शुक्लयजुर्वेदः/अध्यायः ३४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

अध्यायः 34
अनारभ्याधीतो अध्याये ब्रह्मयज्ञार्थकः शिवसंकल्पादि मन्त्राः

34.1
यज् जाग्रतो दूरम् उदैति दैवं तद् उ सुप्तस्य तथैवैति ।
दूरंगमं ज्योतिषां ज्योतिर् एकं तन् मे मनः शिवसंकल्पम् अस्तु ॥

34.2
येन कर्माण्य् अपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ।
यद् अपूर्वं यक्षम् अन्तः प्रजानां तन् मे मनः शिवसंकल्पम् अस्तु ॥

34.3
यत् प्रज्ञानम् उत चेतो धृतिश् च यज् ज्योतिर् अन्तर् अमृतं प्रजासु ।
यस्मान् न ऽ ऋते किं चन कर्म क्रियते तन् मे मनः शिवसंकल्पम् अस्तु ॥

34.4
येनेदं भूतं भुवनं भविष्यत् परिगृहीतम् अमृतेन सर्वम् ।
येन यज्ञस् तायते सप्तहोता तन् मे मनः शिवसंकल्पम् अस्तु ॥

34.5
यस्मिन्न् ऋचः साम यजूꣳषि यस्मिन् प्रतिष्ठिता रथनाभाव् इवाराः ।
यस्मिꣳश् चित्तꣳ सर्वम् ओतं प्रजानं तन् मे मनः शिवसंकल्पम् अस्तु ॥

34.6
सुषारथिर् अश्वान् इव यन् मनुष्यान् नेनीयते ऽभीशुभिर् वाजिन ऽ इव ।
हृत्प्रतिष्ठं यद् अजिरं जविष्ठं तन् मे मनः शिवसंकल्पम् अस्तु ॥

34.7
पितुं नु स्तोषं महो धर्माणं तविषीम् ।
यस्य त्रितो व्य् ओजसा वृत्रं विपर्वम् अर्दयत् ॥

34.8
अन्व् इद् अनुमते त्वं मन्यासै शं च नस् कृधि ।
क्रत्वे दक्षाय नो हिनु प्र ण ऽ आयूꣳषि तारिषः ॥

34.9
अनु नो ऽद्यानुमतिर् यज्ञं देवेषु मन्यताम् ।
अग्निश् च हव्यवाहनो भवतं दाशुषे मयः ॥

34.10
सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा ।
जुषस्व हव्यम् आहुतं प्रजां देवि दिदिड्ढि नः ॥

34.11
पञ्च नद्यः सरस्वतीम् अपि यन्ति सस्रोतसः ।
सरस्वती तु पञ्चधा सो देशे ऽभवत् सरित् ॥

34.12
त्वम् अग्ने प्रथमो ऽ अङ्गिरा ऽ ऋषिर् देवो देवानाम् अभवः शिवः सखा ।
तव व्रते कवयो विद्मनापसो ऽजायन्त मरुतो भ्राजदृष्टयः ॥

34.13
त्वं नो ऽ अग्ने तव देव पायुभिर् मघोनो रक्ष तन्वश् च वन्द्य ।
त्राता तोकस्य तनये गवाम् अस्य् अनिमेषꣳ रक्षणस् तव व्रते ॥

34.14
उत्तानायाम् अव भरा चिकित्वान्त् सद्यः प्रवीता वृषणं जजान ।
अरुषस्तूपो रुशद् अस्य पाज ऽ इडायास् पुत्रो वयुने ऽजनिष्ट ॥

34.15
इडायास् त्वा पदे वयं नाभा पृथिव्या ऽ अधि ।
जातवेदो नि धीमह्य् अग्ने हव्याय वोढवे ॥

34.16
प्र मन्महे शवसानाय शूषम् आङ्गूषं गिर्वणसे ऽ अङ्गिरस्वत् ।
सुवृक्तिभिः स्तुवत ऽ ऋग्मियायार्चामार्कं नरे विश्रुताय ॥

34.17
प्र वो महे महि नमो भरध्वम् आङ्गूष्यꣳ शवसानाय साम ।
येना नः पूर्वे पितरः पदज्ञा ऽ अर्चन्तो ऽ अङ्गिरसो गा ऽ अविन्दन् ॥

34.18
इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयाꣳसि ।
तितिक्षन्ते ऽ अभिशस्तिं जनानाम् इन्द्र त्वद् आ कश् चन हि प्रकेतः ॥

34.19
न ते दूरे परमा चिद् रजाꣳस्य् अस्या तु प्र याहि हरिवो हरिभ्याम् ।
स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने ऽ अग्नौ ॥

34.20
अषाढं युत्सु पृतनासु पप्रिꣳ स्वर्षाम् अप्सां वृजनस्य गोपाम् ।
भरेषुजाꣳ सुक्षितिꣳ सुश्रवसं जयन्तं त्वाम् अनु मदेम सोम ॥

34.21
सोमो धेनुꣳ सोमो ऽ अर्वन्तम् आशुꣳ सोमो वीरं कर्मण्यं ददाति ।
सादन्यं विदथ्यꣳ सभेयं पितृश्रवणं यो ददाशद् अस्मै ॥

34.22
त्वम् इमा ऽ ओषधीः सोम विश्वास् त्वम् अपो ऽ अजनयस् त्वं गाः ।
त्वम् आ ततन्थोर्व् अन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥

34.23
देवेन नो मनसा देव सोम रायो भागꣳ सहसावन्न् अभि युध्य ।
मा त्वा तनद् ईशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ ॥

34.24
अष्टौ व्यख्यत् ककुभः पृथिव्यास् त्री धन्व योजना सप्त सिन्धून् ।
हिरण्याक्षः सविता देव ऽ आगाद् दधद् रत्ना दाशुषे वार्याणि ॥

34.25
हिरण्यपाणिः सविता विचर्षणिर् उभे द्यावापृथिवी ऽ अन्तर् ईयते ।
अपामीवां बाधते वेति सूर्यम् अभि कृष्णेन रजसा द्याम् ऋणोति ॥

34.26
हिरण्यहस्तो ऽ असुरः सुनीथः सुमृडीकः स्ववाँ यात्व् अर्वाङ् ।
अपसेधन् रक्षसो यातुधानान् अस्थाद् देवः प्रतिदोषं गृणानः ॥

34.27
ये ते पन्थाः सवितः पूर्व्यासो ऽरेणवः सुकृता ऽ अन्तरिक्षे ।
तेभिर् नो ऽ अद्य पथिभिः सुगेभी रक्षा च नो ऽ अधि च ब्रूहि देव ॥

34.28
उभा पिबतम् अश्विनोभा नः शर्म यच्छतम् ।
अविद्रियाभिर् ऊतिभिः ॥

34.29
अप्नस्वतीम् अश्विना वाचम् अस्मे कृतं नो दस्रा वृषणा मनीषाम् ।
अद्यूत्ये ऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ ॥

34.30
द्युभिर् अक्तुभिः परि पातम् अस्मान् अरिष्टेभिर् अश्विना सौभगेभिः ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी ऽ उत द्यौः ॥

34.31
आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥

34.32
आ रात्रि पर्थिवꣳ रजः पितुर् अप्रायि धामभिः ।
दिवः सदाꣳसि बृहती वि तिष्ठस ऽ आ त्वेषं वर्तते तमः ॥

34.33
उषस् तच् चित्रम् आ भरास्मभ्यं वाजिनीवति ।
येन तोकं च तनयं च धामहे ॥

34.34
प्रातर् अग्निं प्रातर् इन्द्रꣳ हवामहे प्रातर् मित्रावरुणा प्रातर् अश्विना ।
प्रातर् भगं पूषणं ब्रह्मणस्पतिं प्रातः सोमम् उत रुद्रꣳ हुवेम ॥

34.35
प्रातर्जितं भगम् उग्रꣳ हुवेम वयं पुत्रम् अदितेर् यो विधर्ता ।
आध्रश् चिद् यं मन्यमानस् तुरश् चिद् राजा चिद् यं भगं भक्षीत्य् आह ॥

34.36
भग प्रणेतर् भग सत्यराधो भगेमां धियम् उदवा ददन् नः ।
भग प्र णो जनय गोभिर् अश्वैर् भग प्र नृभिर् नृवन्तः स्याम ॥

34.37
उतेदानीं भगवन्तः स्यामोत प्रपित्व ऽ उत मध्ये ऽ अह्नाम् ।
उतोदिता मघवन् सूर्यस्य वयं देवानाꣳ सुमतौ स्याम ॥

34.38
भग ऽ एव भगवाꣳ२ऽ अस्तु देवास् तेन वयं भगवन्तः स्याम ।
तं त्वा भग सर्व ऽ इज्जोहवीति स नो भग पुर ऽ एता भवेह ॥

34.39
सम् अध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।
अर्वाचीनं वसुविदं भगं नो रथम् इवाश्वा वाजिन ऽ आ वहन्तु ॥

34.40
अश्वावतीर् गोमतीर् न ऽ उषासो वीरवतीः सदम् उच्छन्तु भद्राः ।
घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥

34.41
पूषन् तव व्रते वयं न रिष्येम कदा चन ।
स्तोतारस् त ऽ इह स्मसि ॥

34.42
पथस्-पथः परिपतिं वचस्या कामेन कृतो ऽ अभ्यानड् अर्कम् ।
स नो रासच्छुरुधश् चन्द्राग्रा धियं-धियꣳ सीषधाति प्र पूषा ॥

34.43
त्रीणि पदा वि चक्रमे विष्णुर् गोपा ऽ अदाभ्यः ।
अतो धर्माणि धारयन् ॥

34.44
तद् विप्रासो विपन्यवो जागृवाꣳसः सम् इन्धते ।
विष्णोर् यत् परमं पदम् ॥

34.45
घृतवती भुवनानाम् अभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा ।
द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते ऽ अजरे भूरिरेतसा ॥

34.46
ये नः सपत्ना ऽ अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामहे तान् ।
वसवो रुद्रा ऽ आदित्या ऽ उपरिस्पृशं मोग्रं चेत्तारम् अधिराजम् अक्रन् ॥

34.47
आ नासत्या त्रिभिर् एकादशैर् इह देवेभिर् यातं मधुपेयम् अश्विना ।
प्रायुस् तारिष्टं नी रपाꣳसि मृक्षतꣳ सेधतं द्वेषो भवतꣳ सचाभुवा ॥

34.48
एष व स्तोमो मरुत ऽ इयं गीर् मान्दार्यस्य मान्यस्य कारोः ।
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥

34.49
सहस्तोमाः सहच्छन्दस ऽ आवृतः सहप्रमा ऽ ऋषयः सप्त दैव्याः ।
पूर्वेषां पन्थाम् अनुदृश्य धीरा ऽ अन्वालेभिरे रथ्यो न रश्मीन् ॥

34.50
आयुष्यं वर्चस्यꣳ रायस्पोषम् औद्भिदम् ।
इदꣳ हिरण्यं वर्चस्वज् जैत्राया विशताद् उ माम् ॥

34.51
न तद् रक्षाꣳसि न पिशाचास् तरन्ति देवानाम् ओजः प्रथमजꣳ ह्य् एतत् ।
यो बिभर्ति दाक्षायणꣳ हिरण्यꣳ स देवेषु कृणुते दीर्घम् आयुः स मनुष्येषु कृणुते दीर्घम् आयुः ॥

34.52
यद् आबध्नन् दाक्षायणा हिरण्यꣳ शतानीकाय सुमनस्यमानाः ।
तन् म ऽ आ बध्नामि शतशारदायायुष्मान् जरदष्टिर् यथासम् ॥

34.53
उत नो ऽहिर्बुध्न्यः शृणोत्व् अज ऽ एकपात् पृथिवी समुद्रः ।
विश्वे देवा ऽ ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ता ऽ अवन्तु ॥

34.54
इमा गिर ऽ आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि ।
शृणोतु मित्रो ऽ अर्यमा भगो नस् तुविजातो वरुणो दक्षो ऽअꣳशः ॥

34.55
सप्त ऽ ऋषयः प्रतिहिताः शरीरे सप्त रक्षन्ति सदम् अप्रमादम् ।
सप्तापः स्वपतो लोकम् ईयुस् तत्र जागृतो ऽ अस्वप्नजौ सत्रसदौ च देवौ ॥

34.56
उत् तिष्ठ ब्रह्मणस्पते देवयन्तस् त्वेमहे ।
उप प्र यन्तु मरुतः सुदानव ऽ इन्द्र प्राशूर् भवा सचा ॥

34.57
प्र नूनं ब्रह्मणस्पतिर् मन्त्रं वदत्य् उक्थ्यम् ।
यस्मिन्न् इन्द्रो वरुणो मित्रो ऽ अर्यमा देवा ऽ ओकाꣳसि चक्रिरे ॥

34.58
ब्रह्मणस्पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व ।
विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ।
[य इमा विश्वा । विश्वकर्मा । यो नः पिता । अन्नपते न्नस्य नो देहि ॥ ] (अ.वे. 17. , 11. )


भाष्यम्(उवट-महीधर)

चतुस्त्रिंशोऽध्यायः ।
तत्र प्रथमा ।
यज्जाग्र॑तो दू॒रमु॒दैति॒ दैवं॒ तदु॑ सु॒प्तस्य॒ तथै॒वैति॑ ।
दू॒र॒ङ्ग॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु ।। १ ।।
उ० यजाग्रतः षट्कण्डिकास्त्रिष्टुभो मनोदेवत्याः। अस्मिन्नध्याये लैङ्गिको विनियोगः । लिङ्गंच सामर्थ्यमुच्यते अभिधानशक्तिः । यन्मनः जाग्रतः पुरुषस्य दूरं उदैति उद्गच्छति चक्षुःप्रभृतीन्यपेक्ष्य । यच्च दैवम् देवो विज्ञानात्मा सोनेन गृह्यत इति दैवम् । उक्तंच 'मनसैवानुद्रष्टव्यमेतदप्रमयं ध्रुवमि'ति । तदु सुप्तस्य । तदःस्थाने यदोवृत्तिः । उकारः समुच्चयार्थीयः। यच्च मनः सुप्तस्य तथैव तेनैव प्रकारेण एति । यच्च दूरंगमं दूरं गच्छतीति दूरंगमम् अतीतानागतवर्तमानव्यवहितविप्रकृष्टग्रहीतृ । ज्योतिषां श्रोत्रादीनां विज्ञाननेतॄणां मध्य एकमेव ज्योतिः । तत् मे मनः शिवसंकल्पम् । संकल्पः काममूलपदार्थस्य ख्यादेः सुरूपताज्ञानवतः कामप्रभृति शान्तसंकल्पम् अस्तु भवतु ॥ १ ॥
म० अनारभ्याधीतोऽध्यायः आ पितृमेधात् आदित्ययाज्ञवल्क्यदृष्टा मन्त्राः पाठे विनियुक्ताः । षडृचस्त्रिष्टुभो मनोदेवत्याः शिवसंकल्पदृष्टाः । ऋषिर्वदति । तन्मे मनः शिवसंकल्पमस्तु शिवः कल्याणकारी धर्मविषयः संकल्पो यस्य तत् तादृशं भवतु । मन्मनसि सदा धर्म एव भवतु न कदाचित्पापमित्यर्थः । तत्किम् । यत् मनो जाग्रतः पुरुषस्य दूरमुदैति उद्गच्छति । चक्षुराद्यपेक्षया मनो दूरगामीत्यर्थः । यच्च दैवं दीव्यति प्रकाशते देवो विज्ञानात्मा तत्र भवं दैवमात्मग्राहकमित्यर्थः । 'मनसैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम्' इति श्रुतेः । तत् उ । यदः स्थाने तच्छब्दः उकारश्चार्थः । यच मनः सुप्तस्य पुंसः तथैव एति यथा गतं तथैव पुनरागच्छति स्वापकाले सुषुप्तावस्थायां पुनरागच्छति । यच्च दूरंगमं दूरात् गच्छतीति दूरंगमम् खश्प्रत्ययः । अतीतानागतवर्तमानविप्रकृष्टव्यवहितपदार्थानां ग्राहकमित्यर्थः । यच्च मनो ज्योतिषां प्रकाशकानां श्रोत्रादीन्द्रियाणामेकमेव ज्योतिः प्रकाशकं प्रवर्तकमित्यर्थः । प्रवर्तितान्येव श्रोत्रादीन्द्रियाणि स्वविषये प्रवर्तन्ते । आत्मा मनसा संयुज्यते मन इन्द्रियेणेन्द्रियमर्थेनेति न्यायोक्तेर्मनः संबन्धमन्तरा तेषामप्रवृत्तेः । तादृशं मे मनः शान्तसंकल्पमस्तु ॥ १॥

