अग्निपुराणम्/अध्यायः १७५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















अथ पञ्चसप्त्यधिकशततमोऽध्यायः

व्रतपरिभाषा

अग्निरुवाच
तिथिवारर्क्षदिवसमासर्त्वब्दार्कसङ्क्रमे ।१७५.००१
नृस्त्रीव्रतादि(२) वक्ष्यामि वसिष्ठ शृणु तत्क्रमात् ॥१७५.००१
टिप्पणी
२ पुंस्त्री व्रतादीति ङ.. , ञ.. च

शास्त्रोदितो हि नियमो व्रतं तच्च तपो मतं ।१७५.००२
नियमास्तु विशेषास्तु व्रतस्यैव दमादयः ॥१७५.००२
व्रतं हि कर्तृसन्तापात्तप इत्यभिधीयते ।१७५.००३
इन्द्रियग्रामनियमान्नियमश्चाभिधीयते ॥१७५.००३
अनग्नयस्तु ये विप्रास्तेषां श्रेयोऽभिधीयते ।१७५.००४
व्रतोपवासनियमैर्नानादानैस्तथा द्विजः ॥१७५.००४
ते स्युर्देवादयः(१) प्रीता भुक्तिमुक्तिप्रदायकाः ।१७५.००५
उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह ॥१७५.००५
उपवासः स विज्ञेयः सर्वभोगविवर्जितः(२) ।१७५.००६
कांस्यं मांसं मसूरञ्च चणकं कोरदूषकं ॥१७५.००६
शाकं मधु परान्नञ्च(३) त्यजेदुपवसन् स्त्रियं ।१७५.००७
पुष्पालङ्कारवस्त्राणि धूपगन्धनुलेपनं ॥१७५.००७
उपवासे न शस्यन्ति दन्तधावनमञ्जनं ।१७५.००८
दन्तकाष्ठं पञ्चगव्यं कृत्वा प्रातर्व्रतञ्चरेत् ॥१७५.००८
असकृज्जलपानाच्च ताम्बूलस्य च भक्षणात् ।१७५.००९
उपवासः प्रदुष्येत दिवास्वप्नाच्च मैथुनात् ॥१७५.००९
क्षमा सत्यन्दया दानं शौचमिन्द्रियनिग्रहः ।१७५.०१०
देवपूजाग्निहरणं(४) सन्तोषोऽस्तेयमेव च ॥१७५.०१०
सर्वव्रतेष्वयं धर्मः सामान्यो दशधा स्मृतः ।१७५.०११
पवित्राणि जपेच्चैव जुहुयाच्चैव शक्तितः ॥१७५.०११
टिप्पणी
१ तैः स्युर्देवादय इति ग.. , छ.. च
२ सर्वपापविवर्जित इति ज.. , झ.. च । सर्वतः परिवर्जित इति छ..
३ शाकं दधि परान्नञ्चेति ख.. , छ.. च
४ देवपूजाग्निहवनमिति घ.. , ट.. च

नित्यस्नायी मिताहारो(१) गुरुदेवद्विजार्चकः ।१७५.०१२
क्षारं क्षौद्रञ्च लवणं मधु मांसानि वर्जयेत् ॥१७५.०१२
तिलमुद्गादृते शस्यं शस्ये गोधूमकोद्रवौ ।१७५.०१३
चीनकं देवधान्यञ्च शमीधान्यं तथैक्षवं(२) ॥१७५.०१३
शितधान्यं तथा पुण्यं मूलं क्षारगणः स्मृतः ।१७५.०१४
व्रीहिषष्टिकमुद्गाश्च कलायाः सतिला यवाः ॥१७५.०१४
श्यामाकाश्चैव नीवारा गोधूमाद्या व्रते हिताः ।१७५.०१५
कुष्माण्डालावुवार्ताकून् पालङ्कीम्पूतिकान्त्यजेत् ॥१७५.०१५
चरुभैक्ष्यं शक्तुकणाः शाकन्दधि घृतं पयः ।१७५.०१६
श्यामाकशालिनीवारा यवकं मूलतण्डुलं ॥१७५.०१६
हविष्यं व्रतनक्तादावग्निकार्यादिके हितं ।१७५.०१७
मधु मांसं विहायान्यद्व्रते वा हितमीरितं ॥१७५.०१७
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितं ।१७५.०१८
त्र्यहम्परञ्च नाश्नीयात्प्राजापत्यञ्चरन् द्विजः ॥१७५.०१८
एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् ।१७५.०१९
त्र्यहञ्चोपवसेदन्त्यमतिकृच्छ्रं चरन् द्विजः ॥१७५.०१९
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकं ।१७५.०२०
एकरात्रोपवासश्च कृच्छ्रं शान्तपनं स्मृतं ॥१७५.०२०
पृथक्शान्तपनद्रव्यैः षडहः सोपवासकः ।१७५.०२१
सप्ताहेन तु कृच्छ्रोऽयं महाशान्तपनोऽघहा ॥१७५.०२१
द्वादशाहोपवासेन पराकः सर्वपापहा ।१७५.०२२
टिप्पणी
१ यताहार इति घ..
२ शमीधान्यं तथैव चेति ग.. ,झ.. च

