पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः २०

विकिस्रोतः तः
Jump to navigation Jump to search

नारद उवाच-
ततस्तु नरकं गच्छेत्स्नानं तत्र समाचरेत्
स्नातमात्रो नरस्तत्र नरकं तत्र पश्यति १
अस्यतीर्थस्य माहात्म्यं शृणु त्वं पांडुनंदन
तस्मिंस्तीर्थे तु राजेंद्र यान्यस्थीनि विनिक्षिपेत् २
विलयं यांति सर्वाणि रूपवान्जायते नरः
गोतीर्थं तु ततो गच्छेद्दृष्ट्वा पापात्प्रमुच्यते ३
ततो गच्छेत राजेंद्र कपिलातीर्थमुत्तमम्
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ४
ज्येष्ठमासे तु संप्राप्ते चतुर्दश्यां विशेषतः
तत्रोपोष्य नरो भक्त्या कपिलां यः प्रयच्छति ५
घृतेन दीपं प्रज्वाल्य घृतेन स्नापयेच्छिवम्
सघृतं श्रीफलं दत्वा कृत्वा चांते प्रदक्षिणम् ६
घंटाभरणसंयुक्तां कपिलां यः प्रयच्छति
शिवतुल्यो नरो भूत्वा न चेह जायते पुनः ७
अंगारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः
स्नापयित्वा शिवं भक्त्या ब्राह्मणेभ्यस्तु भोजनम् ८
अंगारकनवम्यां तु अमावस्यां तथैव च
स्नापयेत्तत्र यत्नेन रूपवान्सुभगो भवेत् ९
घृतेन स्नापयेल्लिंगं पूजयेद्भक्तितो द्विजान्
पुष्पकेण विमानेन सहस्रैः परिवारितः १०
शैवं पदमवाप्नोति नात्र चाभिगतं भवेत्
अक्षयं मोदते कालं यथा रुद्रस्तथैव च ११
यदा तु कर्मसंयोगान्मर्त्यलोकमुपागतः
राजा भवति धर्मिष्ठो रूपवान्जायते बली १२
ततो गच्छेत राजेंद्र ऋषितीर्थमनुत्तमम्
तृणबिंदुऋषिर्नाम शापदग्धो व्यवस्थितः १३
तस्यतीर्थप्रभावेण पापमुक्तोऽभवद्द्विजः
ततो गच्छेत राजेंद्र गणेश्वरमनुत्तमम् १४
श्रावणेमासि संप्राप्ते कृष्णपक्षे चतुर्दशीम्
स्नातमात्रो नरस्तत्र रुद्रलोके महीयते १५
पितॄणां तर्पणं कृत्वा मुच्यते च ऋणत्रयात्
गणेश्वरसमीपे तु गंगावदनमुत्तमम् १६
अकामो वा सकामो वा तत्र स्नात्वा तु मानवः
आजन्मजनितैः पापैर्मुच्यते नात्र संशयः १७
सर्वदा पर्वदिवसे स्नानं तत्र समाचरेत्
पितॄणां तर्पणं कृत्वा मुच्यते च ऋणत्रयात् १८
प्रयागे यत्फलं दृष्टं शंकरेण महात्मना
तदेव निखिलं पुण्यं गंगाराह्वर्कसंगमे १९
तस्यैवं पश्चिमे स्थाने समीपेनातिदूरतः
दशाश्वमेधिकं नाम त्रिषु लोकेषु विश्रुतम् २०
उपोष्य रजनीमेकां मासि भाद्रपदे तथा
अमावस्यां नरः स्नात्वा व्रजेद्वै यत्र शंकरः २१
सर्वदा पर्वदिवसे स्नानं तत्र समाचरेत्
पितॄणां तर्पणं कृत्वा अश्वमेधफलं लभेत् २२
दशाश्वमेधात्पश्चिमतो भृगुर्ब्राह्मणसत्तमः
दिव्यं वर्षसहस्रं तु ईश्वरं पर्युपासत २३
वल्मीकावस्थितश्चासौ दक्षिणं च निकेतनम्
आश्चर्यं च महज्जातमुमायाः शंकरस्य च २४
गौरी तु पृच्छते देवं कोयमत्र तु संस्थितः
देवो वा दानवो वाथ कथयस्व महेश्वर २५
ईश्वर उवाच-
भृगुर्नाम द्विजश्रेष्ठ ऋषीणां प्रवरो मुनिः
ध्यायते मां समाधिस्थो वरं प्रार्थयते प्रिये २६
तत्र प्रहसिता देवी ईश्वरं प्रत्यभाषत
धूमावर्तशिखा जाता ततोऽद्यापि न तुष्यसि
दुराराध्योऽसि तेन त्वं नात्र कार्या विचारणा २७
देव उवाच-