द्वितीया।
येन॒ कर्मा॑ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॒ण्वन्ति॑ वि॒दथे॑षु॒ धीरा॑: ।
यद॑पू॒र्वं य॒क्षम॒न्तः प्र॒जानां॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु ।। २ ।।
उ० येन कर्माणि । येन मनसा सता कर्माणि । अपसः अप इति कर्मनाम तद्धितलोपः । अपस्विनः कर्मवतः । मनीषिणः मेधाविनः । यज्ञे कृण्वन्ति कुर्वन्ति । विदथेषु | वेदनेषु यज्ञविधिविधानेषु धीराः धीमन्तः । यच्च अपूर्वम् न विद्यते पूर्वमिन्द्रियं यस्मात्तदपूर्वम् । यद्वा अपूर्वमनपरम् । यच्च यक्षं पूज्यम् । यच्च अन्तर्मध्ये प्रजानामास्ते । तन्मे मन इति व्याख्यातम् ॥२॥
म० मनीषिणः मेधाविनः यज्ञे येन मनसा सता कर्माणि कृण्वन्ति कुर्वन्ति 'कृ करणे' स्वादिः । मनःस्वास्थ्यविना कर्माप्रवृत्तेः । केषु सत्सु । विदथेषु ज्ञानेषु सत्सु विद्यन्ते ज्ञायन्ते तानि विदथानि तेषु । वेत्तेरौणादिकोऽथप्रत्ययः प्रत्ययोदात्तत्वेन मध्योदात्तं पदम् 'प्रत्ययः परश्च आद्युदात्तश्च' (पा० ३ । १। १-३) इति पाणिन्युक्तेः यज्ञसंबन्धिनां हविरादिपदार्थानां ज्ञानेषु सत्स्वित्यर्थः । कीदृशा मनीषिणः । अपसः अप इति कर्मनाम ( निघ० २ । १।१) अपो विद्यते येषां ते अपस्विनः कर्मवन्तः 'अस्मायामेधास्रजो विनिः' (पा० ५।२। १२१) इति विन्प्रत्ययः 'विन्मतोर्लुक्' इतीष्ठाभावेऽपि छान्दसो विनो लुक् (पा० ५ । ३ । ६५) सदा कर्मनिष्ठा इत्यर्थः । तथा धीराः धीमन्तः धीर्विद्यते येषां ते धीराः कर्मण्यण् ( पा० ३।२।१) यच्च मनः अपूर्वम् न विद्यते पूर्वमिन्द्रियं यस्मात्तदपूर्वम् इन्द्रियेभ्यः पूर्वं मनसः सृष्टेः। यद्वा अपूर्वमनपरमवाह्यमित्युक्तेरपूर्वमात्मरूपमित्यर्थः । यच्च यक्षं यष्टुं शक्तं यज्ञम् । यजतेरौणादिकः सन्प्रत्ययः 'ञित्यादिर्नित्यम्' (पा० ६ । १ । १९७ ) इत्याद्युदात्तं पदम् । यच्च प्रजायन्ते इति प्रजास्तासां प्राणिमात्राणामन्तः शरीरामध्ये आस्ते इतरेन्द्रियाणि बहिःष्ठानि मनस्त्वन्तरिन्द्रियमित्यर्थः । तत् तादृशं मे मनः शिवसंकल्पमस्त्विति व्याख्यातम् ॥ २॥

तृतीया ।
यत्प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृतं॑ प्र॒जासु॑ ।
यस्मा॒न्न ऋ॒ते किं च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु ।। ३ ।।
उ० यत्प्रज्ञानम् । यन्मनः प्रज्ञानं विशेषप्रतिपत्तिप्रज्ञाम् । उत अपिच । चेतः सामान्यप्रतिपत्तिचेतः। धृतिश्च प्रसिद्धा । यन्मनः अन्तर्ज्योतिरमृतं च प्रजासु । यस्मान्न ऋते येन च विना न किंचन कर्म क्रियते । तन्मे मन इति व्याख्यातम् ॥३॥
म० यत् मनः प्रज्ञानं विशेषेण ज्ञानजनकम् प्रकर्षेण ज्ञायते येन तत् प्रज्ञानम् । 'करणाधिकरणयोश्च' (पा० ३ । ३ । ११७) इति करणे ल्युट्प्रत्ययः । उत अपि यत् मनः चेतः चेतयति सम्यक् ज्ञापयति तच्चेतः । 'चिती संज्ञाने' अस्मात् ण्यन्तादसुन्प्रत्ययः । सामान्यविशेषज्ञानजनकमित्यर्थः। यच्च मनो धृतिर्धैर्यरूपम् । मनस्येव धैर्योत्पत्तेर्मनसि धैर्यमुपचर्यते कार्यकारणयोरभेदात् । यच्च मनः प्रजासु जनेषु अन्तर्वर्तमानं सत् ज्योतिः प्रकाशकं सर्वेन्द्रियाणाम् । उक्तमपि पुनरुच्यते आदरार्थम् । 'अभ्यासे भूयांसमर्थं मन्यन्ते' (निरु० १। ४२) इति यास्कोक्तेः । यच्चामृतममरणधर्मि आत्मरूपत्वात् । यस्मान्मनसः ऋते यन्मनोविना किंचन किमपि कर्म न क्रियते जनैः । सर्वकर्मसु प्राणिनां मनःपूर्वं प्रवृत्तेर्मनःस्वास्थ्यंविना कर्माभावादित्यर्थः । 'अन्यारादितरर्ते-' (पा. २। ३ । २९) इत्यादिना यस्मादिति ऋतेयोगे पञ्चमी । तन्मे मन इति व्याख्यातम् ॥ ३ ॥

चतुर्थी।
येने॒दं भू॒तं भुव॑नं भवि॒ष्यत् परि॑गृहीतम॒मृते॑न॒ सर्व॑म् ।
येन॑ य॒ज्ञस्ता॒यते॑ स॒प्तहो॑ता॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु ।। ४ ।।
उ० येनेदम् । येन मनसा इदं भूतं भूतकालम् , भुवनं वर्तमानकालं, भविष्यत् भविष्यत्कालं च । परिगृहीतम् अमृतेन सर्वम् । येन च मनसा यज्ञस्तायते तन्यते । सप्तहोता । सप्त होतारो ह्यग्निष्टोमे भवन्ति । तन्मे मन इति व्याख्यातम् ॥ ४॥
म० येन मनसा इदं सर्वं परिगृहीतम् परितः सर्वतो ज्ञातम् । इदं किंभूतम् । भूतकालसंबन्धि वस्तु । भुवनं भवतीति भुवनम् । भवतेः क्युप्रत्ययः वर्तमानकालसंबन्धि । भविष्यत् 'लृटः सद्वा' (पा० ३।३। १४ ) इति शतृप्रत्ययः 'तौ सत्' (पा० ३।२। १२७) इत्युक्तेः त्रिकालसंबद्धवस्तषु मनः प्रवर्तत इत्यर्थः । श्रोत्रादीनि तु प्रत्यक्षमेव गृह्णन्ति । कीदृशेन येन । अमृतेन शाश्वतेन । मुक्तिपर्यन्तं श्रोत्रादीनि नश्यन्ति मनस्वनश्वरमित्यर्थः । येन च मनसा यज्ञोऽग्निष्टोमादिः तायते विस्तार्यते । 'तनोतेर्यकि' (पा० ६ । ४ । ४४ ) इत्याकारः । कीदृशो यज्ञः । सप्तहोता सप्त होतारो देवानामाह्वातारो होतृमैत्रावरुणादयो यत्र स सप्तहोता । अग्निष्टोमे सप्त होतारो भवन्ति । तन्मे मन इति व्याख्यातम् ॥ ४ ॥

पञ्चमी।
यस्मि॒न्नृच॒: साम॒ यजू॑ᳪं᳭षि॒ यस्मि॒न् प्रति॑ष्ठिता रथना॒भावि॑वा॒राः ।
यस्मि॑ᳪं᳭श्चि॒त्तᳪं᳭ सर्व॒मोतं॑ प्र॒जानां॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु ।। ५ ।।
उ० यस्मिन्नृचः यस्मिन्मनसि ऋचः प्रतिष्ठिताः। यस्मिन्सामानि प्रतिष्ठितानि । यस्मिन् यजूंषि प्रतिष्ठितानि । कथमिव । रथनाभौ इव आराः । यस्मिन् चित्तं संज्ञानम् सर्वम् तस्य तस्यार्थस्य । ओतं निक्षिप्तम् तन्तुसंततमिव कृतं प्रजानाम् । तन्मे मन इति व्याख्यातम् ॥ ५॥
म० यस्मिन् मनसि ऋचः प्रतिष्ठिताः । यस्मिन् साम सामानि प्रतिष्ठितानि । यस्मिन् यजूंषि प्रतिष्ठितानि । मनसः स्वास्थ्ये एव वेदत्रयीस्फूर्तेर्मनसि शब्दमात्रस्य प्रतिष्ठितत्वम् | 'अन्नमयं हि सोम्य मनः' इति छान्दोग्ये मनस एव स्वास्थ्ये वेदोच्चारणशक्तिः प्रतिपादिता । तत्र दृष्टान्तः । रथनाभौ आराः इव । यथा आराः रथचक्रनाभौ मध्ये प्रतिष्ठितास्तद्वच्छब्दजालं मनसि । किंच प्रजानां सर्वं चित्तं ज्ञानम् सर्वपदार्थविषयि ज्ञानं यस्मिन् मनसि ओतं प्रोतं निक्षिप्तं तन्तुसन्ततिः पटे इव सर्वं ज्ञानं मनसि निहितम् । मनःस्वास्थ्ये एव ज्ञानोत्पत्तिर्मनोवैयग्र्ये च ज्ञानाभावः । तन्मे मम मनः शिवसंकल्पं शान्तव्यापारमस्तु ॥ ५॥

षष्ठी।
सु॒षा॒र॒थिरश्वा॑निव॒ यन्म॑नु॒ष्या॒न्नेनी॒यते॒ऽभीशु॑भिर्वा॒जिन॑ इव ।
हृ॒त्प्रति॑ष्ठं॒ यद॑जि॒रं जवि॑ष्ठं॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु ।। ६ ।।
उ० सुषारथिः । यन्मनः मनुष्यान् । नेनीयते अत्यर्थं नयति । कथमिव । सुषारथिः कल्याणसारथिः अश्वान् इव यन्मनुष्यान् । यच्च मनः सुषारथिरिव । अभीशुभिः प्रग्रहैः वाजिन इव वेजनवतोऽश्वानिव यमयतीति शेषः । द्वे उपमे एकत्र नयनमन्यत्र नियमनमर्थः । यच्च हृत्प्रतिष्ठम् । तत्रोपलब्धेः । यच्च अजिरं जरारहितम् । यच्च जविष्ठं अतिशयेन गन्तृ । तन्मे मनः शिवसंकल्पमस्तु ॥ ६ ॥
म० यत् मनो मनुष्यान्नरान्नेनीयते अत्यर्थमितस्ततो नयति । नयतेः क्रियासमभिहारे यङ् । मनःप्रेरिता एव प्राणिनः प्रवर्तन्ते । मनुष्यग्रहणं प्राणिमात्रोपलक्षकम् । तत्र दृष्टान्तः । सुसारथिः अश्वानिव शोभनः सारथिर्यन्ता यथा कशया अश्वान् नेनीयते । द्वितीयो दृष्टान्तः । अभीशुभिर्वाजिन इव यथा सुसारथिरभीशुभिः प्रग्रहैः वाजिनोऽश्वान्नेनीयत इत्यनुषङ्गः । रश्मिभिर्नियच्छतीत्यर्थः । उपमाद्वयम् । प्रथमायां नयनं द्वितीयायां नियमनम् । तथा मनः प्रवर्तयति नियच्छति च नरानित्यर्थः । यच्च मनः हृत्प्रतिष्ठं हृदि प्रतिष्ठा स्थितिर्यस्य तत् हृद्येव मन उपलभ्यते । यच्च मनः अजिरं जरारहितम् बाल्ययौवनस्थाविरेषु मनसस्तदवस्थत्वात् । यच्च जविष्ठम् अतिजववद्वेगवत् जविष्ठम् 'न वै वातात्किंचनाशीयोऽस्ति न मनसः किंचनाशीयोऽस्ति' इति श्रुतेः । तन्म इत्युक्तम् ॥ ६॥

सप्तमी।
पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीम् ।
यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त् ।। ७ ।।
उ० पितुं नु । अन्नस्तुतिः उष्णिगनुष्टुब्गर्भा । द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते यच्छब्दयोगात् । यस्य पितोः अन्यस्य त्रितः त्रिस्थान इन्द्रः ओजसा बलेन वृत्रम् । विपर्वं विपर्वाणं विगतसन्धिबन्धनं कृत्वा । अर्दयत् विविधं अर्दितवान् तम् पितुम् अन्नम् । नुरनर्थकः । स्तोषम् स्तौमि । महः महतः धर्माणं धारयितारम् । तविषीम् तविष्याः इति विभक्तिव्यत्ययः । तविषीति बलनाम । तवतेर्वृद्धिकर्मणः बलस्य ॥ ७ ॥
म० उष्णिक् अन्नस्तुतिः । तं पितुमन्नं स्तोषं स्तौमि । किंभूतम् । महो महसः तविषीं तविष्याः बलस्य धर्माणं धारयितारम् । तविषीति बलनाम । विभक्तिव्यत्ययः । अन्नेनैव बलोत्पत्तेः । तं कम् । यस्य पितोरोजसा बलेन त्रितः त्रिस्थान इन्द्रः वृत्रं दैत्यं विपर्वं गतसंधिबन्धनं कृत्वा वि अर्दयत् विविधमर्दितवान् । इन्द्रेण वृत्रोऽत्र बलेनैव हत इत्यर्थः । स्तोषं स्तोतेर्मिपि 'इतश्च लोपः परस्मैपदेषु' ( पा० ३ । ४ । ९७ ) इति इकारलोपे 'लेटोऽडाटौ' (पा० ३।४ । ९४ ) इत्याडागमे 'सिब्बहुलं लेटि' (पा० ३ । १ । ३४ ) इति सिप्प्रत्यये गुणे च रूपम् । महः । महच्छब्दस्य ङसि छान्दसष्टिलोपः। धर्माणम् धरतेर्मन् । विपर्वम् विगतानि पर्वाणि यस्य तम् । डप्रत्यये टिलोपः । अर्दयत् 'बहुलं छन्दस्यमाङ्योगेऽपि' (पा० ६ । ४ । ७५) इत्यडभावः । 'व्यवहिताश्च' ( पा० १। ४ । ८२ ) इति वेरुपसर्गस्य व्यवधानम् ॥ ७ ॥

अष्टमी।
अन्विद॑नुमते॒ त्वं मन्या॑सै॒ शं च॑ नस्कृधि ।
क्रत्वे॒ दक्षा॑य नो हिनु॒ प्र ण॒ आयू॑ᳪं᳭षि तारिषः ।। ८ ।।
उ० अन्वित् । चतस्रोऽनुष्टुभः । अनुमन्यासै अनुमन्यस्व । इदिति निपातः पादपूरणः । हे अनुमते, त्वम् । शं च सुखं च नः अस्माकम् कृधि कुरु । हे अनुमते, क्रत्वे क्रतवे संकल्पाय । दक्षाय तत्समृद्धये संकल्पसिद्धये च । नः अस्मान् हिनु गमय । प्रण आयूंषि तारिषः प्रतारिषः प्रवर्धय च नः अस्माकमायूंषि ॥ ८॥
म० चतस्रोनुष्टुभः द्वयोऽरनुमतिर्देवता । इत् निपातोऽनर्थकः । हे अनुमते, त्वमनुमन्यासै अनुमन्यस्वास्मदुक्तं बुध्यस्व । नोऽस्माकं शं च शमेव सुखमेव कृधि कुरु । च पुनः नोऽस्माकं क्रत्वे क्रतवे संकल्पाय दक्षाय तत्समृद्धये संकल्पसिद्धये च नोऽस्मान् हिनु गमय । नोऽस्माकमायूंषि प्रतारिषः प्रतारय वर्धय । 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्याट् 'वैतोऽन्यत्र' (पा० ३ । ४ । ९६ ) इत्यैकारः। कृधि 'श्रुशृणुपॄकृवृभ्यश्छन्दसि' (पा० ६ । ४ । १०२) इति हेर्धिः 'बहुलं छन्दसि' (पा० २ । ४ । ७३) इति शपो लुक् । क्रत्वे गुणाभावे यणादेशः । तारिषः 'सिब्बहुलं छन्दसि णिद्वक्तव्यः' ( पा० ३ । २ । ३४ ) इति वृद्धिः । अन्यत्पूर्ववत् । प्रपूर्वस्तरतिर्वृद्ध्यर्थः ॥ ८॥

नवमी।
अनु॑ नो॒ऽद्यानु॑मतिर्य॒ज्ञं दे॒वेषु॑ मन्यताम् ।
अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तं दा॒शुषे॒ मय॑: ।। ९ ।।
उ० अनु नः । अनुमन्यतां नः अस्माकम् अद्य अनुमतिः । यज्ञम् देवेषु यज्ञियेषु । अग्निश्च अनुमन्यताम् । हव्यवाहनः हविषो वोढा भवतं । भवतामिति पुरुषव्यत्ययः। दाशुषे हवींषि दत्तवते यजमानाय । मयः सुखरूपौ ॥९॥
म० अनुमतिः अद्य नोऽस्माकं यज्ञं देवेषु यज्ञियेषु अनुमन्यताम् । अग्निश्च यज्ञं देवेषु अनुमन्यताम् । किंभूतोऽग्निः । हव्यवाहनः हविषां वोढा । किंच दाशुषे हवींषि दत्तवते यजमानाय मयः सुखरूपौ अनुमत्यग्नी भवतम् । भवतामिति पुरुषव्यत्ययः । हव्यं वहतीति हव्यवाहनः 'हव्येऽनन्तःपादम्' (पा० ३ । २ । ६६ ) इति वहेर्ण्युट् । दाशुषे 'दाश्वान्साह्वान्-' (पा० ६।१ । १२) इति साधुः ॥ ९॥

