शुक्लयजुर्वेदः/अध्यायः २८

विकिस्रोतः तः
← अध्यायः २७ शुक्लयजुर्वेदः
अध्यायः २८
[[लेखकः :|]]
अध्यायः २९ →
प्रयाज प्रैषाः

अध्यायः 28
सौत्रामण्यङ्गभूताः पशुप्रयाजानुयाज प्रैषमन्त्राः

28.1
होता यक्षद् समिधेन्द्रम् इडस् पदे नाभा पृथिव्या ऽ अधि ।
दिवो वर्ष्मन्त् सम् इध्यत ऽ ओजिष्ठश् चर्षणीसहां वेत्व् आज्यस्य होतर् यज ॥

28.2
होता यक्षत् तनूनपातमूतिभिर् जेतारम् अपराजितम् ।
इन्द्रं देवꣳ स्वर्विदं पथिभिर् मधुमत्तमैर् नराशꣳसेन तेजसा वेत्व् आज्यस्य होतर् यज ॥

28.3
होता यक्षद् इडाभिर् इन्द्रम् ईडितम् आजुह्वानम् अमर्त्यम् ।
देवो देवैः सवीर्यो वज्रहस्तः पुरंदरो वेत्व् आज्यस्य होतर् यज ॥

28.4
होता यक्षद् बर्हिषीन्द्रं निषद्वरं वृषभं नर्यापसम् ।
वसुभी रुद्रैर् आदित्यैः सुयुग्भिर् बर्हिर् आसदद् वेत्व् आज्यस्य होतर् यज ॥

28.5
होता यक्षद् ओजो न वीर्यꣳ सहो द्वार ऽ इन्द्रम् अवर्धयन् ।
सुप्रायणा ऽ अस्मिन् यज्ञे वि श्रयन्ताम् ऋतावृधो द्वार ऽ इन्द्राय मीढुषे व्यन्त्व् आज्यस्य होतर् यज ॥

28.6
होता यक्षद् उषे ऽ इन्द्रस्य धेनू सुदुघे मातरा मही ।
सवातरौ न तेजसा वत्सम् इन्द्रम् अवर्धतां वीताम् आज्यस्य होतर् यज ॥

28.7
होता यक्षद् दैव्या होतारा भिषजा सखाया हविषेन्द्रं भिषज्यतः ।
कवी देवौ प्रचेतसाव् इन्द्राय धत्त ऽ इन्द्रियं वीताम् आज्यस्य होतर् यज ॥

28.8
होता यक्षत् तिस्रो देवीर् न भेषजं त्रयस् त्रिधातवो ऽपस इडा सरस्वत् भारती महीः ।
इन्द्रपत्नीर् हविष्मतीर् व्यन्त्व् आज्यस्य होतर् यज ॥

28.9
होता यक्षत् त्वष्टारम् इन्द्रं देवं भिषजꣳ सुयजं घृतश्रियम् ।
पुरुरूपꣳ सुरेतसं मघोनम् इन्द्राय त्वष्टा दधद् इन्द्रियाणि वेत्व् आज्यस्य होतर् यज ॥

28.10
होता यक्षद् वनस्पतिꣳ शमितारꣳ शतक्रतुं धियो जोष्टारम् इन्द्रियम् ।
मध्वा समञ्जन् पथिभिः सुगेभिः स्वदाति यज्ञं मधुना घृतेन वेत्व् आज्यस्य होतर् यज ॥

28.11
होता यक्षद् इन्द्रꣳ स्वाहाज्यस्य स्वाहा मेदसः स्वाहा स्तोकानाꣳ स्वाहा स्वाहाकृतीनाꣳ स्वाहा हव्यसूक्तीनाम् ।
स्वाहा देवा ऽ आज्यपा जुषाणा ऽ इन्द्र आज्यस्य व्यन्तु होतर् यज ॥

28.12
देवं बर्हिर् इन्द्रꣳ सुदेवं देवैर् वीरवत् स्तीर्णं वेद्याम् अवर्धयत् ।
वस्तोर् वृतं प्राक्तोर् भृतꣳ राया बर्हिष्मतो ऽत्य् अगाद् वसुवने वसुधेयस्य वेतु यज ॥

28.13
देवीर् द्वार ऽ इन्द्रꣳ संघाते वीड्वीर् यामन्न् अवर्धयन् ।
आ वत्सेन तरुणेन कुमारेण च मीवतापार्वाणꣳ रेणुककाटं नुदन्तां वसुवने वसुधेयस्य व्यन्तु यज ॥

28.14
देवी उषासानक्तेन्द्रं यज्ञे प्रयत्य् अह्वेताम् ।
दैवीर् विशः प्रायासिष्टाꣳ सुप्रीते सुधिते वसुवने वसुधेयस्य वीतां यज ॥

28.15
देवी जोष्ट्री वसुधिती देवम् इन्द्रम् अवर्धताम् ।
अयाव्य् अन्याघा द्वेषाꣳस्य् आन्या वक्षद् वसु वार्याणि यजमानाय शिक्षिते वसुवने वसुधेयस्य वीतां यज ॥

28.16
देवी ऽ ऊर्जाहुती दुघे पयसेन्द्रम् अवर्धताम् ।
इषमूर्जम् अन्या वक्षत् सग्धिꣳ सपीतिम् अन्या नवेन पूर्वं दयमाने पुराणेन नवम् अधातामूर्जमूर्जाहुती ऽ ऊर्जयमाने वसु वार्याणि यजमानाय शिक्षिते वसुवने वसुधेयस्य वीतां यज ॥

28.17
देवा देव्या होतारा देवम् इन्द्रम् अवर्धताम् ।
हताघशꣳसाव् आभार्ष्टां वसु वार्याणि यजमानाय शिक्षितौ वसुवने वसुधेयस्य वीतां यज ॥

28.18
देवीस् तिस्रस् तिस्रो देवीः पतिम् इन्द्रम् अवर्धयन् ।
अस्पृक्षद् भारती दिवꣳ रुद्रैर् यज्ञꣳ सरस्वतीडा वसुमती गृहान् वसुवने वसुधेयस्य व्यन्तु यज ॥

