सामग्री पर जाएँ

शुक्लयजुर्वेदः/अध्यायः २९

विकिस्रोतः तः
← अध्यायः २८ शुक्लयजुर्वेदः
अध्यायः २९
[[लेखकः :|]]
अध्यायः ३० →

अध्यायः 29
आश्वमेधिको अध्यायः। शिष्टाश्वमेध मन्त्राः

29.1
समिद्धो ऽ अञ्जन् कृदरं मतीनां घृतम् अग्ने मधुमत् पिन्वमानः ।
वाजी वहन् वाजिनं जातवेदो देवानां वक्षि प्रियम् आ सधस्थम् ॥

29.2
घृतेनाञ्जन्त् सं पथो देवयानान् प्रजानन् वाज्य् अप्य् एतु देवान् ।
अनु त्वा सप्ते प्रदिशः सचन्ताꣳ स्वधाम् अस्मै यजमानाय धेहि ॥

29.3
ईड्यश् चासि वन्द्यश् च वाजिन्न् आशुश् चासि मेध्यश् च सप्ते ।
अग्निष् ट्वा देवैर् वसुभिः सजोषाः प्रीतं वह्निं वहतु जातवेदाः ॥

29.4
स्तीर्णं बर्हिः सुष्टरीमा जुषाणोरु पृथु प्रथमानं पृथिव्याम् ।
देवेभिर् युक्तम् अदितिः सजोषाः स्योनं कृण्वान सुविते दधातु ॥

29.5
एता ऽ उ वः सुभगा विश्वरूपा वि पक्षोभिः श्रयमाणा ऽ उदातैः ।
ऋष्वाः सतीः कवषः शुम्भमाना द्वारो देवीः सुप्रायणा भवन्तु ॥

29.6
अन्तरा मित्रावरुणा चरन्ती मुखं यज्ञानाम् अभि संविदाने ।
उषासा वाꣳ सुहिरण्ये सुशिल्पे ऽ ऋतस्य योनाव् इह सादयामि ॥

29.7
प्रथमा वाꣳ सरथिना सुवर्णा देवौ पश्यन्तौ भुवनानि विश्वा ।
अपिप्रयं चोदना वां मिमाना होतारा ज्योतिः प्रदिशा दिशन्ता ॥

29.8
आदित्यैर् नो भारती वष्टु यज्ञꣳ सरस्वती सह रुद्रैर् न ऽ आवीत् ।
इडोपहूता वसुभिः सजोषा यज्ञं नो देवीर् अमृतेषु धत्त ॥

29.9
त्वष्टा वीरं देवकामं जजान त्वष्टुर् अर्वा जायत ऽ आशुर् अश्वः ।
त्वष्टेदं विश्वं भुवनं जजान बहोः कर्तारम् इह यक्षि होतः ॥

29.10
अश्वो घृतेन त्मन्या समक्त ऽ उप देवाꣳ२ऽ ऋतुशः पाथ ऽ एतु ।
वनस्पतिर् देवलोकं प्रजानन्न् अग्निना हव्या स्वदितानि वक्षत् ॥

29.11
प्रजापतेस् तपसा वावृधानः सद्यो जातो दधिषे यज्ञम् अग्ने ।
स्वाहाकृतेन हविषा पुरोगा याहि साध्या हविर् अदन्तु देवाः ॥

29.12
यद् अक्रन्दः प्रथमं जायमान ऽ उद्यन्त् समुद्राद् उत वा पुरीषात् ।
श्येनस्य पक्षा हरिणस्य बाहू ऽ उपस्तुत्यं महि जातं ते ऽ अर्वन् ॥

29.13
यमेन दत्तं त्रित ऽ एनम् आयुनग् इन्द्र ऽ एणं प्रथमो ऽ अध्य् अतिष्ठत् ।
गन्धर्वो ऽ अस्य रशनाम् अगृभ्णात् सूराद् अश्वं वसवो निर् अतष्ट ॥

29.14
असि यमो ऽ अस्य् आदित्यो ऽ अर्वन्न् असि त्रितो गुह्येन व्रतेन ।
असि सोमेन समया विपृक्त ऽ आहुस् ते त्रीणि दिवि बन्धनानि ॥

29.15
त्रीणि त ऽ आहुर् दिवि बन्धनानि त्रीण्य् अप्सु त्रीण्य् अन्तः समुद्रे ।
उतेव मे वरुणश् छन्त्स्य् अर्वन् यत्रा त ऽ आहुः परमं जनित्रम् ॥

29.16
इमा ते वाजिन्न् अवमार्जनानीमा शफानाꣳ सनितुर् निधाना ।
अत्रा ते भद्रा रशना ऽ अपश्यम् ऋतस्य या ऽ अभिरक्षन्ति गोपाः ॥

29.17
आत्मानं ते मनसाराद् अजानाम् अवो दिवा पतयन्तं पतंगम् ।
शिरो ऽ अपश्यं पथिभिः सुगेभिर् अरेणुभिर् जेहमानं पतत्रि ॥

29.18
अत्रा ते रूपम् उत्तमम् अपश्यं जिगीषमाणम् इष ऽ आ पदे गोः ।
यदा ते मर्तो ऽ अनु भोगम् आनड् आद् इद् ग्रसिष्ठ ऽ ओषधीर् अजीगः ॥

29.19
अनु त्वा रथो ऽ अनु मर्यो ऽ अर्वन्न् अनु गावो ऽनु भगः कनीनाम् ।
अनु व्रातासस् तव सख्यम् ईयुर् अनु देवा ममिरे वीर्यं ते ॥

29.20
हिरण्यशृङ्गो ऽयो अस्य पादा मनोजवा ऽ अवर इन्द्र ऽ आसीत् ।
देवा ऽ इद् अस्य हविरद्यम् आयन् यो ऽ अर्वन्तं प्रथमो ऽ अध्यतिष्ठत् ॥

29.21
ईर्मान्तासः सिलिकमध्यमासः सꣳ शूरणासो दिव्यासो ऽ अत्याः ।
हꣳसा ऽ इव श्रेणिशो यतन्ते यद् आक्षिषुर् दिव्यम् अज्मम् अश्वाः ॥

29.22
तव शरीरं पतयिष्ण्व् अर्वन् तव चित्तं वात ऽ इव ध्रजीमान् ।
तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥

29.23
उप प्रागाच् छसनं वाज्य् अर्वा देवद्रीचा मनसा दीध्यानः ।
अजः पुरो नीयते नाभिर् अस्यानु पश्चात् कवयो यन्ति रेभाः ॥

29.24
उप प्रागात् परमं यत् सधस्थम् अर्वाꣳ२ऽ अच्छा पितरं मातरं च ।
अद्या देवान् जुष्टतमो हि गम्या ऽ अथा शास्ते दाशुषे वार्याणि ॥

29.25
समिद्धो ऽ अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः ।
आ च वह मित्रमहश् चिकित्वान् त्वं दूतः कविर् असि प्रचेताः ॥

29.26
तनूनपात् पथ ऽ ऋतस्य यानान् मध्वा समञ्जन्त् स्वदया सुजिह्व ।
मन्मानि धीभिर् उत यज्ञम् ऋन्धन् देवत्रा च कृणुह्य् अध्वरं नः ॥

29.27
नराशꣳसस्य महिमानम् एषाम् उप स्तोषाम यजतस्य यज्ञैः ।
ये सुक्रतवः शुचयो धियंधाः स्वदन्ति देवा ऽ उभयानि हव्या ॥

29.28
आजुह्वान ऽ ईड्यो वन्द्यश् चा याह्य् अग्ने वसुभिः सजोषाः ।
त्वं देवानाम् असि यह्व होता स ऽ एनान् यक्षीषितो यजीयान् ॥

29.29
प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोर् अस्या वृज्यते ऽ अग्रे ऽ अह्नाम् ।
व्य् उ प्रथते वितरं वरीयो देवेभ्यो ऽ अदितये स्योनम् ॥

29.30
व्यचस्वतीर् उर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः ।
देवीर् द्वारो बृहतीर् विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥

29.31
आ सुष्वयन्ती यजते ऽ उपाके ऽ उषासानक्ता सदतां नि योनौ ।
दिव्ये योषणे बृहती सुरुक्मे ऽ अधि श्रियꣳ शुक्रपिशं दधाने ॥

29.32
दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै ।
प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥

29.33
आ नो यज्ञं भारती तूयम् एत्व् इडा मनुष्वद् इह चेतयन्ती ।
तिस्रो देवीर् बर्हिर् एदꣳ स्योनꣳ सरस्वती स्वपसः सदन्तु ॥

29.34
य ऽ इमे द्यावापृथिवी जनित्री रूपइर् अपिꣳशद् भुवनानि विश्वा ।
तम् अद्य होतर् इषितो यजीयान् देवं त्वष्टारम् इह यक्षि विद्वान् ॥

29.35
उपाव सृज त्मन्या समञ्जन् देवानां पाथ ऽ ऋतुथा हवीꣳषि ।
वनस्पतिः शमिता देवो ऽ अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥

29.36
सद्यो जातो व्यमिमीत यज्ञम् अग्निर् देवानाम् अभवत् पुरोगाः ।
अस्य होतुः प्रदिश्य् ऋतस्य वाचि स्वाहाकृतꣳ हविर् अदन्तु देवाः ॥

29.37
केतुं कृण्वन्न् अकेतवे पेशो मर्या ऽ अपेशसे ।
सम् उषद्भिर् अजायथाः ॥

29.38
जीमूतस्येव भवति प्रतीकं यद् वर्मी याति समदाम् उपस्थे ।
अनाविद्धया तन्वा जय त्वꣳ स त्वा वर्मणो महिमा पिपर्तु ॥

29.39
धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम ।
धनुः शत्रोर् अपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥

29.40
वक्ष्यन्तीवेद् आ गनीगन्ति कर्णं प्रियꣳ सखायं परिषस्वजाना ।
योषेव शिङ्क्ते वितताधि धन्वन् ज्या इयꣳ समने पारयन्ती ॥

29.41
ते ऽ आचरन्ती समनेव योषा मातेव पुत्रं बिभृताम् उपस्थे ।
अप शत्रून् विध्यताꣳ संविदाने ऽ आर्त्नी इमे विष्फुरन्ती ऽ अमित्रान् ॥

29.42
बह्वीनां पिता बहुर् अस्य पुत्रश् चिश्चा कृणोति समनावगत्य ।
इषुधिः सङ्काः पृतनाश् च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥

29.43
रथे तिष्ठन् नयति वाजिनः पुरो यत्र-यत्र कामयते सुषारथिः ।
अभीशूनां महिमानं पनायत मनः पश्चाद् अनु यच्छन्ति रश्मयः ॥

29.44
तीव्रान् घोषान् कृण्वते वृषपाणयो ऽश्वा रथेभिः सह वाजयन्तः ।
अवक्रामन्तः प्रपदैर् अमित्रान् क्षिणन्ति शत्रूꣳ१ऽ रनपव्ययन्तः ॥

29.45
रथवाहनꣳ हविर् अस्य नाम यत्रायुधं निहितम् अस्य वर्म ।
तत्रा रथम् उप शग्मꣳ सदेम विश्वाहा वयꣳ सुमनस्यमानाः ॥

29.46
स्वादुषꣳसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः ।
चित्रसेना ऽ इषुबला ऽ अमृध्राः सतोवीरा ऽ उरवो व्रातसाहाः ॥

29.47
ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी ऽ अनेहसा ।
पूषा नः पातु दुरिताद् ऋतावृधो रक्षा माकिर् नो ऽ अघशꣳस ऽ ईशत ॥

29.48
सुपर्णं वस्ते मृगो ऽ अस्या दन्तो गोभिः संनद्धा पतति प्रसूता ।
यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यम् इषवः शर्म यꣳसन् ॥

29.49
ऋजीते परि वृङ्धि नो ऽश्मा भवतु नस् तनूः ।
सोमो ऽ अधि ब्रवीतु नो ऽदितिः शर्म यच्छतु ॥

29.50
आ जङ्घन्ति सान्व् एषां जघनाꣳ२ऽ उप जिघ्नते ।
अश्वाजनि प्रचेतसो ऽश्वान्त् समत्सु चोदय ॥

29.51
अहिर् इव भोगैः पर्य् एति बाहुं ज्याया हेतिं परिबाधमानः ।
हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमाꣳसं परि पातु विश्वतः ॥

29.52
वनस्पते वीड्वङ्गो हि भूया ऽ अस्मत्सखा प्रतरणः सुवीरः ।
गोभिः संनद्धो ऽ असि वीडयस्वास्थाता ते जयतु जेत्वानि ॥

29.53
दिवः पृथिव्याः पर्य् ओज ऽ उद्भृतं वनस्पतिभ्यः पर्य् आभृतꣳ सहः ।
अपाम् ओज्मानं परि गोभिर् आवृतम् इन्द्रस्य वज्रꣳ हविषा रथं यज ॥

29.54
इन्द्रस्य वज्रो मरुताम् अनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।
सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥

29.55
उप श्वासय पृथिवीम् उत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् ।
स दुन्दुभे सजूर् इन्द्रेण देवैर् दूराद् दवीयो ऽ अप सेध शत्रून् ॥

29.56
आ क्रन्दय बलम् ओजो न ऽ आ धा नि ष्टनिहि दुरिता बाधमानः ।
अप प्रोथ दुन्दुभे दुच्छुना ऽ इत ऽ इन्द्रस्य मुष्टिर् असि वीडयस्व ॥

29.57
आमूर् अज प्रत्या वर्तयेमाः केतुमद् दुन्दुभिर् वावदीति ।
सम् अश्वपर्णाश् चरन्ति नो नरो ऽस्माकम् इन्द्र रथिनो जयन्तु ॥

29.58
आग्नेयः कृष्णग्रीवः सारस्वती मेषी बभ्रुः सौम्यः पौष्णः श्यामः शितिपृष्ठो बार्हस्पत्यः शिल्पो वैश्वदेव ऽ ऐन्द्रो ऽरुणो मारुतः कल्माष ऽ ऐन्द्राग्नः सꣳहितो ऽधोरामः सावित्रो वारुणः कृष्ण ऽ एकशितिपात् पेत्वः ॥

29.59
अग्नये ऽनीकवते रोहिताञ्जिर् अनड्वान् अधोरामौ सावित्रौ पौष्णौ रजतनाभी वैश्वदेवौ पिशंगौ तूपरु मारुतः कल्माष ऽ आग्नेयः कृष्णो ऽजः सारस्वती मेषी वारुणः पेत्वः ॥

29.60
अग्नये गायत्राय त्रिवृते राथन्तरायाष्टाकपाल ऽ इन्द्राय त्रैष्टुभाय पञ्चदशाय बर्हतायैकादशकपालो विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो द्वादशकपालो मित्रावरुणाभ्याम् आनुष्टुभाभ्याम् एकविꣳशाभ्यां वैराजाभ्यां पयस्या बृहस्पतये पाङ्क्ताय त्रिणवाय शाक्वराय चरुः सवित्र ऽ औष्णिहाय त्रयस्त्रिꣳशाय रैवताय द्वादशकपालः प्राजापत्यश् चरुर् अदित्यै विष्णुपत्न्यै चरुर् अग्नये वैश्वानराय द्वादशकपालो ऽनुमत्या ऽ अष्टाकपालः ॥

भाष्यम्(उवट-महीधर)

एकोनत्रिंशोऽध्यायः।

तत्र प्रथमा ।
समि॑द्धो अ॒ञ्जन् कृद॑रं मती॒नां घृ॒तम॑ग्ने॒ मधु॑म॒त्पिन्व॑मानः ।
वा॒जी वह॑न् वा॒जिनं॑ जातवेदो दे॒वानां॑ वक्षि प्रि॒यमा स॒धस्थ॑म् ।। १ ।।
उ० एकादश त्रिष्टुभः । आप्त्यो नराशंसः बृहदुक्थो वामदेव्यः । अश्वो वा समुद्रिरपश्यत् । अश्वस्तुतिः । आश्वमेधिकं प्रागाग्नेयः कृष्णग्रीव इत्येतस्मात् । हे भगवन्नग्ने, समिद्धः संदीप्तः । अञ्जन् व्यक्तीकुर्वन् । आज्ये हि सर्वासां देवतानां मनांस्येतानि ममेदं स्यान्ममेदं स्यादिति घृतं मधुमत् मधुस्वादु । पिन्वमानः आत्मानंप्रति सिञ्चन् स्वेच्छया पिबन्नित्यर्थः । वाजी वेजनवान् चलनवान् वहन्वाजिनं हविः । हे जातवेदः देवानां वक्षि वह प्रापय । प्रियं आ सधस्थं सहस्थानम् ॥ १॥ ।
म० आश्वमेधिकोऽध्यायः । ततोऽस्य प्रजापतिर्ऋषिः । आद्या एकादश त्रिष्टुभः आप्रीसंज्ञाः अश्वस्तुतयो वामदेवपुत्रेण बृहदुक्थेन समुद्रपुत्रेणाश्वेन वा दृष्टाः समित्तनूनपादिडादिदेवताकाः । हे अग्ने, हे जातवेदः जातप्रज्ञान, त्वं देवानां सधस्थं सह तिष्ठन्ति यत्रेति सहस्थानं प्रति प्रियं प्रीतिमानक्षि आवह देवान्प्रीणयेत्यर्थः । वहतेः शपो लुकि मध्यमैकवचने रूपम् । कीदृशस्त्वम् । समिद्धः दीप्तः मतीनां कृदरं बुद्धीनामुदरं गर्भमञ्जन् व्यक्तीकुर्वन् । बुद्धिरहस्यं प्रकाशयन्नित्यर्थः । मधुमत् स्वादु घृतं पिन्वमानः देवेषु सिञ्चन् । वाजी वजतीति वाजी 'वज गतौ' चलनवान् । वाजिनं हविः वहन् देवान्प्रापयन्सन् प्रीणय ॥ १॥