महापराकस्त्रिगुणस्त्वयमेव प्रकीर्तितः ॥१७५.०२२
पौर्णमास्यां पञ्चदशग्रास्यमावास्यभोजनः ।१७५.०२३
एकापाये ततो वृद्धौ चान्द्रायणमतोऽन्यथा ॥१७५.०२३
कपिलागोः पलं मूत्रं अर्धाङ्गुष्ठञ्च गोमयं ।१७५.०२४
क्षीरं सप्तपलन्दद्यात्दध्नश्चैव पलद्वयं(१) ॥१७५.०२४
घृतमेकपलन्दद्यात्पलमेकं कुशोदकं ।१७५.०२५
गयत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयं ॥१७५.०२५
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ।१७५.०२६
तेजोऽसीति तथा चाज्यं देवस्येति कुशोदकं(२) ॥१७५.०२६
ब्रह्मकूर्चो भवत्येवं आपो हिष्ठेत्यृचं जपेत् ।१७५.०२७
अघमर्षणसूक्तेन संयोज्य प्रणवेन वा ॥१७५.०२७
पीत्वा सर्वाघनिर्मुक्तो विष्णुलोकी ह्युपोषितः ।१७५.०२८
उपवासी सायम्भोजी यतिः षष्ठात्मकालवान् ॥१७५.०२८
मांसवर्जी चाश्वमेधी सत्यवादी दिवं व्रजेत् ।१७५.०२९
अग्न्याधेयं प्रतिष्ठाञ्च यज्ञदानव्रतानि च ॥१७५.०२९
देवव्रतवृषोत्सर्गचूडाकरणमेखलाः ।१७५.०३०
माङ्गल्यमभिषेकञ्च मलमासे विवर्जयेत् ॥१७५.०३०
दर्शाद्दर्शस्तु चान्द्रः स्यात्त्रिंशाहश्चैव भावनः ।१७५.०३१
मासः सौरस्तु सङ्क्रान्तेर्नाक्षत्रो भविवर्तनात् ॥१७५.०३१
सौरो मासो विवाहादौ यज्ञादौ सावनः स्मृतः(३) ।१७५.०३२
टिप्पणी
१ दध्नश्चैव पलत्रयमिति घ.. , ञ.. , ट.. च
२ गायत्र्या इत्यादिः, कुशोदकमित्यन्तः पाठः छ.. पुस्तके नास्ति
३ सावनो मत इति छ..

आव्धिके पितृकार्ये च चान्द्रो मासः प्रशस्यते ॥१७५.०३२
आषाढीमवधिं कृत्वा यः स्यात्पक्षस्तु पञ्चमः ।१७५.०३३
कुर्याच्छ्राद्धन्तत्र रविः कन्यां गच्छतु वा न वा ॥१७५.०३३
मासि संवत्सरे चैव तिथिद्वैधं यदा भवेत् ।१७५.०३४
तत्रोत्तरोत्तमा ज्ञेया पूर्वा तु स्यान्मलिम्लुचा ॥१७५.०३४
उपोषितव्यं नक्षत्रं येनास्तं याति भास्करः ।१७५.०३५
दिवा पुण्यास्तु तिथयो रात्रौ नक्तव्रते शुभाः ॥१७५.०३५
युग्माग्निकृतभूतानि(१) षण्मुन्योर्वसुरन्ध्रयोः ।१७५.०३६
रुद्रेण द्वादशो युक्ता चतुर्दश्याथ(२) पूर्णिमा ॥१७५.०३६
प्रतिपदा त्वमावास्या तिथ्योर्युग्मं महाफलं ।१७५.०३७
एतद्व्यस्तं महाघोरं हन्ति पुण्यं पुराकृतं ॥१७५.०३७
नरेन्द्रमन्त्रिव्रतिनां(३) विवाहोपद्रवादिषु ।१७५.०३८
सद्यः शौचं समाख्यातं कान्तारापदि संषदि ॥१७५.०३८
आरब्धदीर्घतपसां न राजा व्रतहा स्त्रियाः ।१७५.०३९
गर्भिणी सूतिका नक्तं कुमारी च रजस्वला ॥१७५.०३९
यदाशुद्धा तदान्येन कारयेत क्रियाः सदा ।१७५.०४०
क्रोधात्प्रमादाल्लोभाद्वा व्रतभङ्गो भवेद्यदि ॥१७५.०४०
दिनत्रयं न भुञ्ञीत मुण्डनं शिरसोऽथ वा ।१७५.०४१
असामर्थ्ये व्रतकृतौ पत्नीं वा कारयेत्सुतं ॥१७५.०४१
सूतके मृतके कार्त्यं प्रारब्धं पूजनोज्झितं ।१७५.०४२
व्रतस्थं मूर्छितं दुग्धपानाद्यैरुद्धरेद्गुरुः ॥१७५.०४२
टिप्पणी
१ युग्माग्नियुगभूतानीति ज.. , झ.. च
२ चतुर्दश्या चेति ग..
३ नरेन्द्रसत्रिव्रतिनामिति ख.. , घ.. , ज.. , ञ.. च

