रं श्रूयते सरिदुत्तमा १९
विस्तारेण तु राजेन्द्र योजनद्वयमंतरम्
षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च २०
पर्वतस्य समंतात्तु तिष्ठंत्यमरकंटके
ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेंद्रियः २१
सर्वहिंसानिवृत्तश्च सर्वभूतहिते रतः
एवं सर्वसमाचारः क्षेत्रपालान्परिव्रजेत् २२
तस्य पुण्यफलं राजन्शृणुष्वावहितो हि मे
शतं वर्षसहस्राणां स्वर्गे मोदेत पांडव २३
अप्सरोगणसंकीर्णे दिव्यस्त्रीपरिचारिते
दिव्यगंधानुलिप्तश्च दिव्यालंकारभूषितः २४
क्रीडते देवलोके तु दैवतैः सह मोदते
ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् २५