दशमी।
सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑ ।
जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः ।। १० ।।
उ०. सिनीवाली । सिनीवाली देवपुत्री। हे सिनीवालि हे पृथुष्टुके पृथुसंयमितकेशभारे । महास्तुतिर्वा पृथुष्टुका । या त्वं देवानाम् असि भवसि स्वसा भगिनी । तां त्वां ब्रवीमि । जुषस्व प्रीत्या परिगृह्णीष्व हव्यं हविः । आहुतमभिहुतमग्नौ । प्रजां च हे देवि, दिदिढ्ढि दिश अतिसूज देहि नः अस्मभ्यम् ॥ १०॥
म० सिनीवाली देवता । हे सिनीवालि, हे पृथुष्टुके, स्तुकं केशभारः स्तुतिः कामो वा । हे पृथुकेशभारे, महास्तुते वा पृथुकामे वा । या त्वं देवानां स्वसा असि भगिनी भवसि । सा त्वमाहुतं हव्यं जुषस्व प्रीत्या गृह्णीष्व । हे देवि, नोऽस्मभ्यं प्रजां च दिदिढ्ढि दिश देहि । 'बहुलं छन्दसि' ( पा० २ । ४ । ७६ ) इति दिशतेः शपः श्लुः ततो द्वित्वादि ॥ १० ॥

एकादशी ।
पञ्च॑ न॒द्यः सर॑स्वती॒मपि॑यन्ति॒ सस्रो॑तसः ।
सर॑स्वती॒ तु प॑ञ्च॒धा सो दे॒शेऽभ॑वत्स॒रित् ।। ११ ।।
उ० पञ्च नद्यः सरस्वतीम् । नदीदेवतायाः पञ्च नद्यः दृषद्वतीशतद्रूश्चन्द्रभागाविपाशेरावतीत्यादिकाः । सरस्वतीम् अपियन्ति अपिगच्छन्ति । सस्रोतसः समानानि स्रोतांसि यासां तास्तथोक्ताः । सरस्वती तु । तुशब्दोऽवधारणार्थः । सरस्वत्येव पञ्चधा । सो सा च स्वदेशेभवत् भवति । सरित् नदी। तस्यां हि सारस्वतानि सत्राणि भवन्ति ॥ ११ ॥
म० सरस्वतीनदीदेवत्या । याः दृषद्वत्याद्याः पञ्च नद्यः सरस्वतीमपियन्ति गच्छन्ति । किंभूताः सस्रोतसः समानं स्रोतः प्रवाहो यासां ताः । तुरवधारणे । सा उ सैव सरस्वत्येव पञ्चधा देशे सरिन्नदी अभवत् पञ्चापि स्वनामानि त्यक्त्वा सरस्वत्येवाभवत् ॥ ११॥

द्वादशी।
त्वम॑ग्ने प्रथ॒मो अङ्गि॑रा॒ ऋषि॑र्दे॒वो दे॒वाना॑मभवः शि॒वः सखा॑ ।
तव॑ व्र॒ते क॒वयो॑ विद्म॒नाप॒सोऽजा॑यन्त म॒रुतो॒ भ्राज॑दृष्टयः ।। १२ ।।
उ० त्वमग्ने चतस्र आग्नेय्यः । द्वे जगत्यौ अन्ये त्रिष्टुबनुष्टुभौ । हे अग्ने, त्वं प्रथम आद्यः अङ्गिरा ऋषिः अभवः । त्वं च प्रथमः देवः देवानामभवः । शिवः कल्याणः सखा समानख्यानः । किंच तव व्रते कर्मणि वर्तमानाः कवयः क्रान्तदर्शनाः विद्मना अपसः। अप इति कर्मनाम । विदितकर्माणः । अजायन्त संवृत्ताः मरुतः । भ्राजन्त्यः ऋष्टयः खड्गा येषां ते भ्राजदृष्टयः । यो हि शत्रून् जयति भ्राजन्ते तस्यायुधानि ॥ १२ ॥
म० चतस्र आग्नेय्यः द्वे जगत्यौ अन्ये त्रिष्टुबनुष्टुभौ । हे अग्ने, त्वं देवानां प्रथमः सखा अभवः भूतोऽसि । आद्यो मित्रभूतो देवानां त्वमेवेत्यर्थः । किंभूतस्त्वम् । अङ्गिराः अङ्गानां रसः । यद्वा अङ्गिभ्य आत्मभ्यो यजमानेभ्यो राति सुखमित्यङ्गिराः । ऋषिर्द्रष्टा । देवो द्योतमानः । शिवः कल्याणः । किंच तव व्रते कर्मणि वर्तमाने मरुतः ईदृशा अजायन्त । कीदृशाः । कवयः क्रान्तदर्शिनः । विद्मनापसः अप इति कर्मनाम । विद्मना विदितानि अपांसि कर्माणि यैस्ते विदितकर्माणः । भ्राजदृष्टयः भ्राजन्त्यः शोभमानाः ऋष्टयः आयुधानि येषां ते तथा । शत्रुघातकत्वात् । विद्मनेति वेत्तेः कर्मणि मनिन्प्रत्ययः बहुलग्रहणात् ततो विभक्तेराकारः तस्य चालुक् । विद्मनापसः अजायन्त । जनेरङ् जादेशश्च श्यन् ॥ १२ ॥

त्रयोदशी।
त्वं नो॑ अग्ने॒ तव॑ देव पा॒युभि॑र्म॒घोनो॑ रक्ष त॒न्व॒श्च वन्द्य ।
त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा॑म॒स्यनि॑मेष॒ᳪं᳭ रक्ष॑माण॒स्तव॑ व्र॒ते ।। १३ ।।
उ० त्वं नः । विषमोऽयं मन्त्रः साध्याहारः । त्वं नः अस्माकम् हे अग्ने, आश्रय इति शेषः । अथैवं सति तव हे देव, पायुभिः पालनैः धैर्यावलम्बिभिः पालिताः सन्तः आस्महे । किंच मघोनो रक्ष धनानि रक्ष । तन्वः शरीराणि च रक्ष । हे वन्द्य वन्दितव्य । कस्मात्पुनस्त्वमेवमुच्यसे । यतः स्वभावत एव त्राता तोकस्य पुत्रस्य । तनये तनयस्य पौत्रस्य च गवां च असि । कथम् । अनिमेषं रक्षमाणः प्रमादमकुर्वन् रक्षमाणः । एवं चेत् मृदुहृदयतमोसि । तव व्रते तव कर्मणि वयं स्याम । अन्या देवताः परित्यज्य त्वामेव परिचराम इत्यभिप्रायः ॥ १३ ॥
म० रक्षणार्थो मन्त्रः । हे अग्ने, हे देव द्योतमान, हे वन्द्य स्तुत्य, तव व्रते कर्मणि वर्तमानान्मघोनो धनवतो यजमानान्रक्ष पालय । नोऽस्माकं तन्वः शरीराणि च रक्ष । कैः । तव पायुभिः त्वदीयैः पालनैः । यतस्त्वमनिमेषं सावधानं रक्षमाणः पालयन्सन् तोकस्य पुत्रस्य तनये । विभक्तिव्यत्ययः। तनयस्य पौत्रस्य गवां च त्राता रक्षकोऽसि ॥ १३ ॥

चतुर्दशी।
उ॒त्ता॒नाया॒मव॑ भरा चिकि॒त्वान्त्स॒द्यः प्रवी॑ता॒ वृष॑णं जजान ।
अ॒रु॒षस्तू॑पो॒ रुश॑दस्य॒ पाज॒ इडा॑यास्पु॒त्रो व॒युने॑ऽजनिष्ट ।। १४ ।।
उ० उत्तानायामव द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते योग्यत्वात् । योऽयम् अरुषस्तूपः ज्वालासंघातमूर्तिः । यस्य चास्य रुशत्पाजः दीप्तं बलम् । यश्च इडायाः पृथिव्याः पुत्रः । यश्च वयुने प्रज्ञाने कर्तव्ये अजनिष्ट जातः तमग्निम् । उत्तानायां अवभर अवाचीनं हर । चिकित्वान् जानानः अरण्या वीर्यमिति शेषः । किंतद्वीर्यमिति चेत् सद्यः प्रवीता वृषणं जजान । सद्य एव प्रवीता कामिता सती वृषणं वर्षितारं सेक्तारं युवानं सर्वकर्मक्षमं जनयतीति ॥ १४ ॥
म०. यः इडायाः पृथिव्याः पुत्रोऽग्निर्वयुने प्रज्ञाने कर्तव्ये अजनिष्ट जातः । किंभूतः । अरुषस्तूपः ‘रुष बधे' रोषति रुषः अरुषोऽहिंसकः स्तूपो ज्वालोच्छ्रायो यस्य स तथा । 'ष्टु उच्छ्राये' । अस्याग्नेः रुशत् दीप्तं पाजः बलमुत्तानायामरण्यामवभर अवाचीनं हर । 'द्व्यचोऽतस्तिङः' (पा० ६।३ । १३५) इति दीर्घः । चिकित्वान् अरणिबलं जानन् । किं बलमिति चेत् । याऽरणिः प्रवीता कामिता सती वृषणं सेक्तारमग्निं सद्यः तत्कालं जजान जनयति 'छन्दसि लुङ्लङ्लिटः' (पा० ३ । ४ । ६) इति लिट् । सोऽग्निर्जात इत्यर्थः ॥ १४ ॥

पञ्चदशी।
इडा॑यास्त्वा प॒दे व॒यं नाभा॑ पृथि॒व्या अधि॑ ।
जात॑वेदो॒ निधी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोढ॑वे ।। १५ ।।
उ० इडायास्त्वा । इडायाः पृथिव्याः त्वाम् । पदे देवयजनाख्ये । वयम् नाभा नाभौ पृथिव्या अधि । उत्तरवेद्यां नाभिका भवति तद्विषयमेतत् । हे जातवेदः जातप्रज्ञान, निधीमहि स्थापयामः । हे अग्ने, हव्याय वोढवे हविषो वहनाय ॥ १५ ॥
म० हे जातवेदः जातप्रज्ञान हे अग्ने, इडायाः पृथिव्याः स्थाने देवयजनाख्ये पृथिव्या नाभा अधि उत्तरवेद्या मध्ये वयं त्वा त्वां निधीमहि स्थापयामः । किमर्थम् । हव्याय वोढवे हव्यं वोढुम् । विभक्तिव्यत्ययः । वहतेः 'तुमर्थे सेसेन्-' (पा० ३ । ४ । ९) इति तवेप्रत्ययः 'सहिवहोः-' (पा. ६ । ३ । ११२) इत्योकारः ॥ १५ ॥

षोडशी।
प्र म॑न्महे शवसा॒नाय॑ शू॒षमा॑ङ्गू॒षं गिर्व॑णसे अङ्गिर॒स्वत् ।
सु॒वृ॒क्तिभि॑ स्तुव॒त ऋ॑ग्मि॒यायार्चा॑मा॒र्कं नरे॒ विश्रु॑ताय ।। १६ ।।
उ० प्रमन्महे । चतस्र ऐन्द्र्यस्त्रिष्टुभः । प्रमन्महे प्रजानीमः शवसानाय बलमाविष्कुर्वते । शूषं बलम् । आङ्गूषम् आघोषं स्तोमम् । गिर्वणसे देवाय । कथमिव । अङ्गिरस्वत् अङ्गिरसा तुल्यप्रज्ञानाय च । सुवृक्तिभिः सुवृक्ताभिः शोभनाभिः स्तुतिभिः । स्तुवते स्तुवन्तीति विभक्तिव्यत्ययः सामर्थ्यात् । ऋग्मियाय ऋङ्मयाय स्तुतिमयाय । अर्चनीयाय च । वयम् अर्चामः अर्कम् उच्चारयामः मन्त्रम् । नरे नृरूपाय । विश्रुताय शौर्यबलदानादिलब्धख्यातये॥१६॥
म० चतस्र ऐन्द्र्यस्त्रिष्टुभः । वयमिन्द्राय इन्द्रार्थमाङ्गूषं स्तोमं त्रिवृदादिकं प्रमन्महे जानीमः । किंभूतं स्तोमम् । शूषं बलहेतुम् । अर्क मन्त्रं च अर्चाम उच्चारयाम । धातूनामनेकार्थत्वादर्चतिरुच्चारणार्थः । अङ्गिरस्वत् अङ्गिरस इव । तैर्यथा स्तोमो ज्ञातो मन्त्रश्च पठितस्तस्मै तद्वत् । किंभूतायेन्द्राय । शवसानाय शवो बलमात्मन इच्छति शवस्यति शवस्यतीति शवसान तस्मै बलमभिलषमाणाय । 'सुप आत्मनः क्यच्' (पा० ३।१। ८) इति क्यच् तदन्ताच्छानच् शप् 'बहुलं छन्दसि' (पा० २ । ४ । २७) इति तस्य लुक् 'छन्दस्युभयथा' (पा० ३ । ४ । ११७) इति तस्य शानचोऽप्यार्धधातुकत्वात् 'क्यस्य विभाषा' (पा० ६ । ४ । ५० ) इति क्यचो लोपः शवसान इति सिद्ध्यति । पुनः कीदृशाय । गिर्वणसे गिरा स्तुत्या वनयति संभाजयति आत्मानमभिलषितदानात्स्तोतृभ्य इति गिर्वणाः । गीःशब्दोपपदाद्वनोतेर्ण्यन्तादसुनि वनेर्घटादित्वेन मित्संज्ञत्वात् ह्रस्वत्वम् णिचो लोपः। गीर्वणा इति प्राप्ते दीर्घाभावश्छान्दसः । यद्वा स्वार्थे णिच् गीर्भिरेनं देवा भजन्ति इति गिर्वणाः तस्मै । गीर्वाणशब्देन समानार्थो गिर्वणःशब्दः । पुनः किंभूताय । सुवृक्तिभिः शोभनाभिः स्तुतिभिः स्तुवते स्तौतीति स्तुवन् तस्मै । यजमानानिति शेषः। तदुक्तम् 'त्वमङ्ग प्रशंसिषो देवः शविष्ठ मर्त्यम्' ( ६ । ३७ ) इति । पुनः कीदृशाय । ऋग्मियाय ऋग्मयाय वेदमयाय । मयडर्थे छान्दसो मियट् । यद्वा 'ऋच स्तुतौ' इत्यस्माद्भावे औणादिको भक् कुत्वं जश्त्वं । ऋग्मः स्तुतिः तमर्हति ऋग्मियः अर्हार्थे घच् स्तुतियोग्याय । पुनः कीदृशाय । नरे नररूपाय । नृशब्दस्य ङे परे छान्दसो गुणः । पुनः कीदृशाय । विश्रुताय शौर्यदानबलादिभिर्लब्धख्यातये ॥ १६ ॥

सप्तदशी।
प्रवो॑ म॒हे महि॒ नमो॑ भरध्वमाङ्गू॒ष्य॒ᳪं᳭ शवसा॒नाय॒ साम॑ ।
येना॑ न॒: पूर्वे॑ पि॒तर॑: पद॒ज्ञा अर्च॑न्तो॒ अङ्गि॑रसो॒ गा अवि॑न्दन् ।। १७ ।।
उ० प्र वः । सामर्थ्याद्द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते । येन साम्ना नः अस्माकम् । पूर्वे पितरः पदज्ञाः आत्मसत्तत्ववेदिनः। अर्चन्तः स्तुवन्तः अङ्गिरसः ऋषयः । गाः अविन्दन् आदित्यरश्मीन् लब्धवन्तः स हि साम्नां लोकः तत्साम प्रभरध्वम् आहरध्वम् । वः । प्रथमाबहुवचनस्य स्थाने व आदेशः । यूयम् हे पुत्रपौत्रप्रपौत्राः, महे महते इन्द्राय । महि महत्वम् । नमः अन्नम् आङ्गूष्यम् स्तोमस्य च हितम् साम । प्रभरध्वम् । शवसानाय बलमभिलषमाणाय ॥ १७ ॥
म०. महे महते शवसानाय बलमभिलषमाणायेन्द्राय महि महत् नमोऽन्नं वः यूयं प्रभरध्वं प्रहरतम् समर्पयत । यूयमित्यर्थे व इत्यव्ययम् । मुनीनां पुत्रादीन्प्रति वचः। आङ्गूष्यमाङ्गूषाय हितं साम प्रभरध्वमुच्चारयत । नोऽस्माकं पूर्वे पितरः अङ्गिरसः येनान्नेन साम्ना चार्चन्तः स्तुवन्तः सन्तः गाः सूर्यकिरणानविन्दन् लेभिरे । स हि साम्नां लोकः तत्साम प्रभरध्वम् । कीदृशा अङ्गिरसः । पदज्ञाः पदमात्मस्वरूपं जानन्तीति पदज्ञाः ॥ १७ ॥