न ज्ञायसे महादेवि अयं क्रोधेन चेष्टितः
दर्शयामि यथातथ्यं प्रियं ते च करोम्यहम् २८
स्मारितो देवदेवेन धर्मरूपो वृषस्तदा
स्मरणादेव देवस्य वृषः शीघ्रमुपस्थितः २९
प्राहासौ मानुषीं वाचमादेशो दीयतां प्रभो
वल्मीकैश्छादितो विप्र एनं भूमौ निपातय ३०
योगस्थस्तु ततो ध्यायंस्ततस्तेन निपातितः
तत्क्षणात्क्रोधसंतप्तो हस्तमुत्क्षिप्तवान्वृषम् ३१
एवं संभाषमाणस्तु कुत्र गच्छसि भो वृष
अद्य त्वामथ पाप्मानं प्रत्यक्षं हन्म्यहं वृष ३२
धर्षितस्तु तदा विप्रो ह्यंतरिक्षं गतं वृषम्
आकाशे प्रेक्षते भूय एतदद्भुतमुत्तमम् ३३
ततः प्रहसिते रुद्रे ऋषिरग्रे व्यवस्थितः
तृतीयं लोचनं दृष्ट्वा वैलक्ष्यात्पतितो भुवि ३४
प्रणम्य दंडवद्भूमौ स्तुवते परमेश्वरम्
प्रणिपत्य भूतनाथं भवोद्भवं त्वामहं दिव्यरूपम्
भवभीतो भुवनपते भूतं विज्ञापये किंचित् ३५
त्वद्गुणनिकरान्वक्तुं कः शक्तो भवति मानुषो नाथ
वासुकिरयं हि कदाचिद्वदनसहस्रं भवेद्यस्य ३६
भक्त्या तवापि शंकरभुवनपते त्वत्स्तुतौ तु मुखरस्य
वंद्य क्षमस्व भवन्प्रसीद मे तव चरणपतितस्य ३७
सत्वं रजस्तमस्त्वं स्थित्युत्पत्तौ विनाशने देव
त्वां मुक्त्वा भुवनपते भुवनेश्वर नैव दैवतं किंचित् ३८
यमनियमयज्ञदानैर्वेदाभ्यासावधारणोद्योगात्
त्वद्भक्तेः सर्वमिदं नार्हति कलासहस्रांशेन ३९
उत्कृष्टरसरसायनखड्गांजनपादुकादि सिद्धिर्वा
चिह्नानि भवत्प्रणतानां दृश्यंत इह जन्मनि प्रकटम् ४०
शाठ्येन नमति यद्यपि ददासि त्वं धर्ममिच्छतां देव
भक्तिर्भवच्छेदकरी मोक्षाय विनिर्मिता नाथ ४१
परदारपरस्वरतं परिभवपरिदुःखशोकसंतप्तम्
परवदनवीक्षणपरं परमेश्वर मां परित्राहि ४२
अलीकाभिमानदग्धं क्षणभंगुरविभवविलसितं देव
क्रूरं कुपथाभिमुखं पतितं मां त्राहि देवेश ४३
दीनेंद्रियगणसार्थैर्बंधुजनैरेव पूरिता आशा
तुच्छा तथापि शंकर किं मूढं मां विडंबयसि ४४
तृष्णां हरस्व शीघ्रं लक्ष्मीं मां देहि हृदयवासिनीं नित्याम्
छिंधि मदमोहपाशानुत्तारय मां महादेव ४५
करुणाभ्युदयं नाम स्तोत्रमिदं सिद्धिदं दिव्यम्
यः पठति भक्तियुक्तस्तस्य तु तुष्येद्भृगोर्यथाहि शिवः ४६
ईश्वर उवाच-
अहं तुष्टोस्मि ते विप्र वरं प्रार्थय स्वेप्सितम्
उमया सहितो देवो वरं तस्य हि दापयेत् ४७
भृगुरुवाच-
यदि तुष्टोसि देवेश यदि देयो वरो मम
रुद्रवेदी भवेदेवमेतत्संपादयस्व मे ४८
ईश्वर उवाच-
एवं भवतु विप्रेंद्र क्रोधस्थानं भविष्यति
न पिता पुत्रयोश्चैव एकवाक्यं भविष्यति ४९
तदाप्रभृति ब्रह्माद्याः सर्वे देवाः सकिन्नराः
उपासंतो भृगोस्तीर्थं तुष्टो यत्र महेश्वरः ५०
दर्शनात्तस्य तीर्थस्य सद्यः पापात्प्रमुच्यते
अवशाः स्ववशाश्चापि म्रियंते तत्र जंतवः ५१
गुह्यातिगुह्यस्य गतिस्तेषां निःसंशया भवेत्
एतत्क्षेत्रं सुविपुलं सर्वपापप्रणाशनम् ५२
तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः
औपानहं तदा छत्रं देयमन्नं च कांचनम् ५३
भोजनं च यथाशक्त्या अक्षयं तस्य तद्भवेत्
सूर्योपरागे यो दद्याद्दानं चैव यथेच्छया ५४