28.19
देव ऽ इन्द्रो नराशꣳसस् त्रिवरूथस् त्रिबन्धुरो देवम् इन्द्रम् अवर्धयत् ।
शतेन शितिपृष्ठानाम् आहितः सहस्रेण प्र वर्तते मित्रावरुणेद् अस्य होत्रम् अर्हतो बृहस्पति स्तोत्रम् अश्विनाध्वर्यवं वसुवने वसुधेयस्य वेतु यज ॥

28.20
देवो देवैर् वनस्पतिर् हिरण्यपर्णो मधुशाखः सुपिप्पलो देवम् इन्द्रम् अवर्धयत् ।
दिवम् अग्रेणास्पृक्षद् आन्तरिक्षं पृथिवीम् अदृꣳहद् वसुवने वसुधेयस्य वेतु यज ॥

28.21
देवं बर्हिर् वारितीनां देवम् इन्द्रम् अवर्धयत् ।
स्वासस्थम् इन्द्रेणासन्नम् अन्या बर्हीꣳष्य् अभ्य् अभूद् वसुवने वसुधेयस्य वेतु यज ॥

28.22
देवो ऽ अग्निः स्विष्टकृद् देवम् इन्द्रम् अवर्धयत् ।
स्विष्टं कुर्वन्त् स्विष्टकृत् स्विष्टम् अद्य करोतु नो वसुवने वसुधेयस्य वेतु यज ॥

28.23
अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशं बध्नन्न् इन्द्राय छागम् ।
सूपस्था ऽ अद्य देवो वनस्पतिर् अभवद् इन्द्राय छागेन ।
अघत् तं मेदस्तः प्रति पचताग्रभीद् अवीवृधत् पुरोडाशेन ।
त्वाम् अद्य ऽ ऋष [आर्षेय ऋषीणां नपाद् अवृणीतायं यजमानो बहुभ्य आ संगतेभ्य एष मे देवेषु वसु वार्यायक्ष्यत इति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा आ च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि ॥]???

28.24
होता यक्षत् समिधानं महद् यशः सुसमिद्धं वरेण्यम् अग्निम् इन्द्रं वयोधसम् ।
गायत्रीं छन्द ऽ इन्द्रियं त्र्यविं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥

28.25
होता यक्षत् तनूनपातम् उद्भिदं यं गर्भम् अदितिर् दधे शुचिम् इन्द्रं वयोधसम् ।
उष्णिहं छन्द ऽ इन्द्रियं दित्यवाहं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥

28.26
होता यक्षद् ईडेन्यम् ईडितं वृत्रहन्तमम् इडाभिर् ईड्यꣳ सहः सोमम् इन्द्रꣳ वयोधसम् ।
अनुष्टुभं छन्द ऽ इन्द्रियं पञ्चाविं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥

28.27
होता यक्षत् सुबर्हिषं पूषण्वन्तम् अमर्त्यꣳ सीदन्तं बर्हिषि प्रिये ऽमृतेन्द्रं वयोधसम् ।
बृहतीं छन्द ऽ इन्द्रियं त्रिवत्सं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥

28.28
होता यक्षद् व्यचस्वतीः सुप्रायणा ऽ ऋतावृधो द्वारो देवीर् हिरण्ययीर् ब्रह्माणम् इन्द्रं वयोधसम् ।
पङ्क्तिं छन्द ऽ इहेन्द्रियं तुर्यवाहं गां वयो दधद् व्यन्त्व् आज्यस्य होतर् यज ॥

28.29
होता यक्षत् सुपेशसा सुशिल्पे बृहती ऽ उभे नक्तोषासा न दर्शते विश्वम् इन्द्रं वयोधसम् ।
त्रिष्टुभं छन्द ऽ इहेन्द्रियं पष्ठवाहं गां वयो दधद् वीताम् आज्यस्य होतर् यज ॥

28.30
होता यक्षत् प्रचेतसा देवानाम् उत्तमं यशो होतारा दैव्या कवी सयुजेन्द्रं वयोधसम् ।
जगतीं छन्द ऽ इन्द्रियम् अनड्वाहं गां वयो दधद् वीताम् आज्यस्य होतर् यज ॥

28.31
होता यक्षत् पेशस्वतीस् तिस्रो देवीर् हिरण्ययीर् भारतीर् बृहतीर् महीः पतिम् इन्द्रं वयोधसम् ।
विराजं छन्द ऽ इहेन्द्रियं धेनुं गां न वयो दधद् व्यन्त्व् आज्यस्य होतर् यज ॥

28.32
होता यक्षत् सुरेतसं त्वष्टारं पुष्टिवर्धनꣳ रूपाणि बिभ्रतं पृथक् पुष्टिम् इन्द्रं वयोधसम् ।
द्विपदं छन्द ऽ इन्द्रियम् उक्षाणं गां न वयो दधद् वेत्व् आज्यस्य होतर् यज ॥

28.33
होता यक्षद् वनस्पतिꣳ शमितारꣳ शतक्रतुꣳ हिरण्यपर्णम् उक्थिनꣳ रशनां बिभ्रतं वशिं भगम् इन्द्रं वयोधसम् ।
ककुभं छन्द ऽ इहेन्द्रियं वशां वेहतं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥

28.34
होता यक्षत् स्वाहाकृतीर् अग्निं गृहपतिं पृथग् वरुणं भेषजं कविं क्षत्रम् इन्द्रं वयोधसम् ।
अतिच्छन्दसं छन्द ऽ इन्द्रियं बृहद् ऋषभं गां वयो दधद् व्यन्त्व् आज्यस्य होतर् यज ॥

28.35
देवं बर्हिर् वयोधसं देवम् इन्द्रम् अवर्धयत् ।
गायत्र्या छन्दसेन्द्रियं चक्षुर् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥

28.36
देवीर् द्वारो वयोधसꣳ शुचिम् इन्द्रम् अवर्धयन् ।
उष्णिहा छन्दसेन्द्रियं प्राणम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य व्यन्तु यज ॥

28.37
देवी ऽ उषासानक्ता देवम् इन्द्रं वयोधसं देवी देवम् अवर्धताम् ।
अनुष्टुभा छन्दसेन्द्रियं बलम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥

28.38
देवी जोष्ट्री वसुधिती देवम् इन्द्रं वयोधसं देवी देवम् अवर्धताम् ।
बृहत्या छन्दसेन्द्रियꣳ श्रोत्रम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥

