अग्निपुराणम्/अध्यायः २०४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २०३ अग्निपुराणम्
अध्यायः २०४
वेदव्यासः
अध्यायः २०५ →
अग्निपुराणम्
















मासोपवासव्रतं

अग्निरुवाच
व्रतं मासोपवासञ्च(१) सर्वोत्कृष्टं वदामि ते ।२०४.००१
कृत्वा तु वैष्णवं यज्ञं गुरोराज्ञामवाप्य च ॥२०४.००१
कृच्छ्राद्यैः स्वबलं बुद्ध्वा कुर्यान्मासोपवासकं ।२०४.००२
वानप्रस्थो यतिर्वाथ नारी वा विधवा मुने ॥२०४.००२
आश्विनस्यामले पक्षे एकादश्यामुपोषितः ।२०४.००३
व्रतमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु ॥२०४.००३
अद्यप्रभृत्यहं विष्णो यावदुत्थानकन्तव ।२०४.००४
अर्चये त्वामनश्नन् हि यावत्त्रिंशद्दिनानि तु ॥२०४.००४
कार्त्तिकाश्विनयोर्विष्णोर्यावदुत्थानकन्तव ।२०४.००५
म्रिये यद्यन्तरालेऽहं व्रतभङ्गो न मे भवेत् ॥२०४.००५
त्रिकालं पूजयेद्विष्णुं त्रिःस्नातो गन्धपुष्पकैः ।२०४.००६
विष्णोर्गीतादिकं जप्यन्ध्यानं कुर्याद्व्रती नरः ॥२०४.००६
वृथावादम्परिहरेदर्थाकाङ्क्षां विवर्जयेत्(२) ।२०४.००७
नाव्रतस्थं स्पृशेत्कञ्चिद्विकर्मस्थान्न चालयेत् ॥२०४.००७
टिप्पणी
१ व्रतं मासोपवासाख्यमिति घ.. , ज.. च
२ अन्नाकाङ्क्षां विवर्जयेदिति घ.. , ङ.. च

देवतायतने तिष्ठेद्यावत्त्रिंशद्दिनानि तु ।२०४.००८

द्वादश्यां पूजयित्वा तु भोजयित्वा द्विजान्व्रती ॥२०४.००८
समाप्य दक्षिणां दत्त्वा पारणन्तु समाचरेत् ।२०४.००९
भुक्तिमुक्तिमवाप्नोति कल्पांश्चैव त्रयोदश ॥२०४.००९
कारयेद्वैष्णवं यज्ञं यजेद्विप्रांस्त्रयोदश ।२०४.०१०
तावन्ति वस्त्रयुग्मानि भाजनान्यासनानि च ॥२०४.०१०
छत्राणि सपवित्राणि तथोपानद्युगानि च(१) ।२०४.०११
योगपट्टोपवीतानि दद्याद्विप्राय तैर्मतः(२) ॥२०४.०११
अन्यविप्राय शय्यायां हैमं विष्णुं प्रपूज्य च ।२०४.०१२
आत्मनश्च तथामूर्तिं वस्त्राद्यैश्च प्रपूजयेत् ॥२०४.०१२
सर्वपापविनिर्मुक्तो विप्रो विष्णुप्रसादतः ।२०४.०१३
विष्णुलोकं गमिष्यामि विष्णुरेव भवाम्यहं ॥२०४.०१३
व्रज व्रज देवबुद्धे विष्णोः स्थानमनामयं ।२०४.०१४
विमानेनामलस्तत्र तिष्ठेद्विष्णुस्वरूपधृक् ॥२०४.०१४
द्विजानुक्त्वाथ(३) तां शय्यां गुरवेऽथ निवेदयेत् ।२०४.०१५
कुलानां शतमुद्धृत्य विष्णुलोकन्नयेद्व्रती ॥२०४.०१५
मासोपवासी यद्देशे स देशो निर्मलो भवेत् ।२०४.०१६
किं पुनस्तत्कुलं सर्वं यत्र मासोपवासकृत् ॥२०४.०१६
व्रतस्थं मूर्छितं दृष्ट्वा क्षीराज्यञ्चैव पाययेत् ।२०४.०१७
नैते व्रतं विनिघ्रन्ति हविर्विप्रानुमोदितं ॥२०४.०१७
टिप्पणी
१ ततः पानयुतानि चेति ख..
२ वै नत इति घ..
३ द्विजान्नत्वाथेति ङ..

क्षीरं गुरोर्हितौषध्य आपो मूलफलानि च ।२०४.०१८
विष्णुर्महौषधं कर्ता व्रतमस्मात्समुद्धरेत् ॥२०४.०१८

इत्याग्नेये महापुराणे मासोपवासव्रतं नाम चतुरधिकद्विशततमोऽध्यायः ॥