अग्निपुराणम्/अध्यायः २९५

विकिस्रोतः तः
Jump to navigation Jump to search
अग्निपुराणम्
















दष्टचिकित्सा[सम्पाद्यताम्]

अग्निरुवाच
मन्त्रध्यानौषधैर्दष्टतिकित्सां प्रवदामि ते ।
ॐ नमो भगवते नीलकण्ठायेति ।
जपनाद्विषहानिः स्यादौषधं जीवरक्षणं ।। २९५.१ ।।

साकज्यं सकृद्रसं पेयं द्विविधं विषमुच्यते ।
जङ्गमं सर्पमूषादि श्रृङ्‌ग्यादि स्थावरं विषं ।। २९५.२ ।।

शान्तस्वरान्वितो ब्रह्मा लोहितं तारकं शिवः ।
वियतेर्नाममन्त्रोऽयं तार्क्षः शब्दमयः स्मृतः ।। २९५.३ ।।

ॐ ज्वल महामते हृदयाय गरुडविशलशिरसे
गरुडशिखायै गरुड विषभञ्जन प्रभेदन प्रभेदन
वित्रासय विमर्द्दय विमर्द्दय कवचाय अप्रतिहतशासनं
वं हूं फट् अस्त्राय उग्ररूपधारक सर्वभयङ्कर
भीषय सर्वं दह दह भस्मीकुरु कुरु स्वाहा नेत्राय ।
सप्तवर्गान्तयुग्माष्टदिग्दलस्वर केशरादिवर्णरुद्धं
वह्निराभूतकर्णिकं मातृकाम्बुजं ।
कृत्वा हृदिस्थं तन्मन्त्री वामहस्ततले स्मरेत् ।
अह्गुष्ठादौ न्यसेद्वर्णान्वियतेर्भेदिताः कलाः ।। २९५.४ ।।

पीतं वज्रचतुष्कोणं पार्थिवं शक्रदैवतं ।
वृत्तार्द्धमाप्यपद्मार्द्धं शुक्लं वरुणदैवतं ।। २९५.५ ।।

त्र्यस्त्रं स्वस्तिकयुक्तञ्च तैजसं वह्निदैवतं ।
वृत्तं विन्दुवृतं वायुदैवतं कृष्ममालिनम् ।। २९५.६ ।।

अङ्गुष्ठाद्यङ्गुलीमध्ये पर्य्यस्तेषु स्ववेश्मसु ।
सुवर्णनागवाहेन वेष्टितेषु न्यसेत् क्रमात् ।। २९५.७ ।।

वियतेश्चतुरो वर्णान् सुमण्डलसमत्विषः ।
अरूपे रवतन्मात्रे आकाशेशिवदेवते ।। २९५.८ ।।

कनिष्ठामद्यपर्वस्थे न्यसेत्तस्याद्यमक्षरम् ।
नागानामादिवर्णांश्च स्वमण्डलगतान्न्यसेत् ।। २९५.९ ।।

भूतादिवर्णान् विन्यसेदङ्गुष्ठाद्यन्तपर्वसु ।
तन्मात्रादिगुणाभ्यर्णानङ्गुलीषु न्यसेद्‌बुधः ।। २९५.१० ।।

स्पर्शनादेव तार्क्षेण हस्ते हन्याद्विषद्वयं ।
मण्डलादिषु तान् वर्णान् वियतेः कवयो जितान् ।। २९५.११ ।।

श्रेष्ठद्वय्ह्गुलिभिर्द्देहनाभिस्थानेषु पर्वसु ।
आजानुतः सुवर्णाभमानाभेस्तुहिनप्रभम् ।। २९५.१२ ।।

कुङ्कुमारुणमाकण्ठादाकेशान्तात् सितेतरं ।
ब्रह्माण्डव्यापिनं तार्क्षञ्चन्द्राख्यं नागभूषणम् ।। २९५.१३ ।।

नीलोग्रनाशमात्मानं महापक्षं स्मरेद्‌बुधः ।
एवन्तार्क्षात्मनो वाक्यान्मन्त्रः स्यान्मन्त्रिणो विषे ।। २९५.१४ ।।

मुष्टिस्तार्क्षकरस्यान्तः स्थिताङ्गुष्ठविषापहा ।
तार्क्षं हस्तं समुद्यम्य तत्पञ्चाङ्गुलिचालनात् ।। २९५.१५ ।।