द्वितीया ।
घृ॒तेना॒ञ्जन्त्सं प॒थो दे॑व॒याना॑न् प्रजा॒नन् वा॒ज्यप्ये॑तु दे॒वान् ।
अनु॑ त्वा सप्ते प्र॒दिश॑: सचन्ताᳪं᳭ स्व॒धाम॒स्मै॒ यज॑मानाय धेहि ।। २ ।।
उ० घृतेनाञ्जन् । प्रथमोर्धर्चः परोक्षकृतः उत्तरः प्रत्यक्षकृतः। यतस्तयोरेकवाक्यता नोपपद्यते अतः पुरुषव्यत्ययः। घृतेन अञ्जन्समञ्जन् । पथः देवयानान् । हवींषि देवयानाः पन्थान उच्यन्ते । तैर्हि ते जीवन्ति । प्रजानन् अहं देवानां हविरिति जानन् वाजी अप्येतु अभ्यागच्छतु देवान् । किंच अनुसचन्ताम् अनुसेवन्ताम् त्वां हे सप्ते सरण, प्रदिशः दिगाश्रयाणि भूतानि । किंच स्वधामन्नम् अस्मै यजमानाय धेहि प्रयच्छ । अत्र घृतशब्दस्तनूनपाच्छब्दपर्यायः ॥ २॥
म० वाजी अश्वो देवानप्येतु । कीदृशः । घृतेन देवयानान् पथः समञ्जन् देवा यायन्ते यैस्ते देवयानाः पन्थानो हवींष्युच्यन्ते । प्रजानन् देवानां हविरहमिति जानन् । एवं परोक्षमुक्त्वा प्रत्यक्षमाह । हे सप्ते अश्व, प्रदिशो दिगाश्रयाणि भूतानि त्वा त्वामनुसचन्ताम् । 'षष्' संबन्धे' सपति कर्मणा संबध्यते स सप्तिः । किंच अस्मै यजमानाय स्वधामन्नं धेहि प्रयच्छ । अत्र घृतशब्दस्तनूनपाद्वाची ॥२॥

तृतीया।
ईड्य॒श्चासि॒ वन्द्य॑श्च वाजिन्ना॒शुश्चासि॒ मेध्य॑श्च सप्ते ।
अ॒ग्निष्ट्वा॑ देवै॒र्वसु॑भिः स॒जोषा॑: प्री॒तं वह्निं॑ वहतु जा॒तवे॑दाः ।। ३ ।।
उ० ईड्यश्चासि । यस्त्वं ईड्यश्चासि स्तुत्यश्चासि | वन्द्यश्च । हे वाजिन् , आशुश्च शीघ्रश्च मेध्यश्च यज्ञसंपादी च असि । हे सप्ते, तं त्वाम् अग्निः देवैः वसुभिः सजोषाः समानजोषणः प्रीतम् आप्रीभिः प्रीतम् वह्निं वोढारम् वहतु प्रापयतु जातवेदाः ॥३॥
म० हे वाजिन् , हे सप्ते, ईड्यः स्तुत्योऽसि । वन्द्यः नमनीयोऽसि । आशुः शीघ्रः मेध्यः मेधायाश्वमेधाय योग्यः । चकाराः समुच्चयार्थाः । किंच जातवेदाः अग्निः त्वा त्वां वहतु देवान् प्रापयतु । कीदृशोऽग्निः । वसुभिः देवैः सजोषाः जोषसा प्रीत्या सहितः । कीदृशं त्वाम् । प्रीतं तुष्टम् वह्निं हविषो वोढारम् ॥ ३ ॥

चतुर्थी।
स्ती॒र्णं ब॒र्हिः सु॒ष्टरी॑मा जुषा॒णोरु पृ॒थु प्रथ॑मानं पृथि॒व्याम् ।
दे॒वेभि॑र्यु॒क्तमदि॑तिः स॒जोषा॑: स्यो॒नं कृ॑ण्वा॒ना सु॑वि॒ते द॑धातु ।। ४ ।।
उ० स्तीर्णं बर्हिः । स्तीर्णमपि बर्हिः सुष्टरीम साधुस्तृणाम आजुषाणा विभक्तेर्डादेशः। सेवमानम् । ततस्तीर्यमाणम् उरु बहु पृथु विस्तीर्णम् प्रथमानम् । पृथिव्यां वेद्याम् । देवेभिः देवैः युक्तम् । अदितिः सजोषाः समानजोषणा सह प्रीयमाणा स्योनं सुखं कृण्वाना कुर्वाणा । सुविते सुगते स्वर्गे प्रजायां वा । दधातु स्थापयतु ॥ ४ ॥
म० वयं बर्हिः सुष्टरीम साधु स्तरीम स्तृणाम । अदितिर्देवी स्तीर्णं तत् बर्हिः सुविते सु इते साधु गते स्वर्गलोके दधातु स्थापयतु । कीदृशी अदितिः । सजोषाः जोषसा प्रीत्या युक्ता । स्योनं कृण्वाना सुखं कुर्वती । जुषाणा प्रीयमाणा। कीदृशं बर्हिः । उरु बहु पृथु विस्तीर्णम् पृथिव्यां प्रथमानं विस्तार्यमाणम् । देवेभिर्युक्तं देवैः सहितम् ॥ ४ ॥

पञ्चमी।
ए॒ता उ॑ वः सु॒भगा॑ वि॒श्वरू॑पा॒ वि पक्षो॑भि॒: श्रय॑माणा॒ उदातै॑: ।
ऋ॒ष्वाः स॒तीः क॒वष॒: शुम्भ॑माना॒ द्वारो॑ दे॒वीः सु॑प्राय॒णा भ॑वन्तु ।। ५ ।।
उ० एता उ वः एताश्च यज्ञगृहद्वारः हे ऋत्विग्यजमानाः, वः युष्माकं सुभगाः विश्वरूपाः अनेकरूपचित्रिताः । विपक्षोभिः श्रयमाणा उदातैः । पक्षोभिः पक्षैः । उदातैः ऊर्ध्वमायातैः सततमायातैः सततगमनैः विश्रयमाणा विस्तीर्यमाणाः । पक्षःशब्दः सान्तः कपाटवचनः । ऋष्वाः महत्यः सतीः सत्यः कवषः कुषिताः ससुषिराः। शुंभमानाः आत्मानं शोभयन्त्यः । द्वारो देवीः दीप्तिमत्यः । सुप्रायणाः सुप्रगमनाः भवन्तु ॥ ५॥
म० हे ऋत्विग्यजमानाः, वो युष्माकमेता द्वारो देवीः यज्ञगृहद्वारो देव्यः ईदृश्यो भवन्तु । उ पादपूरणः । कीदृश्यः । सुभगाः शोभनं भगं श्रीर्यासां ताः । विश्वरूपाः नानारूपचित्राः । पक्षोभिः पक्षस्शब्दः सान्तः पक्षवाची । पक्षैः पक्षप्रायैः कपाटैः विश्रयमाणाः विस्तार्यमाणाः । कीदृशैः पक्षोभिः । उत् ऊर्ध्वम् आतैः अत्यन्ते विस्तार्यन्ते आताः 'अत सातत्यगमने' ऊर्ध्वं प्रसृतैरित्यर्थः । पुनः कीदृश्यो द्वारः । ऋष्वाः ऋषन्ति ऋष्वाः 'ऋष गतौ' इतस्ततो गमनशीलाः महत्यः । सतीः सत्यः समीचीनाः । कवषः 'कु शब्दे' कुवन्ति शब्दं कुवन्तीति कवषः । कुवतेरसुन्प्रत्ययः षत्वमार्षम् । कपाटपिधानसमये शब्दं कुर्वाणाः ससुषिरा वा । शुम्भमानाः शोभमानाः सुप्रायणाः सुखेन प्रकृष्टमयनं गमनं यासु सुगमनाः ॥५॥

षष्ठी।
अ॒न्त॒रा मि॒त्रावरु॑णा॒ चर॑न्ती॒ मुखं॑ य॒ज्ञाना॑म॒भि सं॑विदा॒ने ।
उ॒षासा॑ वाᳪं᳭ सुहिर॒ण्ये सु॑शि॒ल्पे ऋ॒तस्य॒ योना॑वि॒ह सा॑दयामि ।। ६ ।।
उ० अन्तरा मित्रावरुणा । ये अन्तरा मध्येन मित्रावरुणा चरन्ती । 'अयं वै लोको मित्रोऽसौ वरुण' इति श्रुतिः । द्यावापृथिव्योर्मध्येन संचरन्त्यौ । मुखं यज्ञानामभिसंविदाने यज्ञानां मुखमग्निहोत्रं तस्य कालम् अभिसंविदाने प्रकथयन्त्यौ । उत्तिष्ठतामयमग्निहोत्रहोमकालः आद्य इतीव लक्ष्यते । ते उषासा । द्विवचनोपदेशात्सहचरितत्वाच्च द्वितीया रात्रिः । नक्तोषासौ वां युवयोः हे दम्पतीयजमानौ, सुहिरण्ये साधुहिरण्यालंकारभूषिते । सुशिल्पे साध्वन्योन्यं प्रतिरूपे ऋतस्य यज्ञस्य योनौ इह सादयामि स्थापयामि ॥६॥
म० हे पत्नीयजमानौ, वां युवयोर्ऋतस्य यज्ञस्य योनौ इह उषासा उषसौ नक्तोषसौ सादयामि स्थापयामि । द्विवचनात्सहचारित्वाच्च द्वितीया रात्रिः । कीदृश्यौ उषसा । मित्रावरुणा मित्रावरुणौ अन्तरा द्यावापृथिव्योर्मध्ये संचरन्ती संचरन्त्यौ वर्तमाने 'अयं वै लोको मित्रोऽसौ वरुणः' इति श्रुतेर्मित्रवरुणशब्देन द्यावापृथिव्यावुच्यते । यज्ञानां मुखमग्निहोत्रहोमकालमभिसंविदाने कथयन्त्यौ उत्तिष्ठतायमग्निहोत्रहोमकाल इति प्रातर्विप्रा वदन्ति तदुषस्युपचर्यते । सुहिरण्ये साधु हिरण्यं भूतं ययोस्ते । सुशिल्पे अन्योन्यं प्रतिरूपे। शिल्पं प्रतिरूपं भवतीति वचनात् ॥ ६ ॥

सप्तमी।
प्र॒थ॒मा वा॑ᳪं᳭ सर॒थिना॑ सु॒वर्णा॑ देवौ॒ पश्य॑न्तौ॒ भुव॑नानि॒ विश्वा॑ ।
अपि॑प्रयं॒ चोद॑ना वां॒ मिमा॑ना॒ होता॑रा॒ ज्योति॑: प्र॒दिशा॑ दि॒शन्ता॑ ।। ७ ।।
उ०. प्रथमा वाम् । यौ प्रथमौ होतारौ अयं चाग्निरसौ च मध्यमः। वां युवयोः हे दम्पती यजमानौ । सरथिना एकरथारूढौ । सुवर्णा शोभनवर्णौ । देवौ दानादिगुणयुक्तौ । पश्यन्तौ भुवनानि भूतजातानि । विश्वानि सर्वाणि मध्यस्थतया। अपिप्रयम् । प्रीणातेरेतद्रूपम् । प्रीणितवानहमस्मि तौ चोदना सुप्रमाणकं कर्म । वां युवयोः हे दम्पती यजमानौ मिमाना निर्मिमाणौ होतारौ । ज्योतिः प्रदिशा दिशन्ता आहवनीयाख्यं ज्योतिः प्रष्टव्यमिति प्रदिशा प्रदेशेन अभिनयेन दिशन्ता दर्शयन्तौ । आसते इति वाच्यम् ॥७॥
म० हे यजमानौ, वां युवयोः प्रथमा प्रथमौ मुख्यौ होतारा होतारौ अहमपि प्रयं प्रीणितवानस्मि । प्रीणातेर्णिजन्तस्य लुङि उत्तमैकत्वे रूपम् । अयं चाग्निरसौ च मध्यम इति । होतारौ कीदृशौ । सरथिना सरथिनौ समानो रथो ययोस्तौ एकरथारूढौ । सुवर्णा सुवर्णौ शोभनो वर्णो द्युतिर्ययोस्तौ । देवौ दीप्यमानौ दातारौ । विश्वा सर्वाणि भुवनानि पश्यन्तौ । वां युवयोश्चोदना चोदनानि कर्माणि मिमाना मिमानौ निर्मिमाणौ । प्रदिशा प्रदेशेनाभिनयेन ज्योतिः दिशन्तौ आहवनीयाख्यं ज्योतिर्यष्टव्यमिति दर्शयन्तौ ॥ ७ ॥

अष्टमी।
आ॒दि॒त्यैर्नो॒ भार॑ती वष्टु य॒ज्ञᳪं᳭ सर॑स्वती स॒ह रु॒द्रैर्न॑ आवीत् ।
इडोप॑हूता॒ वसु॑भिः स॒जोषा॑ य॒ज्ञं नो॑ देवीर॒मृते॑षु धत्त ।। ८ ।।
उ० आदित्यैर्नः । अत्र त्रयः पादाः परोक्षकृताः चतुर्थः पादः प्रत्यक्षकृतः। नचैवं सामञ्जस्यम् । अतश्चतुर्थस्य पादस्य सन्नतिः। आदित्यैः सहिता नो अस्माकं भारती वष्टु कामयतां यज्ञम् । सरस्वती च रुद्रैः सहिता नः अस्मान् आवीत् अवतु । इडा च उपहूता कृतोपह्वाना वसुभिः सजोषा समानप्रीतिः । नः आवीदित्यनुवर्तते । एवमनेन प्रकारेण यज्ञं नोऽस्माकं तिस्रो देव्यः अमृतेषु देवेषु धत्त दधत्विति पुरुषव्यत्ययः । परोक्षीकृत्य स्तुताः ता इदानीं प्रत्यक्षकृताः स्तौति । यज्ञं नो देवीरमृतेषु धत्तेति ॥ ८ ॥
म. आदित्यैः युता भारती नोऽस्माकं यज्ञं वष्टु कामयताम् । सरस्वती रुद्रैः सह नोऽस्माकं यज्ञमावीत् अवतु । इडा चावतु । कीदृशी । उपहूता कृतोपहवा । वसुभिः देवैः । सजोषाः प्रीतियुता । एवं परोक्षमभिधाय प्रत्यक्षमाह । हे देवीः देव्यो भारतीसरस्वतीडाः । नोऽस्माकं यज्ञममृतेषु देवेषु धत्त यूयं स्थापयत ॥ ८॥

नवमी।
त्वष्टा॑ वी॒रं दे॒वका॑मं जजान॒ त्वष्टु॒रर्वा॑ जायत आ॒शुरश्व॑: ।
त्वष्टे॒दं विश्वं॒ भुव॑नं जजान ब॒होः क॒र्तार॑मि॒ह य॑क्षि होतः ।। ९ ।।
उ० त्वष्टा वीरं । यः त्वष्टा वीरं पुत्रम् देवकामम् ऋणत्रयापाकरणसमर्थं जजान जनयति । यस्माच्च त्वष्टुः अर्वा अरणः आशुः शीघ्रः अश्वः जायते । यश्च त्वष्टा इदं विश्वं सर्वं भुवनं भूतजातं जजान जनयति । तं त्वष्टारं बहोः भूतग्रामस्य कर्तारम् इह यज्ञे यक्षि यज हे होतः ॥९॥
म० त्वष्टा वीरं । पुत्रं जजान जनयति । कीदृशं वीरं । देवकामं देवान्कामयते देवकामस्तं यष्टारम् । ऋणत्रयापाकरणसमर्थमित्यर्थः । त्वष्टुः सकाशात् अश्वः जायते उत्पद्यते । कीदृशोऽश्वः। अर्वा इयर्ति गच्छति अर्वा । 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३। २ । ७५) इति अर्तेर्वनिप् । आशुः अश्नुते दिशो व्याप्नोति अश्नाति भक्षयति वा आशुः उण्प्रत्ययः । किंच त्वष्टा इदं विश्वं सर्वं भुवनं भूतजातं जजान उदपादयत् । हे होतः, एवं बहोः कार्यस्य कर्तारं त्वष्टारमिह यज्ञे त्वं यक्षि यज । यजतेः शपि लुप्ते रूपम् ॥ ९ ॥

दशमी।
अश्वो॑ घृ॒तेन॒ त्मन्या॒ सम॑क्त॒ उप॑ दे॒वाँ२ ऋ॑तु॒शः पाथ॑ एतु ।
वन॒स्पति॑र्देवलो॒कं प्र॑जा॒नन्न॒ग्निना॑ ह॒व्या स्व॑दि॒तानि॑ वक्षत् ।। १० ।।
उ० अश्वो घृतेन । यः अश्वः पत्नीभिः घृतेन त्मन्या आत्मना स्वयमेव समक्तः समुक्षितः सन् । उप एतु उपगच्छतु देवान् प्रति । ऋतुशः ऋतावृतौ काले काले पाथः अन्नं भूत्वा । कथं देवलोकमजानन्न देवान् प्रति यायादित्यत आह । वनस्पतिः देवलोकं प्रजानन् अश्वस्य दर्शयत्विति शेषः । अग्निना च तन्मित्रेण । हव्या हवींषि स्वदितानि मृष्टीकृतानि । वक्षत् वहतु देवान्प्रति ॥ १० ॥
म० पाथ इत्यन्ननाम । अश्वः पाथः अश्वरूपं हविः ऋतुशः ऋतौऋतौ यज्ञकाले त्मन्या आत्मना स्वयं देवान् उप एतु प्राप्नोतु । विभक्तेर्यादेशे 'मन्त्रेष्वाङ्ग्यादेरात्मनः' (पा० ६ । ४ । १४१ ) इति आलोपः । कीदृशोऽश्वः । घृतेन समक्तः पत्नीभिः समुक्षितः । किंच वनस्पतिर्देवः हव्या हव्यानि वक्षत् वहतु देवान्प्रति । कीदृशो वनस्पतिः । देवलोकं प्रजानन्विदन् अतएव वहतु । कीदृशानि हव्यानि । अग्निना स्वदितानि आस्वादितानि आस्वाद्य मिष्टीकृतानि ॥ १० ॥

