पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ६०

विकिस्रोतः तः
Jump to navigation Jump to search

व्यास उवाच-
एवं त्वाश्रमनिष्ठानां यतीनां नियतात्मनाम्
भैक्ष्येण वर्तनं प्रोक्तं फलमूलैरथापि वा १
एककालं चरेद्भैक्ष्यं न प्रसज्येत विस्तरम्
भैक्ष्ये प्रसक्तो हि यतिर्विषयेष्वपि सज्जति २
सप्तागारं चरेद्भैक्ष्यमलाभे न पुनश्चरेत्
गोदोहमात्रं तिष्ठेत कालं भिक्षुरधोमुखः ३
भिक्षेत्युक्त्वा सकृत्तूष्णीमादद्याद्वाग्यतः शुचिः
प्रक्ष्याल्य पाणी पादौ च समाचम्य यथाविधि ४
आदित्यं दर्शयित्वान्नं भुंजीत प्राङ्मुखो नरः
हुत्वा प्राणाहुतीः पंच ग्रासानष्टौ समाहितः ५
आचम्य देवं ब्रह्माणं ध्यायेत परमेश्वरम्
आलाबुदारुपात्रे च मृण्मयं वैणवं तथा ६
चत्वारि यतिपात्राणि मनुराह प्रजापतिः
प्राग्रात्रे मध्यरात्रे च पररात्रे तथैव च ७
संध्यासूक्तिविशेषेण चिंतयेन्नित्यमीश्वरम्
कृत्वा हृत्पद्मनिलये विश्वाख्यं विश्वसंभवम् ८
आत्मानं सर्वभूतानां परस्तात्तमसः स्थितम्
सर्वस्याधारमव्यक्तमानंदं ज्योतिरव्ययम् ९
प्रधानपुरुषातीतमाकाशं दहनं शिवम्
तदंतं सर्वभावानामीश्वरं ब्रह्मरूपिणम् १०
ॐकारांतेथवात्मानं समाप्य परमात्मनि
आकाशे देवमीशानं ध्यायीताकाशमध्यगम् ११
कारणं सर्वभावानामानंदैकसमाश्रयम्
पुराणपुरुषं विष्णुं ध्यायन्मुच्येत बंधनात् १२
यद्वा गुहादौ प्रकृतौ जगत्संमोहनालये
विचिंत्य परमं व्योम सर्वभूतैककारणम् १३
जीवनं सर्वभूतानां यत्र लोकः प्रलीयते
आनंदं ब्रह्मणः सूक्ष्मं यत्पश्यंति मुमुक्षवः १४
तन्मध्ये निहितं ब्रह्म केवलं ज्ञानलक्षणम्
अनंतं सत्यमीशानं विचिंत्यासीत वाग्यतः १५
गुह्याद्गुह्यतमं ज्ञानं यतीनामेतदीरितम्
योवतिष्ठेत्सदानेन सोश्नुते योगमैश्वरम् १६
तस्माज्ज्ञानरतो नित्यमात्मविद्यापरायणः
ज्ञानं समभ्यसेद्ब्रह्म येन मुच्येत बंधनात् १७
मत्वा पृथक्त्वमात्मानं सर्वस्मादेव केवलम्
आनंदमक्षरं ज्ञानं ध्यायेत च ततः परम् १८
यस्माद्भवंति भूतानि यज्ज्ञात्वा नेह जायते
स तस्मादीश्वरो देवः परस्ताद्योधितिष्ठति १९
यदंतरे तद्गमनं शाश्वतं शिवमव्ययम्
य इदं स्वपरोक्षस्तु स देवः स्यान्महेश्वरः २०
व्रतानि यानि भिक्षूणां तथैवायं व्रतानि च
एकैकातिक्रमेणैव प्रायश्चित्तं विधीयते २१
उपेत्य च स्त्रियं कामात्प्रायश्चित्तं समाहितः
