अग्निपुराणम्/अध्यायः १०३

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

जीर्णोद्धारः

ईश्वर उवाच
जीर्णादीनाञ्च लिङ्गानामुद्धारं विधिना वदे ।१०३.००१
लक्ष्मोज्झितञ्च भग्नञ्च स्थूलं वज्रहतं तथा ॥१०३.००१
संपुटं स्फुटितं व्यङ्गं लिङ्गमित्येवमादिकं ।१०३.००२
इत्यादिदुष्टलिङ्गानां योज्या पिण्डी(३) तथा वृषः ॥१०३.००२
चालितञ्चलितं लिङ्गमत्यर्थं(४) विषमस्थितं ।१०३.००३
दिड्मूढं पातितं लिङ्गं मध्यस्थं पतितं तथा ॥१०३.००३
एवंविधञ्च संस्थाप्य(५) निर्ब्रणञ्च भवेद्यदि ।१०३.००४
नद्यादिकप्रवाहेन तदपाक्रियते यदि ॥१०३.००४
ततोऽन्यत्रापि संस्थाप्य विधिदृष्टेन कर्मणा ।१०३.००५
टिप्पणी
१ न्यूनादिदोषनाशार्थं कृत्वेति झ.. । न्यूनादिदोषनाशाय हुत्वेति घ.. , ज.. च
२ कर्तर्भोगवत इति ख.. , छ.. च
३ त्याज्या पिण्डीति घ..
४ निम्नमित्यर्थमिति ज..
५ सन्त्याज्यमिति झ..

सुस्थितं दुस्थितं वापि(१) शिवलिङ्गं न चालयेत् ॥१०३.००५
शतेन स्थापनं कुर्यात्सहस्रेण तु चालनं(२) ।१०३.००६
पूजादिभिश्च संयुक्तं जीर्णाद्यमपि सुस्थितं(३) ॥१०३.००६
याम्ये मण्डपमीशे वा प्रत्यग्द्वारैकतोरणं ।१०३.००७
विधाय द्वारपूजादि स्थण्डिले मन्त्रपूजनं(४) ॥१०३.००७
मन्त्रान् सन्तर्प्य सम्पूज्य वास्तुदेवातुं पूर्ववत् ।१०३.००८
दिग्बलिं च वहिर्दत्वा समाचम्य स्वयं गुरुः ॥१०३.००८
ब्राह्मणान् भोजयित्वा तु शम्भुं(५) विज्ञापयेत्ततः ।१०३.००९
दुष्टलिङ्गमिदं शंभोः शान्तिरुद्धारणस्य चेत्(६) ॥१०३.००९
रुसिस्तवादिविधिना(७) अधितिष्ठस्व मां शिव ।१०३.०१०
एवं विज्ञाप्य देवेशं शान्तिहोमं समाचरेत् ॥१०३.०१०
मध्वाज्यक्षीरदूर्वाभिर्मूलेनाष्टाधिकं शतं ।१०३.०११
ततो लिङ्गं च संस्थाप्य पूजयेत्स्थिण्डिले(८) तथा ॥१०३.०११
ओं व्यापकेश्वरायेति नाट्यन्तं शिववादिना(९) ।१०३.०१२
टिप्पणी
१ दुस्थितं चापीति ग..
२ सहस्रेण च चालयेदिति ग..
३ जीर्णाद्यमपि संस्थितमिति ख.. , छ.. च । पूजया रहितं यत्तदन्निष्ठमपि दुःस्थितमिति ख.. , घ.. , पुस्तकेऽधिकः पाठः
४ स्थण्डिलेशप्रपूजनमिति ख.. , ग.. , ङ.. , छ.. , झ.. च । स्थण्डिले सम्प्रपूजनमिति घ.. , ज.. च
५ सर्वमिति क..
६ शान्तिरुद्धरणे न्यसेदिति ख.. , ग.. , घ.. , छ.. च
७ रुचिस्तवास्ति विधिनेति ख.. , ङ.. , छ.. , ज.. च
८ स्थण्डिलमिति ख.. , घ.. , छ.. , ज.. च
९ ओं व्यापकेश्वरायेति तत्त्वेनाभ्यन्तरादिने इति ख.. । ओं व्यापकेश्वरायेति नात्यन्तशिववाचिनेति घ.. । ओं व्यापकेश्वरायेति तत्त्वेनात्यन्तवादिने इति छ..