एकादशी।
प्र॒जाप॑ते॒स्तप॑सा वावृधा॒नः स॒द्यो जा॒तो द॑धिषे य॒ज्ञम॑ग्ने ।
स्वाहा॑कृतेन ह॒विषा॑ पुरोगा या॒हि सा॒ध्या ह॒विर॑दन्तु दे॒वाः ।। ११ ।।
उ० प्रजापतेस्तपसा । यस्त्वं प्रजापतेस्तपसा वावृधानः वर्धमानः । सद्योजातः अरण्योः सकाशादुत्पन्नः। दधिषे धारयसि यज्ञं । हे अग्ने, तं त्वां ब्रवीमि । स्वाहाकृतेन हविषा स्वाहाकारोपलक्षितेन हविषा । पुरोगाः पुरोगामी सन् । याहि साध्या । साधुशब्दविभक्त्यर्थे ड्यादेशे टिलोपः। साधु हविः अदन्तु देवाः ॥ ११ ॥
म० हे अग्ने, त्वं यज्ञं दधिषे धारयसि । लडर्थे लिट् । कीदृशस्त्वम् । प्रजापतेस्तपसा वावृधानः वर्धमानः। सद्योजातः अरण्या उत्पन्नः । किंच स्वाहाकृतेन स्वाहाकारमुक्त्वा हुतेन हविषा सह । पुरोगाः पुरो गच्छतीति अग्रगामी सन् याहि देवान् गच्छ । त्वयि गते सति देवाः हविरदन्तु भक्षयन्तु । कीदृशं हविः । साध्या साधु । श्रेष्ठम् । विभक्तेर्ड्यादेशे टिलोपे रूपम् ॥ ११॥

द्वादशी।
यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् ।
श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन् ।। १२ ।।
उ. यदक्रन्दः। त्रयोदश त्रिष्टुभोऽश्वाभिष्टवो होतुः । यत् यदा अक्रन्दः ह्रेषाशब्दमकार्षीः प्रथमं जायमानः । यच्च उद्यन् उद्गच्छन् समुद्रात् अन्तरिक्षलोकात् पार्थिवाद्वा समुद्रात् । उत वा अपिच पुरीषात् अन्यस्माज्जलसङ्घात्पशोर्वा । उद्यन् अक्रन्दः तदा श्येनस्य पक्षौ शीघ्रतया अजैषीः । हरिणस्य बाहू शीघ्रतया अजैषीः इति शेषः । उपस्तुत्यम् उपसङ्गम्य स्तुत्यं स्तवनीयमृषिभिः । महि महत् जातमुत्पन्नम् ते तव । हे अर्वन् अरण अश्व ॥ १२ ॥
म० त्रयोदशाश्वस्तुतिरूपास्त्रिष्टुभो जमदग्निदीर्घतमोभ्यां दृष्टा अश्वस्तुतौ विनियुक्ताः । हे अर्वन् अश्व, यत् यदा त्वमक्रन्दः क्रन्दितवान् हेषारवमकार्षीः तदा ते तव महि माहात्म्यम् उपस्तुत्यं स्तोतुं योग्यं जातम् । कथं स्तुत्यं तदाह । श्येनस्य पक्षौ हरिणस्य बाहू । अनेन क्रन्दनेन जिताविति शेषः । श्येनपक्षौ शौर्येण हरिणबाहू वेगेनेत्यर्थः । कीदृशस्त्वम् । समुद्रात् अन्तरिक्षात् उदधेर्वा प्रथमं जायमानः । उतवा अथवा पुरीषात् पशोः सकाशात् उद्यन् उत्पद्यमानः ॥ १२ ॥

त्रयोदशी ।
य॒मेन॑ द॒त्तं त्रि॒त ए॑नमायुन॒गिन्द्र॑ एणं प्रथ॒मो अध्य॑तिष्ठत् ।
ग॒न्ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒त् सूरा॒दश्वं॑ वसवो॒ निर॑तष्ट ।। १३ ।।
उ० यमेन दत्तम् । अत्र चतुर्थः पादः प्रथमं व्याख्यायते योग्यत्वात् । सूरादश्वं वसवो निरतष्ट । हे वसवः यूयं सूरात् आदित्यमण्डलात् अश्वं निरतष्ट । तक्षतिः करोतिकर्मा । निष्कृष्य कृतवन्तः । तं यमेन दत्तम् त्रितः त्रिस्थानो वायुः एनम् आयुनक् युक्तवान् । इन्द्रश्च एनं प्रथमः अध्यतिष्ठत् । गन्धर्वश्च विश्वावसुः अस्य रशनाम् अगृभ्णात् अगृह्णात् । य इत्थंभूतोऽश्वः तं वयं स्तुम इति वाक्यशेषः॥१३॥
म०. वसवोऽष्टगणदेवाः सूरादादित्यमण्डलादश्वं निरतष्ट निष्कृष्टवन्तः। तक्षतेर्लुङि मध्यमबहुवचनम् । ततः त्रितः त्रिस्थानो वायुः। यमेन दत्तमेनमश्वम् अयुनक् युक्तवान् । युजेर्लङ् संहितायामटि दीर्घः । इन्द्रश्चैनमश्वं प्रथमः अध्यतिष्ठत् आदावधिष्ठितवान् । गन्धर्वः विश्वावसुरस्याश्वस्य रशनामगृभ्णात् गृहीतवान् । य ईदृशस्तं स्तुमः । एणमिति णत्वं छान्दसम् ॥ १३ ॥

चतुर्दशी।
असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ ।
असि॒ सोमे॑न स॒मया॒ विपृ॑क्त आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ।। १४ ।।
उ० असि यमः भवसि च आदित्यः हे अर्वन् अरण अश्व, भवसि च त्रितस्त्रिस्थान इन्द्रः गुह्येन गुप्तव्रतेन कर्मणा । भवसि च सोमेन समया मध्यतः विपृक्तः संपृक्तः एकीभूतः। एताभिर्देवताभिस्तव सायुज्यं जातमित्यभिप्रायः । किंच आहुः बुधाः ते तव । त्रीणि दिवि द्युलोके आदित्यात्मनावस्थितस्य । बन्धनानि ऋग्यजुःसामलक्षणानि मण्डलान्तरपुरुषार्चींषि ॥ १४ ॥
म०. हे अर्वन् ,त् वं यमोऽसि आदित्यश्चासि । गुह्येन गोप्येन व्रतेन कर्मणा त्रितः त्रिस्थान इन्द्रोऽसि । सोमेन समया सह विपृक्तः संपृक्तः एकीभूतोऽसि । एवं यमादिभिः सायुज्यं प्राप्तस्य तव दिवि नभसि आदित्यरूपेण स्थितस्य त्रीणि बन्धनानि बुधा आहुः । ऋग्यजुःसामरूपाणि मण्डलान्तरपुरुषार्चींषि त्रीणि बन्धनानि स्वरूपाणि । 'यदेतन्मण्डलं तपति तन्महदुक्थम्' इत्यादिश्रुतेः ॥ १४ ॥

पञ्चदशी।
त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे ।
उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न् यत्रा॑ त आ॒हुः प॑र॒मं ज॒नित्र॑म् ।। १५ ।।
उ० त्रीणि ते । त्रीणि त आहुर्दिवि बन्धनानि इति व्याख्यातम् त्रीणि अप्सु बन्धनानि कृषिर्वृष्टिर्बीजमिति । त्रीण्यन्तःसमुद्रे । समुद्रशब्देनान्तरिक्षमभिधीयते । अन्तरिक्षस्य मध्ये तव त्रीणि बन्धनानि । मेघो विद्युत् अशनिरिति उतइव अपिच । मे मम वरुणः छंत्सि । छन्दतिरर्चतिकर्मा । शंसति कथयति । हे अर्वन् अरण अश्व, यत्र ते तव आहुः परमं जनित्रं जन्म वायुरूपेण ॥ १५॥
म० हे अर्वन् , यत्र ते तव परमं जनित्रं बुधा आहुः आदित्यरूपेण तत्र ते तव त्रीणि बन्धनानि पूर्वमन्त्रोक्तान्याहुः। अप्सु उदकेषु त्रीणि बन्धनानि आहुः कृषिर्वृष्टिर्बीजमिति । | अन्तःसमुद्रे अन्तरिक्षमध्ये त्रीणि बन्धनानि आहुः मेघो विद्युत् स्तनयित्नुरिति । उतेव उतापिच वरुणः वरुणरूपः त्वं मे मां छन्त्सि प्रशंससि । कर्मणि षष्टी। छन्दतिरर्चतिकर्मा । अर्चनं प्रशंसनम् ॥ १५ ॥

षोडशी।
इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फाना॑ᳪं᳭ सनि॒तुर्नि॒धाना॑ ।
अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष॑न्ति गो॒पाः ।। १६ ।।
उ० इमा ते । इमानि ते तव हे वाजिन् अश्व, अवमार्जनानि यैस्तवावमार्जनं कृतं तान्येव मार्जनानि नूतनवेतसकटप्रभृतीनि अहमपश्यं पश्यामि । इमानि च शफानां खुराणां सनितुः संभक्तुः पादवाससः निधाना निधानानि यत्र पादवासःप्रभृतीनि धीयन्ते तानि अहमपश्यम् । अपिच अत्र ते तव भद्रा भन्दनीयाः स्तुत्याः रशनाः अहमपश्यम् । ऋतस्य यज्ञस्य या रशना अभिरक्षन्ति गोपाः गोपायितव्यान्पशून् ॥ १६॥
म० हे वाजिन् , ते तव इमा इमानि अवमार्जनानि अहमपश्यं पश्यामि । अवमार्ज्यते यैस्तानि अवमार्जनानि वेतसकटादीनि । शफानां खुराणां सनितुः संभक्तुर्नियन्तुः पादवासस्य इमा इमानि निधाना निधानानि स्थानानि अपश्यम् । अत्र यज्ञे ते तव रशनाः मध्यबन्धनरज्जू: अपश्यम् । कीदृशी रशनाः । भद्राः कल्याणरूपाः स्तुत्याः । गोपाः गोपायन्तीति गोपाः रक्षणकर्त्र्यः । या रशनाः ऋतस्य ऋतं यज्ञमभिरक्षन्ति कर्मणि षष्ठी । 'निपातस्य च' (पा० ६।३। १३६ ) इत्यत्र पदस्य दीर्घः ॥ १६ ॥

सप्तदशी।
आ॒त्मानं॑ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा प॒तय॑न्तं पत॒ङ्गम् ।
शिरो॑ अपश्यं प॒थिभि॑: सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्रि ।। १७ ।।
उ० एतैरधस्तनैरश्वचरित्रैरश्वमभिष्टुत्य अथेदानीं भविष्यत्कर्मभिरभिष्टौति । आत्मानं ते । पशुसंस्पर्शनोत्तरकालम् आत्मानं ते तव दिव्यमहं मनसा आराद्दरात् । अजानाम् जानामि । जानातेरेतदनुदात्तत्वाद्रूपं लुङ्येकवचने । अवः अधस्तात् प्रदेशात् । दिवा दिवंप्रति । पतयन्तम् उत्पतन्तम् । पतङ्गम् आदित्यरूपिणम् । शिरश्चाहं तव अपश्यम् पथिभिः मार्गैः सुगेभिः सुगमनैः अरेणुभिः उपद्रवरहितैः जेहमानं गच्छत् पतित्रि उत्पतनशीलम् ॥ १७ ॥
म० एवमश्वं स्तुत्वा भविष्यत्कर्मणा स्तौति । हे अश्व, ते तवात्मानं मनसा आराद्दूरे अहमजानां जानामि । जानातेर्लड्युत्तमैकवचनम् । कीदृशमात्मानम् । अवः अधस्तात्प्रदेशात् दिवा नभोमार्गेण पतङ्गं सूर्यं प्रति पतयन्तमुत्पतन्तम् । 'पत ऐश्वर्यगत्योः' चुरादिरदन्तः । किंच ते शिरः सूर्यरूपं पश्यामि । कीदृशं शिरः । पथिभिः नभोमार्गैः जेहमानं गच्छत् । कीदृशैः पथिभिः । सुगेभिः सुगैः सुखेन गम्यते येषु ते सुगास्तैः 'सुदुरोरधिकरणे' (पा० ३ । २।४८) इति गमेर्डः । अरेणुभिः, नास्ति रेणुर्येषु ते अरेणवस्तैः । उपद्रवरहितैरित्यर्थः । पुनः कीदृशं शिरः । पतत्रि पतनशीलं गन्तृ ॥ १७ ॥

अष्टादशी।
अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒ष आ प॒दे गोः ।
य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒डादिद् ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ।। १८ ।।
उ० अत्रा ते । अत्र द्युलोके ते तव रूपमुत्तमम् अहमपश्यं पश्यामि । कथंभूतम् । जिगीषमाणं जेतुमिच्छत् इषः अन्नानि आ आस्थितं पदे गोः गन्तुर्मण्डलस्य । एवं द्युलोकावस्थितस्य तवाहं रूपमपश्यम् । अथ पुनः पृथिवीस्थितस्य यदा ते तव मर्तो मनुष्यः भोगं वाहनादिकम् । अनुआनट अनुव्याप्नोत् । आत् इत् इति पादपूरणार्थौ । तदा ग्रसिष्ठः 'ग्रसु अदने' । ग्रसितृतमः अतिशयेन भक्षयिता सन् ओषधीः अजीगः गृह्णासि गिरसि वा । अन्यो हि वाहितश्चलितुमपि न शक्नोति त्वं वीर्यवत्तरोऽसीति भावः ॥१८॥
म० हे अश्व, अत्रास्मिन् गोः सूर्यस्य पदे मण्डले ते तवोत्तमं रूपमहम् आ अपश्यम् समन्तात्पश्यामि । 'गौर्नादित्ये बलीवर्दे' इत्यभिधानाद् गौरादित्यः । कीदृशं रूपम् । इषः अन्नानि हवींषि जिगीषमाणं जेतुमिच्छत् । जयतेः सन्नन्ताच्छानच् 'सन्लिटोर्जेः' (पा. ७ । ३। ५७ ) इति गः। किंच मर्तः मनुष्यो यदा ते तव भोगमनु आनट् अनुव्याप्नोति हवीरूपं भोगं समर्पयति आत् इत् अनन्तरमेव त्वमोषधीः हवीरूपाः अजीगः 'गॄ निगरणे' गिरसि भक्षयसि । कीदृशस्त्वम् । ग्रसिष्ठः ग्रसते इति ग्रसिता अतिशयेन प्रसिता ग्रसिष्ठः । अत्यन्तं भक्षयिता । इष्ठनि तृचो लुक् । गृणातेर्णिजन्तस्याजीगः ॥ १८ ॥

एकोनविंशी।
अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो॑ अर्व॒न्ननु॒ गावोऽनु॒ भग॑: क॒नीना॑म् ।
अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं॒ ते ।। १९ ।।
उ० अनु त्वा । अनु इति परभावमाचष्टे । हे अर्वन् , यस्य सुकृतिनो गृहे त्वं चेष्टसे तस्य गृहे त्वामनु रथः त्वामनु मर्यो मनुष्यः त्वामनु भगः सौभाग्यं कनीनां कन्यकानाम् । तत्रैते पदार्था भवन्तीत्यर्थः। किंच । व्रातासः पुरुषसङ्घा अपि तव सख्यं सखिभावमन्वीयुः । किमन्यद्बहु वदामः । अनु देवा ममिरे वीर्यं ते अनुममिरे अनुमितवन्तः देवा वीर्यं वीरकर्म ते तव । अचिन्त्यशक्तिस्त्वमसीत्यभिप्रायः ॥ १९॥
म० हे अर्वन् अश्व, रथः त्वा त्वामनु वर्तत इति शेषः । मर्यः मनुष्यः त्वामनु । गावः त्वामनु । कनीनां कन्यानां भगः सौभाग्यं त्वामनु । यत्र त्वं तत्र रथादयः स्युरित्यर्थः । किंच व्रातासः व्राताः मनुष्यसङ्घाः तव सख्यं मैत्रीम् अन्वीयुः प्रापुः । किं बहुना । देवाः तव वीर्यं सामर्थ्यमनुममिरे अनुमितवन्तः॥ १९॥

विंशी।
हिर॑ण्यशृ॒ङ्गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इन्द्र॑ आसीत् ।
दे॒वा इद॑स्य हवि॒रद्य॑माय॒न् यो अर्व॑न्तं प्रथ॒मो अ॒ध्यति॑ष्ठत् ।। २० ।।
उ० हिरण्यशृङ्गः हिरण्यं शृङ्गस्थानीयमस्येति हिरण्यशृङ्गः । अयो अस्य पादाः यस्य चास्य अयः । अय इति सर्वेषां रजतादीनामुपलक्षणम् । पादा इत्यवयवानाम् । रजतादिविशिष्टा अवयवाः । मनोजवाः मनोवेगयुक्ताः । यस्माच्च अवरः कनिष्ठः इन्द्रः आसीत् अभवत् । वायुरूपेणाश्वस्यावस्थानात् । देवा इत् देवा अपि यस्याश्वस्य हविरद्यं हविर्लक्षणमदनीयमायन्नागच्छन् । यश्च अर्वन्तं प्रथमः अध्यतिष्ठत् स च इन्द्रः यस्य हविरद्यमागतम् तं वयं स्तुम इति शेषः ॥ २० ॥
म० यः प्रथमः मुख्यः अर्वन्तमश्वमध्यतिष्ठत् अधिष्ठितवान् सोऽपि इन्द्रः अवरः इन्द्रापेक्षया न्यून आसीत् । कीदृश इन्द्रः । हिरण्यशृङ्गः हिरण्यवत् शृङ्गं दीप्तिर्यस्य । शृङ्गमिति ज्वलन्नामसु पठितम् । अस्याश्वस्य पादा अयः लोहं हिरण्यं वा । अयोरूपाः पादा इत्यर्थः । कीदृशाः पादाः । मनोजवाः मनोवत् जवो वेगो येषां ते । किंच देवा अस्याश्वस्य हविरद्यमायन् अत्तुं योग्यमद्यं हविश्च तदद्यं च हविरद्यम् हविर्लक्षणं भक्ष्यं प्रति आयन् आगच्छन् । इत् एवार्थे अप्यर्थे वा ॥२०॥