अष्टादशी।
इ॒च्छन्ति॑ त्वा सो॒म्यास॒: सखा॑यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रया॑ᳪं᳭सि ।
तिति॑क्षन्ते अ॒भिश॑स्तिं॒ जना॑ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः ।। १८ ।।
उ० इच्छन्ति त्वा । इच्छन्ति त्वाम् । सोम्यासः सोमसंपादिनः । सखायः समानख्यानाः । कथं समानख्यानाः । श्रुतौ 'द्वया वै देवाः अहैवं देवाः अथ ये ब्राह्मणाः शुश्रुवांसोऽनूचानास्ते मनुष्यदेवाः' इति । केन प्रकारेण इच्छन्ति । सुन्वन्ति अभिषुण्वन्ति सोमम् । दधति प्रयांसि । प्रय इत्यन्ननाम । धारयन्ति च हविर्लक्षणान्यन्नानि । किंच । तितिक्षन्ते अभिशस्तिं जनानाम् । मनोवाक्कायसंयताः क्षान्तिपराः । अभिशस्तिं दुर्वचनं जनानां सहन्ते । अथैवं त्वामिच्छताम् हे इन्द्र, त्वत् त्वत्तः सकाशात् आसमन्ताद्भावेन । कः चन । चनो निपातोऽप्यर्थे । हिरनर्थकः । कोऽपि प्रकेतः प्रज्ञानविशेषः अत्यर्थं भवति । यजमानानामिति शेषः ॥ १८॥
म० हे इन्द्र, त्वत् त्वत्तः सकाशात् कश्चन । चनशब्दोऽप्यर्थे । कोऽपि लोकोत्तरः प्रकेतः प्रकृष्टो ज्ञानविशेषः आ समन्तात् हि यतो भवति अतः सखायो विप्राः त्वामिच्छन्ति ।। 'अथ ये ब्राह्मणाः शुश्रुवाᳪं᳭सोऽनूचानास्ते मनुष्यदेवाः' इत्युक्तेर्देवानां विप्राणां च सखित्वम् । किंभूताः सखायः । सोम्यासः सोमसंपादिनः । इच्छन्तीति कथं ज्ञातं तत्राह । यतस्ते सोमं सुन्वन्ति अभिषुण्वन्ति प्रयांसि अन्नानि दधति च । प्रय इत्यन्ननाम । हवींषि धारयन्ति । किं । जनानामभिशस्तिं दुर्वचनं तितिक्षन्ते सहन्ते मनोवाक्कायसंयताः क्षान्तिपरा इत्यर्थः ॥१८॥

एकोनविंशी ।
न ते॑ दू॒रे प॑र॒मा चि॒द्रजा॒ᳪं᳭स्या तु प्र या॑हि हरिवो॒ हरि॑भ्याम् ।
स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा॑णः समिधा॒ने अग्नौ ।। १९ ।।
उ०. न ते । नहि ते तव दूरेऽपि परमा परमाणि विप्रकृष्टदेशानि । रजांसि स्थानानि । एवंचेत् । आ प्रयाहि आयाहि तु तूर्णम् । हे हरिवः हरिभ्यां अश्वाभ्याम् । किमर्थम् । स्थिराय दृढसौहृदाय । वृष्णे सेक्त्रे । सवना कृतेमा सवनानि कृतानि इमानि । किंच । युक्ताः अभिषवकर्मणि ग्रावाणः। समिधाने समिध्यमाने च अग्नौ आहवनीयाख्ये आहुतयः होष्यन्ते । अतश्च आयाहि ॥ १९ ॥
म० हे हरिवः, हरी अश्वौ विद्येते यस्य स हरिवान् तस्य संबोधनम् 'मतुवसो:-' (पा० ८ । ३ । १) इति रुत्वम् । हे हरिवः, स्थिराय दृढसौहृदाय वृष्णे सेक्त्रे तुभ्यम् इमा सवनाकृता इमानि सवनानि प्रातःसवनादीनि कृतानि । क्व सति । अग्नौ समिधाने समिध्यमाने सति । छान्दसो यको लुक् । ग्रावाणः च युक्ताः योजिताः अभिषवकर्मणि । तुशब्दो हेत्वर्थे । अतो हेतोः हरिभ्यामश्वाभ्यामा प्रयाहि आगच्छ । ननु स्वर्गात्कथमतिदूरे मया गन्तव्यमित्यत आह । परमा परमाणि दूरदेशस्थानि रजांसि स्थानानि ते तव दूरे न चित् दूरे न सन्ति । चिच्छन्दोऽप्यर्थे । अतिदूरमपि ते निकटम् अत आयाहीत्यर्थः ॥ १९॥

विंशी ।
अषा॑ढं यु॒त्सु पृत॑नासु॒ पप्रि॑ᳪं᳭ स्व॒र्षाम॒प्सां वृ॒जन॑स्य गो॒पाम् ।
भ॒रे॒षु॒जाᳪं᳭ सु॑क्षि॒तिᳪं᳭ सु॒श्रव॑सं॒ जय॑न्तं॒ त्वामनु॑ मदेम सोम ।। २० ।।
उ० अषाढं युत्सु । अषाढं असोढम् । युत्सु युद्धेषु । पृतनासु सैन्येषु । पप्रिम् । 'पॄ पालनपूरणयोः' इत्यस्यैतद्रूपं 'नतु प्रा पूरण' इत्यस्य । पप्रिं पालनशीलम् । स्वर्षां स्वर्दिवं सनोति स तथा तम् । अप्साम् अपः सनोति संभजते स तथा तम् । वृजनस्य गोपां बलस्य गोप्तारम् । भरेषुजाम् जयतेरेतद्रूपं नतु जानातेः । संग्रामेषु जेतारम् । सुक्षितिं सुनिवासम् श्रवसं कल्याणकर्मकर्तृत्वेन प्रसिद्धम् । जयन्तं त्वाम् अनुमदेम । मदेर्मोदनार्थस्य ग्रहणम् । परसैन्यानि जयन्तं त्वां दृष्ट्वा उत्साद्यन्ते तत् दृष्ट्वा प्रहृष्टाः स्याम हे सोम ॥ २०॥
म० चतस्रः सोमदेवत्यास्त्रिष्टुभः । हे सोम, त्वां जयन्तमुत्कर्षेण वर्तमानमनु वयं मदेम हृष्टाः स्याम । किंभूतं त्वाम् । युत्सु युद्धेषु अषाढमसहनमनभिभूतम् । पुनः कीदृशम् । पृतनासु सेनासु पप्रिं पालयितारम् । स्वर्षाम् स्वर्दिवं सनोति संभजते स स्वर्षाः तम् । अप्साम् अपो जलानि सनोतीत्यप्साः तम् । वृजनस्य बलस्य गोपां रक्षकम् । भरेषुजां संग्रामेषु जेतारम् । सुक्षितिं सुनिवासम् । सुश्रवसं शोभनं श्रवः कीर्तिर्यस्य स सुश्रवाः तम् । अषाढम् सह्यतेऽसौ साढः न साढः असाढस्तम् । सहेः क्तः ढत्वं (पा० ८।२।३१।) धत्वं (पा० ९ । २। ४०) ष्टुत्वम् (पा० ८।४।४१।) 'ढो ढे लोपः' (पा० ८।३ । १२) 'ढ्रलोपे पूर्वस्य दीर्घोऽणः' (पा० ६ । ३ । १११) बाहुलकात् 'सहिवहोरोदवर्णस्य' (पा० ६ । ३ । ११२) इत्यस्याप्रवृत्तिः षत्वं छान्दसम् । पप्रिम् 'पॄ पालनपूरणयोः' 'आगमहन-' (पा० ३।२ । १७१) इति किः द्वित्वादि । स्वर्षाम् स्वःपूर्वात्सनोतेर्विट् ‘विड्वनोरनुनासिकस्यात्' | (पा० ६ । ३ । ४१)। एवमप्साम् । गोपायतीति गोपाः क्विप् अतो लोपः यलोपः। भरेषुजाम् भरेषु संग्रामेषु जयति शत्रूनिति भरेषुजाः। 'हलदन्तात्सप्तम्याः' ( पा० ६ । ३।९) इति अलुक् । जयतेरौणादिको डाप्रत्ययः । मदेम 'मदी हर्षे' लिङ् व्यत्ययेन शप् ॥ २०॥

एकविंशी ।
सोमो॑ धे॒नुᳪं᳭ सोमो॒ अर्व॑न्तमा॒शुᳪं᳭ सोमो॑ वी॒रं क॑र्म॒ण्यं॒ ददाति ।
सा॒द॒न्यं॒ विद॒थ्य॒ᳪं᳭ स॒भेयं॑ पितृ॒श्रव॑णं॒ यो ददा॑शदस्मै ।। २१ ।।
उ० सोमो धेनुम् । सोमः धेनुं ददाति । सोम एव अर्वन्तमश्वं आशुम् शीघ्रगतिं ददाति । सोम एव च वीरं पुत्रम् कर्मण्यं कर्मणि साधुं ददाति । तमेव विशिनष्टि । सादन्यं सदने साधुम् । विदथ्यं विदथे यज्ञे साधुम् । सभेयं सभामर्हति सभेयस्तम् । पितृश्रवणं पितुरनुशासने च स्थितम् । विनीतमित्यर्थः । यः यजमानः ददाशत् अस्मै सोमाय हविः तस्मै सोमो धेन्वादीन्ददातीति संबन्धः ॥२१॥
म० यो यजमानोऽस्मै सोमाय ददाशत् ददाति हविः । तस्मै सोमो धेनुं ददाति । आशु शीघ्रमर्वन्तमश्वं च सोमो ददाति । सोमश्च तस्मै वीरं पुत्रं ददाति । कीदृशं वीरम् । कर्मण्यं कर्मणि साधुम् । सादन्यं सदने गृहे साधुम् । विदथ्यं विदथो यज्ञस्तत्र साधुम् । सभेयं सभामर्हति सभेयस्तम् । पितृश्रवणं पितरं शृणोति पितृश्रवणः पित्राज्ञाकारिणं विनीतमित्यर्थः। कर्मण्यमित्यादौ 'तत्र साधुः' ( पा० ४ । ४ । ९८ ) इति यत् । सभेयं 'ढश्छन्दसि' (पा० ४ । ४ । १०६ ) इति सभायाः साध्वर्थे ढप्रत्ययः । तस्येयादेशः (पा. ७।१।२)। ददाशत् 'दाशृ दाने 'बहुलं छन्दसि' (पा० २ । ४ । ७६ ) इति शपः श्लुः द्वित्वम् 'इतश्च लोपः परस्मैपदेषु' (पा०।३। ४ । ९७ ) इति तिप इलोपः । 'लेटोऽडाटौ' (पा० ३ । ४ । ९४) इत्यडागमः ॥ २१ ॥

द्वाविंशी।
त्वमि॒मा ओष॑धीः सोम॒ विश्वा॒स्त्वम॒पो अ॑जनय॒स्त्वं गाः ।
त्वमात॑तन्थो॒र्वन्तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो॑ ववर्थ ।। २२ ।।
उ० त्वमिमाः । हे सोम, त्वम् इमाः ओषधी: विश्वाः सर्वाः अजनयः जनितवानसि । त्वम् अपः अजनयः । त्वं च गाः अजनयः। त्वम् आततन्थ आततवानसि । उरु विस्तीर्णमन्तरिक्षम् । त्वं ज्योतिषा वि तमो ववर्थ विवृणोषि तमः । त्वमेवादित्यात्मना तमोऽपनयसि । सर्वात्मत्वेन स्तुतिः॥२२॥
म० हे सोम, त्वमिमाः विश्वाः सर्वाः ओषधीः अपो जलानि गाः धेनूः अजनयः जनितवानसि । त्वमुरु विस्तीर्णमन्तरिक्षमाततन्थ विस्तारितवानसि । त्वं च ज्योतिषा तेजसा तमोऽन्धकारं विववर्थ विवृणोषि । आदित्यात्मना सर्वं तमोऽपनयसीति सर्वात्मा त्वमित्यर्थः । 'बभूथाततन्थजगृम्भववर्थेतिनिगमे' (पा० । ७ । २ । ६४ ) इति निपातः ॥ २२ ॥

त्रयोविंशी।
दे॒वेन॑ नो॒ मन॑सा देव सोम रा॒यो भा॒गᳪं᳭ स॑हसावन्न॒भि यु॑ध्य ।
मा त्वा त॑न॒दीशि॑षे वी॒र्य॒स्यो॒भये॑भ्य॒: प्रचि॑कित्सा॒ गवि॑ष्टौ ।। २३ ।।
उ० देवेन नः । दैवेनेति प्राप्ते तद्धितलोपश्छान्दसः । दैवेन मनसा सह नः अस्मभ्यम् । रायो भागं धनस्य भागम् । सहःशब्दो बलवचनः सान्तः तत्र अकारागमश्छान्दसः । हे सहस्वन् , अभियुध्य । युध्यतिर्गत्यर्थानां मध्ये पठ्यते अन्तर्भावितण्यर्थश्च गृह्यते । अभिगमय देहीत्यर्थः । एवं दानप्रवृत्तं त्वां कश्चित्प्रतिबध्नीयादित्यत आह । मा च त्वाम् आतनत् । तनोतिः प्रतिबन्धार्थः । प्रतिबध्नातु । कुतस्त्वमेवमुच्यस इतिचेत् । ईशिषे वीर्यस्य यतस्त्वं स्वकीयस्य वीरकर्मणः ईशिषे ईश्वरो यस्त्वमित्यभिप्रायः। किंच उभयेभ्यः प्रचिकित्स उभयलोकप्राप्त्यर्थं व्याध्यपगमं कुर्वित्यभिप्रायः। गविष्टौ गोशब्देनात्र द्युलोकोऽभिप्रेतः। स्वर्गैषणायां च विषयभूतायाम् अस्मान् प्रचिकित्स । दैवं मनः प्राप्य लब्धधना अरोगाश्च यथा स्वर्गं यास्यामस्तत्तथा कुर्विति वाक्यार्थः ॥२३॥
म० हे देव, सोम, हे सहसावन् बलवन् , देवेन मनसा देवसंबन्धिना मनसा सह रायो धनस्य भागं नोऽस्मभ्यमभियुध्य । युध्यतिर्गतिकर्मा अन्तर्भावितण्यर्थः । अभिगमय देहीत्यर्थः । एवं दानप्रवृत्तं त्वां कश्चित् मा आतनत् त्वा मां आतनोतु मा प्रतिबध्नातु । तनोतिः प्रतिबन्धार्थः । कुतस्त्वमेवमुच्यस इति चेत् यतस्त्वं वीर्यस्य ईशिषे वीरकर्मण ईश्वरो भवसि 'अधीगर्थदयेशाम्' (पा० । २ । ३ । ५२) इति कर्मणि षष्ठी । किंच गविष्टौ गोः स्वर्गस्य इष्टौ इच्छायां स्वर्गैषणायां विषयभूतायां समामुभयेभ्यः प्रचिकित्स उभयलोकप्राप्त्यर्थं चिकित्सां कुरु व्याध्यपगमं कुरु । उभयलोकप्रतिबन्धकं विघ्नं निवर्तयेत्यर्थः । दैवं मनः प्राप्य लब्धधना अरोगाश्च सत्कर्म कुर्वाणा यथा स्वर्गं यास्यामस्तथा कुर्विति वाक्यार्थः । देवेन देवानामिदं देवम् तद्धितप्रत्ययलोपः । सहसावन् प्रथमार्थे तृतीया । सहसा सहो बलमस्यास्तीति सहसावान् अलुक् । तनत् तनोतेः परस्य लेटोऽडागम इलोपश्च । चिकित्स 'गुप्तिज्किद्भ्यः सन्' (पा० ३ । १ । ५) 'अन्येषामपि दृश्यते' (पा० ६ । ३ ।१३७) इति दीर्घः ॥ २३ ॥

चतुर्विंशी।
अष्टौ॒ व्य॑ख्यत् क॒कुभ॑: पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न् ।
हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द्दध॒द्रत्ना॑ दा॒शुषे॒ वार्या॑णि ।। २४ ।।
उ० अष्टौ व्यख्यत् । चतस्रः सावित्र्यः द्वितीया जगती | त्रिष्टुभोऽन्याः । यः अष्टौ व्यख्यत् प्रकाशितवान् ककुभः दिशः । चतस्रो दिशः चतस्रोऽवान्तरदिशः । पृथिव्याः संबन्धिनीः । त्रीधन्व त्रीणि धन्वानीति शब्दसमाधिः । धन्व इत्यन्तरिक्षनाम तदुपलक्षितावितरावपि लोकौ गृह्येते छत्रिणो यान्तीति यथा । यश्च त्रीन् लोकान् व्यख्यत् । यश्च योजनान् योजनगव्यूतिक्रोशादीन् मानविशेषान् व्यख्यत् । यश्च सप्तसिन्धून् संप्तसमुद्रान् व्यख्यत् । सोऽयं हिरण्याक्षः हिरण्यसदृशाक्षः अमृतदृष्टिर्वा सविता देवः आगात् आगच्छतु किं कुर्वन्नित्यत आह । दधत् स्थापयन् रत्ना रत्नमयानि धनानि । दाशुषे हवींषि दत्तवते यजमानाय । वार्याणि वरणीयानि ॥ २४ ॥ -
म० चतस्रः सावित्र्यः द्वितीया जगती त्रिष्टुभोऽन्याः हिरण्यस्तूपदृष्टाः। स सविता देव आगात् आगच्छतु 'इणो गा लुङि' (पा० २। ४ । ४५ ) इतीणो गादेशः । किं कुर्वन् । दाशुषे हवींषि दत्तवते यजमानाय वार्याणि वरणीयानि रत्ना रत्नानि दधद्ददत् स्थापयन्वा । कीदृशः। हिरण्याक्षः हिरण्यमिव कान्तियुक्ते अक्षिणी यस्य स हिरण्याक्षः अमृतदृष्टिर्वा । स कः । यः सविता पृथिव्याः संबन्धिनीः अष्टौ ककुभो दिशः व्यख्यत् । प्रकाशितवान् । यश्च त्री त्रीणि धन्व धन्वानि लोकान् व्यख्यत्। धन्वेत्यन्तरिक्षनाम । तेन तदुपलक्षितावितरावपि लोकौ लक्ष्येते छत्रिणो गच्छन्तीतिवत् । यश्च योजना योजनानि योजनगव्यूतिक्रोशादीनध्वपरिमाणविशेषान्व्यख्यत् । यश्च सप्त सिन्धू- न्समुद्रान्क्षीरोदाद्यान्व्यख्यत् । उपलक्षणमेतत् । सर्वजगत्प्रकाशकः सविता रत्नानि ददान आयात्वित्यर्थः । अख्यत् 'ख्या प्रकथने' 'अस्यतिवक्तिख्यातिभ्योऽङ्' (पा० ३ । १। ५२ ) इति च्लेरङ् आलोपश्च धातूनामनेकार्थत्वादत्र प्रकाशनार्थो ग्राह्यः । त्री योजना 'सुपां सुलुक्' (पा० ७।१।३९) इत्यादिना पूर्वसवर्णदीर्घो विभक्तेः । धन्व सुपो लुक् । रत्ना सुप आकारः । दाशुषो 'दाश्वान्साह्वान्' (पा० । ६ । १। १२) इति निपातः । वार्याणि 'ऋहलोर्ण्यत्' (पा० । ३ । १। १२४ ) इति वृणोतेर्ण्यत् ॥ २४ ॥