28.39
देवी ऽ ऊर्जाहुती दुघे सुदुघे पयसेन्द्रं वयोधसं देवी देवम् अवर्धताम् ।
पङ्क्त्या छन्दसेन्द्रियꣳ शुक्रम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥

28.40
देवा दैव्या होतारा देवम् इन्द्रं वयोधसं देवौ देवम् अवर्धताम् ।
त्रिष्टुभा छन्दसेन्द्रियं त्विषिम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥

28.41
देवीस् तिस्रस् तिस्रो देवीर् वयोधसं पतिम् इन्द्रम् अवर्धयन् ।
जगत्या छन्दसेन्द्रियꣳ शूषम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य व्यन्तु यज ॥

28.42
देवो नराशꣳसो देवम् इन्द्रं वयोधसं देवो देवम् अवर्धयत् ।
विराजा छन्दसेन्द्रियꣳ रुपम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥

28.43
देवो वनस्पतिर् देवम् इन्द्रं वयोधसं देवो देवम् अवर्धयत् ।
द्विपदा छन्दसेन्द्रियं भगम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥

28.44
देवं बर्हिर् वारितीनां देवम् इन्द्रं वयोधसं देवं देवम् अवर्धयत् ।
ककुभा छन्दसेन्द्रियं यश ऽ इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥

28.45
देवो ऽ अग्निः स्विष्टकृद् देवम् इन्द्रं वयोधसं देवो देवम् अवर्धयत् ।
अतिच्छन्दसा छन्दसेन्द्रियं क्षत्रम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥

28.46
अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशं बध्नन्न् इन्द्राय वयोधसे छागम् ।
सूपस्था ऽ अद्य देवो वनस्पतिर् अभवद् इन्द्राय वयोधसे छागेन ।
अघत् तं मेदस्तः प्रति पचताग्रभीद् अवीवृधत् पुरोडाशेन ।
त्वाम् अद्य ऽ ऋष [आर्षेय ऋषीणां नपाद् अवृणीतायं यजमानो बहुभ्य आ संगतेभ्य एष मे देवेषु वसु वार्यायक्ष्यत इति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा आ च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि ॥ ]

भाष्यम्(उवट-महीधर)

अष्टाविंशोध्यायः

तत्र प्रथमा।
होता॑ यक्षत्स॒मिधेन्द्र॑मि॒डस्प॒दे नाभा॑ पृथि॒व्या अधि॑ ।
दि॒वो वर्ष्म॒न्त्समि॑ध्यत॒ ओजि॑ष्ठश्चर्षणी॒सहां॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। १ ।।
उ० होता यक्षत्समिधेन्द्रम् । सौत्रामण्यामैन्द्रस्य पशोः प्रयाजप्रैषाः एकादश ऐन्द्रानेके प्रथमस्येत्यैन्द्राः । आप्रीदेवतास्तु इन्द्रस्यैव विभूतय इति । होता यक्षत् दैव्यो होता यजतु । समिधा इध्मकाष्ठेन हविर्भूतेन । समिधा वा सहितम् इन्द्रम् । य इन्द्रः त्रिषु स्थानेषु समिध्यते । प्रथमं तावत् इडस्पदे पृथिव्या यजनाय प्रदेशे समिध्यते अत्र्यात्मना । द्वितीयं विद्युदात्मना समिध्यते । नाभौ पृथिव्या अधि । पृथिवीशब्देनान्तरिक्षमुच्यते । नाभिभूते अन्तरिक्षप्रदेशे अध उपरि ततः तृतीयमादित्यात्मना दिवः द्युलोकस्य वर्ष्मन् वर्षिष्ठे प्रदेशे समिध्यते एवं त्रिस्थान इन्द्रः स्तूयते । यश्च ओजिष्ठः अतिशयेन बली । केषां मध्ये । चर्षणीसहाम् चर्षणयो मनुष्याः तान् ये सहन्ते अभिभवन्ति ते चर्षणीसहः देवाः तेषां चर्षणीसहां देवानां मध्ये । स चेज्यमानो वेतु पिबतु स्वमंशमाज्यस्या । त्वमपि हे मनुष्यहोतः, यज ॥ १ ॥
म० इन्द्रमिडः सौत्रामणिकोऽध्याय इति कात्यायनोक्तेः। अयमध्यायः सौत्रामणिसंबन्धी सोत्रामण्यङ्गभूतयोरैन्द्रवायोधसयोराद्यन्तपश्वोः प्रयाजानुयाजप्रैषरूपः । ततश्च प्रजापत्यश्विसरस्वत्योऽध्यायस्य ऋषयः । आद्येऽनुवाके एकादशैन्द्रपशोः संबन्धिन अप्रीदेवताः समित्तनूनपादित्यादिदेवताकाः प्रयाजानां प्रैषाः होता यक्षत्समिधेन्द्रमित्यादयो होता यक्षदिन्द्रमित्यन्ताः [ ११ क.] । अथ मन्त्रार्थः । आर्षी त्रिष्टुप् । दैव्यो होता । समिधा समित्काष्ठेन हविर्भूतेन समिधाप्रीदेवतया सहितं वा इन्द्रं यक्षत् यजतु । य इन्द्रः त्रिषु स्थानेषु समिध्यते दीप्यते । प्रथमम् इडः पृथिव्याः पदे यजनीये प्रदेशे अग्न्यात्मना समिध्यते । द्वितीयम् पृथिव्याः नाभौ पृथिवीशब्देनान्तरिक्षम् अन्तरिक्षस्य मध्ये विद्युदात्मना समिध्यते अधि उपरि । तृतीयम् दिवो वर्ष्मन् स्वर्गस्य वर्ष्मणि वर्षिष्ठे प्रदेशे आदित्यात्मना समिध्यते । कीदृशः । चर्षणीसहामोजिष्ठः चर्षण्यो मनुष्यास्तान्सहन्तेऽभिभवन्ति चर्षणीसहो मनुष्याभिभावुकास्तेषां मध्ये ओजस्वितमः अत्यन्तमोजस्वी ओजिष्ठः इष्ठनि परे ‘विन्मतोर्लुक्' ( पा० ५।३ । ६५) इति विनो लुकि टिलोपे ओजिष्ठ इति रूपम् । संहितायां चर्षणिशब्दस्य दीर्घः । एवंविध इन्द्रः आज्यस्य वेतु घृतं पिबतु । हे मनुष्यहोतः, त्वमपि यज ॥१॥