एकविंशी ।
ई॒र्मान्ता॑स॒: सिलि॑कमध्यमास॒: सᳪं᳭ शूर॑णासो दि॒व्यासो॒ अत्या॑: ।
ह॒ꣳसा इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वा॑: ।। २१ ।।
उ० ईर्मान्तासः आदित्यस्य रथे येऽश्वा युक्तास्तद्द्वारेणायमश्वः स्तूयते। ईर्म ईरितः अन्तो येषां ते ईर्मान्ताः ईर्मान्ता एव ईर्मान्तासः । तेषां हि सप्तानामश्वानां समीरितान्ताः विक्षिप्ताः प्रान्ताः । विरला इत्यर्थः । दृष्टान्ता वा । ते हि पृथूरस्काः पृथुजघनाश्चेत्यर्थः। सिलिकमध्यमासः संलग्नमध्यमाः कृशोदरा इत्यर्थः । सप्तानामपि संश्लिष्टा उदरप्रदेशा निरुदरास्तेऽश्वा इत्यर्थः । तथापि हि स्तुतिरुपपद्यते एव । संशूरणासः । सहिताः शूरणेन भगवताऽदित्येन दिव्यासः दिविजाः । अत्याः सततगमनाः । ते हि सकृद्युक्ता ब्राह्मं सहस्रयुगपर्यन्तमहर्वहन्ति । य इत्थंभूता अश्वाः ते हंसा इव श्रेणिशो यतन्ते । यथा हंसाः श्रेणीभूता एकया रीत्या प्रथमगमनाद्यान्कुर्वन्ति एवमश्वा अपीत्युपमार्थः । कदा इत्याह । यदा यस्मिन्काले आक्षिपुः 'अशूङ् व्याप्तौ' इत्यस्यैतद्रूपम् । व्याप्नुवन्ति दिव्यं दिवि भवम् । अज्मम् अजनम् आजिम् अश्वाः ॥ २१ ॥
म० सूर्याश्वरूपेणायमश्वः स्तूयते । यत् यदा अश्वाः सप्त रविरथस्थाः श्रेणिशः श्रेणीभूता हंसा इव संयतन्ते सम्यक् प्रयत्नं कुर्वन्ति तदा दिव्यं दिवि भवमज्मं गमनं संग्रामं वा आक्षिषुः व्याप्नुवन्ति । 'अक्षू व्याप्तौ' लुङि रूपम् । हंसा यथा गमनाय यतन्ते तथाश्वा अपि । कीदृशा अश्वाः । ईर्मान्तासः ईर्मान्ताः ईर्यते ईर्मः 'ईर प्रेरणे' मप्प्रत्ययः । ईर्मः प्रेरितः अन्तः शरीरप्रान्तो येषां ते । पृथुजघनोरस्का इत्यर्थः। सिलिकमध्यमासः सिलिकः श्लिष्टः संलग्नो मध्यमो मध्यप्रदेशो येषां ते शिलिकमध्यमाः । कृशोदरा इत्यर्थः । 'षिल संश्लेषे' इकप्रत्ययः । शूरणासः शू शीघ्रं रणो रवो युद्धं वा येषां ते शूरणाः । यद्वा शूरणो रविस्तदीयाः शूरणाः । दिव्यासः दिवि भवा दिव्याः । अत्याः अतन्ति सततं गच्छन्ति अत्याः सकृद्युक्ता ब्रह्माहःपर्यन्तं रविरथं वहन्ति ॥ २१॥

द्वाविंशी।
तव॒ शरी॑रं पतयि॒ष्ण्व॒र्व॒न्तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान् ।
तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भु॑राणा चरन्ति ।। २२ ।।
उ० तव शरीरम् । हे अर्वन् , तव शरीरं पतयिष्णु उत्पतनशीलम् । तव चित्तं च वात इव ध्रजीमान् गतिमत् वेगवत् सूक्ष्मानर्थान्प्रति गच्छेदित्यर्थः । तव शृङ्गाणि शृङ्गाणीति ज्वलन्नामसु पठितम् । तवार्चींषि विष्ठिता विविधं स्थितानि पुरुत्रा बहुधा विद्युच्चन्द्रार्काग्न्यादिषु । अरण्येषु वनेषु । जर्भुराणा जर्भुराणानि देदीप्यमानानि दावाग्निरूपेण चरन्ति ॥ २२ ॥
म० हे अर्वन् , तव शरीरं पतयिष्णु उत्पतनशीलम् । तव चित्तं ध्रजीमान् गतिमत् । वात इव वेगवत्सूक्ष्मार्थान्गच्छतीत्यर्थः । तव शृङ्गाणि दीप्तयः अरण्येषु वनेषु दवाग्निरूपेण चरन्ति प्रसरन्ति । कीदृशानि शृङ्गाणि । पुरुत्रा बहुधा विष्ठिता विविधं स्थितानि विद्युच्चन्द्रार्काग्निषु स्थितानि । जर्भुराणा जर्भुराणानि । 'जृम्भ विकसने' विकसितानि ॥ २२ ॥

त्रयोविंशी।
उप॒ प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः ।
अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यन्ति रे॒भाः ।। २३ ।।
उ० उपप्रागात् । उपप्र अगात् शसनं विशसनम् । वाजी वेजनवान् अर्वा अरण्योऽश्वः । देवद्रीचा देवान्प्रत्यञ्चितेन । मनसा दीध्यानः ध्यायन् हिरण्यगर्भपदम् । किंच अजः पुरो नीयते । तदुक्तम् 'कृष्णग्रीव आग्नेयो रराटे पुरस्तात्' इति नाभिरस्य अश्वस्य । तदुक्तम् 'सौमापौष्णः श्यामो नाभ्याम्' इति । किंच अनुलग्नाः पश्चात् । कवयः क्रान्तदर्शनाः । यन्ति गच्छन्ति । रेभाः स्तोतारः ॥ २३ ॥
म० अर्वा अश्वः शसनं विशसनस्थानमुपप्रागात् आगतः । कीदृशोऽर्वा । वाजी वजतीति वाजी गमनशीलः अन्नवान् वा । देवद्रीचा मनसा दीध्यानः । देवान्प्रत्यञ्चति देवद्र्यक् तेन 'विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये' (पा० ६ । ३ । ९२) इति देवशब्दस्य टेरञ्चतौ परेऽद्र्यादेशः । दीधीते दीध्यानः 'दीधीङ् दीप्तिदेवनयोः' शानच्प्रत्ययः । देवान्प्रति गतेन चित्तेन दीप्यमानः । किंच अस्याश्वस्य पुरोऽग्रे अजो नीयते स्थाप्यते । तदुक्तम् 'कृष्णग्रीव आग्नेयो रराटे पुरस्तात्' इति । अस्य नाभिः अजो नीयते नाभौ स्थाप्यते । तदुक्तम् 'सोमापौष्णः श्यामो नाभ्याम्' इति । अस्य पश्चात् कवयः ऋत्विजः अनुयन्ति अनुगच्छन्ति । कीदृशाः कवयः । रेभाः रेभन्ते इति रेभाः 'रेभृ शब्दे' स्तोतार इत्यर्थः ॥ २३ ॥

चतुर्विंशी ।
उप॒ प्रागा॑त्पर॒मं यत्स॒धस्थ॒मर्वाँ॒२ अच्छा॑ पि॒तरं॑ मा॒तरं॑ च ।
अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या अथाशा॑स्ते दा॒शुषे॒ वार्या॑णि ।। २४ ।।
उ० उपप्रागात् । एवमश्वमभिष्टुत्य अथेदानीं यजमानं कृतकृत्यतया संबोधयन्नाह । उप प्रागात् प्राप्तवान् । परममुत्कृष्टम् । यत् यस्मात् सधस्थं सह स्थान देवमनुष्याणाम् । अर्वान् अर्वा अश्वः। नकार उपजनः । अच्छा पितरं मातरं च 'अच्छाभेराप्तुमिति शाकपूणिः' अभ्यगाच्च यस्मात् पितरं मातरं च द्यावापृथिव्यौ अश्वः । तस्माद्ब्रवीमि हे यजमान, अद्या अद्य कृतकृत्यः सन् देवान् गम्याः गच्छेः जुष्टतमः सन् हिर्निश्चये । अथैवंगताय भवते दाशुषे दत्तवते हवींषि यजमानाय । आशास्ते अश्व एव वार्याणि वरणीयानि ॥२४॥
म० एवमश्वं स्तुत्वा यजमानमाह । अर्वान् अर्वाश्वः पितरं मातरं च अच्छ द्यावापृथिव्यौ अभि समीपे परममुत्कृष्टं यत् सधस्थं सहस्थानं तत् उपप्रागात् । अर्वन्शब्दस्य नलोपाभावश्छान्दसः। अश्वे एव देवलोकं गते हे यजमान, जुष्टतमः प्रीततमः सन् अद्य त्वं देवान् गम्याः देवलोकं गच्छेः । गमेराशीर्लिङि मध्यमैकवचने गम्या इति रूपम् । अथैवं देवत्वं गताय दाशुषे हविर्दत्तवते तुभ्यं वार्याणि वरणीयानि भोग्यवस्तूनि हि नूनम् आशास्ते । देवगणोऽश्वो वा ददात्वित्यर्थः ॥ २४ ॥

पञ्चविंशी।
समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान् य॑जसि जातवेदः ।
आ च॒ वह॑ मित्रमहश्चिकि॒त्वान्त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ।। २५ ।।
उ० समिद्धो अद्य । द्वादशाप्त्यस्त्रिष्टुभः भार्गवो जमदग्निरपश्यत् । यस्त्वं समिद्धः अद्यास्मिन्यजनीयेऽहनि । मनुषः मनुष्यस्य यजमानस्य । दुरोणे यज्ञगृहे देवो दानादियुक्तः । देवान् दानादियुक्तान् यजसि । हे जातवेदः जातप्रज्ञान, तं त्वां प्रार्थयामि । आच वह देवान्यज च । हे मित्रमहः मित्राणां पूजयितः, यस्त्वं चिकित्वान् चेतनावान्परिदृष्टकारी । अपि चैतदेव चित्रं यत्त्वमस्माकमस्मिन्कर्मणि वर्तेथाः । किं कारणं यतो ब्रवीमि । त्वं दूतः देवानां कविः क्रान्तदर्शनश्चासि । प्रचेताः प्रवृद्धचेताश्च ॥ २५ ॥
म० द्वादशाप्रीसंज्ञास्त्रिष्टुभो जमदग्निदृष्टाः समित्तनूनपादादयो देवताः । हे जातवेदः जातज्ञान, मनुषो मनुष्यस्य यजमानस्य दुरोणे यज्ञगृहे अद्य त्वं देवान् यजसि । कीदृशस्त्वम् । समिद्धः दीप्तः देवः दानादिगुणयुक्तः । हे मित्रमहः मित्रान् यजमानान्महति पूजयति मित्रमहाः तत्संबुद्धौ हे मित्रमहः, आवह च देवानावह यज चेत्यर्थः । यतः त्वमीदृशोऽसि । कीदृशः । चिकित्वान् चेतनावान् । दूतः कविः कान्तदर्शी । प्रचेताः प्रकृष्टं चेतो यस्य सोऽत एव यज ॥ २५ ॥

षड्विंशी।
तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व ।
मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन् दे॑व॒त्रा च॑ कृणुह्यध्व॒रं न॑: ।। २६ ।।
उ० तनूनपात्पथः। तनूनपाच्छब्देनाज्यमभिधेयमग्निर्वा। हे तनूनपात् गवामपां वा पौत्र । पथः ऋतस्य यानान् ऋतस्य यज्ञस्य गमनान्पथः हवींषि । हविर्भिर्हि यज्ञो याति प्रवर्ततेऽतो यज्ञमार्गा हवींष्युच्यन्ते । मध्वा मधुरसेन समञ्जन् भक्षयन् । स्वदय देवेभ्यः रोचय । हे सुजिह्व कल्याणजिह्व । कल्या ह्यग्नेर्जिह्वा या नानादेवत्यानि हवींष्यभ्यवहरते न किंचनोच्छेषयति । किंच मन्मानि मननानि धीभिः बुद्धिभिः सहितानि । उत अपिच यज्ञम् ऋन्धन् समर्धयन् । देवत्रा च कृणुहि देवान्प्रति गमय । करोतिर्गमनार्थः । अध्वरं नः अस्माकम् ॥ २६ ॥
म० तनूनामपां नपात्पौत्रोऽग्निः अद्भ्यो वृक्षा जायन्ते तेभ्योऽग्निरित्यपां पौत्रत्वमग्नेः । हे तनूनपात् अग्ने, हे सुजिह्व, शोभना जिह्वा यस्य स सुजिह्वः । नानादेवत्यानि हवींषि भक्षयन्नपि नोच्छिष्टानि करोतीति वह्नेः शोभनजिह्वत्वम् । हे सुजिह्व, ऋतस्य यानान् पथः स्वदय रोचय । भक्षयेत्यर्थः । यायन्ते यैर्येषु वा ते यानास्तान् । 'करणाधिकरणयोः' (पा० ३ । ३ । | ११७ ) इति ल्युप्रत्ययः । ऋतो यज्ञः तस्य गमनसाधनमार्गा हवींषि तान्भक्षयेत्यर्थः । हविर्भिर्यज्ञः प्रवर्तते इति यज्ञगमनपन्थानो हवींषि । किं कुर्वन् । मध्वा समञ्जन् मधुरेण रसेन संम्रक्षयन् । किंच नोऽस्माकमध्वरं यज्ञं देवत्रा कृणुहि देवान् गमय । करोतिर्गत्यर्थः । किं कुर्वन् । धीभिः बुद्धिभिः सह मन्मानि ज्ञानानि । उत अपिच यज्ञमृन्धन् समर्धयन् अस्माकं ज्ञानं यज्ञं च वर्धयन् यज्ञं देवलोकं नयेत्यर्थः ॥ २६ ॥

सप्तविंशी।
नरा॒शᳪं᳭स॑स्य महि॒मान॑मेषा॒मुप॑ स्तोषाम यज॒तस्य॑ य॒ज्ञैः ।
ये सु॒क्रत॑व॒: शुच॑यो धिय॒न्धाः स्वद॑न्ति दे॒वा उ॒भया॑नि ह॒व्या ।। २७ ।।
उ० नराशंसस्य नरा अस्मिन्नासीनाः शंसन्तीति नराशंसो यज्ञः प्रजापतिर्वाग्निर्वा नरैः प्रशस्यो भवतीति नराशंसः । तस्य महिमानं महाभाग्यम् । एषां देवगणानां मध्ये उपस्तोषाम उपस्तुमः । कथंभूतस्य नराशंसस्य । यजतस्य यष्टव्यस्य यज्ञैराहुतिभिः । तस्य च महिमानमासाद्य ये देवाः सुक्रतवः सुकर्माणः । शुचयः निषिक्तपाप्मानः अणिमाद्यैश्वर्ययुक्ताः धियंधाः प्रज्ञायाः कर्मणो वा धारयितारः । स्वदन्ति भक्षयन्ति उभयानि हव्या हवींषि । सोमं च इतराणि च हवींषि तान्त्राणि प्रयाज्यभागस्विष्टकृत्प्रभृतीनि आवापिकानि प्रधानान्युभयानीति ॥ २७ ॥
म० नरा अस्मिन्नाशंसन्तीति नराशंसोऽग्निः प्रजापतिर्वा नरैः प्रशस्यो भवतीति वा । नराशंसस्य प्रजापतेरग्नेर्वा महिमानं महाभाग्यमेषां देवानां मध्ये वयमुपस्तोषाम उपस्तुमः । स्तौतेर्लेटि उत्तमैकवचने 'सिब्बहुलं लेटि' (पा० ३ । १ । ३४ ) इति सिप्प्रत्यये रूपम् । कीदृशस्य नराशंसस्य । यज्ञैः यजतस्य । यजेरतच्प्रत्ययः । एषां केषाम् । ये देवाः। उभयानि हव्या हवींषि सोमम् इतराणि च स्वदन्ति भक्षयन्ति । कीदृशा देवाः । सुक्रतवः शोभनः क्रतुः कर्म येषां ते शुचयः शुद्धा निष्पापाः । धियंधाः धियं बुद्धिं कर्म वा दधतीति अलुगार्षः ॥ २७ ॥

अष्टाविंशी।
आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॒श्चाया॑ह्यग्ने॒ वसु॑भिः स॒जोषा॑: ।
त्वं दे॒वाना॑मसि यह्व॒ होता॒ स ए॑नान्यक्षीषि॒तो यजी॑यान् ।। २८ ।।
उ०. आजुह्वानः । यस्त्वम् आजुह्वानः अहूयमानः सन् ईड्यः स्तुत्यः वन्द्यः नम्यश्च भवसि स त्वं याह्यागच्छ हे अग्ने, वसुभिः सजोषाः सहप्रीतिः। यश्च त्वं देवानां होतासि । हे यह्व महन्, स एतान्देवानाहूय यक्षि यज । इषितः प्रेषितः अधीष्टो वा । यजीयान् यष्टृतरः सन् ॥ २८ ॥
म०. हे अग्ने, त्वमायाहि आगच्छ । कीदृशस्त्वम् । आजुह्वानः आह्वयते आह्वयति देवानित्याजुह्वानः । ह्वयतेः शपः श्लुः 'ह्वः संप्रसारणम्' (पा० ६ । १ । ३२) इत्यभ्यासस्य संप्रसारणं शानचि । ईड्यः स्तुत्यः। वन्द्यः नमनीयः । वसुभिः देवैः, सजोषाः समानप्रीतिः । किंच हे यह्व महन् , यः त्वं देवानां होता आह्वाता असि च त्वमेनान् यक्षि यज । कीदृशस्त्वम् । इषितः प्रेषितः अभीष्टो वा । यजीयान् यजतीति यष्टा अत्यन्तं यष्टा यजीयान् । ईयसुनि 'तुरिष्टेमेयःसु' (पा० ६ । ४ । १५४ ) इति तृचो लोपः ॥ २८॥

एकोनविंशी।
प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना॑म् ।
व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ।। २९ ।।
उ० प्राचीनं बर्हिः प्राचीं प्रागग्रं वृज्यते प्रस्तीर्यते । किं स्वमनीषया नेत्याह । प्रदिशा प्रदिक्शब्देन श्रुतिवाक्यमभिधीयते प्रागग्रं बर्हिस्तृणातीति । पृथिव्या वस्तोरस्याः । अस्याः पृथिव्याः वेदेः । वस्तोः वसनायाच्छादनाय । अग्रे अह्नाम् पूर्वाह्णदिवसानाम् । स हि यागकालः प्रशस्तः । तत् वृज्यमानं बर्हिः विउप्रथति विप्रथति विविधमाच्छादयति । उकारः पादपूरणः । वितरमतितराम् वरीयः वरतरमुरुतरं वा। किं कारणमपेक्ष्य व्युप्रथते इत्यत आह । देवेभ्यश्च अदितये च स्योनं सुखं कर्तुमिति शेषः ॥ २९॥
म० अह्रां दिनानामग्रे पूर्वाह्णे बर्हिः प्राचीनं प्रागग्रं वृज्यते प्रस्तीर्यते प्रातर्यागकालस्य प्रशस्तत्वादह्नामग्रे इत्युक्तम् । किं स्वबुद्ध्या नेत्याह । 'प्रदिशा प्रागग्रं बर्हिः स्तृणाति' इति श्रुतिवाक्येन प्रदिक्शब्देन श्रुतिवाक्यम् । अस्याः पृथिव्या वेदेः वस्तोः वसितुम् । आच्छादयितुमित्यर्थः । तद्बर्हिः वृज्यमानं सत् विप्रथते विविधं विस्तीर्णं भवति । उकारः पादपूरणः । कीदृशं बर्हिः । वितरं वरीयः अत्यन्तं वि वितरमतितराम् वरीयः अत्यन्तमुरु वरीयः 'प्रस्थस्फव-' (पा० ६ । ४ । १५७ ) इत्यादिना उरोर्वरादेशः । देवेभ्यः अदितये च स्योनं सुखकरम् ॥ २९॥