पञ्चविंशी।
हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अ॒न्तरी॑यते ।
अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ।। २५ ।।
उ० हिरण्यपाणिः सविता । सुवर्णपाणिः सविता । विचर्षणिः विविधं यष्टा कृताकृतप्रत्यवेक्षकः । उभे द्यावापृथिवी अन्तः । अधिकरणश्रुतेर्योग्यक्रियाया अध्याहारः । मध्ये स्थितः ईयते एति यदा । अथ तदा अपामीवां बाधते अमीवां व्याधिम् । वेति विगतिकर्मा । गच्छति सूर्यं सूर्यरूपमवस्थाय । ततोऽस्तमनकाले । अभिकृष्णेन रजसा द्यामृणोति । अभिऋणोति अभिव्याप्नोति । कृष्णेन रजसा तमोलक्षणेन । द्यां द्युलोकम् ॥ २५ ॥
म०. सविता प्रसविता सूर्यं सूर्यः विभक्तिव्यत्ययः । उभे उभयोः द्यावापृथिवी द्यावापृथिव्योः अन्तर्मध्ये ईयते आगच्छति यदा तदा अमीवां व्याधिमपबाधते अन्धकारलक्षणरोगं निवर्तयति । अथ यदा वेति अस्तमयसमये गच्छति तदा कृष्णेन रजसा अन्धकारलक्षणेन द्यां द्युलोकमभि ऋणोति अभिव्याप्नोति । कीदृशः सूर्यः । हिरण्यपाणिः सुवर्णपाणिः । विचर्षणिः विविधं द्रष्टा कृताकृतप्रत्यवेक्षकः । उभे द्यावापृथिवी । षष्ठ्यर्थे द्वितीया । अन्तर्योगे वा । ईयते 'ईङ् गतौ' दिवादिः ॥ २५॥

षड्विंशी।
हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृडी॒कः स्ववाँ॑ यात्व॒र्वाङ् ।
अ॒प॒सेध॑न् र॒क्षसो॑ यातु॒धाना॒नस्था॑द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ।। २६ ।।
उ० हिरण्यहस्तः द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते सामर्थ्यात् । यः अपसेधन अपगमयन् रक्षसः यातुधानांश्च असुखकारकान् । अस्थात् उदस्थात् । देवः प्रतिदोषं गृणानः श्रुतिस्मृतिविहितधर्मपराङ्मुखानां यावन्तो दोषास्तावतः स्तुवन् उच्चारयन् गणयन् उपभोगार्थमित्यभिप्रायः । सोऽयं सविता हिरण्यहस्तः हिरण्यदानार्थं हस्तौ यस्य स तथोक्तः। रूपेण वा स्तुतिः । असुरः ‘रा दाने' असून्प्राणान्ददातीत्यसुरः । सुनीथः । नीथा स्तुतिः । कल्याणस्तुतिः । सुमृडीकः साधु सुखयिता । स्ववान् । आत्मीयज्ञातिधनवचनः स्वशब्दः । यातु आयातु । अर्वाङ् अर्वागञ्चनः अस्मानभिमुखः ॥ २६ ॥
म० यो देवो रविः रक्षसो राक्षसान् यातुधानान् असुखकरांश्च अपसेधन् अपगमयन्सन् अस्थादुदस्थात् तदेति स देवः अर्वाङ् अर्वागञ्चनः अस्मदभिमुखः यातु आयात्वित्यर्थः । कीदृशो देवः । हिरण्यहस्तः हिरण्यं दानार्थं हस्ते यस्य स तथोक्तः। रूपेण वा स्तुतिः । असुरः असून् प्राणान् राति ददातीत्यसुरः । सुनीथः नीथा स्तुतिः कल्याणस्तुतिः । सुमृडीकः साधु सुखयिता स्वबान्धवान् । प्रतिदोषम् प्रतिजनं यो दोषः प्रतिदोषः तम् । श्रुतिस्मृतिविहितधर्मपराङ्मुखानां यावन्तो दोषास्तावतः गृणानः उच्चारयन् उपभोगार्थमित्यभिप्रायः । स्ववान् यातु इत्यत्र 'दीर्घादटि समानपादे' (पा० ८।३ । ९) इति नस्य रुत्वे 'भोभगोअघोअपूर्वस्य योऽशि' (पा. ८ । ३ । १७) तस्य रोर्यादेशे 'हलि सर्वेषां' (पा० ८ । ३ । २२) तस्य लोपः । सक्षस्शब्दस्य व्यत्ययेनाक्लीबत्वम् ॥ २६ ॥

सप्तविंशी।
ये ते॒ पन्था॑: सवितः पू॒र्व्यासो॑ऽरे॒णव॒: सुकृ॑ता अ॒न्तरि॑क्षे ।
तेभि॑र्नो अ॒द्य प॒थिभि॑: सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च ब्रूहि देव ।।२७ ।।
उ० ये ते पन्थाः। ये ते तव पन्थाः पन्थान इति वचनव्यत्ययः । हे सवितः, पूर्व्यासः पूर्वेष्वपि कालेषु भवाः । अरेणवः अपांसुलाः । सुकृताः साधुकृताः धात्रा अन्तरिक्षे । तेभिः तैः नः अस्मान् अद्य नयेति शेषः । पथिभिः सुगेभिः साधुगमनैः अन्नपानप्रभूतैर्गच्छतः रक्षा च रक्ष च नः अस्मान् । अधि च ब्रूहि अङ्गीकृत्य च ब्रूहि । यथा एते अस्मदीया इति । यद्वा यदस्माकं हितं पथ्यं तदधिब्रूहि उपदिश । हे देव, दानादिगुणयुक्त ॥ २७ ॥
म० हे सवितः हे देव, पन्थाः पन्थानो मार्गाः अन्तरिक्षे सुकृताः साधुकृताः धात्रा वर्तन्ते । कीदृशास्ते । पूर्व्यासः पूर्वेषु कालेषु भवाः पूर्व्याः । अरेणवः नास्ति रेणुर्यत्र अपांसुलाः । तेभिः तैः पथिभिः मार्गैः नोऽस्मान् अद्य नयेति शेषः । च पुनः गच्छतो नोऽस्मान् रक्ष पालय । अधिब्रूहि च अधि अङ्गीकृत्य ब्रूहि एते मदीया इति । यद्वा अधिब्रूहि उपदिशास्माकं यद्धितं पथ्यं तत् । यद्वा अधि अधिकान् वद एते महायाज्ञिका दातार इत्यादि । किंभूतैः पथिभिः। सुगेभिः सुगैः सुखेन गम्यते येषु सुगाः तैः अन्नपानप्रभूतैरित्यर्थः । अधिकरणे गच्छतेर्डप्रत्ययः । पूर्वैः पूर्व्यासः कृताः 'पूर्वैः कृतमिनियौ च' (पा. । ४ । ४ । १३३) इति यप्रत्ययः ॥ २७ ॥
 
अष्टाविंशी।
उ॒भा पि॑बतमश्विनो॒भा न॒: शर्म॑ यच्छतम् । अ॒वि॒द्रि॒याभि॑रू॒तिभि॑: ।। २८ ।।
उ० उभा पिबतम् । आश्विन्यस्तिस्रः एका गायत्री द्वे त्रिष्टुभौ । उभौ सोमं पिबतम् हे अश्विनौ, पीत्वा च सोमम् उभावपि नः अस्मभ्यम् शर्म शरणं प्रयच्छतं दत्तम् । किंच अविद्रियाभिः 'दॄ विदारणे'अविदीर्णाभिः अनवखण्डिताभिः ऊतिभिरवनैः रक्षतमिति शेषः ॥ २८ ॥
म० आश्विन्यस्तिस्रः एका गायत्री द्वे अनुष्टुभौ । हे अश्विना अश्विनौ, उभा उभौ द्वावपि युवां पिबतम् । सोममिति शेषः । उभा द्वौ युवां नोऽस्मभ्यं शर्म शरणं सुखं वा यच्छतम् । काभिः सह । अविद्रियाभिः अविदीर्णाभिः अखण्डिताभिः ऊतिभिः अवनैः पालनैः सह । सुखं दत्तं पालयतं चेत्यर्थः । उभा अश्विना विभक्तेराकारः । विदीर्यन्तीति विद्रियाः 'दॄ विदारे' औणादिक इयक्प्रत्ययः ॥ २८ ॥

एकोनविंशी।
अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो॑ दस्रा॒ वृषणा मनी॒षाम् ।
अ॒द्यू॒त्येऽव॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ।। २९ ।।
उ० अप्नस्वतीम् । अप्न इति कर्मनाम । कर्मवतीम् हे अश्विनौ, वाचम् अस्मे अस्माकम् कृतं कुरुतम् । किंच नः अस्माकम् हे दस्रौ दर्शनीयौ हे वृषणौ वर्षितारौ, युवानावित्यर्थः । मनीषां मनसः संबन्धिनीमिच्छां च । अप्नस्वतीमेव कृतम् । कस्मात्पुनरहमेवं ब्रवीमि । यतः अद्यूत्ये अवसे । द्यूते भवमवसमन्नं द्यूत्यम् द्यूतादागतं कर्मण्यं न भवति अत एवमुच्यते । अद्यूत्ये अन्ने निमित्तभूते । निह्वये वाम् आह्वयामि युवाम् । आगत्य च । वृधे वर्धनाय च नः अस्माकं भवतम् । वाजसातौ वाजसंभजननिमित्तभूते संग्रामे च यज्ञे वा वर्धनायैव भवतम् ॥ २९॥
म० हे अश्विना अश्विनौ, हे दस्रा दर्शनीयौ हे वृषणा वर्षितारौ सेक्तारौ युवानौ, अस्मे अस्माकं वाचम् अप्नस्वतीं कर्मवतीं युवां कृतं कुरुतम् । तथा नोऽस्माकं मनीषां मनस इच्छामप्नस्वतीमेव कुरुतम् । मनसा वचसा च यज्ञं कुर्मस्तथा कुरुतमित्यर्थः । यतो ह वां युवां निह्वये आह्वयामि । किंनिमित्तम् । अद्यूत्ये सन्मार्गागते अवसे अन्ने अन्ननिमित्तम् तद्दानार्थमित्यर्थः । द्यूतादागतं द्यूते भवं वा द्यूत्यम् न द्यूत्यमद्यूत्यम् तस्मिन् द्यूतादागतं कर्मण्यं न भवतीत्येवमुच्यते द्यूतमन्येषामप्यन्याय्यधनागमानामुपलक्षकम् । किंच वाजसातौ वाजानामन्नानां सातिः संभजनं यस्मिन् स वाजसातिः तस्मिन् यज्ञे नोऽस्माकं वृधे वृद्धौ भवतम् । अस्मे विभक्तेः शेआदेशः । कृतम् करोतेः 'बहुलं छन्दसि' (पा. २ । ४ ।७३ ) इति शपि लुप्ते लोण्मध्यमद्विवचने रूपम् । वृषणा वृषणौ 'वा षपूर्वस्य निगमे' (पा० ६ । ४ । ९ ) इत्युपधादीर्घाभावः । वृधे वर्धनं वृत् संपदादित्वाद्भावे क्विप् ॥ २९ ॥

त्रिंशी।
द्युभि॑र॒क्तुभि॒: परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौ: ।। ३० ।।
उ० द्युभिरक्तुभिः द्युभिरहोभिः कारणभूतैः अक्तुभिः अक्तू रात्रिः रात्रिभिश्च कारणभूताभिः । अधिकरणविवक्षा वा । काले हि द्युषु रात्रिषु वा । परि सर्वतः पातं परिपालयतम् युवाम् अस्मान् । न केवलं द्युभिरक्तुभिः परिपातम् । किं तर्हि । अरिष्टेभिः अनुपहिंसितैः हे अश्विनौ, सौभगेभिः । भग इति धननाम । शोभनैश्च धनैः । योजयतमित्यध्याहारः । तत् नः अस्माकम् मित्रः वरुणश्च मामहन्तां पूजयन्ताम् । अदितिश्च सिन्धुश्च पृथिवी च उत अपिच द्यौः ॥ ३०॥
म० हे अश्विना अश्विनौ, द्युभिः दिवसैः अक्तुभिः रात्रिभिः सप्तम्यर्थे तृतीया । दिवसेषु रात्रिषु च अहोरात्रम् अस्मान् परिपातं सर्वतो रक्षतम् । कैः । सौभगेभिः सौभगैः। | भग इति धननाम । शोभनैः धनैः । किंभूतैः । अरिष्टेभिः अनुपहिंसितैः अखण्डितैर्धनैरस्मान्रक्षतमित्यर्थः । किंच मित्रः वरुणः अदितिः सिन्धुः समुद्रः उतापि च द्यौः एते नोऽस्माकं तत् भवत्कृतं रक्षणं मामहन्तां पूजयन्ताम् । अनुमन्यन्तामित्यर्थः । द्युरित्यह्नो नाम अक्तुरिति रात्रेः । मामहन्ताम् | 'मह पूजायाम्' 'बहुलं छन्दसि' ( पा० २। ४ । ७६ ) इति शपः श्लुः । श्लौ' (पा० ६।१।१०) द्वित्वम् 'तुजादीनां दीर्घोऽभ्यासस्य' ( पा० ६।१।७ ) इत्यभ्यासदीर्घः ॥ ३०॥

एकत्रिंशी।
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ।। ३१ ।।
उ० आकृष्णेनेति व्याख्यातम् ॥ ३१ ॥
म०. व्याख्याता ( अ० ३३ क० ४३ ) ॥ ३१ ॥

द्वात्रिंशी।
आ रा॑त्रि॒ पार्थिव॒ᳪं᳭ रज॑: पि॒तुर॑प्रायि॒ धाम॑भिः ।
दि॒वः सदा॑ᳪं᳭सि बृह॒ती वि ति॑ष्ठस॒ आ त्वे॒षं व॑र्तते॒ तम॑: ।। ३२ ।।
उ० आरात्रि रात्रिदेवत्या बृहती । हे रात्रि, या त्वम् आ अप्रायि आअपूपुरः आपूरयसि । पार्थिवं रजः पृथिवीसंबन्धि लोकम् पितुः मध्यमस्य लोकस्य धामभिः स्थानैः सह । या च त्वम् दिवः द्युलोकस्य सदांसि स्थानानि । बृहती महती वित्तिष्ठसे आक्रामसि । यस्याश्च ते । तथापि आवर्तते । त्वेषं दीप्तं महाप्राग्भारं वा तमः तां त्वां स्तुमः ॥ ३२ ॥
म० रात्रिदेवत्या पथ्याबृहती । हे रात्रि, यया त्वया पार्थिवं रजः पृथिवीसंबन्धिलोकः पितुः मध्यलोकस्य धामभिः स्थानैः सह आ अप्रायि समन्तात्पूर्यते । या च त्वं दिवो द्युलोकस्य सदांसि स्थानानि बृहती महती सती वितिष्ठसे आक्रमसे व्याप्नोषि । तस्यास्तव तमः आवर्तते तथापि प्रवतते। किंभूतं तमः। त्वेषं दीप्तं महाप्राग्भारमित्यर्थः । रजःशब्दो लोकवचनः । अप्रायि 'प्रा पूरणे' कर्मणि लुङि चिणि रूपम् ॥ ३२॥