द्वितीया।
होता॑ यक्ष॒त्तनू॒नपा॑तमू॒तिभि॒र्जेता॑र॒मप॑राजितम् ।
इन्द्रं॑ दे॒वᳪं᳭ स्व॒र्विदं॑ प॒थिभि॒र्मधु॑मत्तमै॒र्नरा॒शᳪं᳭से॑न॒ तेज॑सा॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। २ ।।
उ० होता यक्षत्तनूनपातम् आप्रीदेवताभिप्रायमिन्द्राभिप्रायं वा । स हि मरीचेः पौत्रः । दैव्यो होता यजतु तनूनपातमिन्द्रम् ऊतिभिरवनैः सहितम् जेतारम् अयज्वनाम् अपराजितम् इन्द्रं । देवं दानादिगुणयुक्तम् । स्वर्विदम् स्वर्गं वेत्ति जानाति स्वर्गे वा विद्यते इति स्वर्वित् तं स्वर्विदम् । केन यजतु । पथिभिर्मधुमत्तमैः । पथिशब्देनात्र हवींष्युच्यन्ते । तैर्हि स्वर्गं लोकं प्रति पतन्ति यजमानाः । हविर्भिः मधुमत्तमैरतिशयेन रससंयुक्तैः । कथंभूतमिन्द्रम् । नराशंसेन यज्ञेन सहितम् । तत्र तनूनपान्नराशंसावेकस्मिन्प्रयाजे पठितावत उभयवानयं प्रयाजः । तेजसा च सहितमिन्द्रं यजतु । स चेज्यमानो वेतु पिबतु आज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥२॥
म० अतिजगती । नराशंसेन देवेन युतं तनूनपातमिन्द्रं च देवं होता यजतु । कैः । पथिभिः । पतन्ति गच्छन्ति स्वर्गं यजमाना यैस्ते पन्थानो हवींषि तैः । कीदृशैः । ऊतिभिः अवन्ति तर्पयन्ति ते ऊतयस्तेः 'ऊतियूति-' (पा०३।३ ९७ ) इत्यादिना कर्तरि निपातः । तथा मधुमत्तमैः मधुर्मधुरस्वादोऽस्ति येषु ते मधुमन्तः अत्यन्तं मधुमन्तो मधुमत्तमाः तैः । कीदृशमिन्द्रम् । जेतारं शत्रूणाम् । अपराजितं केनापि न पराभूतम् । स्वर्विदं स्वः स्वर्गं वेत्ति स्वीयं जानाति स्वर्वित् । यद्वा स्वः स्वर्गे विद्यते स्वर्वित्तम् 'विद सत्तायाम्'। कीदृशेन नराशंसेन । तेजसा तेजस्विना । एवं देवद्वययुत इन्द्रः आजस्य वेतु । शेषं पूर्ववत् । अत्र तनूनपान्नराशंसावेकत्र प्रयाजे पठितावित्युभयवानयं प्रयाजः ॥२॥

तृतीया।
होता॑ यक्ष॒दिडा॑भि॒रिन्द्र॑मीडि॒तमा॒जुह्वा॑न॒मम॑र्त्यम् ।
दे॒वो दे॒वै: सवी॑र्यो॒ वज्र॑हस्तः पुरन्द॒रो वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३ ।।
उ० होता यक्षदिडाभिरिन्द्रम् । दैव्यो होता यजतु इडाभिः प्रयाजदेवतया सहितमिन्द्रम् ईडितं स्तुतम् । आजुह्वानमाहूयमानं यजमानैरनेकशः । अमर्त्यममरणधर्माणम् । स चेज्यमानः देवः द्युस्थान इन्द्रः । देवैः द्युस्थानैः सवीर्यः समानवीर्यः । वज्रहस्तः । पुरन्दरः पुरां दारयिता। वेतु पिबतु आज्यस्य स्वमंशं । त्वमपि हे मनुष्यहोतः, यज ॥३॥
म० ब्राह्मी उष्णिक् । होता इडाभिः प्रयाजदेवताभिः सह इन्द्रं यजतु । कीदृशमिन्द्रम् । ईडितम् ऋत्विग्भिः स्तुतम् । आजुह्वानमाहूयमानम् यजमानैः देवानाह्वयन्तं वा । अमर्त्यममरणधर्माणम् ईदृशो देव इन्द्रः आज्यस्य वेतु । कीदृशो देवः। सवीर्यः समानं वीर्यं यस्य सः । सर्वदेवेषु यादृशं वीर्यं तदेकस्मिन्निन्द्रे इत्यर्थः । वज्रहस्तः वज्रं हस्ते यस्य । पुरन्दरः पुरं शत्रूणां नगरं दारयति पुरन्दरः । उक्तमन्यत् ॥ ३ ॥

चतुर्थी।
होता॒ यक्षद्ब॒र्हिषीन्द्रं॑ निषद्व॒रं वृ॑ष॒भं नर्या॑पसम् ।
वसु॑भी रु॒द्रैरा॑दि॒त्यैः सु॒युग्भि॑र्ब॒र्हिरास॑द॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। ४ ।।
उ० होता यक्षद्बर्हिषीन्द्रम् । दैव्यो होता यजतु । बर्हिषीन्द्रं बर्हिषि प्रयाजदेवतायां स्थितमिन्द्रम् । यज्ञसाधनमेवात्र प्रयाजदेवताबर्हिः । कथंभूतमिन्द्रम् । निषद्वरमनिराकुर्वतां वरमुत्कृष्टम् । वृषभं वर्षितारं च । नर्यापसम् नृभ्यो मनुष्येभ्यो हितं नर्यं नर्यम् अपः कर्म यस्य स नर्यापाः तं नर्यापसमिन्द्रम् । स चेज्यमानः वसुभिः रुदैः आदित्यैः । सयुग्भिः समानयोजनैः बर्हिः आसदत् । आसीदत्विति लकारव्यत्ययः । वेतु पिबतु आज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥ ४ ॥
म०. आर्षी त्रिष्टुप् । बर्हिषि प्रयाजदेवतायां स्थितमिन्दं होता यजतु । कीदृशमिन्द्रम् । निषद्वरं निषीदन्ति निषद उपवेष्टारः तेषां वरं श्रेष्ठम् । वृषभं वर्षितारम् । नर्यापसं नरेभ्यो यजमानेभ्यो हितं नर्यमपः कर्म यस्य स नर्यापाः तं नराणां हितकारिणम् । स इन्द्रो वसुभिः रुद्रैः आदित्यैः सवनत्रयदेवैः सहितः बर्हिरासदत् आसीदतु आज्यस्य वेतु च । कीदृशैर्वस्वादिभिः। सयुग्भिः सह युञ्जन्ति ते सयुजः तैः समानयोगैः॥४॥

