अग्निपुराणम्/अध्यायः ११९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

महाद्वीपादि

अग्निरुवाच
लक्षयोजनविस्तारं जम्बूद्वीपं समावृतम् ।११९.००१
लक्ष्ययोजनमनेन क्षीरोदेन समन्ततः ॥११९.००१
संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः[१](१) ।११९.००२
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरास्तथा ॥११९.००२
स्याच्छान्तभयः शिशिरः सुखोदय इतः परः ।११९.००३
आनन्दश्च शिवः क्षेमो ध्रुवस्तन्नामवर्षकं ॥११९.००३
मर्यादाशैलो गोमेधश्चन्द्रो नारददुन्द्भी ।११९.००४
सोमकः सुमनाः शैलो वैभ्राजास्तज्जनाः शुभाः ॥११९.००४
नद्यः प्रधानाः सप्तात्र प्लक्षाच्छाकान्तिकेषु च ।११९.००५
जीवनं पञ्चसास्रं धर्मो वर्णाश्रमात्मकः[२](२) ॥११९.००५
आर्यकाः कुरवश्चैव विविंशा भाविनश्च ते ।११९.००६
विप्राद्यास्तैश्च सोमोऽर्च्यो द्विलक्षश्चाब्धिलक्षकः ॥११९.००६
मानेनेक्षुरसोदेन वृतो द्विगुणशाल्मलः ।११९.००७
वपुष्मतः सप्त पुत्राः शाल्मलेशास्तथाभवन् ॥११९.००७
श्वेतोऽथ हरितश्चैव जीमूतो लोहितः क्रमात् ।११९.००८
वैद्युतो मानसश्चैव सुप्रभो नाम वर्षकः ॥११९.००८
द्विगुणो द्विगुणेनैव सुरोदेन समावृतः ।११९.००९
कुमुदश्चानलश्चैव[३](३) तृतीयस्तु वलाहकः ॥११९.००९
द्रोणः कंकोऽथ[४](४) महिषः ककुद्मान् सप्त निम्नगाः ।११९.०१०
कपिलाश्चारुणाः पीताः कृष्णाः स्युर्ब्राह्मणादयः ॥११९.०१०
वायुरूपं यजन्ति स्म सुरोदेनायमावृतः[५]) ।११९.०११
ज्योतिष्मतः कुशेशाः स्युरुद्भिजो धेनुमान् सुतः ॥११९.०११
द्वैरथो लंवनो धैर्यः कपिलश्च प्रभाकरः ।११९.०१२
विप्राद्या दधिमुख्यास्तु ब्रह्मरूपं यजन्ति ते ॥११९.०१२
विद्रुमो[६](१) हेमशैलश्च द्युतिमान् पुष्पवांस्तथा ।११९.०१३
कुशेशयो हरिः शैलो वर्षार्थं मन्दराचलः ॥११९.०१३
वेष्टितोऽयं घृतोदेन क्रौञ्चद्वीपेन सोऽप्यथ ।११९.०१४
क्रौञ्चेश्वराः द्युतिमतः पुत्रास्तन्नामवर्षकाः ॥११९.०१४
कुशलो मनोनुगश्चोष्णः प्रधानोऽथान्धकारकः ।११९.०१५
मुनिश्च दुन्दुभिः सप्त सप्त शैलाश्च निम्नगाः[७](२) ॥११९.०१५
क्रौञ्चश्च वाम्नश्चैव तृतीयश्चान्धकारकः[८](३) ।११९.०१६
देववृत्पुण्डरीकश्च दुन्दुभिर्द्विगुणो मिथः ॥११९.०१६
द्वीपा द्वीपेषु ये शैला यथा द्वीपानि ते तथा ।११९.०१७
पुष्कराः पुष्कला धन्यास्तीर्था[९](४) विप्रादयो हरिम् ॥११९.०१७
यजन्ति क्रौञ्चद्वीपस्तु दधिमण्डोदकावृतः ।११९.०१८
संवृतः शाकद्वीपेन हव्याच्छाकेश्वराः सुताः ॥११९.०१८
जलदश्च कुमारश्च सुकुमारो मणीवकः ।११९.०१९
कुशोत्तरथो मोदाकी द्रुमस्तन्नामवर्षकाः ॥११९.०१९
उदयाख्यो जलधरो रैवतः श्यामकोद्रकौ ।११९.०२०
आम्विकेयस्तथा रम्यः केशरी सप्त निम्नगाः ॥११९.०२०
मगा मगधमनस्या[१०](१) मन्दगाश्च द्विजातयः[११](२) ।११९.०२१
यजन्ति सूर्यरूपं तु[१२](३) शाकः क्षीराब्धिना वृतः ॥११९.०२१
पुष्करेणावृतः सोऽपि द्वौ पुत्रौ सवनस्य च ।११९.०२२
मसावीतो धातकिश्च वर्षे द्वे नामचिह्निते[१३](४) ॥११९.०२२
एकोऽद्रिर्मानसाख्योऽत्र मध्यतो वलयाकृतिः ।११९.०२३
योजनानां सहस्राणि विस्तारोच्छ्रायतः समः ॥११९.०२३
जीवनं दशसाहस्रं सुरैर्ब्रह्मात्र पूज्यते ।११९.०२४
स्वादूदकेनोदधिना वेष्टितो द्वीपमानतः ॥११९.०२४
ऊनातिरिक्तता चापां समुद्रेषु न जायते ।११९.०२५
उदयास्तमनेष्विन्दोः पक्षयोः शुक्लकृष्णयोः ॥११९.०२५
दशोत्तराणि पञ्चैव[१४](५) अङ्गुलानां शतानि वै ।११९.०२६
अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां[१५](६) महामुने ॥११९.०२६
स्वादूदका बहुगुणा[१६](७) भूर्हैमी जन्तुवर्जिता ।११९.०२७
लोकालोकस्ततः शैलो योजनायुतविस्तृतः ॥११९.०२७
लोकालोकस्तु तमसावृतोऽथाण्डकटाहतः ।११९.०२८
भूमिः साण्डकटाहेन पञ्चाशत्कोटिविस्तरा[१७](८) ॥११९.०२८
इत्याग्नेये महपुराणे द्वीपादिवर्णनं नामैकोनविंशत्यधिकशततमोऽध्यायः ॥

