पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ३३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

युधिष्ठिर उवाच-
वाराणस्याश्च माहात्म्यं संक्षेपात्कथितं त्वया ।
विस्तरेण मुने ब्रूहि तदा प्रीणाति मे मनः १।
नारद उवाच-।
अत्रेतिहासं वक्ष्यामि वाराणस्या गुणाश्रयम् ।
यस्य श्रवणमात्रेण मुच्यते ब्रह्महत्यया २।
मेरुशृंगे पुरा देवमीशानं त्रिपुरद्विषम् ।
देवासनगता देवी महादेवमपृच्छत ३।
देव्युवाच-।
देवदेव महादेव भक्तानामार्तिनाशन ।
कथं त्वां पुरुषो देवमचिरादेव पश्यति ४।
सांख्ययोगस्तथा ध्यानं कर्मयोगोऽथ वैदिकः ।
आयासबहुला लोके यानि चान्यानि शंकर ५।
येन विश्रांतचित्तानां योगिनां कर्मिणामपि ।
दृश्यो हि भगवान्सूक्ष्मः सर्वेषामथ देहिनाम् ६।
एतद्गुह्यतमं ज्ञानं गूढं शक्रादिसेवितम् ।
हिताय सर्वभूतानां ब्रूहि कामाग्निनाशनम् ७।
ईश्वर उवाच-।
अवाच्यमत्र विज्ञानं ज्ञानमज्ञैर्बहिष्कृतम् ।
वक्ष्ये तव यथातत्त्वं यदुक्तं परमर्षिभिः ८।
परं गुह्यतमं क्षेत्रं मम वाराणसी पुरी ।
सर्वेषामेव भूतानां संसारार्णवतारिणी ९।
तत्र भक्त्या महादेवि मदीयं व्रतमास्थिताः ।
निवसंति महात्मानः परं नियममास्थिताः १०।
उत्तमं सर्वतीर्थानां स्थानानामुत्तमं च यत् ।
ज्ञानानामुत्तमं ज्ञानमविमुक्तं परं मम ११।
स्थानांतर पवित्राणि तीर्थान्यायतनानि च ।
श्मशानसंस्थितान्येव दिव्यभूमिगतानि च १२।
भूर्लोके नैव संलग्नमंतरिक्षे ममालयम् ।
अमुक्तास्तत्र पश्यंति मुक्ताः पश्यंति चेतसा १३।
श्मशानमेतद्विख्यातमविमुक्तमिति श्रुतम् ।
कालो भूत्वा जगदिदं संहराम्यत्र सुंदरि १४।
देवीदं सर्वगुह्यानां स्थानं प्रियतरं मम ।
मद्भक्तास्तत्र गच्छंति मामेव प्रविशंति च १५।
दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् ।
ध्यानमध्ययनं ज्ञानं सर्वं तत्राक्षयं भवेत् १६।
जन्मांतरसहस्रेषु यत्पापं पूर्वसंचितम् ।
अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् १७।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च वर्णसंकराः ।
स्त्रियो म्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः १८।
कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः ।
कालेन निधनं प्राप्ता अविमुक्ते वरानने १९।
चंद्रार्द्धमौलयस्त्र्यक्षा महावृषभवाहनाः ।
शिवे मम पुरे देवि जायंते तत्र मानवाः २०।
नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी ।
ईश्वरानुगृहीता हि सर्वे यांति परां गतिम् २१।
मोक्षं सुदुर्ल्लभं मत्वा संसारं चातिभीषणम् ।
अश्मना चरणौ भंक्त्वा वाराणस्यां वसेन्नरः २२।
दुर्ल्लभा तपसा चापि मृतस्य परमेश्वरि ।
यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी २३।
प्रसादाज्जायते सम्यक्मम शैलेंद्रनंदिनि ।
अप्रवृद्धा न पश्यंति मम मायाविमोहिताः २४।
विण्मूत्ररेतसां मध्ये ते वसंति पुनः पुनः ।
हन्यमानोऽपि यो विद्वान्वसेद्विघ्नशतैरपि २५।
स याति परमं स्थानं यत्र गत्वा न शोचति ।
जन्ममृत्युजरामुक्तं परं यांति शिवालयम् २६।
अपुनर्मरणानां हि सा गतिर्मोक्षकांक्षिणाम् ।
यां प्राप्य कृतकृत्यः स्यादिति मन्यंति पंडिताः २७।
न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया ।
प्राप्यते गतिरुत्कृष्टा याविमुक्ते तु लभ्यते २८।
नानावर्णा विवर्णाश्च चांडालाद्या जुगुप्सिताः ।
किल्बिषैः पूर्णदेहाश्च विशिष्टैः पातकैस्तथा २९।
भेषजं परमं तेषामविमुक्तं विदुर्बुधाः ।
अविमुक्तं परं ज्ञानमविमुक्तं परं पदम् ३०।
अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम् ।
कृत्वा वै नैष्ठिकीं दीक्षामविमुक्ते वसंति ये ३१।
तेषां तत्परमं ज्ञानं ददाम्यंते परं पदम् ।