त्रयस्त्रिंशी।
उष॒स्तच्चि॒त्रमा भ॑रा॒स्मभ्यं॑ वाजिनीवति । येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ।। ३३ ।।
उ० उषस्तत् । उषोदेवत्या परोष्णिक् । हे उषः, तत् चित्रं चायनीयं महनीयं धनम् आभर आहर अस्मभ्यम् । हे वाजिनीवति अन्नवति । येन धनेन तोकं पुत्रं तनयं पौत्रं च धामहे दध्महे ॥ ३३ ॥
म० उषोदेवत्या परोष्णिक् । हे उषः, हे वाजिनीवति हे अन्नवति, अस्मभ्यं तत् प्रसिद्धं चित्रं चायनीयमाश्चर्यकारि महनीयं धनमाभर आहर देहि । येन धनेन वयं तोकं पुत्रं तनयं पौत्रं च सर्वं सन्तानवर्गं धामहे दध्महे पुष्णीमः । धामहे दधातेः शपो लुकि रूपम् ॥ ३३ ॥

चतुस्त्रिंशी।
प्रा॒तर॒ग्निं प्रा॒तरिन्द्र॑ᳪं᳭ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ ।
प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रᳪं᳭ हु॑वेम ।। ३४ ।।
उ० प्रातरग्निम् बहुदेवत्या जगती । प्रातःशब्दो वीप्सावचनः । प्रातःप्रातः पुनःपुनः । अग्निं च इन्द्रं च मित्रावरुणौ च अश्विनौ च । हवामह इति प्रत्येकमभिसंबध्यते । प्रातः भगं च पूषणं च ब्रह्मणस्पतिं च । प्रातः सोमम् उत अपिच रुद्रम् हुवेम आह्वयामः ॥ ३४ ॥
म० जगती बहुदेवत्या । प्रातःशब्दो वीप्सावचनः । वयं प्रातःप्रातः पुनःपुनः एतान्देवान् हवामहे आह्वयाम इति प्रत्येकं संबध्यते । कान् । अग्निम् इन्द्रं मित्रावरुणौ अश्विनौ भगम् पूषणम् ब्रह्मणस्पतिम् । सोमम् उत अपिच रुद्रं हुवेम आह्वयाम । हवामहे हुवेम । ह्वयतेः संप्रसारणे रूपद्वयम् ॥३४॥

पञ्चत्रिंशी।
प्रा॒त॒र्जितं॒ भग॑मु॒ग्रᳪं᳭ हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता ।
आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ।। ३५ ।।
उ० प्रातर्जितम् । पञ्च भगदेवत्यास्त्रिष्टुभः । यो विधर्तेत्यादिमन्त्रो व्याख्यायते उद्दिश्यमानत्वात् । यः भगः विधर्ता विधारयिता सर्वस्य जगतः । आध्रश्चिद्यम् । प्रतिषेधस्य दीर्घत्वं छान्दसम् । आध्रः 'ध्रै तृप्तौ' अतृप्तः बुभुक्षितः। अथवा ध्रियतेः आध्रः दरिद्रः । चिच्छब्दोऽप्यर्थे । दरिद्रोऽपि यं भगं मन्यमानः । मन्यतिरर्चतिकर्मा । पूजयन्स्वार्थसिद्धये भगं भक्षि इत्याह । उदयं भक्षयस्व भजस्व इत्याह । तुरश्चित् आङोऽध्याहारः । आतुरोऽपि यं भगं मन्यमानः भक्षीत्याह उदयं भक्षयस्व इत्याह । यद्वा तुरशब्देन यमोऽभिधीयते । स हि तूर्णं प्राणिनो हन्ति । यमोऽपि यं भगं मन्यमानः भक्षीत्याह उदयं भक्षयस्वेत्याह । स हि दिवसान् प्राणिनो गणयति । राजा चित् राजापि यं भगं मन्यमानः भक्षीत्याह उदयं भक्षयस्व भजस्वेत्याह । तदुदये हि राज्ञां वार्तासिद्धिः तं प्रातर्जितं प्रातर्जयिनं भगम् उग्रमुद्गूर्णदानम् हुवेम आह्वयामः । वयम् ऋषिरात्मानमाह । पुत्रम् अदितेः ॥ ३५ ॥
म० पञ्च भगदेवत्यास्त्रिष्टुभः । वयं तं भगमादित्यं हुवेम आह्वयाम । किंभूतम् । प्रातर्जितं प्रातर्जयतीति प्रातर्जित् तम् प्रातर्जयनशीलम् । उग्रमुत्कृष्टमुद्गूर्णदानं वा । अदितेः पुत्रं तनयम् । तं कम् । यो विधर्ता जगतो धारयिता । यश्च आध्रश्चित् चिच्छब्दोऽप्यर्थे । न ध्रायति 'ध्रै तृप्तौ' न तृप्यति स अध्रः नञो दीर्घश्छान्दसः । यद्वा आ समन्तात् ध्रः आध्रः । यद्वा अध्र एवाध्रः स्वार्थे तद्धितः । आध्रः अतृप्तः बुभुक्षितो दरिद्रो वापि यं भगं भक्षि भजस्व अर्थादुदयम् इत्याह । किं कुर्वन् । मन्यमानः पूजयन् स्वार्थसिद्धये । मन्यतिरर्चतिकर्मा । स हिं सूर्योदये भिक्षादिना किंचिल्लभते तत उदयं वाञ्छति तुरश्चित् आतुरोऽपि यं भगं मन्यमानो भक्षि उदयं भजस्वेत्याह । दिवसे तस्य सुखोदयात् रोगिणो रात्रिः कष्टेन याति । यद्वा तुरो यमः स हि मारणाय दिनानि गणयति । राजा चित् राजापि यं भगं भक्षि इत्याह । तदुदये हि राज्ञां व्यवहारदर्शनादिना सर्वेष्टसिद्धिः । भक्षि भजतेः शपि लुप्ते लटि मध्यमे रूपम् ॥३५॥

षट्त्रिंशी।
भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद॑न्नः ।
भग॒ प्र नो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वन्त॑: स्याम ।। ३६ ।।
उ० भग प्रणेतः । हे भग, हे प्रणेतः प्रकर्षेण नयस्य कर्तः । हे भग, हे सत्यराधः, सत्यमविनाशि राधो धनं यस्य स तथोक्तः । हे भग, इमां धियं प्रज्ञाम् उत् अव उद्गमय । यथा सूक्ष्मानर्थान् पश्यामः तथा कुर्वित्यभिप्रायः। ददत् नः देहि अस्मभ्यं धनम् । भग प्र नो जनय गोभिरश्वैः । हे भग, प्रजनय नः अस्मान् गोभिः अश्वैश्च । हे भग, नृभिः मनुष्यैः नृवन्तः स्याम भवेम ॥ ३६ ॥
म० हे भग, हे प्रणेतः प्रकर्षेण नयति प्रापयति धनमिति प्रणेता तस्य संबोधने हे प्रणेतः, आदरार्थं पुनः संबोधनम् । हे भग, हे सत्यराधः, सत्यमनश्वरं राधो धनं यस्य स सत्यराधाः तत्संबुद्धौ हे सत्यराधः हे भग, त्वं ददत् धनं प्रयच्छन्सन् नोऽस्माकमिमां धियं प्रज्ञां कर्म वा उदव उद्गमय । यथा सूक्ष्मार्थान्पश्यामस्तथा कुर्विति भावः । किंच हे भग, नोऽस्मान् गोभिः अश्वैः प्रजनय प्रवर्धय । गाः अश्वांश्च बहून् देहीत्यर्थः । हे भग, वयं नृभिः पुत्रादिभिः नृवन्तः मनुष्यवन्तः प्रकर्षेण स्याम भवेम ॥ ३६॥

सप्तत्रिंशी।
उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना॑म् ।
उ॒तोदि॑ता मघव॒न्त्सूर्य॑स्य व॒यं दे॒वाना॑ᳪं᳭ सुम॒तौ स्या॑म ।। ३७ ।।
उ० उतेदानीम् । उत अपिच इदानीं भगवन्तः स्याम आदित्यप्रसादात् । उत अपिच प्रपित्वे प्राप्ते अस्तमनकाले भगवन्तः स्याम । उत अपिच मध्ये मध्यंदिने अह्नां भगवन्तः स्याम । उतोदिता उत अपिच उदिता उदयकाले हे मघवन् धनवन् , सूर्यस्य भगवतः प्रसादादेव वयम् देवानां सुमतौ कल्याण्यां मतौ स्याम भवेम ॥ ३७ ॥
म० हे मघवन् धनवन् रवे, उत अपिच वयमिदानीं भगवन्तो ज्ञानवन्तो वा स्याम भवेम । उतापिच सूर्यस्य प्रपित्वे प्रपतने अस्तमये भगवन्तः स्याम । उत अह्नां मध्ये मध्यंदिने भगवन्तः स्याम । उत सूर्यस्य उदिता उदितौ उदयसमये भगवन्तः स्याम । किं बहुना सर्वदास्माकं धनवत्तास्त्वित्यर्थः । किंच देवानां सुमतौ कल्याण्यां बुद्धौ वयं स्याम । देवा अस्मासु शोभनामनुग्रहविषयां बुद्धिं दधत्वित्यर्थः ॥ ३७॥

अष्टत्रिंशी ।
भग॑ ए॒व भग॑वाँ२ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम ।
तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीति॒ स नो॑ भग पुर ए॒ता भ॑वे॒ह ।। ३८ ।।
उ० भग एव । हे देवाः, भगएव भगवान् धनवान् अस्तु किमन्यैर्देवताविशेषैर्धनयुक्तैरदातृभिरित्यभिप्रायः । तेन भगप्रदत्तेन धनेन वयं भगवन्तः धनवन्तः स्याम भवेम । एकं वाक्यम् । द्वितीयेनार्धर्चेन द्वितीयम् । एकवाक्यताया असंभवात् । तं त्वा । उपरि तदः श्रवणात् यदोऽत्र वृत्तिः । तं त्वाम् । हे भग, सर्वइत् सर्वएव जोहवीति आह्वयति कामसिद्धये । स नः अस्माकम् हे भग, पुरएता अग्रयायी सर्वकार्येषु भव इह ॥ ३८ ॥
म० हे देवाः, भग एव भगवान् । धनवानस्तु किमन्यैरदातृभिर्धनिभिर्देवैरिति भावः । तेन भगदत्तेन धनेन वयं भगवन्तः स्याम । एवं देवानुक्त्वाथ भगमाह । हे भग, सर्वइत् सर्व एव जनः तं प्रसिद्धं त्वा जोहवीति अत्यन्तमाह्वयति इष्टसिद्धये । हे भग, स त्वमिह नोऽस्माकं कर्मणि पुरएता पुरोऽग्रे एतीति पुरएता अग्रयायी भव । अग्रेसरो भूत्वा सर्वकार्याणि साधयेत्यर्थः ॥ ३८ ॥

एकोनचत्वारिंशी।
सम॑ध्व॒रायो॒षसो॑ऽनमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ ।
अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ।। ३९ ।।
उ० समध्वराय । समनमन्त प्रह्वीभवन्ति या उषसः । अध्वराय यज्ञाय अग्निहोत्रादिकर्मणे । कथमिव । दधिक्रावेव । यथा दधिक्रावा अश्वः शुचये पदाय शुचिपदं अग्न्याधानार्थं कर्तव्यमिति संनमते । एवं ता उषसः । अर्वाचीनं अनन्यगतमनस्कम् । वसुविदं च वसु धनं विन्दतीति वसुवित् तं वसुविदम् । भगम् आदित्यम् । नः अस्मान् प्रति । रथमिव अश्वाः वाजिनः वेजनवन्तः अन्नवन्तो वा । आवहन्तु आगमयन्तु ॥ ३९ ॥
म० उषसः प्रातःकालाधिष्ठातारो देवाः अध्वराय संनमन्त संनमन्ते प्रह्वीभवन्ति । कथमिव । दधिक्रावा अश्वः इव । तथा अश्वः शुचये पदाय । अग्न्याधानार्थं शुचि पदम् । ता उषसः भगमादित्यं नोऽस्माकमर्वा चीनमभिमुखमावहन्तु आगमयन्तु । किंभूतं भगम् । वसुविदम् वसु धनं विन्दतीति वसुविदः | 'इगुपध' (पा० ३ । १ । १३५) इति कः । यथा वाजिनोऽन्नवन्तो वेगवन्तो वा अश्वा रथमावहन्ति तद्वत् ॥ ३९ ॥

चत्वारिंशी।
अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑ती॒: सद॑मुच्छन्तु भ॒द्राः ।
घृ॒तं दुहा॑ना वि॒श्वत॒: प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ।। ४० ।।
उ० अश्वावतीः । उषोदेवत्या त्रिष्टुप् । अश्ववत्यः गोमत्यः नः अस्माकम् । उषासः वीरवत्यः सदं सदाकालम् उच्छन्तु । 'उच्छी विवासे' । विवासयन्तु तमः । भद्राः भन्दनीयाः । घृतमवश्यायजलं दुहानाः । विश्वतः प्रपीताः। प्यायः पीआदेशः । सर्वतः आप्यायिताः धर्मार्थकामैः । इदानीमृत्विग्विषयः प्रश्नः यूयं पात पालयत स्वस्तिभिरविनाशैः सदा नः अस्मान् ॥ ४० ॥
म० उषोदेवत्या त्रिष्टुप् । उषसः सदं सदाकालं नोऽस्मानुच्छन्तु विवासयन्तु अज्ञानलक्षणं पाशं मोचयन्तु । 'उच्छी विवासे' । किंभूता उषसः। अश्वावतीः अश्ववत्यः गोमतीः गोमत्यः वीरवतीः वीरवत्यः भद्राः भन्दनीयाः कल्याणरूपाः घृतमवश्यायजलं दुहानाः क्षरन्त्यः विश्वतः सर्वतः प्रपीताः धर्मार्थकामैराप्यायिताः । प्यायः पी आदेशः । एवं परोक्षं प्रार्थ्य प्रत्यक्षमाह । हे उषसः, यूयं स्वस्तिभिः अविनाशैः सदा नोऽस्मान् पात पालयत ॥ ४० ॥

एकचत्वारिंशी
पूष॒न् तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न । स्तो॒तार॑स्त इ॒ह स्म॑सि ।। ४१ ।।
उ० पूषन् तव । द्वे पौष्ण्यौ गायत्रीत्रिष्टुभौ । हे पूषन् , तव व्रते कर्मणि वर्तमाना वयम् न रिष्येम न विनश्येम कदाचन कदाचिदपि । अन्यच्च स्तोतारोऽपि । ते तव इह स्मसि स्म । 'इदन्तो मसि' इतीकार उपजनः ॥ ४१ ॥
म० द्वे पोष्ण्यौ गायत्रीत्रिष्टुभौ । हे पूषन् , तव व्रते कर्मणि वर्तमाना वयं कदाचन कदापि न रिष्येम न विनश्येम । किंच इह कर्मणि ते तव स्तोतारः स्तुतिकर्तारः स्मसि भवामः । इदन्तो मसि ॥४१॥

द्विचत्वारिंशी
प॒थस्प॑थ॒: परि॑पतिं वच॒स्या कामे॑न कृ॒तो अ॒भ्या॒नड॒र्कम् ।
स नो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं॑ – धियᳪं᳭ सीषधाति॒ प्र पू॒षा ।। ४२ ।।
उ० पथस्पथः । यः पथस्पथः मार्गस्य परिपतिम् । अधिपतिमित्युपसर्गव्यत्ययः। वचस्या वचनेन वेदोक्तेन अभिमुखीकृतः । कामेन इच्छया च अभिमुखीकृतः । अभ्यानट् । आनशिर्व्याप्तिकर्मा । अभिव्याप्नोति । अर्कम् । सः नः अस्मभ्यम् रासत् ददातु । शुरुधः । पूर्वपदान्तलोपः । शुचं संतापं साधनाभावकृतं यानि रुधन्ति साधनानि भवन्ति तानि तथोक्तानि विव्यच्य व्यत्ययेन । चन्द्राग्राः । तान्येव विशिष्यन्ते । चायनीयाग्राणि । धियं धियं प्रसीषधाति । साधतिः कर्मवचनः प्रसाधयतु । पूषा ॥ ४२ ॥
म० यः पूषा अर्कं देवमभ्यानट् अभिव्याप्नोति । किंभूतः कामेन काम्यत इति कामं तेन वाञ्छितेन वचस्या वचसा वेदोक्तेन कृतः अभिमुखीकृतः । किंभूतमर्कम् । पथस्पथः मार्गस्य मार्गस्य सर्वेषां मार्गाणां परिपतिमधिपतिं स्वामिनम् ।। सः पूषा नोऽस्मभ्यं शुरुधः शुचं रुन्धन्ति वर्णनाशात् पृषोदरादित्वात् शोकनाशकराणि साधनानि रासत् ददातु । लिङ्गव्यत्ययः । किंभूताः शुरुधः । चन्द्राग्राः चन्द्रमाह्लादकमग्रं यासां ताः । साधने कृते आह्लादो भवति । पुनः पूषा धियं धियं कर्माणि सर्वाणि प्रसीषधाति प्रकर्षेण साधयतु । पथस्पथः धियं धियमिति 'नित्यवीप्सयोः' (पा० ८ । १। ४) इति द्वित्वम् । वचस्या विभक्तेर्यादेशः । आनट् व्याप्तिकर्मसु दशस्वयं पठितः । सीपधाति 'साध संसिद्धौ' शपः श्लुश्छान्दसः द्वित्वम् । 'लेटोऽडाटौ' 'तुजादीनां दीर्घोऽभ्यासस्य' उपधाह्रस्वश्छान्दसः ॥ ४२ ॥

