पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ०७

विकिस्रोतः तः
Jump to navigation Jump to search

ऋषय ऊचुः-
भारतस्यास्य वर्षस्य तथा हैमवतस्य च
प्रमाणमायुषः सूत बलं चापि शुभाशुभम् १
अनागतमतिक्रांतं वर्तमानं च सत्तम
आचक्ष्व नो विस्तरेण हरिवर्षं तथैव च २
सूत उवाच-
चत्वारि भारते वर्षे युगानि मुनिपुंगवाः
कृतं त्रेता द्वापरं च तिष्यं च द्विजसत्तमाः ३
पूर्वे कृतयुगं नाम ततस्त्रेतायुगं द्विजाः
तत्पश्चाद्द्वापरं चाथ ततस्तिष्यः प्रवर्तते ४
चत्वारि तु सहस्राणि वर्षाणां मुनिपुंगवाः
आयुः संख्या कृतयुगे संख्याता हि तपोधनाः ५
तथा त्रीणि सहस्राणि त्रेतायामायुषो विदुः
द्वे सहस्रे द्वापरे तु भुवि तिष्ठंति सांप्रतम् ६
तत्प्रमाणस्थितिर्ह्यस्ति तिष्ये तु मुनिपुंगवाः
गर्भस्थाश्च म्रियंतेऽत्र तथा जाता म्रियंति च ७
महाबला महासत्त्वाः प्रज्ञागुणसमन्विताः
प्रजायंते च जाताश्च शतशोऽथ सहस्रशः ८
द्विजाः कृतयुगे विप्रा बलिनः प्रियदर्शनाः
प्रजायंते च जाताश्च मुनयो वै तपोधनाः ९
महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः
प्रियदर्शा वपुष्मंतो महावीर्य्या धनुर्धराः १०
वीरा हि युधि जायंते क्षत्रियाः शूरसंमताः
त्रेतायां क्षत्रियास्तावत्सर्वे वै चक्रवर्तिनः ११
सर्ववर्णाश्च जायंते सदैव द्वापरे युगे
महोत्साहा वीर्यवंतः परस्परवधैषिणः १२
तेजसांधेनसंयुक्ताः क्रोधनाः पुरुषाः किल
लुब्धाश्चानृतकाश्चैव तिष्ये जायंति भो द्विजाः १३
ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव च
तिष्ये भवंति भूतानां रागो लोभश्च सत्तमाः १४
संक्षेपो वर्त्तते विप्रा द्वापरे युगमध्यगे
गुणोत्तरं हैमवतं हरिवर्षं ततः परम् १५
इति श्रीपाद्मे महापुराणे स्वर्गखंडे सप्तमोऽध्यायः ७