ओं व्यापकं हृदयेश्वराय नमः(१) । ओं व्यापकेश्वराय शिरसे नमः(२) । इत्याद्यङ्गमन्त्राः(३)
ततस्तत्राश्रितं तत्त्वं श्रावयेदस्त्रमस्ततः(४) ॥१०३.०१२
सत्त्वः कोपीह(५) यः कोपिलिङ्गमाश्रित्य तिष्ठति ।१०३.०१३
लिङ्गन्त्यक्त्वा शिवाज्ञाभिर्यत्रेष्टं तत्र गच्छतु ॥१०३.०१३
विद्याविद्येश्वरैर्युक्तः स भवोत्र(६) भविष्यति ।१०३.०१४
सहस्रं प्रतिभागे च ततः पाशुपताणुना(७) ॥१०३.०१४
हुत्वा शान्त्यम्बुना प्रोक्ष्य स्पृष्ट्वा कुशैर्जपेत्ततः(८) ।१०३.०१५
दत्वार्घं च विलोमेन तत्त्वतत्त्वाधिपांस्तथा ॥१०३.०१५
अष्टमूर्तीश्वरान् लिङ्ग(९) पिण्डिकासंस्थितान् गुरुः ।१०३.०१६
विसृज्य स्वर्णपाशेन वृषस्कन्धस्थया तथा ॥१०३.०१६
रज्वा वध्वा तया नीत्वा शिवमन्तं गृणन् जनैः ।१०३.०१७
तज्जले निक्षिपेन्मन्त्री पुष्ठ्यर्थं जुहुयाच्छतं ॥१०३.०१७
तृप्तये दिक्पतीनाञ्च वास्तुशुद्धौ(१०) शतं शतं ।१०३.०१८
रक्षां विधाय तद्धाम्नि महापाशुपता ततः ॥१०३.०१८
लिङ्गमन्यत्ततस्तत्र विधिवत्स्थापयेद्गुरुः ।१०३.०१९
असुरैर्मुनिभिर्गोत्रस्तन्त्रविद्भिः(११) प्रतिष्ठितं ॥१०३.०१९
टिप्पणी
१ ओं व्यापकेश्वराय हृदयाय नम इति ख.. , ग.. च । ओं व्यापकेश्वर हृदया नम इति झ.. , घ.. च
२ शिरसे स्वाहेति ज..
३ इत्यङ्गमन्त्रा इति ख.. , ङ.. , च । इत्यादिमन्त्रा इति छ..
४ स्नापयेदस्त्रमन्त्रत इति छ.. । धारयेदस्त्रमन्त्रत इति ज..
५ सिद्ध्वः कोपीहेति घ..
६ शम्भुरत्रेति घ.. , ज.. च । प्रभुरत्रेति ख.. , छ.. च
७ पाशुपतात्मनेति ख.. , ग.. , छ.. च
८ दर्भैर्जपेत्तत इति ङ..
९ मूर्तिमूर्तीश्वरान् लिङ्गे इति ख.. , घ.. , ङ.. , छ.. च
१० वास्तुमध्ये घ..
११ तत्त्वविद्भिरिति ख.. , घ.. , छ.. , ज.. च

जीर्णं वाप्यथवा भग्नं(१) विधिनापि नचालयेत् ।१०३.०२०
एष एव विधिः कार्योजीर्णधामसमुद्धृतौ ॥१०३.०२०
खड्गे मन्त्रगणं न्यस्य कारयेत्मन्दिरान्तरं ।१०३.०२१
सङ्कोचे मरणं प्रोक्तं विस्तारो तु धनक्षयः ॥१०३.०२१
तद्द्रव्यं श्रेष्ठद्रव्यं वा तत्सकार्यं तत्प्रमाणकं

इत्याग्नेये महपुराणे जीर्णोद्धारो नाम त्र्यधिकशततमोऽध्यायः ॥