पञ्चमी।
होता॑ यक्ष॒दोजो॒ न वी॒र्यᳪं᳭ सहो॒ द्वार॒ इन्द्र॑मवर्धयन् ।
सुप्रा॒य॒णा अ॒स्मिन्य॒ज्ञे वि श्र॑यन्तामृता॒वृधो॒ द्वार॒ इन्द्रा॑य मी॒ढुषे॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ५ ।।
उ० होता यक्षदोजो न । दैव्यो होता यजतु । ओजः न इति समुच्चयार्थीयो निपातः। ओजश्च वीर्यं च सहश्च द्वारश्च इन्द्रियशरीरमनोबलान्यपि समुच्चितानि । कस्माद्धेतोरेतानि यजतु । यत एतानि इन्द्रमवर्धयन् वर्धयन्ति । इदानीं नव स्तुत्यद्वारः स्तौति । एवमनेन कर्मणा कृतकृत्याः द्वारः । सुप्रायणाः सुप्रगमनाः । अस्मिन्यज्ञे विश्रयन्ताम् विश्रिता भवन्तु । ऋतावृधः सत्यवृधो वा यज्ञवृधो वा । इन्द्राय इन्द्रार्थम् । कथंभूताय । मीदुषे सेक्त्रे व्यन्तु पिबन्तु आज्यस्य स्वमंशं । त्वमपि हे मनुष्यहोतः, यज ॥ ५ ॥
म० अतिजगती । नकारश्चार्थः । या द्वारः प्रयाजदेवाः इन्द्रमिन्द्रे ओजो वीर्यं सहश्चावर्धयन् । ओज इन्द्रियबलं, वीर्यं शारीरबलं सहो मनोबलम् ता द्वारो होता यजतु । ताश्च । द्वार इन्द्राय इन्द्रार्थं विश्रयन्तां विवृता भवन्तु । अस्मिन् यज्ञे आज्यं व्यन्तु पिबन्तु च । कीदृश्यो द्वारः। सुप्रायणाः सुखेन प्रकृष्टमयनं गमनं यासुः ताः विवृतत्वादित्यर्थः । ऋतं यज्ञं वर्धयन्ति ऋतवृधः संहितायामृतशब्दस्य दीर्घः । इन्द्राय कीदृशाय । मीढुषे मेहतीति मीढ्वान् तस्मै सेक्त्रे । क्वसन्तो निपातः ॥ ५॥

षष्ठी।
होता॑ यक्षदु॒षे इन्द्र॑स्य धे॒नू सु॒दुघे॑ मा॒तरा॑ म॒ही ।
स॒वा॒तरौ॒ न तेज॑सा व॒त्समिन्द्र॑मवर्धतां वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ।। ६ ।।
उ० होता यक्षदुषे दैव्यो होता यजतु । उषे नक्तोषासाविति प्राप्ते पूर्वपदलोपश्छान्दसः । इन्द्रस्य धेनू सुदुघे शोभनदोहने मातरा मातरौ । मही महत्यौ । ते चेज्यमाने सवातरौ । वातृशब्दो वत्सवचनः समानो वाता वत्सः ययोस्ते सवातरौ । नकार उपमार्थीयः । एकशिशुके इव गावौ तेजसा वत्समिव इन्द्रं अवर्धताम् । वीतां पिबताम् आज्यस्य स्वमंशं । त्वमपि हे मनुष्यहोतः, यज ॥ ६॥
म. आर्षी त्रिष्टुप् । उषे अत्र पूर्वपदलोपः । होता उषे नक्तोषे यजतु । ते च तेजसा इन्द्रमवर्धताम् आज्यं वीतां पिबतां च । तत्र दृष्टान्तः। सवातरौ न । न इवार्थे । समानो वाता वत्सौ ययोस्ते सवत्सौ एकशिशुके गावौ वत्सं यथा वर्धयेते तथेन्द्रं वर्धयताम् । कीदृश्यौ उषे । इन्द्रस्य धेनू धिनुतस्ते धेनू प्रीणयित्र्यौ । सुदुघे सुष्ठु दुग्धस्ते सुदुघे दुग्धं पूरयन्त्यौ । मातरा मातरौ । विभक्तेराकारः । मातृवत्पालिके। मही मह्यौ महत्यौ । विभक्तिलोपः ॥ ६ ॥

सप्तमी।
होता॑ यक्ष॒द्दैव्या॒ होता॑रा भि॒षजा॒ सखा॑या ह॒विषेन्द्रं॑ भिषज्यतः ।
क॒वी देवौ॒ प्रचे॑तसा॒विन्द्रा॑य धत्त इन्द्रि॒यं वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ।। ७ ।।
उ० होता यक्षद्दैव्याहोतारा । दैव्यो होता यजतु दैव्यौ होतारौ । भिषजा भिपजौ देवानां वैद्यौ । सखाया सखायौ समानख्यानौ । यौ च हविषा इन्द्रम् भिषज्यतः यौ च कवी क्रान्तदर्शनौ यौ च देवौ द्युस्थानौ यौ च प्रचेतसौ प्रकृष्टज्ञानौ यौ च इन्द्राय इन्द्र इति विभक्तिव्यत्ययः। धत्तः स्थापयतः इन्द्रियं वीर्यम् । तौ चेज्यमानौ वीतां पिबताम् आज्यस्य स्वमंशं । त्वमपि हे मनुष्यहोतः, यज ॥७॥
म०. अतिजगती । दैव्यौ होतारौ अयं चाग्निरसौ च मध्यमस्तौ होता यजतु । यौ च हविषा इन्द्रं भिषज्यतः चिकित्सतः 'भिषज् रुग्जये' कण्ड्वादिभ्यो यक् । इन्द्राय इन्द्रियं वीर्यं धत्तः । तौ च आज्यं वीताम् । कीदृशौ । भिषजा भिषजौ चिकित्साकुशलौ । सखाया सखायौ अन्योन्यं स्नेहवन्तौ । कवी क्रान्तदर्शनौ । देवौ दीप्यमानौ । प्रचेतसौ प्रकृष्टं चेतो ज्ञानं ययोस्तों ॥ ७ ॥