कुर्य्याद्विषस्य स्तम्भादींस्तदुक्तमदवीषया ।
आकाशादेष भूवीजः पञ्चर्णाधिपतिर्म्मनुः ।। २९५.१६ ।।

संस्तम्भयेतिविषतो भाषया स्तम्भयेद्विषम् ।
व्यत्यस्तभूषया वीजो मन्त्रोऽयं साधुसाधितः ।। २९५.१७ ।।

संप्लवः प्लावय यमः शब्दाद्यः संहरेद्विषं ।
दण्डमुत्थापयेदेष सुजप्ताम्भोऽभिषेकतः ।। २९५.१८ ।।

सुजप्तशङ्खबेर्य्यादिनिस्वनश्रवणेन वा ।
संदहत्येव संयुक्तो भूतेजोव्यत्ययात् स्थितः ।। २९५.१९ ।.

भूवायुव्यत्ययान्मन्त्रो विषं संक्रामयत्यसौ ।
अन्तस्थो निजवेश्मस्थो वीजाग्नीन्दुजलात्मभिः ।। २९५.२० ।।

एतत् कर्म्म नयेन्मन्त्री गरुड़ाकृतिविग्रहः ।
तार्क्षवरुणगेहस्थस्तज्जपान्नाशयेद्विषम् ।। २९५.२१ ।।

जानुदण्डीदमुदितं स्वधाश्रीवीजल्छितं ।
स्नानपानात्सर्व्वविषं ज्वरारोगापमृत्युजित् ।। २९५.२२ ।।

पक्षि पक्षि महापक्षि महापक्षि विधि स्वाहा ।
पक्षि पक्षि महापक्षि महापक्षि क्षि क्षि स्वाहा ।। २९५.२३ ।।

द्वावेतौ पक्षिराड्‌मन्त्रौ विषघ्नावभिमन्त्रणात् ।
पक्षिराजाय विद्महे पक्षिऽदेवाय धीमहि तन्नो गरुडः प्रचोदयात् ।
वह्निस्थौ पार्श्वतत्पूर्वौ दन्तश्रीकौ च दण्डिनौ ।। २९५.२४ ।।

हर हर हृदयाय नमः कपर्द्दिने च शिरसे नीलकण्ठाय वै शिखांकालकूटविषभक्षणाय स्वाहा ।
अथ वर्म्म च कण्ठे नेत्रं कृत्तिवासास्त्रिनेत्रं पूर्वाद्यैराननैर्युक्तं स्वेतपीतारुणासितैः ।। २९५.२५ ।।

अभयं वरदं चापं वासुकिञ्च दधद्भुजैः ।
यस्योपरीतपार्श्वस्थगौरीरुद्रोऽस्य देवता ।। २९५.२६ ।.

पादजानुगुहानाभिहृत्कण्ठाननमूर्द्धसु ।
मन्त्रार्णान्न्यस्य करयोरङ्गुष्ठाद्यङ्गुलीषु च ।। २९५.२७ ।।

तर्ज्जन्यादितदन्तासु सर्वमङ्गुष्ठयोर्न्न्यसेत् ।
ध्यात्वैवं संहरेत् क्षिप्रं वद्धया शूलमुद्रया ।। २९५.२८ ।।

कनिष्ठा ज्येष्ठया वद्धा तिस्रोऽन्याः प्रसृतेर्ज्जवाः ।
विषनाशे वामहस्तमन्यस्मिन् दक्षिणं करं ।। २९५.२९ ।।

ओं नमो बगवते नीलकण्ठाय चिः अमलकण्ठाय चिः ।
सर्वज्ञकण्ठाय चिः क्षिप ओं स्वाहा ।
अमलनीलकण्ठाय नैकसर्वविषापहाय ।
नमस्ते रुद्रमंन्यव इति सम्मार्ज्जनाद्विपं विनश्यति-
न सन्देहः कर्णजाप्या उपानहावा ।
यजेद्रुद्रविधाने नीलग्रीवं महेश्वरम् ।
विषव्याधिविनाशः स्यात् कृत्वा रुद्रविधानकं ।। २९५.३० ।।

इत्यादिमहापुराणे आग्नेये दष्टचिकित्सा नाम पञ्चनवत्यधिकद्विशततमोऽध्यायः ।।