सामग्री पर जाएँ

पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ४०

विकिस्रोतः तः

सूत उवाच-
एवमुक्तानि तीर्थानि विष्णुदेहानि सुव्रताः ।
एषामन्यतमा संगान्मुक्तो भवति मानवः १।
तीर्थानुश्रवणं धन्यं धन्यं तीर्थनिषेवणम् ।
पापराशिनिपाताय नान्योपायः कलौयुगे २।
वासं कुर्यामहं तीर्थे तीर्थस्पर्शमहं तथा ।
एवं योऽनुदिनं ब्रूते स याति परमं महत् ३।
पापानि तस्य नश्यंति तीर्थालापनमात्रतः ।
तीर्थानि खलु धन्यानि धन्यसेव्यानि सुव्रताः ४।
तीर्थानां सेवनादेव सेवितो भवति प्रभुः ।
नारायणो जगत्कर्ता नास्ति तीर्थात्परं पदम् ५।
ब्राह्मणस्तुलसी चैव अश्वत्थस्तीर्थसंचयः ।
विष्णुश्च परमेशानः सेव्य एव सदा नृभिः ६।
ब्राह्मणानां विशेषेण सेवनं मुनिपुंगवाः ।
सर्वतीर्थावगाहादेरधिकं विदुरग्रजाः ७।
तस्माद्द्विजपदं साक्षात्सर्वतीर्थमयं शुभम् ।
भजेतानुदिनं विद्वांस्तत्र तीर्थाधिकं भवेत् ८।
अश्वत्थस्य तुलस्याश्च गवां कुर्यात्प्रदक्षिणम् ।
सर्वतीर्थफलंप्राप्य विष्णुलोके महीयते ९।
तस्माद्दुष्कृतकर्माणि नाशयेत्तीर्थसेवनात् ।
अन्यथा नरकं याति कर्म्मभोगाद्धि शाम्यति १०।
पापिनां नरके वासः सुकृती स्वर्गमश्नुते ।
तस्मात्पुण्यं निषेवेत तीर्थं खलु विचक्षणः ११।
ऋषय ऊचुः-
श्रुतानि किल तीर्थानि समाहात्म्यानि सुव्रत ।
इदानीं श्रोतुमिच्छामः प्रयागस्य विशेषकम् १२।
प्रयागं तु पुरा प्रोक्तं संक्षेपात्सूत यत्त्वया ।
विशेषाच्छ्रोतुमिच्छामः सूत नः कथ्यतामिति १३।
सूत उवाच-
साधु पृष्टं महाभागाः प्रयागं प्रति सुव्रताः ।
हंताहं तत्प्रवक्ष्यामि प्रयागस्योपवर्णनम् १४।
मार्कंडेयेन कथितं यत्पुरा पांडुसूनवे ।
भारते तु यदा वृत्ते प्राप्तराज्ये पृथासुते १५।
एतस्मिन्नंतरे राजा कुंतीपुत्रो युधिष्ठिरः ।
भ्रातृशोकेन संतप्तः चिंतयंस्तु पुनः पुनः १६।
आसीद्दुर्योधनो राजा एकादशचमूपतिः ।
अस्मान्संतप्य बहुशः सर्वे ते निधनं गताः १७।
वासुदेवं समाश्रित्य पंचशेषास्तु पांडवाः ।
कथं द्रोणं च भीष्मं च कर्णं चैव महाबलम् १८।
दुर्योधनं च राजानं भ्रातृपुत्रसमन्वितम् ।
राजानो निहताः सर्वे ये चान्ये शूरमानिनः १९।
विना राज्येन कर्तव्यं किं भोगैर्जीवितेनवा ।
धिक्कष्टमिति संचिंत्य राजा विह्वलतां गतः २०।
निश्चेष्टोऽथ निरुत्साहः किं चित्तिष्ठत्यधोमुखः ।
लब्धसंज्ञो यदा राजा चिंतयानः पुनः पुनः २१।
कं चरे विधिना योगं नियमं तीर्थमेव वा ।
येनाहं शीघ्रमामुच्ये महापातककिल्बिषात् २२।
यत्र स्नात्वा नरो याति विष्णुलोकमनुत्तमम् ।
कथं पृच्छामि वै कृष्णं येनेदं कारितं महत् २३।
धृतराष्ट्रं कथं पृच्छे यस्य पुत्रशतं हतम् ।
व्यासं कथमहं पृच्छे यस्य गोत्रक्षयः कृतः २४।
एवं वैक्लव्यमापन्नो धर्मपुत्रो युधिष्ठिरः ।
रुदंतः पांडवाः सर्वे भ्रातृशोकपरिप्लुताः २५।
ये च तत्र महात्मानः समेताः पांडवाश्रिताः ।
कुंती च द्रौपदी चैव ये च तत्र समागताः २६।
भूमौ निपतिताः सर्वे रोदमानाः समंततः ।
वाराणस्यां तु मार्कंडस्तेन ज्ञातो युधिष्ठरः २७।
यथाविक्लवमापन्नो रोदमानः सुदुःखितः ।
अचिरेणैव कालेन मार्कंडस्तु महातपाः २८।
हस्तिनापुर संप्राप्तो राजद्वारे स तिष्ठति ।
द्वारपालोऽपि तं दृष्ट्वा राज्ञः कथितवान्द्रुतम् २९।
त्वां द्रष्टुकामो मार्कंडो द्वारे तिष्ठत्यसौ मुनिः ।
त्वरितो धर्मपुत्रस्तु द्वारमेत्याह तत्परः ३०।
युधिष्ठिर उवाच-
स्वागतं ते महाप्राज्ञ स्वागतं ते महामुने ।
अद्य मे सफलं जन्म अद्य मे पावितं कुलम् ३१।
अद्य मे पितरस्तृप्तास्त्वयि दृष्टे महामुने ।
सिंहासन उपस्थाप्य पादशौचार्चनादिभिः ३२।
युधिष्ठिरो महात्मा वै पूजयामास तं मुनिम् ।
ततस्तमूचे मार्कण्डः पूजितोऽहं त्वया विभो ३३।
आख्याहि त्वरितो राजन्किमर्थं त्वरितं त्वया ।
केन वा विक्लवीभूतः कथयस्व ममाग्रतः ३४।
युधिष्ठिर उवाच-
अस्माकं चैव यद्वृत्तं राज्यस्यार्थे महामुने ।
एतत्सर्वं विदित्वा तु भगवानिह चागतः ३५।
मार्कंडेय उवाच-
शृणु राजन्महाबाहो यत्र धर्मो व्यवस्थितः ।
नैव दृष्टं रणे पापं युध्यमानस्य धीमतः ३६।
किं पुना राजधर्मेण क्षत्रियस्य विशेषतः ।
तदेवं हृदये कृत्वा तस्मात्पापं न चिंतयेत् ३७।
ततो युधिष्ठिरो राजा प्रणम्य शिरसा मुनिम् ।
पृच्छामि त्वां मुनिश्रेष्ठ सदा त्रैकाल्यदर्शनम् ।
कथयस्व समासेन मुच्येऽहं येन किल्बिषात् ३८।
मार्कंडेय उवाच-
शृणु राजन्महाभाग यन्मां पृच्छसि भारत ।
एवं सांख्यं च योगं च तीर्थं चैव युधिष्ठिर ३९।
किं पुनर्ब्राह्मणैः पुण्यैः कीर्तितं वै पुरा विभो ।
प्रयागगमनं श्रेष्ठं नराणां पुण्यकर्मणाम् ४०।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे चत्वारिंशोऽध्यायः ४०।