  1. द्वीपस्तथा स्मृत इति झ..
  2. वर्णाश्रमात्मज इति ख.. , घ.. , ज.. च
  3. कुमुदश्चोन्नतश्चैवेति ख.. , ग.. , घ.. , ङ.. च
  4. कर्कोऽथेति क..
  5. सुरोदेन समावृत इति घ.
  6. रुद्राभ इति क.. । विक्रम इति ख.. , छ.. च
  7. कुशल इत्यादिः, निम्नगा इत्यन्तः पाठो झ.. पुस्तके नास्ति
  8. तृतीयश्चानुकारक इति घ.. , झ.. च
  9. पुष्कलावत्यां तीर्था इति घ.
  10. आगाम्यगधमालस्या इति ख.. , छ.. च
  11. द्विजादय इति क.. , ख.. , ग.. , छ.. च
  12. सूर्यरूपन्ते इति घ.. , ज.. च
  13. वर्षे द्वे भागचिह्निते इति झ..
  14. पञ्चात्रेति ग.. , ङ.. च
  15. समुद्राणामिति ग.. , ङ.. , झ.. च
  16. वादूदका द्वित्रिगुणेति ख.. , छ.. च । स्वादूदका तु द्विगुणेति घ.. , ज.. च । स्वादूदका तु द्विगुणेति ग.. , ङ.. च
  17. पञ्चाशत्कोटिविस्तृतेति छ.