त्रिचत्वारिंशी।
त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः । अतो॒ धर्मा॑णि धा॒रय॑न् ।। ४३ ।। ।
उ० त्रीणि पदा । वैष्णव्यौ गायव्यौ । द्वाभ्यामेकवाक्यम् । यः विष्णुः यज्ञः त्रीणि पदानि । विचक्रमे क्रान्तवान् अग्निवाय्वादित्याख्यानि । गोपाः गोपायिता समस्तस्य जगतः। अदाभ्यः अनुपहिंस्यः । अतः अस्मादेव पदत्रयात् धर्माणि । धर्मशब्द उभयलिङ्गः अर्धर्चादौ गणे पठितः । धर्मान् धारयन् । कर्मपर्यायो वा । अतः एभ्यः पदेभ्यः कर्माणि धारयन् ॥ ४३ ॥
म० वैष्णव्यौ गायत्र्यौ द्वयोर्ऋचोरेकवाक्यम् । यो विष्णुः यज्ञः त्रीणि पदा पदानि विचक्रमे विक्रान्तवान् अग्निवाय्वादित्याख्यानि पदानि व्याप्तवान् । किंभूतो विष्णुः । गोपाः जगतो रक्षकः । अदाभ्यः अहिंस्यः । किं कुर्वन् । अतः अस्मादेव पदत्रयात् धर्माणि पुण्यानि कर्माणि धारयन् । धर्ममस्त्रियाम् ॥ ४३ ॥

चतुश्चत्वारिंशी।
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाᳪं᳭स॒: समि॑न्धते । विष्णो॒र्यत्प॑र॒मं प॒दम् ।। ४४ ।।
उ० तद्विप्रासः तस्य विष्णोर्यज्ञस्य यत् परमं पदं ब्रह्मलक्षणम् । तत् । विप्रासः ब्राह्मणाः विपन्यवः मेधाविनः । जागृवांसः असुप्ताः अप्रमत्ताः । ज्ञानकर्मसमुच्चयकारिणः । समिन्धते संदीपयन्ति उपासनैर्निर्मलीकुर्वन्ति ॥ ४४ ॥
म० तस्य विष्णोः यज्ञस्य यत्परमं पदं ब्रह्मलक्षणम् तद्विप्रासः विप्राः ब्राह्मणाः समिन्धते । णिचो लोपः। समिन्धयन्ति दीपयन्ति । उपासते इत्यर्थः । किंभूताः विप्राः । विपन्यवः । विगतः पन्युः संसारव्यवहारो येभ्यः निष्कामाः । जागृवांसः जागरणशीलाः अप्रमत्ताः । ज्ञानकर्मसु समुच्चयकारिण इत्यर्थः ॥ ४४ ॥

पञ्चचत्वारिंशी।
घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे॑ सु॒पेश॑सा ।
द्यावा॑पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भिते अ॒जरे॒ भूरि॑रेतसा ।। ४५ ।।
उ० घृतवती । द्यावापृथिवीया जगती । ये द्यावापृथिव्यौ घृतवत्यौ उदकवत्यौ । भुवनानामभिश्रिया भूतजातानामभ्याश्रयणीये । उर्वी विस्तीर्णे । पृथ्वी पृथुले । मधुदुघे मधु उदकं तस्य दोग्ध्र्यौ । सुपेशसा सुरूपे । ते वरुणस्यादित्यस्य धर्मणा धारणेन । विष्कम्भिते । स्कभ्नोतिर्दृढीकरणार्थः । दृढीकृते अजरे जरारहिते । भूरिरेतसा बहुरेतस्के । सर्वभूतानां हि रेतांसि ताभ्यामेवोत्पद्यन्ते ॥ ४५ ॥
म० जगती द्यावापृथिवीदेवत्या । द्यावापृथिवी द्यावापृथिव्यौ वरुणस्यादित्यस्य धर्मणा धारणेन धारणशक्त्या विष्कभिते स्तम्भिते । स्कभ्नोतिर्दृढीकरणार्थः । वरुणेन स्वशक्त्या दृढीकृते इत्यर्थः । किंभूते ते । घृतवती उदकवत्यौ । घृतमित्युदकनाम। भुवनानां भूतजातानामभिश्रिया अभिश्रियौ आश्रयणीये । कर्मणि क्विप् विभक्तराकारः । उर्वी उर्व्यौ विस्तीर्णे । पृथ्वी पृथ्व्यौ पृथुले । आयामविस्ताराभ्यां महत्त्वं विशेषणद्वयेनोक्तम् । मधुदुघे मधु उदकं तस्य दोग्ध्र्यौ । सुपेशसा सुरूपे । अजरे जरारहिते । भूरि रेतसा भूरि रेतो ययोस्ते भूरिरेतसी बहुरेतस्के । सर्वभूतानां हि रेतांसि ताभ्यामेवोत्पद्यन्ते ॥ ४५ ॥

षट्चत्वारिंशी।
ये न॑: स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् ।
वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं॑ मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन् ।। ४६ ।।
उ० ये नः। जगती लिङ्गोक्तदेवता । ये नः अस्माकम् । सपत्नाः शत्रवः । अप ते भवन्तु अपगतवीर्या निरुद्यमास्ते भवन्तु । ततः इन्द्राग्निभ्याम् अवबाधामहे अवनाशयामः ताञ्शत्रून् । किंच वसवः रुद्राः आदित्याश्च । उपरिस्पृशम् उपरिस्थितः स्पृशतीति उपरिस्पृक् आधिपत्येऽवस्थितः पादेन स्पृशतीति उपरिस्पृक् तं उपरिस्पृशम् मां उग्रं च । चेत्तारं ज्ञातारं च ज्ञेयस्य । अधिराजं अधिपतिमीश्वरं च । अक्रन् कृतवन्तः कुर्वन्तु वा ॥ ४६ ॥
म० जगती लिङ्गोक्तदेवता । ये नोऽस्माकं सपत्नाः शत्रवः ते अपभवन्तु अपगतवीर्या निरुद्यमा भवन्तु । पराभवं यान्वियेत्यर्थः । यतो वयं तान् सपत्नान् इन्द्राग्निभ्यां कृत्वा अवबाधामहे इन्द्राग्निबलेन नाशयामः । किंच वसवोऽष्टौ रुद्रा एकादश आदित्या द्वादश एते मा मामेतादृशमक्रन् कुर्वन्तु । कीदृशम् । उपरिस्पृशम् उपरि स्पृशतीति उपरिस्पृक् तमुच्चस्थानस्थितम् । उग्रमुत्कृष्टम् । चेत्तारं ज्ञातारं ज्ञेयस्य । अधिराजम् अधिकश्चासौ राजा च अधिराजस्तम् अधिपतिमीश्वरं । कुर्वन्त्वित्यर्थः ॥ ४६॥

सप्तचत्वारिंशी।
आ ना॑सत्या त्रि॒भिरे॑काद॒शैरि॒ह दे॒वेभि॑र्यातं मधु॒पेय॑मश्विना ।
प्रायु॒स्तारि॑ष्टं॒ नी रपा॑ᳪं᳭सि मृक्षत॒ᳪं᳭ सेध॑तं॒ द्वेषो॒ भव॑तᳪं᳭ सचा॒भुवा॑ ।। ४७ ।।
उ० आ नासत्या । आश्विनी जगती। आयातम् आगच्छतम् हे नासत्यावश्विनौ, त्रिभिरेकादशैः त्रयस्त्रिंशद्भिर्देवैः सहितौ भूत्वा । तदुक्तम् अष्टौ वसव इत्यादि। इह मधुपेयम् मधुः सोमः सोमपानं प्रति । एत्य च प्रायुस्तारिष्टं प्रतारिष्टं प्रवर्धयतम् आयुः। नी रपांसि मृक्षतम्। 'मृजूष् शुद्धौ'। रपः पापमुच्यते । निर्मृक्षतं निःशोधयतं नाशयतम् । रपांसि पापानि । सेधतं द्वेषः । 'षिधु गत्याम्' । गमयतं दौर्भाग्यम् । भवतं च सचाभुवा सहभुवौ सर्वकार्येषु संयुक्तौ ॥ ४७ ॥
म० जगती अश्विदेवत्या । हे नासत्या नासत्यौ, हे अश्विनौ त्रिभिः एकादशैः त्रिगुणैरेकादशभिः त्रयस्त्रिंशत्संख्याकैः देवेभिः देवैः इह स्थाने मधुपेयं सोमपानं प्रति आयातमागच्छतम् । मधुः सोमस्तस्य पेयं पानम् । किंच आयुः प्रतारिष्टम् । तरतिर्वृद्ध्यर्थः प्रवर्धयतम् । रपांसि पापानि निर्मृक्षतं निःशेषं शोधयतम् । नाशयतमित्यर्थः । द्वेषः दौर्भाग्यं सेधतं । 'षिधु गत्याम्' गमयतं नाशयतम् । सचाभुवा भवतम् । सचा इत्यव्ययं सहार्थे । सचा सह भवतस्तौ सचाभुवौ । क्विप् । कार्येषु संयुक्तौ भवतम् । अष्टौ वसव इत्यादिना त्रयत्रिंशद्देवा गणिताः । तारिष्टम् तरतेर्लुङि मध्यमद्विवचनम् 'बहुलं छन्दस्यमाङयोगेऽपि' (पा० ६ । ४ । ७५) इत्यडभावः । मृक्षतम् ‘मृजूष् शुद्धौ' 'लेटोऽडाटौ' 'सिब्बहुलं लेटि' | (पा० ३ । १ । ३४ ) इति सिप् 'तस्थस्थमिपाम्-'(पा० | ३ । ४ । १०१) इति व्यत्ययेन थसः तमादेशः ॥ ४७ ॥

अष्टचत्वारिंशी।
ए॒ष व॒: स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।
एषा या॑सीष्ट त॒न्वे॒ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ।। ४८ ।।
उ० एष वः मारुती त्रिष्टुप् । हे मरुतः, एष स्तोमः वः युष्माकम् इयं च गौः सत्या च । मम मान्दार्यस्य ऋषेः समेति स्वस्वामिसंबन्धं दृणातीति मान्दार्यः । यद्वा मां दारयति मां द्यतीत्येवं यः सपत्नानां प्रत्ययमादधाति स मान्दार्यः तस्य मम च मान्यस्य मानार्हस्य । कारोः कर्तुः तं स्तोमं तां च गिरम् उपश्रुत्य । एषायासीष्ट आ इषा यासीष्ट अयासीष्ट अयासीरन् इति वचनव्यत्ययः। आगच्छत । इषा अन्नेन निमित्तभूतेनाहूयमाना । तन्वे वयां सशरीरस्थित्यर्थं वयोदृढंकर्तुम् आयासीष्ट । किंच विद्यां लभेमहि । इषमन्नम् वृजनं बलं च जीरदानुं जीवितदातृकर्म च ॥ १८ ॥
म० मारुती त्रिष्टुप् । हे मरुतः, कारोः कर्तुर्यजमानस्य एषः स्तोमः इयं च गीः सत्या च प्रिया च वो युष्मभ्यं । युष्मदर्थं वर्तत इति शेषः । किंभूतस्य कारोः । मान्दार्यस्य मां ममेति स्वस्वामिसंबन्धं दारयतीति मान्दार्यः तस्य । वीतरागस्येत्यर्थः । यद्वा मां दारयतीत्येवं यः शत्रूणां प्रत्ययमादधाति स मान्दार्यः । यद्वा मन्दारः कल्पवृक्षः तत्तुल्यो मान्दार्यः तस्य अथ कामपूरस्येत्यर्थः । मान्यस्य मानार्हस्य । किंच हे मरुतः, यूयमिषा अन्नेन निमित्तेन अयासीष्ट आगच्छत । किमर्थम् । वयां वयसाम् । आमि टिलोप आर्षः । बाल्ययौवनस्थाविराणां वयसां संबन्धिन्यै तन्वे शरीराय । सर्वदा शरीरस्थित्यर्थमित्यर्थः । अस्मच्छरीरं दृढीकर्तुमिति भावः । किंच इषमन्नं वृजनं बलं च वयं विद्याम लभेमहि । किंभूतमिषं वृजनं च । जीरदानुं जीवयतीति जीरदानुस्तम् । जीवेरौणादिको रदानुप्रत्ययः 'लोपो व्योर्वलि' ( पा० ६ । १ । ६६) इति वलोपः। जीवितदातृ बलमन्नं च वयं प्राप्नुयामेति प्रार्थना ॥ ४८ ॥

एकोनपञ्चाशी।
स॒हस्तो॑माः स॒हच्छ॑न्दस आ॒वृत॑: स॒हप्र॑मा॒ ऋष॑यः स॒प्त दै॑व्याः ।
पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो न र॒श्मीन् ।। ४९ ।।
उ० सहस्तोमाः । ऋषिसृष्टिप्रतिपादिका त्रिष्टुप् । सहस्तोमाः स्तोमसहिताः । सहछन्दसः छन्दःसहिताः आवृतः । आवृच्छब्देन कर्माभिधीयते । श्रद्धासत्यप्रधानानां कर्मणामनुष्ठातारः । सहप्रमाः प्रमाणं प्रमा । शब्दप्रमाणपरीक्षणतत्पराः ऋषयः सप्त । सप्तऋषय इति प्राप्ते व्यत्ययः । भरद्वाजकश्यपगौतमात्रिविश्वामित्रजमदग्निवसिष्ठाः । दैव्याः प्रजापतेः प्राणाभिमानिनः एते अभिव्यज्यमानाः । पूर्वेषां अधस्तनकल्पोत्पन्नानां अवसिताधिकाराणाम् । पन्थां पन्थानम् । अनुदृश्य अवलोक्य । धीराः अन्वालेभिरे अन्वालभन्तः सृष्टवन्तः सृष्टियज्ञम् । कथमिव । रथ्यो न रश्मीन् रथे साधुः रथ्यः सारथिः । नकार उपमार्थीयः । यथा सारथिरिष्टदेशप्राप्त्यर्थं प्रथममश्वरश्मीनालभते स्पृशति एवं तेऽपि सृष्टियज्ञं सृष्टवन्तः ॥ ४९ ॥
म० ऋषिसृष्टिप्रतिपादिका त्रिष्टुप् । दैव्याः सप्त ऋषयः देवस्य प्रजापतेः इमे दैव्याः प्रजापतिप्राणाभिमानिनः सप्त ऋषयः भरद्वाजकश्यपगोतमात्रिवसिष्ठविश्वामित्रजमदग्निसंज्ञाः । अन्वालेभिरे सृष्टवन्तः । सृष्टियज्ञमिति शेषः । किं कृत्वा । पूर्वेषां पन्थां पन्थानमनुदृश्य अधस्तनकल्पोत्पन्नानामवसिताधिकाराणां मार्गं विलोक्य पूर्वकल्पोत्पन्नैर्ऋषिभिर्यथा सृष्टं तथा सृष्टवन्त इत्यर्थः । 'सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्' इत्युक्तेः । कथमिव । रथ्यो न रश्मीन् । नकार उपमार्थः। रथे साधुः रथ्यः रथी यथा इष्टदेशप्राप्त्यर्थं प्रथमं रश्मीन् प्रग्रहानालभते स्पृशति सृजति वा तथा तेऽपि सृष्टियज्ञं सृष्टवन्तः । किंभूता ऋषयः । सहस्तोमाः स्तोमसहिताः । सहच्छन्दसः छन्दोभिर्गायत्र्यादिभिः सहिताः । आवृतः अत्रापि सहशब्दाध्याहारः । आवृच्छब्देन कर्मोच्यते । सहावृतः कर्मसहिताः श्रद्धासत्यप्रधानानां कर्मणामनुष्ठातारः । सहप्रमाः प्रमाणं प्रमा तत्सहिताः शब्दप्रमाणपरीक्षणतत्पराः । धीराः धीमन्तः ॥ ४९ ॥

पञ्चाशी।
आ॒यु॒ष्यं॒ वर्च॒स्य॒ᳪं᳭ रा॒यस्पोष॒मौद्भि॑दम् । इ॒दᳪं᳭ हिर॑ण्यं॒ वर्च॑स्व॒ जैत्रा॒यावि॑शतादु॒ माम् ।। ५० ।।
उ० आयुष्यम् । तिस्रः हिरण्यस्तुतिः उष्णिक्शक्वरी त्रिष्टुभः । यदिदं हिरण्यम् । आयुष्यं आयुषे हितम् । वर्चस्यं वर्चसे हितम् । रायस्पोषं धनस्य वर्धयितृ । औद्भिदं उद्भेत्तृ धनस्य स्वर्गस्य वा । वर्चस्वत् अन्नसंयुक्तम् । तत् जैत्राय विजयाय । आविशतात् आविशतु । उः पादपूरणार्थः । मामप्यवस्थानं करोतु ॥ ५० ॥
म० तिस्रः उष्णिक्शक्वरीत्रिष्टुभः दक्षदृष्टाः । हिरण्यस्तुतिः । इदं हिरण्यं कनकं जैत्राय जयाय मामु मामेवाविशतात् आविशतु मयि तिष्ठतु । कीदृशम् । आयुष्यमायुषे हितम् । वर्चस्यं वर्चसे तेजसे हितम् । रायो धनस्य पोषं पोषयितृ वर्धकम् । औद्भिदम् उद्भिनत्तीति उद्भिद् उद्भिदेवौद्भिदमुद्भेत्तृ धनस्य स्वर्गस्य वा प्रकाशकम् । वर्चस्वत् अन्नसंयुक्तम् ॥ ५० ॥