अष्टमी।
होता॑ यक्षत्ति॒स्रो दे॒वीर्न भे॑ष॒जं त्रय॑स्त्रि॒धात॑वो॒ऽपस॒ इडा॒ सर॑स्वती॒ भार॑ती म॒हीः ।
इन्द्र॑पत्नीर्ह॒विष्म॑ती॒र्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ८ ।।
उ० होता यक्षत्तिस्रो देवीः न भेषजं त्रयस्त्रिधातवोपसः । नकारो भिन्नक्रमः समुच्चयार्थीयः । भेषजं च ये च त्रयो लोकाः विधातवः अग्निवायुसूर्यास्तेषां धातवः अपसः। अप इति कर्मनाम मत्वर्थीयलोपः । अपस्विनः कर्मवन्तः । शीतोष्णवर्षादीनि हि तेषां कर्माणि । तांश्च होता यजतु । कतमास्तिस्रो देव्यः इडा सरस्वती भारती च । महीः महतीः इन्द्रपत्नीः इन्द्रस्य पालयित्रीः हविष्मतीः हविषा संयुक्ताः । ताश्चेज्यमानाः व्यन्तु पिबन्तु आज्यस्य स्वमंशं । त्वमपि हे मनुष्यहोतः, यज ॥८॥
म० ब्राह्मी अनुष्टुप् । भेषजं भेषजरूपा ये त्रयो लोकास्तान् इडा सरस्वती भारतीति तिस्रो देवीश्च होता यजतु । ताश्चाज्यं व्यन्तु नकारश्चार्थे । कीदृशास्त्रयः। त्रिधातवः त्रयोऽग्निवायुसूर्या धातवो धर्तारो येषां ते । अपसः अपस्विनः कर्मवन्तः शीतोष्णवातवर्षादीनि लोकानां कर्माणि । कीदृश्यस्तिस्रः । महीः महत्यः । इन्द्रपत्नीः इन्द्रस्य पत्न्यः पालयित्र्यः। हविष्मतीः हविर्विद्यते यासां ताः ॥ ८॥

नवमी।
होता॑ यक्ष॒त्त्वष्टा॑र॒मिन्द्रं॑ दे॒वं भि॒षज॑ᳪं᳭ सु॒यजं॑ घृत॒श्रिय॑म् ।
पु॒रु॒रूप॑ᳪं᳭ सु॒रेत॑सं म॒घोन॒मिन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। ९ ।।
उ० होता यक्षत्त्वष्टारमिन्द्रम् । दैव्यो होता यजतु । । त्वष्टारं प्रयाजदेवताम् । इन्द्रम् 'इदि परमैश्वर्ये त्वष्टा चेन्द्रः सामानाधिकरण्यात् । देवं दानादिगुणयुक्तम् भिषजमिन्द्रस्य । सुयजम् साधुयष्टव्यम् अक्लेशयागं वा । घृतश्रियम् आज्यहविष्का हि प्रयाजाः । पुरुरूपं बहुरूपम् । सुरेतसं शोभनरेतस्कम् । मघोनं मघवन्तं धनवन्तम् । सं चेज्यमानस्त्वष्टा इन्द्राय इन्द्रे इति विभक्तिव्यत्ययः । दधत् स्थापयत् । इन्द्रियाणि वीर्याणि वेतु च पिबतु च आज्यस्य स्वमंशं । त्वमपि हे मनुष्यहोतः, यज ॥ ९ ॥ ।
म० अतिजगती । होता त्वष्टारं प्रयाजदेवतां यजतु । | कीदृशं त्वष्टारम् । इन्द्रम् ‘इदि परमैश्वर्ये' ईश्वरं प्रभुम् । देवं दातारम् । भिषजं रोगनिवर्तकम् । सुयजं सुष्ठु इज्यते स सुयजस्तं साधु यष्टव्यम् । घृतश्रियं घृतेन श्रीः शोभा यस्य तम् । आज्यहविष्का हि प्रजायाः । पुरुरूपं पुरूणि बहूनि रूपाणि यस्य तम् । सुरेतसं शोभनं रेतो वीर्य यस्य तम् । मघोनं मघवन्तं धनवन्तम् । स त्वष्टा इन्द्राय इन्द्रियाणि वीर्याणि दधत् सन् आज्यं वेतु ॥ ९ ॥

दशमी।
होता॑ यक्ष॒द्वन॒स्पति॑ᳪं᳭ शमि॒तार॑ᳪं᳭ श॒तक्र॑तुं धि॒यो जो॒ष्टार॑मिन्द्रि॒यम् ।
मध्वा॑ सम॒ञ्जन्प॒थिभि॑: सु॒गेभि॒: स्वदा॑ति य॒ज्ञं मधु॑ना घृ॒तेन॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। १० ।।
उ० होता यक्षद्वनस्पतिम् । दैव्यो होता वनस्पतिं यजतु शमितारं हविषा संस्कर्तारम् । शतक्रतुं बहुकर्माणम् । धियो जोष्टारम् बुद्धेः कर्मणो वा सवितारम् । इन्द्रियं वीर्यात्मकम् । स चेज्यमानः । मध्वा समञ्जन् मधुस्वादुना घृतेन समञ्जन् यज्ञं संमृष्टीकुर्वन् । पथिभिः सुगेभिः मार्गैः शोभनगमनैः स्वदाति यज्ञम् । स्वदातिः प्रापणार्थः । प्रापयतु यज्ञं देवाननु । मधुना मधुस्वादुना घृतेन सहितम् । वेतु च पिबतु चाज्यस्य स्वमंशं । त्वमपि हे मनुष्यहोतः, यज ॥ १०॥
म० शक्वरी । होता वनस्पतिं प्रयाजदेवतां यजतु । कीदृशं वनस्पतिम् । शमितारम् उलूखलादिरूपेण हविषां संस्कर्तारम् । शतक्रतुं शतं क्रतवः कर्माणि यस्य तं बहुकर्माणम् ।। धियो जोष्टारं बुद्धेः सेवितारम् । इन्द्रियमिन्द्रस्यात्मनो हितं वीर्यरूपं वा । स त्वष्टा मध्वा मधुना स्वादुना घृतेन समञ्जन् यज्ञं संम्रक्षयन् सन् । सुगेभिः सुगैः सुगमनैः पथिभिर्मार्गैः मधुना स्वादुना घृतेन युतं यज्ञम् । स्वदाति देवान् प्रापयति । स्वदातिः प्रापणार्थः । स आज्यं वेतु । सुखेन गम्यते येषु ते सुगाः 'सुदुरोरधिकरणे' (पा० ३ । २ । ४८) इति गमेर्डप्रत्ययः ॥ १०॥