तीर्थस्नानं तु यद्दानमक्षयं तस्य तद्भवेत्
चंद्रसूर्योपरागेषु वृषोत्सर्गमनुत्तमम् ५५
न जानंति नरा मूढा विष्णुमायाविमोहिताः
नर्मदायां स्थितं दिव्यं वृषतीर्थं नराधिप ५६
भृगुतीर्थस्य माहात्म्यं यः शृणोति नरः सकृत्
विमुक्तः सर्वपापेभ्यो रुद्रलोकं स गच्छति ५७
ततो गच्छेत राजेंद्र गौतमेश्वरमुत्तमम्
तत्र स्नात्वा नरो राजन्नुपवासपरायणः ५८
कांचनेन विमानेन ब्रह्मलोके महीयते
धौतपापं ततो गच्छेद्धौतं यत्र वृषेण तु ५९
नर्मदायां स्थितं राजन्सर्वपातकनाशनम्
तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति ६०
तस्मिन्तीर्थे महाराज प्राणत्यागं करोति यः
चतुर्भुजस्त्रिनेत्रस्तु रुद्रतुल्यबलो भवेत् ६१
वसेत्कल्पायुतं साग्रं रुद्रतुल्यपराक्रमः
कालेन महता प्राप्तः पृथिव्यामेकराड्भवेत् ६२
ततो गच्छेत राजेंद्र एरंडीतीर्थमुत्तमम्
प्रयागे यत्फलं दृष्टं मार्कंडेयेन भाषितम् ६३
तत्फलं लभते राजन्स्नातमात्रस्तु मानवः
मासि भाद्रपदे चैव शुक्लपक्षस्य चाष्टमीम् ६४
उपोष्य रजनीमेकां तत्र स्नानं समाचरेत्
यमदूतैर्न बाध्येत इंद्रलोकं स गच्छति ६५
ततो गच्छेत राजेंद्र सिद्धो यत्र जनार्दनः
हिरण्यद्वीपविख्यातं सर्वपापप्रणाशनम् ६६
तत्र स्नात्वा नरो राजन्धनवान्रूपवान्भवेत्
ततो गच्छेत राजेंद्र तीर्थं कनखलं महत् ६७
गरुडेन तपस्तप्तं तस्मिंस्तीर्थे नराधिप
विख्यातं सर्वलोकेषु योगिनी तत्र तिष्ठति ६८
क्रीडते योगिभिः सार्धं शिवेन सह नृत्यति
तत्र स्नात्वा नरो राजन्रुद्रलोके महीयते ६९
ततो गच्छेत राजेंद्र ईशतीर्थमनुत्तमम्
ईशस्तत्र विनिर्मुक्तो गत ऊर्ध्वं न संशयः ७०
ततो गच्छेत राजेंद्र सिद्धो यत्र जनार्दनः
वाराहं रूपमास्थाय अचिंत्यः परमेश्वरः ७१
वराहतीर्थे नरः स्नात्वा द्वादश्यां तु विशेषतः
विष्णुलोकमवाप्नोति नरकं तु न गच्छति ७२
ततो गच्छेत राजेंद्र सोमतीर्थमनुत्तमम्
पौर्णिमास्यां विशेषेण तत्र स्नानं समाचरेत् ७३
प्रणिपत्य च ईशानं बलिस्तस्य प्रसीदति
हरिश्चन्द्रपुरं दिव्यमंतरिक्षे तु दृश्यते ७४
चक्रध्वजे समावृत्ते सुप्ते नागारिकेतने
नर्मदातोयवेगेन रुरुकच्छोपसेवितम् ७५
तस्मिन्स्थाने निवासं च विष्णुः शंकरमब्रवीत्
द्वीपेश्वरे नरः स्नात्वा लभेद्बहुसुवर्णकम् ७६
ततो गच्छेत राजेंद्र रुद्रकन्यां तु संगमे
स्नातमात्रो नरस्तत्र देव्याः स्थानमवाप्नुयात् ७७
देवतीर्थं ततो गच्छेत्सर्वदेवनमस्कृतम्
तत्र स्नात्वा तु राजेंद्र दैवतैः सह मोदते ७८
ततो गच्छेत राजेंद्र शिखितीर्थमनुत्तमम्
तत्र वै दीयते दानं सर्वं कोटिगुणं भवेत् ७९
अपरपक्षे अमावास्यां स्नानं तत्र समाचरेत्
ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता ८०
भृगुतीर्थे तु राजेंद्र तीर्थकोटिर्व्यवस्थिता
अकामो वा सकामो वा तत्र स्नायीत मानवः ८१
अश्वमेधमवाप्नोति दैवतैः सह मोदते
तत्र सिद्धमवाप्नोति भृगुस्तु मुनिपुंगवः
अवतारः कृतस्तेन शंकरेण महात्मना ८२
इति श्रीपाद्मे महापुराणे स्वर्गखंडे विंशतितमोऽध्यायः २०