अष्तौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।१७५.०४३
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधं ॥१७५.०४३
कीर्तिसन्ततिविद्यादिसौभाग्यारोग्यवृद्धये ।१७५.०४४
नैर्मल्यभुक्तिमुक्त्यर्थं कुर्वे व्रतपते व्रतं ॥१७५.०४४
इदं व्रतं मया श्रेष्ठं गृहीतं पुरतस्तव ।१७५.०४५
निर्विघ्नां सिद्धिमायातु त्वत्प्रसादात्जगत्पते ॥१७५.०४५
गृहीतेऽस्मिन् व्रतवरे(१) यद्यपूर्णे म्रिये ह्यहं ।१७५.०४६
तत्सर्वं पूर्णमेवास्तु प्रसन्ने त्वयि सत्पतौ ॥१७५.०४६
व्रतमूर्तिं जगद्भूतिं मण्डले सर्वसिद्धये ।१७५.०४७
आवहये नमस्तुभ्यं सन्निधीभव केशव ॥१७५.०४७
मनसा कल्पितैर्भक्त्या पञ्चगव्यैर्जलैः शुभैः ।१७५.०४८
पञ्चामृतैः स्नापयामि त्वं मे च भव पापहा ॥१७५.०४८
गन्धपुष्पोदकैर्युक्तमर्घ्यमर्घ्यपते शुभं ।१७५.०४९
गृहाण पाद्यमाचाममर्घ्यार्हङ्कुरु मां सदा ॥१७५.०४९
वस्त्रं वस्त्रपते पुण्यं गृहाण कुरु मां सदा ।१७५.०५०
भूषणाद्यैः सुवस्त्राद्यैश्छादितं व्रतसत्पते ॥१७५.०५०
सुगन्धिगन्धं विमलं गन्धमूर्ते गृहाण वै ।१७५.०५१
पापगन्धविहीनं मां कुरु त्वं हि सुगन्धिकं ॥१७५.०५१
पुष्पं गृहाण पुष्पादिपूर्ण मां कुरु सर्वदा ।१७५.०५२
पुष्पगन्धं सुविमलं आयुरारोग्यवृद्धये ॥१७५.०५२
दशाङ्गं गुग्गुलुघृतयुक्तं धूपं गृहाण वै ।१७५.०५३
सधूप धूपित मां त्वं कुरु धूपितसत्पते ॥१७५.०५३
टिप्पणी
१ व्रते देव इति ग.. , घ.. , ज.. , झ.. , ञ.. , ट.. च

दीपमूर्धशिखं दीप्तं गृहाणाखिलभासकं ।१७५.०५४
दीपमूर्ते प्रकाशाढ्यं सर्वदोर्ध्वगतिं कुरु ॥१७५.०५४
अन्नादिकञ्च नैवेद्यं गृहाणान्नादि सत्पते ।१७५.०५५
अन्नादिपूर्णं कुरु मामन्नदं सर्वदायकं ॥१७५.०५५
मन्त्रहीनं क्रियाहीनं भक्तिहीनं मया प्रभो ।१७५.०५६
यत्पूजितं व्रतपते परिपूर्णन्तदसु मे ॥१७५.०५६
धर्मं देहि धनं देहि सौभाग्यं गुणसन्ततिं ।१७५.०५७
कीर्तिं विद्यां(१) देहि चायुः स्वर्गं मोक्षञ्च देहि मे ॥।१७५.०५७
इमां पूजां व्रतपते गृहीत्वा व्रज साम्प्रतं ।१७५.०५८
पुनरागमनायैव वरदानाय वै प्रभो ॥१७५.०५८
स्नात्वा व्रतवता सर्वव्रतेषु व्रतमूर्तयः ।१७५.०५९
पूज्याः सुवर्णजास्ता वै शक्त्या वै भूमिशायिना ॥१७५.०५९
जपो होमश्च सामान्यव्रतान्ते दानमेव च ।१७५.०६०
चतुर्विंशा द्वादश वा पञ्च वा त्रय एककः ॥१७५.०६०
विप्राः प्रपूज्या गुरवो(२) भोज्याः शक्त्या तु दक्षिणा ।१७५.०६१
देया गावः सुवर्णाद्याः पादुकोपानहौ पृथक् ॥१७५.०६१
जलपात्रञ्चान्नपात्रमृत्तिकाच्छत्रमासनं(३) ।१७५.०६२
शय्या वस्त्रयुगं कुम्भाः परिभाषेयमीरिता ॥१७५.०६२
टिप्पणी
१ कीर्तिं वृद्धिमिति ख.. , छ.. च
२ विप्राः पूज्याः सगरव इति घ.. , ज.. , ट.. च
३ मुद्रिकाछत्रमासनमिति घ..

इत्याग्नेये महापुराणे व्रतपरिभाषानाम पञ्चसप्तत्यधिकशततमोऽध्यायः ॥