त्रिंशी।
व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्तां॒ पति॑भ्यो॒ न जन॑य॒: शुम्भ॑मानाः ।
देवी॑र्द्वारो बृहतीर्विश्वमिन्वा दे॒वेभ्यो॑ भवत सुप्राय॒णाः ।। ३० ।।
उ० व्यचस्वतीः यज्ञगृहद्वारोऽभिधेयाः । अत्र च प्रथमोर्धर्चः परोक्षकृतो द्वितीयः प्रत्यक्षकृतः। नच तयोरेकवाक्यता संपद्यते अतः प्रथमस्य सन्नतिः । व्यचस्वतीः व्यञ्चनवत्यः गमनवत्यः । ऊर्विया उरुत्वेन विश्रयन्ताम् विवृता भवत । कथमिव । पतिभ्यो न जनयः शुंभमानाः यथा मैथुन्यधर्मे पतिभ्योऽर्थाय जनयः जाया आत्मानं शोभयन्त्यः ऊरू विश्रयेयुः विवृतौ कुर्वन्ति । यथा हि विवृता जाया उपसर्पन्ति पतिं न तथा इति इतीदमुक्तं पतिभ्यो न जनयः एवं विवृताश्च भूत्वा हे देव्यः द्वारः, बृहत्यः महत्यः । विश्वमिन्वाः विश्वमेत्येताभिः विश्वमिन्वाः । यूयं देवेभ्यः ऋत्विग्यजमानेभ्यः भवत सुप्रायणाः सुप्रगमनाः ॥ ३० ॥
म०. द्वारो देवीः देव्यो विश्रयन्तां विवृता भवन्तु । कीदृश्यो द्वारः । उर्विया उरुत्वेन व्यचस्वतीः व्यञ्चनवत्यो गमनवत्यः । कथमिव । पतिभ्यो जनयो न जनय इव । यथा जनयः जायाः पत्यर्थं ऊरू विश्रयन्ति । एवं परोक्षमुक्त्वा प्रत्यक्षमाह । हे द्वारो देव्यः, यूयं देवेभ्यो देवार्थं सुप्रायणाः सुप्रगमनाः भवत । कीदृश्यः । बृहती बृहत्यः । विश्वमिन्वाः विश्वमेति गच्छति यासु ताः । एतेर्न्वक्प्रत्ययः अलुक्समासः । शुम्भमानाः शोभमानाः । उर्विया इति द्वार्विशेषणं वा । उरवो विशालाः ‘इयाडियाजियारश्च' इति विभक्तेरियाजादेशः चित्वादन्तोदात्तः ॥३०॥

एकत्रिंशी।
आ सु॒ष्वय॑न्ती यज॒ते उपा॑के उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ ।
दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रिय॑ᳪं᳭ शुक्र॒पिशं॒ दधा॑ने ।। ३१ ।।
उ० आसुप्वयन्ती। स्मयतेर्वा निरुपसर्गात्स्वपतेर्वा सूपसर्गात् । सेस्मीयमाने परस्परं हसन्त्यौ साधुस्वपन्त्यौ वा । यजते यज्ञे उपाके उपक्रान्ते परस्परमेकदेशसवलीभूते । उषासानक्ता उषाश्च नक्ता रात्रिश्च । सदतां नियोनौ आसीदताम् । निरनर्थक उपसर्गः। यद्वा निरिति सदतामित्याख्यातेन युज्यते । निषीदताम् । योनौ यज्ञगृहे । कथंभूते । दिव्ये दिविभवे । योषणे प्रीतिमत्यौ स्त्रीरूपिण्यौ वा । बृहती बृहत्यौ महत्यौ । सुरुक्मे सुरोचने । अधिश्रियं शुक्रपिशं दधाने । शुक्रपिशं शुक्लरूपं श्रियम् अधिदधाने । स्थापयन्त्यौ ॥३१॥
म० आ नि एतयोः सदतामिति संबन्धः । अधीत्यस्य दधाने इत्यनेन संबन्धः । उषासानक्ता अहोरात्रे देवते योनौ यज्ञगृहे आनि सदताम् सम्यक् उपविशताम् । कीदृश्यौ ते । सुष्वयन्ती स्मयतेः स्वपतेर्वा सुपूर्वस्य रूपम् । पूर्वपक्षे मकारस्य वकारश्छान्दसः । उत्तरपक्षे पकारस्य यकारः । परस्परं हसन्त्यौ साधु स्वपन्त्यौ वा । यजते यजनीये । उपाके उप समीपमकतस्ते उपाके 'अक गतौ' परस्परं समीपस्थिते । दिव्ये दिवि भवे । योषणे योषे स्त्रीरूपिण्यौ । बृहती बृहत्यौ महत्यौ सुरुक्मे शोभनं रुक्मं सुवर्णं ययोस्ते । साभरणे इत्यर्थः । शुक्रपिशं शुक्लां कपिशां च श्रियं शोभामधिदधाने अधिकं धारयन्त्यौ । शुक्लमहः कपिशा रात्रिः ॥ ३१ ॥

द्वात्रिंशी।
दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा॒ मिमा॑ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै ।
प्र॒चो॒दय॑न्ता वि॒दथे॑षु का॒रू प्रा॒चीनं॒ ज्योति॑: प्र॒दिशा॑ दि॒शन्ता॑ ।। ३२ ।।
उ० दैव्या होतारा । यो दैव्यौ होतारौ अयं चाग्निरसौ च मध्यमः प्रथमा आद्यौ सुवाचा सुवाचौ । नहि तौ पाठं विनाशयतः । मिमाना निर्मिमाणौ यज्ञम् मनुषो मनुष्यस्य यजध्यै यजनाय प्रचोदयन्तौ च विदथेषु यज्ञेषु अन्यानृत्विजः । स्वयं च कारू कर्तारौ । प्राचीनं पूर्वस्यां दिशि भवं आहवनीयाख्यं ज्योतिः यष्टव्यमिति प्रदिशा अभिनयेन श्रुतिवाक्येन वा दिशन्ता कथयन्तौ । आशास्तावस्मदीयं प्रसाधयेतामिति शेषः ॥ ३२ ॥
म० दैव्यौ होतारौ ईदृशौ आसाते इति शेषः । कीदृशौ । प्रथमा आद्यौ । सुवाचा शोभना वाक् ययोस्तौ । मनुषो मनुष्यस्य । यजध्यै यष्टुं यज्ञं । मिमाना निर्मिमाणौ । तुमर्थे शध्यैप्रत्ययः । विदथेषु यज्ञेषु प्रचोदयन्ता प्रचोदयन्तौ ऋत्विजः प्रेरयन्तौ । कारू कुरुतस्तौ कारू 'उणादयो बहुलम्' (पा० ३ । | ३ । १) इत्युण् । स्वयं कर्तारौ । प्राचीनं पूर्व दिशि भवं ज्योतिः आहवनीयाख्यं प्रदिशा अभिनयेन श्रुतिवाक्येन दिशन्ता यष्टव्यमिति कथयन्तौ । सर्वत्र विभक्तेराकारः ॥ ३२॥

त्रयस्त्रिंशी।
आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती ।
ति॒स्रो दे॒वीर्ब॒र्हिरेदᳪं᳭ स्यो॒नᳪं᳭ सर॑स्वती॒ स्वप॑सः सदन्तु ।। ३३ ।।
उ० आ नो यज्ञम् । आङ् उपसर्गः सदन्त्वित्याख्यातेन संबध्यते। आ एतु आगच्छतु नः अस्माकं यज्ञम् भारती भरत आदित्यस्तस्य भारती तूयं क्षिप्रम् इडा च आगच्छतु । मनुष्वत् मनुष्यवत् इह चेतयन्ती परिदृष्टकारिणी । सरस्वती च । या इत्थंभूतास्तिस्रो देव्यः ताः बर्हिः आङ्उपसर्गः सदन्त्वित्याख्यातेन संबध्यते । आसदन्तु आसीदन्तु इदं स्योनं सुखरूपम् स्वपसः। अप इति कर्मनाम । साधुकर्मणः ॥३३॥
म० भारती इडा सरस्वती च नोऽस्माकं यज्ञं तूयं क्षिप्रमा एतु आगच्छतु । कीदृशी । मनुष्वत् मनुष्यवदिह कर्मणि चेतयन्ती ज्ञापयन्ती कर्मज्ञानं बोधयन्ती । इदं तिसृणां विशेषणम् । एतास्तिस्रो देवीः देव्यः स्योनं सुखरूपमिदं बर्हिः आसदन्तु आसीदन्तु । कीदृश्यः । स्वपसः शोभनमपः कर्म यासां ताः शुभकर्माणः । अप इति कर्मनाम ॥ ३३ ॥

चतुस्त्रिंशी।
य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रूपै॒रपि॑ᳪं᳭श॒द्भुव॑नानि॒ विश्वा॑ ।
तम॒द्य हो॑तरिषि॒तो यजी॑यान् दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ।। ३४ ।।
उ० य इमे । यस्त्वष्टा इमे द्यावापृथिव्यौ जनित्री जनयित्र्यौ सर्वभूतानाम् । रूपैः अपिंशत् सुचित्रिते अकरोत् । भुवनानि विश्वा भूतजातानि च सर्वाणि रूपैरपिंशत् आवृतान्यकरोत् तम् अद्यास्मिन्नहनि । हे होतः, इषितः प्रेषित इति वा अधीष्ट इति वा । यजीयान् यष्टृतमः । देवं दानादिगुणयुक्तम् त्वष्टारम् । इह यज्ञे यक्षि यज । विद्वान् स्वमधिकारं जानानः ॥ ३४ ॥
म० हे होतः, अद्य इषितः प्रेषितः सन् तं त्वष्टारं देवमिह यज्ञे यक्षि यज । कीदृशः त्वम् । यजीयान् अत्यन्तं यष्टा 'तुरिष्ठेमेयःसु' ( पा० ६ । ४ । १५४ ) इतीयसुनि तृचो
लोपः । विद्वान् स्वाधिकारज्ञः । तं कम् । यः त्वष्टा इमे द्यावापृथिवी द्यावाभूमी रूपैः अपिंशदवयवैर्विचित्रे अकरोत् 'पिश अवयवे' तुदादिः । लङि 'शे मुचादीनाम्' (पा० ७ । १।५९) इति नुम् । विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि रूपैः अपिंशत् विविधरूपाण्यकरोत् । कीदृश्यौ द्यावापृथिव्यौ । जनित्री जनयतस्ते जनित्यौ प्राण्युत्पादिके ॥ ३४ ॥

पञ्चत्रिंशी।
उ॒पाव॑सृज॒ त्मन्या॑ सम॒ञ्जन् दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वीᳪं᳭षि॑ ।
वन॒स्पति॑: शमि॒ता दे॒वो अ॒ग्निः स्वद॑न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ।। ३५ ।।
उ० उपावसृज । द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते ! सामर्थ्यात् । यजमान आह । वनस्पतिः यूपः शमिता देवः अग्निः शामित्रः स्वदन्तु मृष्टीकुर्वन्तु । हव्यं हविः मधुना मधुरसेन घृतेन । त्वमपि हे अध्वर्यो उपावसृज उत्पिष्टं पाशुकमवदानम् अवसृज निक्षिप । त्मन्या आत्मना । आदरार्थं वचनम् । 'मन्त्रेष्वाड्यादेरात्मनः' इत्याकारलोपः । समञ्जन् संमृक्षयन् देवानां पाथः अन्नम् । ऋतुथा ऋतावृतौ च हवींषि अवसृज ॥ ३५ ॥
म० यजमानो वदति । हे होतः, त्मन्या आत्मना हवींषि ऋतुथा ऋतौ ऋतौ यज्ञकाले त्वमुपावसृज देहि । किं कुर्वन् । देवानां पाथः हविः मधुना मधुररसेन घृतेन समञ्जन् संम्रक्षयन् । देवानामित्युक्तं तानाह। वनस्पतिर्यूपः शमिता देवः अग्निः एते त्रयो हव्यं होत्रा संमृज्य दत्तं स्वदन्तु भक्षयन्तु । आत्मन्शब्दस्य विभक्तेर्यादेशे ‘मन्त्रेष्वाङ्यादेरात्मनः' (पा० ६ । ४ ।। १४१) इत्याकारलोपः ॥ ३५॥

षट्त्रिंशी।
स॒द्योजा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत् पुरो॒गाः ।
अ॒स्य होतु॑: प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतᳪं᳭ ह॒विर॑दन्तु दे॒वाः ।। ३६ ।।
उ० सद्योजातः । योऽग्निः सद्योजातः जायमानः सन् व्यमिमीत निरमिमीत यज्ञम् । यश्च देवानाम् अभवत् पुरोगाः अग्रतोगामी । तस्यास्य होतुः प्रदिशि प्राच्यां दिशि ऋतुथा ऋतावृतौ आ च हवनीयात्मना व्यवस्थितस्य । वाचि आस्ये मुखे । वाग्ग्रहणेन लक्षणया मुखमभिधीयते तदुक्तं वार्तिककारेण 'अभिधेयाविनाभावप्रतीतिर्लक्षणेप्यते। लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणतेति' । स्वाहाकृतम् स्वाहाकृत्युपलक्षितं हविः अदन्तु देवाः ॥ ३६ ॥
म० देवा हविरदन्तु भक्षयन्तु । कीदृशं हविः । अस्याग्नेः वाजि वागिन्द्रियोपलक्षिते मुखे स्वाहाकृतं स्वाहाकारेण हुतम् । कीदृशस्यास्य । होतुः देवानामाह्वातुः । प्रदिशि पूर्वदिशि ऋतस्य 'ऋ गतौ आहवनीयात्मना स्थितस्य अस्य कस्य । योऽग्निः सद्यो जातः उत्पन्नः सन् यज्ञं व्यमिमीत विशेषेण निरमात् । यश्च देवानां पुरोगाः अग्रगामी मुख्याऽभवत् । पुरो गच्छतीति पुरोगाः । विटि प्रत्यये ‘विड्वनोरनुनासिकस्यात्' (पा० ६ । ४ । ४१) इति मस्याकारः ॥ ३६॥

सप्तत्रिंशी।
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ ।
समु॒षद्भि॑रजायथाः ।। ३७ ।।
उ० इत उत्तरमश्वरक्षिणो योद्धारः युद्धोपकरणानि च स्तूयन्ते प्रागाग्नेय इति श्रुतेः । []केतुं कृण्वन् । आग्नेयी गायत्री अनिरुक्ता। केतुं प्रज्ञानं कृण्वन्कुर्वन् । अकेतवे न विद्यते केतुः प्रज्ञानं यस्य तस्मै अकेतवे। पेशः सुवर्णं रूप्यं वा । मर्याः मर्यायेति विभक्तिव्यत्ययः । मर्याय मनुष्याय अपेशसे न विद्यते पेशः यस्य तस्मै अविद्यमानसुवर्णाय अविद्यमानरूप्याय वा पेशः कुर्वन् । समुषद्भिरजायथाः हे अग्ने, उषद्भिः । 'उष दाहे' अग्निहोत्रादीनि कर्माणि कुर्वद्भिः । जायमानः सन् जन्मना जातेर्वा वसतेर्वा कृतसंप्रसारणस्यैतद्रूपम् । | उषद्भिः अग्निं प्रति निवसद्भिः जायमानः सन् समजायथाः । उत्पद्यसे ॥ ३७॥
म०. अग्निदेवत्या गायत्री मधुच्छन्दोदृष्टानिरुक्ता । हे अग्ने, त्वमुषद्भिः कृत्वा अजायथाः उत्पन्नोऽसि । जनेर्लङि रूपम् । | 'उष दाहे' उषन्ति हविर्दहन्ति ते उषन्तोऽग्निहोमकर्तारो यजमानाः । कीदृशस्त्वम् । अकेतवे अज्ञानाय मर्याः मर्याय मनुष्याय केतुं ज्ञानं कृण्वन्कुर्वन् । विभक्तिव्यत्ययः। नास्ति पेशः सुवर्णं यस्य स अपेशाः तस्मै अपेशसे मर्याय पेशः सुवर्णं कुर्वन् ॥ ३७॥

अष्टत्रिंशी।
जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे॑ ।
अना॑विद्धया त॒न्वा॒ जय॒ त्वᳪं᳭ स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ।। ३८ ।।
उ० जीमूतस्येव । वर्म स्तूयते । जीमूतो मेघः तस्येव भवति प्रतीकम् अनीकम् मुखमिति पर्यायः । यथा मेघस्य मुखं विद्युत्स्फुरितस्तनयित्नुधारानिकरैरसह्यं भवत्यन्तःसरणैः एवं हस्त्यश्वपदातिमुखं निशितास्त्रगम्भीरतूर्यनिनादशरधाराभिरसह्यं भवति । एवं कस्मिन्काले कस्यवेत्यत आह । यद्वर्मी यदा वर्मास्य विद्यते इति वर्मी । याति गच्छति समदाम् । संमाद्यन्ति सह वा माद्यन्ते आसु योद्धार इति समदः समदशब्दः संग्रामवचनः । समदां संग्रामाणाम् उपस्थे उपकण्ठे यत एवमतो ब्रवीमि । अनाविद्धया तन्वा जय त्वम् हे वर्मिन् , अनाविद्धया अक्षतया अरिष्टया तन्वा त्वं जयेम। किंच सत्त्वावर्मणो महिमा पिपर्तु पालयतु ॥ ३८ ॥
म० एवमग्निं स्तुत्वाश्वरक्षणे योधाः युद्धोपकरणानि च स्तूयन्ते । भरद्वाजसुतःपायुः संग्रामाङ्गानि प्रत्यृचं स्तोति । त्रिष्टुब्भिः वर्म स्तूयते । यत् यदा वर्मी कवचवान् समदां संग्रामाणामुपस्थे उत्सङ्गे याति तदा प्रतीकं सेनामुखं जीमूतस्य मेघस्येव भवति । सह माद्यन्ति योधा यासु ताः समदः संग्रामाः। मदेः क्विप् । मेघस्य मुखं विद्युत्स्तनयित्नुधाराभिर्यथासह्यम् एवं हस्त्यश्वरथपादात्यस्त्रजालतूर्यनादशरौघैः सेनामुखमसह्यं भवतीत्यर्थः । अतोऽहं ब्रवीमि । हे वर्मिन् , अनाविद्धया अक्षतया तन्वा शरीरेण त्वं शत्रून् हत्वा जयं प्राप्नुहि । किंच स वर्मणः महिमा त्वा त्वां पिपर्तु पालयतु ॥ ३८ ॥