प्राणायामसमायुक्तं कुर्य्यात्सांतपनं शुचिः २२
ततश्चरेत नियमात्कृच्छ्रं संयतमानसः
पुनराश्रममागम्य चरेद्भिक्षुरतंद्रितः २३
न धर्मयुक्तमनृतं हिनस्तीति मनीषिणः
तथापि च न कर्तव्यः प्रसंगो ह्येष दारुणः २४
एकरात्रोपवासश्च प्राणायामशतं तथा
उक्त्वानृतं प्रकर्तव्यं यतिना धर्मलिप्सुना २५
परमापद्गतेनापि न कार्यं स्तेयमन्यतः
स्तेयादभ्यधिकः कश्चिन्नास्त्यधर्म इति स्मृतिः २६
हिंसा चैवापरा तृष्णा याच्ञात्मज्ञाननाशिका
यदेतद्द्रविणं नाम प्राणा ह्येते बहिश्चराः २७ द्रविण
स तस्य हरते प्राणान्यो यस्य हरते धनम्
एवं कृत्वा स दुष्टात्मा भिन्नवृत्तो व्रतच्युतः २८
भूयो निर्वेदमापन्नश्चरेद्भिक्षुरतंद्रितः
अकस्मादेव हिंसां तु यदि भिक्षुः समाचरेत् २९
कुर्यात्कृच्छ्रातिकृच्छ्रं तु चांद्रायणमथापि वा
स्कंदेतेंद्रियदौर्बल्यात्स्त्रियं दृष्ट्वा यतिर्यदि ३०
तेन धारयितव्या वै प्राणायामास्तु षोडश
दिवास्कंदे त्रिरात्रं स्यात्प्राणायामशतं बुधाः ३१
एकान्ने मधुमांसे च नवश्राद्धे तथैव च
प्रत्यक्षलवणे चोक्तं प्राजापत्यं विशोधनम् ३२
ध्याननिष्ठस्य सततं नश्यते सर्वपातकम्
तस्मान्नारायणं ध्यात्वा तस्य ध्यानपरो भवेत् ३३
यद्ब्रह्मणः परं ज्योतिः प्रविष्टाक्षरमव्ययम्
योंतरात्मा परं ब्रह्म स विज्ञेयो महेश्वरः ३४
एष देवो महादेवः केवलः परमं शिवः
तदेवाक्षरमद्वैतं तदा नित्यं परं पदम् ३५
तस्मान्महीयते देवे स्वधाम्नि ज्ञानसंज्ञिते
आत्मयोगात्परे तत्वे महादेवस्ततः स्मृतः ३६
नान्यं देवं महादेवाद्व्यतिरिक्तं प्रपश्यति
तमेवात्मानमन्वेति यः स याति परं पदम् ३७
मन्यंते ये स्वमात्मानं विभिन्नं परमेश्वरात्
न ते पश्यंति तं देवं वृथा तेषां परिश्रमः ३८
एकमेव परं ब्रह्म विज्ञेयं तत्त्वमव्ययम्
स देवस्तु महादेवो नैतद्विज्ञाय बध्यते ३९
तस्माद्यतेत नियतं यतिः संयतमानसः
ज्ञानयोगरतः शांतो महादेवपरायणः ४०
एष वः कथितो विप्रा यतीनामाश्रमः शुभः
पितामहेन मुनिना विभुना पूर्वमीरितः ४१
नापुत्रशिष्ययोगिभ्यो दद्यादेवमनुत्तमम्
ज्ञानं स्वयंभुवा प्रोक्तं यतिधर्म्माश्रयं शिवम् ४२
इति यतिनियमानामेतदुक्तं विधानं सुरवरपरितोषे यद्भवेदेकहेतुः
न भवति पुनरेषामुद्भवो वा विनाशः प्रतिहितमनसो ये नित्यमेवाचरंति ४३
इति श्रीपाद्मे महापुराणे स्वर्गखंडे षष्टितमोऽध्यायः ६०