एकपञ्चाशी।
न तद्रक्षा॑ᳪं᳭सि॒ न पि॑शा॒चास्त॑रन्ति दे॒वाना॒मोज॑: प्रथम॒जᳪं᳭ ह्ये॒तत् ।
यो बि॒भर्ति॑ दाक्षाय॒णᳪं᳭ हिर॑ण्य॒ᳪं᳭ स दे॒वेषु॑ कृणुते दी॒र्घमायु॒: स म॑नु॒ष्ये॒षु कृणुते दी॒र्घमायु॑: ।। ५१ ।।

उ० न तत् हिरण्यं रक्षांसि न च पिशाचाः तरन्ति हिंसन्ति । देवानां प्रथमजं ओजः हि एतत् । यतश्च देवानामोजः प्रथमजम् अतः यो बिभर्ति दाक्षायणं हिरण्यम् । दाक्षायणमित्यलंकारविशेषः । स देवेषु देवलोकेषु कुरुते दीर्घमायुः । चिरं देवलोके वसतीत्यर्थः । स मनुष्येषु कुरुते दीर्घमायुः । स च मानुष्यमायुरतिक्रम्य जीवतीत्यर्थः॥५१॥
म०. रक्षांसि पिशाचाश्च तत् हिरण्यं न तरन्ति न हिंसन्ति । हि यस्मात् एतत् हिरण्यं देवानां प्रथमजमोजः । प्रथमोत्पन्नं देवानां तेज एवेदम् । अतएव यो हिरण्यं दाक्षायणं बिभर्ति अलंकारत्वेन धारयति । दाक्षायणशब्दोऽलंकारार्थः । स वेदेषु देवलोकेषु दीर्घमायुः कृणुते कुरुते । देवलोके चिरं वसतीत्यर्थः । स च मनुष्येषु मनुष्यलोकेषु स्वमायुर्दीर्घं कृणुते मनुष्यायुरतिक्रम्य जीवति ॥ ५१ ॥

द्विपञ्चाशी।
यदाब॑ध्नन् दाक्षाय॒णा हिर॑ण्यᳪं᳭ श॒तानी॑काय सुमन॒स्यमा॑नाः ।
तन्म॒ आ ब॑ध्नामि श॒तशा॑रदा॒यायु॑ष्माञ्ज॒रद॑ष्टि॒र्यथास॑म् ।। ५२ ।।
उ० यदाबध्नन् यत् हिरण्यम् आबध्नन् आबद्धवन्तः । दाक्षायणाः दक्षस्यापत्यानि बहूनि । नडादिपाठात्फक् । शतानीकाय राज्ञे शतं बहूनि अनीकानि सेना यस्य स तथोक्तस्तस्मै शतानीकाय । सुमनस्यमानाः शोभनेन मनसा ध्यायन्तः । तत् हिरण्यम् । मे । मयि आत्मनीति सम्यगुक्तिः । अहं आबध्नामि । शतशारदाय शतं शरदां जीवनाय । आयुष्मान् च जरदष्टिः जरामश्नुते व्याप्नोतीति जरदृष्टिः । यथा येन प्रकारेण आसं भूयासम् तथा बध्नामीति शेषः ॥ ५२ ॥
म० दाक्षायणाः दक्षस्यापत्यानि । नडादित्वात् फक् । दक्षवंशोत्पन्ना ब्राह्मणा यत् हिरण्यं शतानीकाय राज्ञे अबध्नन् बबन्धुः । शतं बहूनि अनीकानि सैन्यानि यस्य सः शतानीकस्तस्मै । किंभूताः दाक्षायणाः । सुमनस्यमानाः मनसि शोभनं ध्यायन्तः शोभनं मनः कुर्वते सुमनस्यन्ते सुमनस्यन्ते सुमनस्यमानाः । तत् हिरण्यं मे मयि आबध्नामि । किमर्थं शतशारदाय शतं शरदो जीवनाय । यथा येन प्रकारेण हिरण्यबन्धनाख्येन अहमायुष्मान् दीर्घजीवी जरदष्टिश्च आसं भूयासम् तथा आबध्नामि । जरदष्टिः जरामश्नुते व्याप्नोति जरदष्टिः । यद्वा जरन्ती जरां प्राप्ता अष्टिः शरीरं यस्य स जरदष्टिः ॥ ५२॥

त्रिपञ्चाशी।
उ॒त नोऽहि॑र्बु॒ध्न्य॒: शृणोत्व॒ज एक॑पात्पृथि॒वी स॑मु॒द्रः ।
विश्वे॑ दे॒वा ऋ॑ता॒वृधो॑ हुवा॒ना स्तु॒ता मन्त्रा॑: कविश॒स्ता अ॑वन्तु ।। ५३ ।।
उ० उत नः। बहुदेवत्या त्रिष्टुप् । उत अपिच नः अस्माकम् । वचांसि अहिर्बुध्न्यः शृणोतु । अजएकपात् रुद्रः प्राणो वा शृणोतु । पृथिवी च समुद्रश्च शृणोतु । श्रुत्वा च अवन्तु । विश्वे च देवाः ऋतावृधः सत्यवृधः यज्ञवृधो वा हुवाना आहूयमानाः स्तुताश्च मन्त्राः । मन्त्रैरिति विभक्तिव्यत्ययः। कविशस्ता मेधाविशस्ताः । अवन्तु पालयन्तु ॥५३॥
म० बहुदेवत्या त्रिष्टुप् । उत अपिच अहिर्बुध्न्यः रुद्रविशेषः शृणोतु । नः अस्माकं वचांसीति शेषः । अजएकपात् रुद्रः प्राणो वा शृणोतु पृथिवी च शृणोतु समुद्रश्च शृणोतु विश्वे देवाश्च शृण्वन्तु । श्रुत्वा च ते अहिर्बुध्न्यादयः अवन्तु पालयन्तु अस्मान् । किंभूतास्ते । ऋतावृधः सत्यवृधो वा। हुवाना आहूयमानाः । मन्त्राः मन्त्रैरिति विभक्तिव्यत्ययः। स्तुताः कविशस्ताः मेधाविभिः पूजिताः ॥ ५३ ॥

चतुःपञ्चाशी।
इ॒मा गिर॑ आदि॒त्येभ्यो॑ घृ॒तस्नू॑: स॒नाद्राज॑भ्यो जु॒ह्वा॒ जुहोमि ।
शृ॒णोतु॑ मि॒त्रो अ॑र्य॒मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ अᳪं᳭श॑: ।। ५४ ।।
उ० इमा गिरः आदित्यदेवत्या त्रिष्टुप् । या इमा गिरः वाचः आदित्येभ्यः घृतस्नूः घृतप्रस्राविणीः घृतप्रसारिणीर्वा घृतहोमसहचरिताः । सनात् चिरम् चिरकालम् राजभ्यः चिरराजभ्यो वा । जुह्वा स्रुचा जुहोमि । ताश्च शृणोतु मित्रः अर्यमा च भगश्च नः अस्माकम् । तुविजातश्च धाता च । स हि बहुशः प्रजायते । वरुणश्च दक्षश्च अंशश्च एते सूर्यविशेषाः ॥ ५४॥
म० आदित्यदेवत्या त्रिष्टुप् । इमा गिरो वाचः जुह्वा स्रुचा कृत्वा आदित्येभ्यो जुहोमि । स्तुतिलक्षणा वाणीर्बुद्धिरूपया स्रुचादित्येभ्यः समर्पयामीत्यर्थः । किंभूता गिरः । घृतस्नूः घृतं स्नुवन्ति स्रवन्ति ताः घृतस्नुवः ता घृतस्नूः । तुगभाव आर्षः । घृतप्रसारिणीर्घृतहोमसहचरिता वा । किंभूतेभ्य आदित्येभ्यः । सनात् चिरकालं राजभ्यः दीप्यमानेभ्यः । ताः स्रुचा हूयमानाः नोऽस्माकं गिरः शृणोतु । कः । मित्रः अर्यमा भगश्च । तुविजातो बहुजातः त्वष्टा वातो वा । स हि बहुशः प्रजायते । वरुणः दक्षः अंशश्च । एते सूर्य विशेषाः ॥ ५४ ॥

पञ्चपञ्चाशी ।
स॒प्त ऋष॑य॒: प्रति॑हिता॒: शरी॑रे स॒प्त र॑क्षन्ति॒ सद॒मप्र॑मादम् ।
स॒प्ताप॒: स्वप॑तो लो॒कमी॑यु॒स्तत्र॑ जागृतो॒ अस्व॑प्नजौ सत्र॒सदौ॑ च दे॒वौ ।। ५५ ।।
उ० सप्त ऋषयः । अध्यात्मवादिनी जगती । सप्त प्राणाः षडिन्द्रियाणि मनःसप्तमानि । प्रतिहिताः प्रतिनिहिताः शरीरे व्यवस्थिताः ये त एव । सप्त रक्षन्ति सदं सदाकालं शरीरम् । अप्रमादं प्रमादमकुर्वाणाः । ते एव सप्त आपः आपना व्यापनाः । स्वपतः पुरुषस्य लोकं ईयुः । लोकशब्देन विज्ञानात्मा हृदयाकाशप्रतिष्ठित उच्यते । तत्र च संवित्स्थाने । तस्यामेवावस्थायां जागृतः जागरणं कुर्वाते । अस्वप्नजौ। ययोर्न जायते स्वप्नः तौ तथोक्तौ । सत्रसदौ सत्रे सतां त्राणे कृतावस्थानौ । देवौ जीवितदातारौ प्राणापानौ ॥ ५५॥
म० अध्यात्मवादिनी जगती । सप्त ऋषयः प्राणाः त्वक्चक्षुःश्रवणरसनाघ्राणमनोवुद्धिलक्षणाः शरीरे प्रतिहिताः व्यवस्थिताः ते एव सप्त सदं सदाकालमप्रमादं सावधानं यथा तथा शरीरं रक्षन्ति । ते सप्त स्वपतो नरस्य लोकमात्मानमीयुः प्राप्नुवन्ति । लोकशब्देन विज्ञानात्मा हृदयाकाशप्रतिष्ठ उच्यते। किंभूताः सप्त । आपः आप्नुवन्ति व्याप्नुवन्ति देहमित्यापः व्यापनाः । तत्र तस्यामृषीणां लोकगमनावस्थायां देवौ दीप्यमानौ प्राणापानौ जागृतः जागरणं कुर्वाते । कीदृशौ । अस्वप्नजौ न स्वप्नो निद्रा जायते ययोस्तौ अस्वप्नजौ । तथा सत्रसदौ सतां जीवानां त्राणं रक्षणं सत्रं तत्र सीदतः तौ सत्रसदौ । जीवितदातारावित्यर्थः ॥ ५५ ॥

पटूपञ्चाशी ।।
उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे । उप॒ प्रय॑न्तु म॒रुत॑: सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा॑ ।। ५६ ।।
उ० उत्तिष्ठ । तिस्रो ब्राह्मणस्पत्यः द्वे बृहत्यौ तृतीया त्रिष्टुप् । हे ब्रह्मणस्पते, उत्तिष्ठ ऊर्ध्वो भव आरब्धकार्यो भव । यस्मात् देवयन्तः देवान्कामयमानाः यजमानाः त्वां भवन्तम् ईमहे याचामहे आगच्छेति । भवन्तमागच्छन्तम् उपप्रयन्तु उपसंगम्य आगच्छन्तु । मरुतः सुदानवः कल्याणदानाः । त्वं च हे इन्द्र, प्राशूः प्रकर्षेण शीघ्रो भव । सचा सहगमनाय ॥ ५६ ॥
म० तृचो ब्रह्मणस्पतिदैवतः । द्वे बृहत्यौ तृतीया त्रिष्टुप् । हे ब्रह्मणो देवस्य पते पालक, उत्तिष्ठ ऊर्ध्वः आरब्धकार्यो भव । यतो वयं देवयन्तो देवान्कामयमानाः त्वा त्वामीमहे याचामहे आगच्छेति । मरुतः भवन्तमागच्छन्तमुप समीपे प्रयन्तु आगच्छन्तु । किंभूताः मरुतः । सुदानवः शोभनं ददति ते सुदानवः । हे इन्द्र, त्वमपि सचा सह गमनाय प्राशूः प्रकर्षेण शीघ्रो भव । देवान्कामयन्ते देवयन्ति ततः शतृप्रत्ययः 'सुप आत्मनः क्यच्' (पा० ३ । १।८) 'न छन्दस्यपुत्रस्य' (पा. ७ । ४ । ३५ ) इति निषेधात् 'क्यचि च' इतीत्वाभावः (पा० ७ । ४ । ३३ ) 'अश्वाघस्यात्' (पा० ७ । ४ । ३७ ) इत्यश्वाघयोरेवाकारविधानात् 'अकृत्सार्वधातुकयोः' (पा. ७ । ४ । २५) इति दीर्घोऽपि न स्यात् । ईमहे याचतिकर्मसु पठितः 'ई गतौ' दिवादित्वादागतस्य श्यनश्छान्दसो लोपः । सुदानवः 'दाभाभ्यां नुः' ( उणा० ३ । ३२ ) प्राशूः आशुशब्दे दीर्घश्छान्दसः । भवा संहितायां 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति दीर्घः ॥५६॥

सप्तपञ्चाशी।
प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं॑ वदत्यु॒क्थ्य॒म् । यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा दे॒वा ओका॑ᳪं᳭सि चक्रि॒रे ।। ५७ ।।
उ० प्र नूनम् नूनमिति पादपूरणः । प्रवदति प्रोच्चारयति ब्रह्मणस्पतिः मन्त्रं उक्थ्यम् । उक्थ्यमिति शस्त्रमुच्यते तत्र सन्नमन्मन्त्र उक्थ्यः । कथंभूतोसौ मन्त्रः । यस्मिन् मन्त्रे इन्द्रश्च वरुणश्च अर्यमा च अन्ये देवाश्च ओकांसि । ओक इति निवासनाम । निवासानि चक्रिरे कृतवन्तः ॥ ५७ ॥
म० ब्रह्मणस्पतिः नूनं निश्चितमुक्थ्यं 'शस्त्रयोग्यं मन्त्रं प्रवदति प्रकर्षेणोच्चारयति । यस्मिन् मन्त्रे इन्द्रः वरुणः मित्रः अर्यमा अन्ये च देवाः ओकांसि निवासान् चक्रिरे कृतवन्तः । सर्वदेवाधारभूतं शस्त्रं पठनीयं मन्त्रवदित्यर्थः ॥ ५७ ॥

अष्टपञ्चाशी ।
ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व ।
विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑: ।।
य इ॒मा विश्वा॑ वि॒श्वक॑र्मा॒ यो न॑: पि॒ता ऽन्न॑प॒तेऽन्न॑स्य नो देहि ।। ५८ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
उ० ब्रह्मणस्पते । हे ब्रह्मणस्पते, त्वम् अस्य जगतः यन्ता । एवंचेत् विज्ञापयामि । सूक्तस्य साधुवचनस्य बोधि बुध्यस्व अवगतार्थो भव । तनयं च अपत्यानि च जिन्व । जिन्वति प्रीतिकर्मा । प्रीणीहि विश्वं च तत् भद्रं भन्दनीयम् अस्माकम् अस्तु । यत् अवन्ति पालयन्ति देवाः त्वत्प्रसादात् । बृहत् महत् ऊर्जितम् । वदेम दीयतां भुज्यतामिति । विदथे यज्ञे । सुवीराः कल्याणपुत्राः सन्तः । अथ चतस्रः प्रतीकोक्ताः । इमा विश्वा भुवनानि जुह्वत् । विश्वकर्मा विमना । यो नः पिता । अन्नपतेऽन्नस्य नो देहीति ॥ ५८ ॥
इति उवटकृतौ मन्त्रभाष्ये चतुस्त्रिंशत्तमोऽध्यायः ॥ ३४ ॥
म०. हे ब्रह्मणस्पते, त्वं यतोऽस्य जगतो यन्ता नियन्ता अतः प्रार्थ्यते । सूक्तस्यास्मदुक्तस्य साधुवचनस्य । कर्मणि षष्ठी। सूक्तम् बोधि बुध्यस्व । अस्मदुक्ता स्तुतिर्भवता ज्ञायतामित्यर्थः । तनयं च अस्मदपत्यानि जिन्व प्रीणीहि । जिन्वतिः प्रीतिकर्मा । देवा यत् भद्रं कल्याणमवन्ति पालयन्ति तत् विश्वं सर्वं भद्रमस्माकमस्त्विति शेषः । किंच सुवीराः कल्याणपुत्राः सन्तो वयं विदथे यज्ञे बृहत् महत् वदेम दीयतां भुज्यतामित्यादि उच्चारयेम । अथ चतस्रः कण्डिकाः प्रतीकोक्ताः य इमा विश्वा भुवनानि जुह्वत् ( १७ । १७ ) विश्वकर्मा विमनाः ( १७ । २६ ) यो नः पिता ( १७ । २७)
अन्नपतेऽनस्य नो देहि ( ११ । ८३ ) इति । ता ब्रह्मयज्ञेऽध्येयाः॥५८ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
चतुस्त्रिंशोऽयमध्यायो ब्रह्मयज्ञार्थकोऽगमत् ॥ ३४ ॥