एकादशी।
होता॑ यक्ष॒दिन्द्र॒ᳪं᳭ स्वाहाऽऽज्य॑स्य॒ स्वाहा॒ मेद॑स॒: स्वाहा॑ स्तो॒काना॒ᳪं᳭ स्वाहा॒ स्वाहा॑कृतीना॒ᳪं᳭ स्वाहा॑ ह॒व्यसू॑क्तीनाम् ।
स्वाहा॑ दे॒वा आ॑ज्य॒पा जु॑षा॒णा इन्द्र॒ आज्य॑स्य॒ व्यन्तु॒ होत॒र्यज॑ ।। ११ ।।
उ० होता यक्षदिन्द्रम् । देव्यो होता यजतु इन्द्रम् । स्वाहाज्यस्य स्वाहाकारेणाज्यदेवतानां च संस्थां करोतु । स्वाहामेदसः स्वाहाकारेण मेदोदेवतानां च संस्थां करोतु । स्वाहा स्तोकानाम् स्तोका बिन्दवः । स्वाहाकारेण च स्तोकदेवतानां संस्थां करोतु । स्वाहा स्वाहाकृतीनाम् स्वाहाकारेण च स्वाहाकृतिदेवतानां संस्थां करोतु । स्वाहादेवा आज्यपा जुषाणा इन्द्र आज्यस्य । प्रयाजानुयाजा वै देवा आज्यपाः स्वाहाकारेण वै देवा आज्यपाः जुषाणाः सेवमानाः प्रीयमाणा वा इन्द्रं । आज्यस्य वेतु स्वमंशं पिबतु । त्वमपि हे मनुष्यहोतः, यज ॥ ११ ॥
म० शक्वरी । होता इन्द्रं यजतु । खाहाकारेणाज्यस्य देवान्यजतु । स्वाहाकारेण मेदसो देवान्यजतु । स्वाहाकारेण स्तोकानां सोमबिन्दूनां देवान्यजतु । स्वाहाकारेण स्वाहाकृतीनां देवानां स्वाहाकृतीः प्रयाजदेवताः यजतु । स्वाहाकारेण हव्यसूक्तीनां हव्यसंबन्धिसुवचनानां देवान्यजतु । स्वाहाकारेणाज्यपा देवाः प्रयाजाः जुषाणाः प्रीयमाणा भवन्तः सन्तः इन्द्रश्चाज्यं व्यन्तु पिबन्तु ॥ ११ ॥

द्वादशी।
दे॒वं ब॒र्हिरिन्द्र॑ᳪं᳭ सुदे॒वं दे॒वैर्वी॒रव॑त्स्ती॒र्णं वेद्या॑मवर्धयत् ।
वस्तो॑र्वृ॒तं प्राक्तोर्भृ॒तᳪं᳭ रा॒या ब॒र्हिष्म॒तोऽत्य॑गाद्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। १२ ।।
उ०. देवं बर्हिः । एकादशानुयाजप्रैषा ऐन्द्राः मैत्रावरुणो ब्रवीति यज्ञसाधनभूतं बर्हिरिह देवता । यद्देवं बर्हिः । इन्द्रमवर्धयदिति संबन्धः । कथंभूतमिन्द्रम् । सुदेवं शोभना देवा मरुदादयो यस्य स सुदेवः तं सुदेवम् । | देवैर्वीरवत् । बर्हिषो विशेषणमेतत् । देवैः हविषा दातृभिः ऋत्विग्भिः वीरवत् वीरयुक्तम् । यच्च स्तीर्णं वेद्याम् यच्च बर्हिः वस्तोर्वृतम् अहनि लूनम् यच्च अक्तोः रात्रौ प्रभृतं प्रधारितम् । वस्तोरहर्वचनः अक्तो रात्रिवचनः इत्यव्ययद्वयम् । इन्द्रमवर्धयदिति सर्वत्र संबध्यते । यच्च राया धनेन हविर्लक्षणेन अन्यान्यजमानान् । बर्हिष्मतः बर्हिषा संयुक्तान् । अत्यगात् अतिक्रम्य गतं संस्कारोत्कर्षात् तद्धविः वसुवने वसुवननाय च धननिखननाय च वेतु पिबतु । त्वंच हे होतः, यज ॥ १२ ॥
म० एकादश ऐन्द्रपशोः संबन्धिन एवानुयाजप्रैषाः । देवता बर्हिरादयः । अतिजगती । मैत्रावरुणो वदति । बर्हिः देवं बर्हिःसंज्ञानुयाजदेवता इन्द्रमवर्धयत्पुष्णाति । किंभूतं बर्हिः । सुदेवं शोभना देवा मरुदादयो यत्र तत् । तथा देवैः । दातृभिः ऋत्विग्भिः वीरवत् वीरयुतम् । वेद्यां स्तीर्णमाच्छादितम् । वस्तोरहनि वृतं लूनम् धातूनामनेकार्थत्वात् । अक्तो रात्रौ प्रभृतं प्रकर्र्षण धृतम् । वस्तोरक्तोरित्यव्ययद्वयं क्रमादहर्निशावाचकम् । यत् बर्हिः राया हविर्लक्षणेन धनेन बर्हिष्मतः बर्हिषा युक्तानन्यान् यागानत्यगात् अतिक्रम्य गतं संस्कारोत्कर्षात् तत् बर्हिः वसुवने वसुवननाय धनदानाय वसुधेयस्य वसुधेयाय वसुनो धानाय निधानाय यजमानगृहे निखननाय वेतु आज्यं पिबतु । वसुवने वसुधेयस्येति सप्तमीषष्ठ्यौ चतुर्थ्यर्थे । हे मनुष्यहोतः, त्वमपि यज । एवमग्रेऽपि कण्डिकाशेषो व्याख्येयः ॥ १२॥