एकोनचत्वारिंशी।
धन्व॑ना॒ गा धन्व॑ना॒ऽऽजिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम ।
धनु॒: शत्रो॑रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वा॑: प्र॒दिशो॑ जयेम ।। ३९ ।।
उ० धन्वना गाः। धनुः स्तूयते त्रिष्टुभा। धन्वना धनुषा गाः जयेम । धनुषा च आजिं मार्गं जयेम । धनुषा च तीवाः पटवः उद्गूर्णायुधाः समदः संग्रामाञ्जयेम । धनुश्च शत्रोः अपकामं कृणोति अपनयति कामम् । कर्तृत्वविवक्षात्र धनुषः । धनुषा च सर्वाः प्रदिशः जयेम ॥ ४९ ॥
म० धनुः स्तूयते । धन्वना धनुषा कृत्वा वयं गाः धेनूः जयेम । धन्वना आजिं मार्गं जयेम । अजन्ति गच्छन्ति यस्मिन्नसावाजिर्मार्गः । तीव्राः उग्राः समदः संग्रामान् धन्वना जयेम । धनुः शत्रोरपकामं मनोरथाभावं कृणोति करोति । कामस्याभावोऽपकामम् । 'अव्ययं विभक्ति-' (पा. २ । १। ६) इत्यादिना अर्थाभावेऽव्ययीभावः । किंच धन्वना सर्वाः प्रदिशो जयेम । ईदृशो धनुःप्रभावः ॥ ३९ ॥

चत्वारिंशी।
व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्णं॑ प्रि॒यᳪं᳭ सखा॑यं परिषस्वजा॒ना ।
योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒ञ्ज्या इ॒यᳪं᳭ सम॑ने पा॒रय॑न्ती ।। ४० ।।
उ० वक्ष्यन्तीवेत् । ज्या अभिधेया त्रिष्टुप् । या ज्या वक्ष्यन्ती इव वचनोत्सुकेव योषित् । इच्छब्दः पादपूरणार्थः। आगनीगन्ति आगच्छन्ति अत्यर्थमागच्छति वा कर्णं धानुष्ककर्णमूलम् । या च प्रियमिव सखायमिषुम् परिषस्वजाना आलिङ्गयन्ती । योषेव शिङ्क्ते । 'शिजि अव्यक्ते शब्दे' । यथा मुग्धा योषित्कामुकरञ्जनार्थमव्यक्तं कूजितं करोति एवमियमव्यक्तं शब्दं करोति । प्रसारिता च अधि उपरि धनुषि निबद्धा । सेयं ज्या समने संग्रामे पारयन्ती विजयं कुर्वन्ती संग्रामात् तारयन्ती स्तूयतेऽस्माभिरिति शेषः ॥ ४० ॥ ।
म० ज्या स्तूयते । इयं ज्या धन्वन् धन्वनि धनुषि अधिवितता उपरि विस्तारिता सती शिङ्क्ते अव्यक्तशब्दं कुरुते । 'शिजि अव्यक्ते शब्दे' अदादिः 'इदितो नुम् धातोः' (पा० ७ । १ । ५८ ) इति नुम् । का इव । योषेव यथा योषा कामिनी कामुकरञ्जनायाव्यक्तं वदति एवमियमपि । कीदृशी ज्या । समने संग्रामे पारयन्ती । 'पार तीर कर्मसमाप्तौ' अदन्तः। संग्रामादुत्तारयन्ती विजयं कुर्वन्तीत्यर्थः । इयं का। या ज्या कर्णमागनीगन्ति आकृष्टा सती योद्धुः कर्णं प्रत्यत्यर्थमागच्छति । यङ्लुकि गमेः रूपम् । कीदृशी उत्प्रेक्ष्यते । वक्ष्यन्तीव वक्तुमिच्छन्तीव । अन्योऽपि वक्तुमिच्छन्कर्णं प्रत्यागच्छति । प्रियं सखायमिष्टं मित्रं बाणरूपं परिषस्वजाना आलिङ्गन्ती । स्वजेः शानचि शपः श्लौ सति द्वित्वम् । इत् पादपूरणार्थः ॥ ४० ॥

एकचत्वारिंशी।
ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे॑ ।
अप॒ शत्रू॑न् विध्यताᳪं᳭ संविदा॒ने आर्त्नी॑ इ॒मे वि॑ष्फु॒रन्ती॑ अ॒मित्रा॑न् ।। ४१ ।।
उ० ते आचरन्ती । धनुषः कोटी स्तूयेते । त्रिष्टुप् । ये इमे आर्त्नी आर्त्न्यौ धनुषः कोटी । समना इव समने इति वचनव्यत्ययः । समानभर्तृगतमनस्के योषे इव । यथा समानभर्तृगतमनस्के योषे पतिमागच्छन्त्यौ तथा ते आचरन्ती आगच्छन्त्यौ धानुष्कम् । मातेव पुत्रं बिभृतामुपस्थे । यथा माता उपस्थे उत्सङ्गे पुत्रं धारयति एवं बिभृतां धारयतां शरम् । अपशत्रून् विध्यताम् 'व्यध ताडने' । अपविध्यतां च शत्रून् संविदाने सुखमनुभवन्त्यौ । विष्फुरन्ती अमित्रान् अमित्रान् शत्रून् विष्फुरन्त्यौ ॥ ४१ ॥
म० धनुःकोटी स्तूयेते । ते प्रसिद्धे इमे आर्त्नी आर्त्न्यौ धनुःकोटी उपस्थे उत्सङ्गे मध्यभागे बिभृतां धारयतां शरमिति शेषः । तत्र दृष्टान्तः । माता पुत्रमिव यथा जननी पुत्रमुत्सङ्गे बिभर्ति तथा शत्रून् अपविध्यतां ताडयतां च । कीदृश्यौ आर्त्न्यौ । आचरन्ती आचरन्त्यौ आगच्छन्त्यौ धानुष्कं प्रति । तत्र दृष्टान्तः । समना योषा इव वचनव्यत्ययः । समना समानमेकपतिगतं मनो ययोस्ते समनसौ । विभक्तेर्डादेशः । समचित्ते योषा योषे स्त्रियौ यथा कान्तमागच्छतः । संविदाने संविदाते ते संविदाने 'समो गमि-' (पा० १ । ३ । २९) इत्यादिना शानच् । परस्परं संकेतं कुर्वाणे । अमित्रान् शत्रून् प्रति विष्फुरन्ती टङ्कारं कुर्वाणे ॥ ४१ ॥

द्विचत्वारिंशी।
ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ ।
इ॒षु॒धिः सङ्का॒: पृत॑नाश्च॒ सर्वा॑: पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ।। ४२ ।।
उ०. बह्वीनां पिता । इषुधिरभिधेयः त्रिष्टुप् । यः बह्वीनामिषूणां पिता पालयिता । तेन सहिताः पाल्यन्ते सहिताः संनिदधाति । यस्य चास्य बहुः इषुकलापः पुत्रः पुत्रस्थानीयः । स हि तेन इषुकलापेन त्रायते बहु वा तदर्थं हितं करोति । चिश्चाकृणोति । शब्दानुकरणमेतत् । इषोर्निष्र्रम्यमाणः चिश्चेत्येवं शब्दं करोति । समनावगत्य समना संग्रामान् अगवत्य ज्ञात्वा । स इषुधिः संकाः संधत्ते अस्मिन् योधा इति संकाः संकीर्यन्ते अस्मिन्नरय इति संकाः शत्रुसंकटं । पृतनाश्च सर्वाः पृतनाः स्पर्धनीयतमाः। संग्रामभक्तीः सर्वाः पृष्ठे निनद्धः धानुष्कस्य पृष्टे बद्धः प्रसूतः धानुष्केणाभ्यनुज्ञातः सन् जयति । अत्र इषुधेः कर्तृत्वम् । विवक्षातः कारकाणि भवन्तीति वैयाकरणाः ॥ ४२ ॥
म० इषुधिः स्तूयते । य इषुधिः तूणो बह्वीनामिषूणां पिता पालकः । यतो बाणान्धरति । अस्येषुधेर्बहुः । बाणसमूहः पुत्रः पुत्रस्थानीयः पाल्यमानत्वात् । पुरून्बहून् त्रायत इति पुत्रः । स इषुधिः समना संग्रामान् अवगत्य ज्ञात्वा । चिश्चाकृणोति चिश्चेति शब्दं करोति । शब्दानुकरणमेतत् । वाणे तूणान्निष्काम्यमाणे चिश्चेति शब्दो भवति । च पुनः स इषुधिर्धानुष्केण पृष्ठे निनद्धः बद्धोऽपि प्रसूतः अनुज्ञातः सन् सर्वाः पृतनाः जयति शत्रुसेनाः पराभवति । कीदृश्यः पृतनाः । संकाः 'संकाः सचतेः संपूर्वाद्वा किरतेः' (निरु. ९ । १४ ) इति यास्कोक्तेः सचतेः किरतेर्वा रूपम् । सचन्ते संबध्यन्ते संकीर्यन्ते वा योधा यासु ताः संकाः । विवक्षातः कारकाणि भवन्तीति वचनादिषुधेः कर्तृत्वम् ॥ ४२ ॥

त्रिचत्वारिंशी।
रथे॒ तिष्ठ॑न् नयति वा॒जिन॑: पु॒रो यत्र॑-यत्र का॒मय॑ते सुषार॒थिः ।
अ॒भीशू॑नां महि॒मानं॑ पनायत॒ मन॑: प॒श्चादनु॑ यच्छन्ति र॒श्मय॑: ।। ४३ ।।
उ० रथे तिष्ठन् । जगत्या अर्धेन सारथिः स्तूयतेऽर्धेन रश्मयः । सुसारथिः रथे तिष्ठन् नयति वाजिनः प्रापयत्यश्वान् पुरः पुरतोऽवस्थितान् । यत्र यत्र कामयते तं वयं स्तुम इति शेषः । अभीशूनां प्रग्रहाणां महिमानं महाभाग्यं पनायत पूजयत हे जनाः । ये मनः अश्वसंबन्धि चित्तम् पश्चात्सन्तः अनुयच्छन्ति अनुगम्य गृह्णन्ति रश्मयः यन्तारः॥४३॥
म० अर्धेन सारथिरर्धेन रश्मयः स्तूयन्ते । जगती इयम् । सुषारथिः सुसारथिः शोभनः सारथिः यत्र यत्र प्रदेशे कामयते इच्छति मयात्र गन्तव्यमिति तत्र तत्र पुरो वर्तमानान् वाजिनः नयति प्रापयति । कीदृशः। रथे तिष्ठन् । तं स्तुम इति शेषः । इदानीं रश्मयः स्तूयन्ते । हे जनाः, अभीशूनां रश्मीनां महिमानं महाभाग्यं यूयं पनायत स्तुत । ये रश्मयः पश्चाद्वर्तमानाः सन्तः मनोऽश्वचित्तमनुयच्छन्ति अनुगम्य गृह्णन्ति वशवर्तिनं कुर्वन्तीत्यर्थः । 'पन स्तुतौ' 'गुपूधूप-' (पा० ३ । १ । २८) इत्यादिना आयप्रत्ययान्तात्पनेर्लोट् ॥ ४३ ॥

चतुश्चत्वारिंशी।
ती॒व्रान् घोषा॑न् कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः ।
अ॒व॒क्राम॑न्त॒: प्रप॑दैर॒मित्रा॑न् क्षि॒णन्ति॒ शत्रूँ॒१।। रन॑पव्ययन्तः ।। ४४ ।।
उ० तीव्रान्घोषान् । अश्वाः स्तूयन्ते त्रिष्टुभा । तीव्रान् जयजयेत्युग्रान् घोषान् शब्दान् कृण्वते कुर्वन्ति । वृषपाणयः वृषा अश्वाः पाणौ येषां संग्रहीतृप्रभृतीनां योक्तॄणां ते तथोक्ताः । युक्ताः श्वसन्तः अश्वाः रथेभिः रथैः । सह वाजयन्तः पूजयन्तः रथिनः तीव्रानेव घोषान् हेषितादीन्कृण्वते । अवक्रामन्तः प्रपदैः खुरैः अमित्रान् शत्रून् क्षिणन्ति क्षिण्वन्ति हिंसन्ति । अनपव्ययन्तः । 'व्यय क्षये। अपपूर्वादस्माच्छतृप्रत्ययः । अपव्ययन्तः नश्यन्तः न अपव्ययन्तोऽनपव्ययन्तः न नश्यन्तः । अपरित्यजन्तो वा स्वामिनम् ॥ ४४ ॥
म० अश्वाः स्तूयन्ते । वृषाः अश्वाः पाणौ हस्ते येषां ते वृषपाणयोऽश्ववाराः तीव्रान्घोषान् जयजयेति शब्दान् कृण्वते कुर्वन्ति । अश्वा अपि रथेभिः रथैः सह वाजयन्तः गच्छन्तः सन्तस्तीव्रान्घोषान्शब्दान्कुर्वन्ति शत्रून् क्षिणन्ति नाशयन्ति च । कीदृशा अश्वाः । प्रपदैः पादाग्रैः खुरैः अमित्रान् रिपून् अवक्रामन्तः आक्रामन्तः । अनपव्ययन्तः 'व्यय क्षये' अदन्तश्चुरादिः अपव्ययन्ति ते अपव्ययन्तः न अपव्ययन्तोऽनपव्ययन्तः अनश्यन्तः समर्थाः । वाजिनः 'वज गतौ' स्वार्थे णिच् ॥४४॥

पञ्चचत्वारिंशी।
र॒थ॒वाह॑णᳪं᳭ ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ ।
तत्रा॒ रथ॒मुप॑ श॒ग्मᳪं᳭ स॑देम वि॒श्वाहा॑ व॒यᳪं᳭ सु॑मन॒स्यमा॑नाः ।। ४५ ।।
उ० रथवाहणम् । रथस्तुतिः त्रिष्टुप् । यस्य स्वनसः रथवाहणं रथवोढ इति नाम । हविरिति नाम्नोर्धलोपः । हविर्धानमिति च द्वितीयं नाम । विमुच्य सयन्तृकं रथवाहणं करोति अनस्तत्कर्मेति कात्यायनः। 'तस्मादनस एव पौरोडाशेषु यजूᳪं᳭षि' इति श्रुतिः । यत्र यस्मिन् आयुधं निहितं स्थापितम् । अस्य योद्धुः वर्म च संनहनम् । तथाऽनसि रथम् शग्मं सुखम् उपसदेम उपसादयाम । विश्वाहा सर्वदा वयम् । सुमनस्यमानाः अनुकूलचित्ताः ॥ ४५ ॥
म० शकटद्वारा रथः स्तूयते । अस्यानसो रथवाहणं नाम रथं वहतीति रथवाहनम् । वाजपेयेऽनसि रथस्यारोप्यमाणत्वात् । तथास्य हविः हविर्धानं नाम । पृषोदरादित्वादुत्तरार्थलोपः । यत्रानसि अस्य योद्धुर्वर्म आयुधं च निहितं स्थापितम् तत्रानसि वयं रथमुपसदेम उपसादयामः । कीदृशं रथं । शग्मं सुखकरम् । कीदृशा वयम् । विश्वाहा सर्वदा सुमनस्यमानाः शोभनं मनो येषां ते सुमनसः असुमनसः सुमनसो भवन्ति सुमनस्यन्ते 'भृशादिभ्यो भुव्यच्वेः-' (पा० ३ । १ । १२) इति क्यङ् ततः शानच् । अनुकूलचित्ता इत्यर्थः । तत्रेत्यस्य संहितायां 'निपातस्य च' (पा० ६ । ३ । १३६ ) इति दीर्घः ॥ ४५ ॥