प्रयागं नैमिषारण्यं श्रीशैलोऽथ महाबलम् ३२।
केदारं भद्रकर्णं तु गया पुष्करमेव च ।
कुरुक्षेत्रं भद्रकोटिर्नर्मदाम्रातकेश्वरी ३३।
शालग्रामं च कुब्जाम्रं कोकामुखमनुत्तमम् ।
प्रभासं विजयेशानं गोकर्णं भद्रकर्णकम् ३४।
एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि ह ।
न यास्यंति परं तत्त्वं वाराणस्यां यथा मृताः ३५।
वाराणस्यां विशेषेण गंगा त्रिपथगामिनी ।
प्रविष्टा नाशयेत्पापं जन्मांतरशतैः कृतम् ३६।
अन्यत्र सुलभा गंगा श्राद्धं दानं तपो जपः ।
व्रतानि सर्वमेवैतद्वाराणस्यां सुदुर्ल्लभम् ३७।
जपेच्च जुहुयान्नित्यं ददात्यर्चयतेऽमरान् ।
वायुभक्षश्च सततं वाराणस्यां स्थितो नरः ३८।
यदि पापो यदि शठो यदि वा धार्मिको नरः ।
वाराणसीं समासाद्य पुनाति सकलं कुलम् ३९।
वाराणस्यां येऽर्चयंति महादेवं स्तुवंति वै ।
सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः ४०।
अन्यत्र योगज्ञानाभ्यां संन्यासादथवान्यतः ।
प्राप्यते तत्परं स्थानं सहस्रेणैव जन्मनाम् ४१।
ये भक्ता देवदेवेशि वाराणस्यां वसंति वै ।
ते विंदंति परं मोक्षमेकेनैव तु जन्मना ४२।
यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना ।
अविमुक्तं तदासाद्य नान्यदिच्छेत्तपोवनम् ४३।
यतो मयाऽविमुक्तं तदविमुक्तं ततः स्मृतम् ।
तदेव गुह्यं गुह्यानामेतद्विज्ञानमुच्यते ४४।
ज्ञानाज्ञानाभिनिष्ठानां परमानंदमिच्छताम् ।
यागतिर्विदिता सुभ्रूः साविमुक्ते मृतस्य तु ४५।
यानि चैवाविमुक्तस्य देहे दृष्टानि कृत्स्नशः ।
पुरी वाराणसी तेभ्यः स्थानेभ्योऽप्यधिका शुभा ४६।
यत्र साक्षान्महादेवो देहांते स्वयमीश्वरः ।
व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तये ४७।
यत्तत्परतरं तत्त्वमविमुक्तमिति श्रुतम् ।
एकेन जन्मना देवि वाराणस्यां तदाप्नुयात् ४८।
भ्रूमध्ये नाभिमध्ये च हृदये चैव मूर्धनि ।
यथाविमुक्तमादित्ये वाराणस्यां व्यवस्थितम् ४९।
वरणायास्तथा चास्या मध्ये वाराणसीपुरी ।
तत्रैव संस्थितं तत्त्वं नित्यमेवंविमुक्तकम् ५०।
वाराणस्याः परं स्थानं न भूतं न भविष्यति ।
यत्र नारायणो देवो महादेवो दिवीश्वरः ५१।
तत्र देवाः सगंधर्वाः सयक्षोरगराक्षसाः ।
उपासते यं सततं देवदेवः पितामहः ५२।
महापातकिनो देवि ये तेभ्यः पापकृत्तमाः ।
वाराणसीं समासाद्य ते यांति परमां गतिम् ५३।
तस्मान्मुमुक्षुर्नियतो वसेद्वै मरणांतकम् ।
वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते ५४।
किंतु विघ्ना भविष्यंति पापोपहतचेतसः ।
ततो नैवाचरेत्पापं कायेन मनसा गिरा ५५।
एतद्रहस्यं देवानां पुराणानां च सुव्रते ।
अविमुक्ताश्रयं ज्ञानं न कश्चिद्वेत्ति तत्त्वतः ५६।
नारद उवाच-।
देवतानामृषीणां च शृण्वतां परमेष्ठिनाम् ।
देवदेवेन कथितं सर्वपापविनाशनम् ५७।
यथानारायणः श्रेष्ठो देवानां पुरुषोत्तमः ।
यथेश्वराणां गिरिशः स्थानानामेतदुत्तमम् ५८।
यैः समाराधितो रुद्रः पूर्वस्मिन्नेकजन्मनि ।
ते विदंति परं क्षेत्रमविमुक्तं शिवालयम् ५९।
कलिकल्मषसंभूता येषामुपहृता मतिः ।
न तेषां वेदितुं शक्यं स्थानं तत्परमेष्ठिनः ६०।
ये स्मरंति सदा कालं वदंति च पुरीमिमाम् ।
तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ६१।
यानि चेह प्रकुर्वंति पातकानि कृतालयाः ।
नाशयेत्तानि सर्वाणि देवः कालतनुः शिवः ६२।
आगच्छेत्तदिदं स्थानं सेवितं मोक्षकांक्षिभिः ।
मृतानां च पुनर्जन्म न भूयो भवसागरे ६३।
तस्मात्सर्वप्रयत्नेन वाराणस्यां वसेन्नरः ।
योगी वाप्यथवायोगी पापी वा पुण्यकृत्तमः ६४।
न लोकवचनात्पित्रोर्न चैव गुरुवादतः ।
मतिर्न क्रमणीया स्यादविमुक्तगतिं प्रति ६५।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे त्रयस्त्रिंशोऽध्यायः ३३।