षट्चत्वारिंशी।
स्वा॒दु॒ष॒ᳪं᳭सद॑: पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रित॒: शक्ती॑वन्तो गभी॒राः ।
चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑ध्राः स॒तोवी॑रा उ॒रवो॑ व्रातसा॒हाः ।। ४६ ।।
उ० स्वादुषंसदः । रथगोपान् स्तौति त्रिष्टुप् । स्वादु सुखकरं संसदः संसदनं येषां ते स्वादुसंसदः रथगोप्तारः पितरः पातारः । वयोधाः अन्नस्यायुषो वा धारयितारः । कृच्छ्रेश्रितः क्लेशाश्रयिणः । शक्तीवन्तः बलवन्त आयुधवन्तो वा । गभीराः गम्भीरप्रज्ञाना वा गम्भीरबला वा । चित्रसेनाः विचित्रसेनाः । इषुबलाः इषुषु विशेषतो बलं येषां ते तथोक्ताः। अमृध्राः अमृदवः उग्रशासनाः । सतोवीराः सतः विद्यमानस्य बलस्य विविधमीरयितारो वा पृथुजघनोरस्का वा उरुमनसो वा । व्रातसाहाः वाताः गणास्तेषामभिभवितारः । य इत्थंभूताः पुरुषास्तेऽस्माकं रथगोप्तारो भवन्त्विति शेषः ॥ ४६॥
म. रथगोपान् स्तौति । ईदृशा नरा अस्माकं रथगोप्तारो भवन्त्विति शेषः । कीदृशाः । स्वादुसंसदः स्वादु सुखं यथा तथा संसीदन्ति ते स्वादुसंसदः । पितरः पान्ति ते पितरः रक्षितारः । वयोधाः वयोऽन्नमायुर्वा दधति धारयन्ति वयोधाः । कृच्छ्रेश्रितः इत्येकं पदम् । कृच्छ्रे कष्टे श्रीयन्ते सेव्यन्ते कृच्छ्रेश्रितः । कर्मणि क्विप् अलुक् सप्तम्याः । दुःखे सति आश्रयणयोग्याः दुःखनाशकत्वात् । यद्वा सप्तमी द्वितीयार्थे । कृच्छ्रं श्रयन्ति कृच्छ्रेश्रिताः दुःखं प्राप्यापि स्वामिसेवनपराः । शक्तीवन्तः शक्तिः सामर्थ्यमायुधं वा अस्ति येषां ते । अश्वरश्मिमतीत्येत्यादिप्रातिशाख्यसूत्रेण शक्तिशब्दस्य दीर्घः । गभीराः गम्भीरबला गम्भीरप्रज्ञाश्च । चित्रसेनाः चित्रा नानाविधा सेना येषां ते । इषुबलाः इषुभिर्बाणैर्बलं येषां ते अमृध्राः मृध्रा मृदवो न भवन्त्यमृध्राः कठिनाङ्गा उग्रशासना वा । सतोवीराः इत्येकं पदम् । सतोऽश्वमेधयाजिनो वीराः शूराः । यद्वा सतो विद्यमानस्य बलस्य वीराः प्रेरकाः विविधमीरयन्तीति वीराः षष्ठ्या अलुक् । उरवः विशालाः । पृथुजघनोरस्का इत्यर्थः । व्रातसाहाः व्रातान् शूरसमूहान् सहन्तेऽभिभवन्ति ते | व्रातसहाः पचाद्यच् 'अभिमातिपृतना' ( प्राति. ३ । ६। २७ ) इत्यादिना सूत्रेण सहतेरुपधादीर्घः ॥ ४६ ॥

सप्तचत्वारिंशी।
ब्राह्म॑णास॒: पित॑र॒: सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा॑ ।
पू॒षा न॑: पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घश॑ᳪं᳭स ईशत ।। ४७ ।।
उ० ब्राह्मणासः जगती लिङ्गोक्तदेवता । ऋतावृध ' इत्यादिः प्रत्यक्षभूतो मन्त्रः ब्राह्मणास इत्यादिः परोक्षकृतः अतएवं व्याख्यायते । हे ऋतावृधः सत्यवृधो वा यज्ञवृधो वा । देवा इत्यध्याहारः सामर्थ्यात् । रक्ष रक्षत इति वचनव्यत्ययः । माकिः मा च कश्चन नः अस्माकम् । अघशंसः अघानि पापानि यः शंसति प्रकाशयति सोऽघशंसः। ईशत ईष्टे इति वचनव्यत्ययः । भवत्प्रसादाच्च। ब्राह्मणासः ब्राह्मणाः पितरः सोम्यासः सोमसंपादिनः । पान्त्वित्यत्रान्वयः । शिवे कल्याणकारिण्यौ द्यावापृथिवी च अनेहसा अनुपहिंसिन्यौ अनपराधिन्यौ वा पाताम् । पूषा च नः अस्मान् पातु दुरितात् अशुभात् ॥ ४७ ॥
म० जगती लिङ्गोक्तदेवता । ब्राह्मणासः ब्राह्मणाः नोऽस्मान् पान्तु रक्षन्तु । पात्वित्यस्यार्थवशाद्वचनव्यत्ययः कार्यः । पितरः च पान्तु । कीदृशाः । सोम्यासः सोम्याः सोमसंपादिनः सोमपानयोग्या वेत्युभयोर्विशेषणम् । द्यावापृथिवी द्यावाभूमी नः पाताम् । कीदृश्यौ । शिवे कल्याणकारिण्यौ । अनेहसा अनेहसौ | नास्ति एहोऽपराधो ययोस्ते अपराधनिवर्तिके । किंच पूषा सूर्यो नोऽस्मान्दुरितात्पातु । एवं परोक्षेणोक्त्वा प्रत्यक्षमाह । हे ऋतावृधः, ऋतं सत्यं यज्ञं वा वर्धयन्ति ऋतवृधः देवाः । | संहितायामृतस्य दीर्घः । रक्ष रक्षतास्मान् वचनव्यत्ययः । माकिः मा कश्चन अघशंसः पापी नोऽस्माकमीशत ऐश्वर्यं मा करोतु । वयं दुष्टवशा मा भूमेत्यर्थः । अघं पापं शंसति वक्ति प्रकाशयति वाघशंसः दुष्टः । ईशतेति वचनव्यत्ययः॥४७॥

अष्टचत्वारिंशी।
सु॒प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभि॒: सन्न॑द्धा पतति॒ प्रसू॑ता ।
यत्रा॒ नर॒: सं च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑व॒: शर्म॑ यᳪं᳭सन् ।। ४८ ।।
उ० सुपर्णं वस्ते । द्वाभ्यां त्रिष्टुबनुष्टुब्भ्यामिषुं स्तौति । या सुपर्णं वस्ते सुपर्णः पक्षौ तद्विकारः सौपर्णमिति भवति। तत्र कृत्स्नवन्निगमः । राजानमभिप्रेत्य । मृगो अस्यादन्तः यस्याश्चास्या इषोः मृगो दन्तः फलं मृगयतेर्मृगः । स हि वेध्यं मृगयते । या च गोभिः संनद्धा गोविकारैः श्लेष्मस्नायुभिः संनद्धा । पतति शत्रुबलंप्रति । प्रसूता प्रेरिता धनुष्मता सा इषुः । यत्र नरः संच विच द्रवन्ति संगच्छन्ति विगच्छन्ति च तत्र अस्मभ्यम् इषवः इषुरिति सन्नतिः । शर्म शरणम् यंसत् यच्छत्विति सन्नतिः ॥ ४८ ॥
म० द्वाभ्यामिषुं स्तौति । आद्या त्रिष्टुप् अन्त्यानुष्टुप् । या इषुः सुपर्ण पक्षिपिच्छं वस्ते परिधत्ते । 'वस परिधाने' शोभनं पर्णं पिच्छं यस्य स सुपर्णः पक्षी तस्य विकारः सौपर्णम् तत्र 'कृत्स्नवन्निगमा भवन्ति' (निरु० २ । ५) इति यास्कोक्तेः सुपर्णशब्देन तत्पिच्छं गृह्यते । बाणपुच्छे पिच्छस्यारोप्यमाणत्वात् । किंच अस्या इषोः दन्तः फलं । मृगः मृगयतेऽन्विष्यति रिपून् हन्तुमिति मृगः 'मृग मार्गणे' चुरादिरदन्तः पचाद्यच् 'मृगो मृगयतेः' (निरु. ९। १९ ) इति यास्कः । शल्यं हि वेध्यं मृगयते । किंच या इषुः गोभिः गोविकारैः स्नायुभिः संनद्धा बद्धा प्रसूता धनुष्मता प्रेरिता सती पतति शत्रुबलं प्रति गच्छति । किंच यत्र नरो योद्धारः संद्रवन्ति च सम्यक् गच्छन्ति विद्रवन्ति च विविधं प्रसरन्ति । चौ समुच्चये । तत्र रणे इषवः बाणाः अस्मभ्यं शर्म सुखं यंसन् यच्छन्तु । 'यमु उपरमे लेटि तिप इलोपेऽडागमे 'सिब्बहुलं लेटि' (पा. ३। १ । ३४ ) इति सिबागमे यंसन्निति रूपम् । सुखं ददतु ॥४८॥

एकोनपञ्चाशी।
ऋजी॑ते॒ परि॑ वृङ्धि॒ नोऽश्मा॑ भवतु नस्त॒नूः ।
सोमो॒ अधि॑ ब्रवीतु॒ नोऽदि॑ति॒: शर्म॑ यच्छतु ।। ४९ ।।
उ० ऋजीते परि । हे ऋजीते ऋजुगामिनि, परिवृङ्ग्धि नः परिवर्जयास्मान् । अश्मा भवतु नस्तनूः अश्ममयी च भवतु नः अस्माकं तनूः शरीरम् । सोमश्च अधिब्रवीतु आधिक्येन वदतु नोऽस्माञ्जीवनाय । अदितिश्च शर्म शरणम् यच्छतु ददातु ॥ ४९॥
म० ऋजुः सरला ईतिर्यस्याः सा ऋजीतिः टिलोप आर्षः ।। हे ऋजीते ऋजुगामिनि । हे इषो, नोऽस्मान् परिवृङ्ग्धि परिवर्जय । अस्मासु मा पतेत्यर्थः । किंच नोऽस्माकं तनूः शरीरम् अश्मा पाषाणतुल्यदृढा भवतु । सोमः नोऽस्मानधिब्रवीतु अधिकान् वदतु । अदितिः देवमाता शर्म सुखं यच्छतु ददातु ॥ ४९ ॥

पञ्चाशी।
आ ज॑ङ्घन्ति॒ सान्वे॑षां ज॒घनाँ॒२ उप॑ जिघ्नते ।
अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वा॑न्त्स॒मत्सु॑ चोदय ।। ५० ।।
उ०. आजङ्घन्ति । कशास्तुतिः अनुष्टुप् । येषामश्वानाम् आजङ्घन्ति अश्वारोहाः सानु सानूनि मांसोपचितान्यङ्गानि । येषामेषां च जघनान् जघनानि । उपजिघ्नते उपनिघ्नन्ति । अश्वाजनि अश्वाञ्जनयतीत्यश्वाजनी तस्याः संबोधनं हे अश्वाजनि । प्रचेतसः परिदृष्टकारिणः प्रकृष्टज्ञानान्वा अश्वान् । समत्सु संग्रामेषु । चोदय प्रेरय ॥ ५० ॥
म० अनुष्टुप् । कशा स्तूयते । 'अज गतौ क्षेपणे च'। अश्वाः अज्यन्ते क्षिप्यन्ते यया सा अश्वाजनी । हे अश्वाजनि कशे, समत्सु संग्रामेषु त्वमश्वान् चोदय प्रेरय जयाय । कीदृशानश्वान् । प्रचेतसः प्रकृष्टं शूरं चेतो मनो येषां ते । हे कशे, यया त्वयाश्ववारा एषामश्वानां सानु सानूनि सानुतुल्यानि मांसोपचिताङ्गानि आजङ्घन्ति वचनव्यत्ययः आघ्नन्ति ताडयन्ति । जघनान् कटिभागान् उपजिघ्नते निघ्नन्ति । तुरङ्गारोहा ययाश्वान् वशयन्ति सा त्वमश्वान्प्रेरयेत्यर्थः ॥ ५० ॥

एकपञ्चाशी।
अहि॑रिव भोगै॒: पर्ये॑ति बा॒हुं ज्याया॑ हे॒तिं प॑रि॒बाध॑मानः ।
ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान् पुमा॒न् पुमा॑ᳪं᳭सं॒ परि॑ पातु वि॒श्वत॑: ।। ५१ ।।
उ० अहिरिव । हस्तघ्नः स्तूयते त्रिष्टुप् । हस्ते एव स्थितो हन्ति यः स हस्तघ्नः खेटकः प्रकोष्ठादित्राणं वा । यः हस्तघ्नः अहिरिव सर्प इव भोगैः शरीरावयवैः । पर्येति परिवेष्टयति बाहुम् । ज्याया हेतिं परिबाधमानः ज्यायाआयुधात्परित्रायमाणः । स हस्तघ्नः विश्वा विश्वानि सर्वाणि वयुनानि विद्वान् प्रजानन् परिदृष्टकारी वा । पुमान् शूरो क्लीबो वा । पुमांसमक्लीबं परिपातु विश्वतः सर्वतः ॥५१॥
म० हस्तघ्नः स्तूयते । सप्त त्रिष्टुभः । हस्ते स्थितो हन्ति हस्तघ्नः खेटकः । यद्वा हस्तं हन्ति प्राप्नोति हस्तघ्नः प्रकोष्ठत्राणम् । पुमांसं मां विश्वतः सर्वतः परिपातु रक्षतु । किंभूतो हस्तघ्नः । विश्वा विश्वानि सर्वाणि वयुनानि ज्ञानानि विद्वान् जानन् । तथा पुमान् पुंस्त्वयुक्तः । शूर इत्यर्थः । यो हस्तघ्नः भागैः स्वशरीरावयवैः कृत्वा बाहुं पर्येति हस्तं वेष्टयति । क इव । अहिरिव । यथाहिः सर्पो भोगैः स्वदेहैः हस्तादिकं वेष्टयति । कीदृशः । ज्यायाः हेतिं बाणं शत्रुप्रेरितं परिबाधमानः निवर्तयन् । खेटकपक्षे, प्रकोष्ठत्राणपक्षे तु ज्याया हेतिं प्रहारे निवारयन् ज्याघातस्य निवारकत्वात् ॥ ५१ ॥

द्विपञ्चाशी।
वन॑स्पते वी॒ड्व॒ङ्गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीर॑: ।
गोभि॒: सन्न॑द्धो असि वी॒डय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ।। ५२ ।।
उ० वनस्पते वीड्वङ्गः। रथदुन्दुभिदेवत्यावृचौ त्रिष्टुभौ । ऐन्द्रो वान्त्योऽर्धर्चः । हे वनस्पते वानस्पत्य रथ । कृत्स्नवन्निगमः । वीड्वङ्गो हि भूयाः वीडुशब्दो दृढवचनः । दृढाङ्गो भव । अस्मत्सखा सन् । प्रतरण प्रतरन्त्यनेन संग्रामानिति प्रतरणः । सुवीरः साधुवीरः । यतश्च त्वम् गोभिः श्लेष्मचर्मभिः संनद्धोऽसि अतस्त्वां ब्रवीमि । वीडयस्व संस्तम्भय स्वात्मानम् आस्थाता ते संस्थाता च ते तव जयतु जेत्वानि जेतव्यानि ॥ ५२ ॥
म० तिस्र ऋचो रथदेवताः । हे वनस्पते वनस्पतिविकार काष्ठमय रथ, 'कृत्स्नवन्निगमः' ( निरु० २ । ५) । त्वं वीड्वङ्गः दृढाङ्गो भूयाः भव । वीडूनि अङ्गानि यस्य । कीदृशः । अस्मत्सखा अस्माकं मित्रभूतः । प्रतरणः प्रतरति संग्रामपारं गच्छति - ' प्रतरणः । सुवीरः शोभनो वीरो रथी यत्र । किंच हे रथ, यतः त्वं गोभिः गोविकारैश्चर्मभिः सन्नद्धः बद्धोऽसि अतो वीडयस्व आत्मानं स्तम्भय । किंच ते तवास्थाता आरोढा रथी जेत्वानि जेतव्यानि रिपुधनानि जयतु । हि पादपूरणः ॥ ५२ ॥

त्रिपञ्चाशी।
दि॒वः पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्य॒: पर्याभृ॑त॒ᳪं᳭ सह॑: ।
अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्र॑ᳪं᳭ ह॒विषा॒ रथं॑ यज ।। ५३ ।।
उ० दिवः पृथिव्याः दिवः द्युलोकात् यत् ओजः परि सर्वतः उद्भृतं उद्धृतम् । यच्च पृथिव्याः पृथिवीलोकात् परि उद्भृतम् । यच्च वनस्पतिभ्यः वनस्पतिसकाशात् परि सर्वतः आभृतम् आहृतम् सहः बलम् । यच्च अपां संबन्धि ओज्मानम् ओजःपरिमाणम् । तदेतच्चतुष्टयं रथभावमुपनीतम् । परिगोभिरावृतम् परि समन्तात् गोभिः गोविकारः स्नायुश्लेष्मचर्मभिः आवृतमुपनिबद्धम् इन्द्रस्य वज्रम् । 'इन्द्रो ह यत्र वृत्राय वज्रं प्रजहार' इत्युपक्रम्य रथस्तृतीयं चेत्यभिधाय 'रथेन च शरेण च राजन्यबन्धव' इति श्रुतिः । तदभिप्रायमेतत् । हविषा तमीदृशं रथं यज हे अध्वर्यो ॥५३॥
म० हे अध्वर्यो, त्वं हविषा कृत्वा रथं यज । कीदृशं रथम् । दिवः द्युलोकात् पृथिव्याः भूमेः सकाशात् पर्युद्भृतं समन्तादुद्धृतम् ओजः तेजः तथा वनस्पतिभ्यो वृक्षेभ्यः पर्याभृतं समन्तादाहृतमानीतं सहः बलम् । तथा अपां जलानामोज्मानं तेजःसारभूतम् । 'ओज बलतेजसोः' इति धातोः 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३ । २ । ७५ ) इति मनिन् । ओजयति बलिनं करोतीति ओज्मा तम् । द्यावाभूमीवृक्षजलानां तेजश्चतुष्टयेन निर्मितमित्यर्थः । तथा गोभिः किरणैः पर्यावृतं वेष्टितम् तेजोनिर्मितत्वात् । यद्वा गोभिः चर्मभिर्वेष्टितम् । तथा इन्द्रस्य वज्रमिन्द्रवज्राज्जातमित्यर्थः । इन्द्रो यदा वृत्राय वज्रं प्रजहार तदा वृत्रशरीरकाठिन्येन प्रतिहतं चतुर्धा जातम् । यूपः स्फ्यः रथः शरश्चेति चतुःखण्डाः तत्र यूपस्फ्यौ विप्रैर्गृहीतौ रथशरौ नृपैरिति श्रुतिकथानुसंधेया। 'इन्द्रो ह यत्र वृत्राय वज्रं प्रजहारे' त्युपक्रम्य रथस्तृतीयमित्यभिधाय 'रथेन च शरेण चेति राजन्यबन्धवः' (१।२ । ४ । १-२) इति श्रुतेः । ईदृशं यजेत्यर्थः ॥ ५३ ॥

चतुःपञ्चाशी।
इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभि॑: ।
सेमां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ।। ५४ ।।
उ० इन्द्रस्य वज्रः । यस्त्वम् इन्द्रस्य वज्रः असि मरुतां च अनीकं मुखमसि मित्रस्य च गर्भोऽसि वरुणस्य च नाभिरसि । सः त्वम् इमाम् नः अस्माकम् । हव्यदातिं हविषो दानम् जुषाणः सेवमानः । हे देवरथ, प्रतिहव्या गृभाय प्रतिगृभाय प्रतिगृहाण हव्या हवींषि ॥ ५४ ॥
म० हे रथ हे देव, स त्वं हव्या हवींषि प्रतिगृभाय प्रतिगृहाण । कीदृशः त्वम् । इन्द्रस्य वज्रः वज्रोत्पन्नत्वात् । मरुतामनीकं मुखं मुख्यः देवानां जयप्रापकत्वात् । मित्रस्य देवस्य गर्भः गीर्यते स्तूयते गर्भः । गृणातेर्भप्रत्ययः। सूर्येण स्तूयमानः । वरुणस्य नाभिः नभ्यतेऽरिर्हन्यतेऽनेनेति नाभिः 'नभ हिंसायाम्' इण्प्रत्ययः । वरुणस्य हननसाधनम् । नोऽस्माकमिमां हव्यदातिं हविषो दानं जुषाणः सेवमानः । सेमामित्यत्र 'सोऽचि लोपे चेत्पादपूरणम्' (पा० ६। १ । १३४) इति सन्धिः । गृभाय गृह्णातेः 'हलः श्नः शानज्झौ' (पा० ३। १ । ८३ ) इत्यनुवृत्तौ 'छन्दसि शायजपि' (पा० ३ । १ । ८४ ) इति हौ परे श्नाप्रत्ययस्य शायजादेशः हस्य भश्च ॥ ५४ ॥

पञ्चपञ्चाशी।
उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त् ।
स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद्दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् ।। ५५ ।।
उ० उपश्वासय उपशब्दस्य पृथिवीम् । उत द्याम् अपिच उपशब्दय द्याम् । पुरुत्रा ते बहुधा च ते तव एकस्य सतः घोषं मनुतां मन्यताम् । विष्ठितं विविधं स्थितं स्थावरम् । जगत् जङ्गमं च । यस्त्वमेवास्माभिः प्रार्थितः स त्वम् हे दुन्दुभे, सजूः समानप्रीतिः सन् इन्द्रेण सह देवैश्च । दूराद्दूरतरम् अपसेध अपगमय शत्रून् ॥ ५५ ॥ ।
म० तिस्र ऋचो दुन्दुभिदेवत्याः । हे दुन्दुभे, स त्वं पृथिवीमुत द्यामन्तरिक्षमपि उपश्वासय उपशब्दय । श्वसिः शब्दार्थः। विष्ठितं विविधं स्थितं जगत् स्थावरजङ्गमात्मकं विश्वम् । पुरुत्रा बहुधा ते त्वां मनुतां जानातु दुन्दुभिर्नदतीति । स त्वं दूराद्दवीयः अतिदूरं शत्रूनपसेध अपगमय । अत्यन्तं दूरं दवीयः 'स्थूलदूर-' (पा० ६ । ४ । १५६ ) इति रेफलोपपूर्वगुणौ। कीदृशः त्वम् । इन्द्रेण देवैश्च सजूः प्रीतियुक्तः ॥ ५५ ॥

षट्पञ्चाशी।
आ क्र॑न्दय॒ बल॒मोजो॑ न॒ आधा॒ निष्ट॑निहि दुरि॒ता बाध॑मानः ।
अप॑ प्रोथ दुन्दुभे दु॒च्छुना॑ इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒डय॑स्व ।। ५६ ।।
उ० आक्रन्दय । हे दुन्दुभे, आक्रन्दय दीनान् शब्दान्कारय अहो पलायध्वं पिता मे हतो भ्राता मे हत इति बलं शत्रुसेनाम् ओजो न आधाः ओजस्तेजः न अस्माकम् आधाः आधेहि । किंच निष्टनिहि निश्चितं शब्दं जयाय कुरु । दुरिताबाधमानः दुरितानि अपगमयन् । किंच । अपप्रोथ । प्रोथतिर्नाशनार्थः । अपकृत्यापकृत्य प्रोथ नाशय । दुच्छुनाः दुष्टशुन इव याः सेनाः । सुखवचनो वा शुनाशब्दः । दुःसुखाः विसर्जनीयस्य दत्वम् । इतः सेनायाः। यतश्च त्वम् इन्द्रस्य मुष्टिरसि अतो ब्रवीमि । वीडयस्व दृढीकुरु आत्मानम् ॥ ५६ ॥
म० हे दुन्दुभे, त्वं बलं शत्रुसैन्यमाक्रन्दय रोदय । पलायध्वं मदीयाः सर्वे हता इत्यादिदीनरवं कारयेत्यर्थः । नोऽस्माकमोजः तेजः आधाः आधेहि देहि । दुरिता दुरितानि पापानि बाधमानो निराकुर्वन् सन् । निष्टनिहि शब्दं कुरु । 'स्तन शब्दे' चुरादिरदन्तः। किंच इतोऽस्मत्सेनायाः सकाशात् दुच्छनाः दुष्टाश्च ते श्वानश्च दुच्छ्वानः तान्दुष्टान् शुनः श्वसदृशान् शत्रूनपप्रोथ नाशय । प्रोतथिर्नाशनार्थः । यतः त्वमिन्द्रस्य मुष्टिः असि मुष्टिवदङ्गभूतोऽसि । अतो वीडयस्व आत्मानमस्मान्दृढय ॥ ५६ ॥

सप्तपञ्चाशी।
आमूर॑ज प्र॒त्याव॑र्तये॒माः के॑तु॒मद्दु॑न्दु॒भिर्वा॑वदीति ।
समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ।। ५७ ।।
उ० आमूः । ऐन्द्री । आअज आक्षिप । 'अज गतिक्षेपणयोः' । अमूः शत्रुसेनाः । प्रत्यावर्तय इमाः प्रत्यावर्तय जितंजितमिति इमाः अस्मदीयसेनाः । किंच केतुमत् प्रज्ञातवान् दुन्दुभिः वावदीति । लोडर्थे लट् अत्यर्थं वदतु। जयप्रकाशकम् । किंच समश्वपर्णाश्चरन्ति नो नरः । अत्रापि लोडर्थे लट् । संचरन्तु अश्वपर्णाः अश्वपतनाः । नो नरः अस्मदीया मनुष्याः संग्रामे । हे इन्द्र, नः अस्माकं रथिनः जयन्तु त्वत्प्रसादादिति शेषः ॥ ७ ॥
म० हे इन्द्र, अमूः शत्रुसेनाः त्वमा अज समन्तात्परिक्षिप 'अज गतिक्षेपणयोः' । यतो दुन्दुभिः केतुमत् प्रज्ञावत् यथा वावदीति अत्यन्तं वदति अतः इमाः अस्मत्सेनाः प्रत्यावर्तय जयं प्रापय्य प्रत्यानय । किंच नोऽस्माकं नरः योधाः संचरन्ति । कीदृशा नरः । अश्वपर्णाः अश्वस्येव पर्णं पतनं येषां ते । किंच अस्माकं रथिनः रथस्थाः जयन्तु युद्धे जयं प्राप्नुवन्तु ॥ ५७ ॥

अष्टपञ्चाशी।
आ॒ग्ने॒यः कृ॒ष्णग्री॑वः सारस्व॒ती मे॒षी ब॒भ्रुः सौ॒म्यः पौ॒ष्णः श्या॒मः शि॑तिपृ॒ष्ठो बा॑र्हस्प॒त्यः शि॒ल्पो वै॑श्वदे॒व ऐ॒न्द्रो॒ऽरु॒णो मा॑रु॒तः क॒ल्माष॑ ऐन्द्रा॒ग्नः स॑ᳪं᳭हि॒तोऽधोरा॑मः सावि॒त्रो वा॑रु॒णः कृ॒ष्ण एक॑शितिपा॒त्पेत्व॑: ।। ५८ ।।
उ० आग्नेयः कृष्णग्रीव इति श्रुतिः आ अध्यायपरिसमाप्तेः । द्वयोरेकादशिन्योः पशुदेवतासंबन्धविधात्री परतो द्वादश हविषो वेष्टेर्देवताः ॥ ५८ ॥
म० अश्वमेधे श्रुतिरस्ति 'द्वे त्वेवैते एकादशिन्यावालभेतेति' ( पा० १३ । ५। १ । ३ ) तयोरेकादशिन्योः पशवस्तद्देवताश्च कण्डिकाद्वयेनोच्यन्ते। तेनेमानि ब्राह्मणवाक्यानि द्रव्यदेवताप्रतिपादकानि नतु मन्त्राः । कृष्णा ग्रीवा यस्य स कृष्णग्रीवः पशुराग्नेयः अग्निदेवत्यः १, मेषी सारस्वती सरस्वतीदेवताका २, बभ्रुः पिङ्गलवर्णः पशुः सौम्यः सोमदेवत्यः ३, श्यामः कृष्णवर्णः पौष्णः पूषदेवत्यः ४, शिति श्यामं पृष्ठं यस्य स शितिपृष्ठः बार्हस्पत्यः बृहस्पतिदेवत्यः ५, शिल्पो विचित्रवर्णो वैश्वदेवः विश्वदेवदेवत्यः ६, अरुणः रक्तः ऐन्द्रः इन्द्रदेवत्यः ७, कल्माषः कर्बुरो मारुतः मरुद्देवत्यः ८, संहितः दृढाङ्गः ऐन्द्राग्नः इन्द्राग्निदेवत्यः ९, अधोरामः अधोदेशे श्वेतः सावित्रः सवितृदेवत्यः १०, एकः शिति श्वेतः पादो यस्य स एकशितिपात् एकपदे श्वेतोऽन्यत्र कृष्णः पेत्वः पतनशीलो वेगवान् पशुः वारुणः वरुणदेवत्यः ११, एवमेकादश जाताः ॥ ५८ ॥

एकोनषष्टी।
अ॒ग्नयेऽनी॑कवते॒ रोहि॑ताञ्जिरन॒ड्वान॒धोरा॑मौ सावि॒त्रौ पौ॒ष्णौ र॑ज॒तना॑भी वैश्वदे॒वौ पि॒शङ्गौ॑ तूप॒रौ मा॑रु॒तः क॒ल्माष॑ आग्ने॒यः कृ॒ष्णोऽजः सा॑रस्व॒ती मे॒षी वा॑रु॒णः पेत्व॑: ।। ५९ ।।
उ० अग्नये इति स्पष्टार्थः ॥ ५९ ॥
म० द्वितीयैकादशिनीपशुदेवानाह । रोहितो रक्तोऽञ्जिस्तिलको यस्य सोऽनड्वान् वृषभोऽनीकवतेऽग्नये आलभ्यः । अनीकं मुखं सैन्यं वा यस्य सोऽनीकवान् तस्मै १, अधोरामौ अधोभागे श्वेतौ द्वौ पशू सावित्रौ सवितृदेवत्यौ २, ३, रजतवर्णा नाभिर्ययोस्तौ रजतनाभी द्वौ पोष्णौ पूषदेवत्यौ ४, ५, पिशङ्गौ पीतौ तूपरौ निःशृङ्गौ वैश्वदेवौ विश्वदेवदेवत्यौ ६, ७, कल्माषः कर्बुरो मारुतः ८, कृष्णः । श्यामोऽजो मेषः आग्नेयः अग्निदेवत्यः ९, मेषी सारस्वती १०, पेत्वः वेगवान् वरुणदेवत्यः ११, एवमेकादश ॥ ५९ ॥

षष्टी।
अ॒ग्नये॑ गाय॒त्राय॑ त्रि॒वृते॒ राथ॑न्तराया॒ष्टाक॑पाल॒ इन्द्रा॑य त्रैष्टु॑भाय पञ्चद॒शाय॒ बार्ह॑ता॒यैका॑दशकपालो॒ विश्वे॑भ्यो दे॒वेभ्यो॒ जाग॑तेभ्यः सप्तद॒शेभ्यो॑ वैरू॒पेभ्यो॒ द्वाद॑शकपालो मि॒त्रावरु॑णाभ्या॒मानु॑ष्टुभाभ्यामेकवि॒ᳪं᳭शाभ्यां॑ वैरा॒जाभ्यां॑ पय॒स्या बृह॒स्पत॑ये॒ पाङ्क्ता॑य त्रिण॒वाय॑ शाक्व॒राय॑ च॒रुः स॑वि॒त्र औष्णि॑हाय त्रयस्त्रि॒ᳪं᳭शाय॑ रैव॒ताय॒ द्वाद॑शकपालः प्राजाप॒त्यश्च॒रुरदि॑त्यै॒ विष्णु॑पत्न्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपा॒लोऽनु॑मत्या अ॒ष्टाक॑पालः ।। ६० ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायामूनत्रिंशोऽध्यायः ॥ २९ ॥
उ० अग्नयेऽष्टाकपालः पुरोडाशः कार्यः । कीदृशायाग्नये । गायत्राय त्रिवृता स्तुताय राथन्तराय साम्ना स्तुताय इन्द्राय त्रैष्टुभाय त्रिष्टुभा स्तुताय पञ्चदशाय पञ्चदशस्तोमस्तुताय । बार्हताय बृहत्सामस्तुताय । विश्वेभ्यो देवेभ्यः द्वादशकपालः पुरोडाशः । कीदृशेभ्यः । जागतेभ्यः जगत्या छन्दसा स्तुतेभ्यः । सप्तदशेभ्यः सप्तदशस्तोमस्तुतेभ्यः । वैरूपेभ्यः वैरूपसामस्तुतेभ्यः । मित्रावरुणाभ्यां पयस्या पयसि श्रितः चरुः । कीदृशाभ्यामानुष्टुभाभ्याम् । अनुष्टुभा स्तुताभ्याम् । एकविंशाभ्यामेकविंशस्तोमस्तुताभ्याम् । वैराजाभ्यां वैराजसामस्तुताभ्याम् बृहस्पतये चरुः । कीदृशाय । पाङ्क्ताय पङ्क्तिच्छन्दसा स्तुताय त्रिणवाय त्रिणवस्तोमस्तुताय शाक्वराय शाक्वरसामस्तुताय । सवित्रे द्वादशकपालः पुरोडाशः । कीदृशाय सवित्रे । औष्णिहाय उष्णिक् छन्दसा स्तुताय । त्रयस्त्रिंशाय त्रयस्त्रिंशस्तोमस्तुताय । रैवताय रैवतसामस्तुताय । एवं छन्दःस्तोमसामसहितान् षट् देवानभिधाय चतुरः केवलानाह । प्राजापत्यश्चरुः प्रजापतिदेवत्यश्चरुः कार्यः । विष्णुपत्न्यै अदित्यै चरुरेव । वैश्वानराय वैश्वानरगुणविशिष्टायाग्नये द्वादशकपालः पुरोडाशः । अनुमत्यै देवतायै अष्टाकपालः पुरोडाशः कार्यः ॥ ६० ॥ इति उवटकृतौ मन्त्रभाष्ये एकोनत्रिंशोऽध्यायः ॥ २९ ॥
म०. 'अथाग्नीषोमीयस्य पशुपुरोडाशमनुदिशामोऽवेष्टीर्निर्वपती'त्युपक्रम्य 'तदाहुर्दशहविषमन्त्यामिष्टिं निर्वपेत्' इति श्रुत्या दशहविष्कावेष्टिसंज्ञेष्टिः कथिता तस्या देवता हवींषि चाह । इमान्यपि ब्राह्मणवाक्यानि न मन्त्राः । अग्नयेऽष्टाकपालः पुरोडाशः कार्यः । अष्टसु कपालेषु संस्कृतोऽष्टाकपालः 'तद्धितार्थोत्तरपदसमाहारे च' (पा० २। १ । ५१) इति समासः । 'अष्टनः कपाले हविषि' ( पा० ६।३। ४६ ) इत्यष्टन्शब्दस्य दीर्घः । कीदृशायाग्नये । गायत्राय गायत्र्या स्तुताय । त्रिवृते त्रिवृत्स्तोमेन स्तुताय । राथन्तराय रथन्तरसाम्ना स्तुताय १, इन्द्राय एकादशकपालः पुरोडाशः । समासः पूर्ववत् । कीदृशाय इन्द्राय । त्रैष्टुभाय त्रिष्टुभा स्तुताय पञ्चदशाय पञ्चदशस्तोमस्तुताय बार्हताय बृहत्सामस्तुताय २, विश्वेभ्यो देवेभ्यः द्वादशकपालः पुरोडाशः । कीदृशेभ्यः । जागतेभ्यः जगत्या छन्दसा स्तुतेभ्यः सप्तदशेभ्यः सप्तदशस्तोमस्तुतेभ्यः वैरूपसामस्तुतेभ्यः ३, मित्रावरुणाभ्यां पयस्या पयसि श्रितः चरुः । कीदृशाभ्यामानुष्टुब्भ्याम् । अनुष्टुभा स्तुताभ्याम् एकविंशाभ्यामेकविंशस्तोमस्तुताभ्याम् । वैराजाभ्यां वैराजसामस्तुताभ्याम् ४, बृहस्पतये चरुः । कीदृशाय पाङ्क्ताय पङ्क्तिच्छन्दसा स्तुताय त्रिणवाय त्रिणवस्तोमस्तुताय शाक्वराय शाक्वरसामस्तुताय ५, सवित्रे द्वादशकपालः पुरोडाशः । कीदृशाय सवित्रे । औष्णिहाय उष्णिक्छन्दसा स्तुताय त्रयस्त्रिंशाय त्रयस्त्रिंशस्तोमस्तुताय रैवताय रैवतसामस्तुताय ६, एवं छन्दःस्तोमसामसहितान् षट् देवानभिधाय चतुरः केवलानाह । प्राजापत्यश्चरुः प्रजापतिदेवत्यश्चरुः कार्यः ७, विष्णुपत्न्यै अदित्यै चरुरेव ८, वैश्वानराय वैश्वानरगुणविशिष्टायाग्नये द्वादशकपालः पुरोडाशः ९, अनुमत्यै देवतायै अष्टाकपालः पुरोडाशः कार्यः १०, दशहविषाऽवेष्टेर्देवताहवींष्यपि अश्वमेधोपयोगित्वादुक्तानि समिद्धो अञ्जन्नाश्वमेधिकोऽध्याय इति कात्यायनोक्तेः अनुक्रमण्याम् ॥ ६० ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
शिष्टाश्वमेधमन्त्रोक्तिर्गतोऽध्यायोऽङ्कदृग्मितः ॥ २९ ॥

  1. केतु उपरि टिप्पणी, आरुणकेतुक उपरि टिप्पणी