त्रयोदशी ।
दे॒वीर्द्वार॒ इन्द्र॑ᳪं᳭ सङ्घा॒ते वी॒ड्वीर्याम॑न्नवर्धयन् ।
आ व॒त्सेन॒ तरु॑णेन कुमा॒रेण॑ च मीव॒तापार्वा॑णᳪं᳭ रे॒णुक॑काटं नुदन्तां वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। १३ ।।
उ० देवीर्द्वारः यज्ञगृहद्वार उच्यन्ते । या देव्यो यज्ञगृहद्वारः इन्द्रं यामन् यामनि कर्मप्राप्तौ सत्याम् अवर्धयन् । याश्च संघाते देहलीकपाटपुटार्गलादिसंघाते सति वीड्वीः दृढाः । नहि संघातमन्तरेण तासां दृढत्वमुपपद्यते । ता इदानीम् आ आभिमुख्येन स्थित्वा वत्सेन तरुणेन कर्मक्षमेण कुमारेण च मीवता 'मीङ् हिंसायाम्' शत्रूणां हिंसावता अपर्वाणम् रेणुककाटम् समासपदमेतत् । नुदन्ताम् । इतिपदानि अपनुदन्तामपनयन्तु । वत्सैः पुत्रैश्च अर्वते गम्यते पत्यते यस्मिन्नित्यर्वा तमर्वाणम् रेणुककाटम् । काटः कूपः । ककाराभ्यासः कुत्सार्थः रेणुपूर्णः कुत्सितः कूपः रेणुककाटः तं रेणुककाटम् । उपलक्षणमेतत् यज्ञभ्रंशकराणि कूपादीनि यज्ञमार्गादपनयन्त्वित्यर्थः । वसुवननाय वसुनिधानाय च व्यन्तु पिबन्तु । त्वमपि हे होतः, यज ॥ १३॥
म० एकाधिका शक्वरी । यज्ञगृहद्वारोऽत्र देवताः । यच्छन्ति नियता भवन्ति ऋत्विजो यत्रेति याम कर्म । यमेरनिण्प्रत्ययो वृद्धिश्च सप्तम्या लुक् । यामनि कर्मणि या द्वारो देव्यः इन्द्रमवर्धयन् । कीदृश्यो द्वारः । संघाते देहलीकपाटद्वारशाखार्गलादिसमूहे सति वीड्वी वीड्व्यः दृढाः । संघातं विना न द्वारां दृढत्वं स्यात् । ता द्वारो रेणुककाटमपनुदन्ताम् । काटः कूपः कुत्सितः काटः ककाटः । रेणुभिः कृत्वा ककाटो रेणुककाटः तम् अपनुदन्तां निवर्तयन्तु । किमित्यतो विशेषणे । कीदृशं कूपम् । वत्सेन गोपुत्रेण तरुणेन कुमारेण च आ आभिमुख्येन अर्वाणम् अर्यते गम्यते यत्रेत्यर्वा तम् 'ऋ गतौ' इत्यतो 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३ । २ । ७५ ) इति वनिप्प्रत्ययः। कीदृशेन । मीवता 'मीञ् हिंसायाम्' मयनं मीः क्विप् । मीरस्यास्ति मीवान् तेन हिंसाशीलेन । हिंसाशीलाश्चञ्चला उच्चलन्तो वत्साः कुमाराश्च यत्र पतन्ति तं कूपमपनुदेत्यर्थः । उपलक्षणमेतत् । यज्ञप्रजाविघ्नकराणि कूपादीनि मार्गादपनयन्त्वित्याशयः । ता व्यन्तु च ॥ १३ ॥

चतुर्दशी।
दे॒वी उ॒षासा॒नक्तेन्द्रं॑ य॒ज्ञे प्र॑य॒त्य॒ह्वेताम् ।
दैवी॒र्विश॒: प्राया॑सिष्टा॒ᳪं᳭ सुप्री॑ते॒ सुधि॑ते वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ।। १४ ।।
उ० देवी उषासानक्ता ये देव्यौ उषाश्च नक्ता रात्रिश्च इन्द्रं यज्ञे प्रयति गच्छति वर्तमाने अह्वेताम् आहूतवत्यौ वर्धनाय । ये च देव्यौ दैवीर्विशः वसवो रुद्रा आदित्या विश्वेदेवा मरुत इत्यादिकाः प्रति । अयासिष्टाम् गतवत्यौ 'स्वेन संभोगेन । यद्वा 'दैव्यौ वा एता विशो यत्पशवः' इति श्रुतिः । दैवीर्विशः यज्ञाङ्गभूतान्पशून्प्रति अयासिष्टां गतवत्यौ । अनुयाजेषु हि तयोर्भाग इत्यभिप्रायः । ये च सुप्रीते साधुप्रीते । ये च सुधिते साधुहिते । वसुवननाय वसुनिधानाय च वीतां पिबतां । त्वमपि हे होतः, यज ॥१४॥ ..
म० ब्राह्मी उष्णिक् । उषाश्च नक्ता च उषासानक्ता । समासे उषःशब्दस्य उषासादेशः । अहोरात्राधिष्ठात्र्यौ देवी देव्यौ यज्ञे प्रयति प्रवर्तमाने सति इन्द्रमह्वेतामाहूतवत्यौ । प्रैति प्रयन् प्रपूर्वादिणः शतृ । ये च दैवीः देवसंबन्धिनीर्विशः प्रजाः प्रायसिष्टां प्रगतवत्यौ । यातेर्लुङ् । वसवो रुद्रा आदित्या : विश्वेदेवा मरुत इत्यादयो देवप्रजाः । ते च वीतां पिबताम् । । कीदृश्यौ । सुप्रीते अतितुष्टे । सुधिते सुतरां हिते ॥ १४ ॥

पञ्चदशी।
दे॒वी जोष्ट्री॒ वसु॑धिती दे॒वमिन्द्र॑मवर्धताम् ।
अया॑व्य॒न्याघा द्वेषा॒ᳪं᳭स्यान्या व॑क्ष॒द्वसु॒ वार्या॑णि॒ यज॑मानाय शिक्षि॒ते व॑सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ।। १५ ।।
उ० देवी जोष्ट्री देव्यौ जोषयित्र्यौ । इदानीं देवताविकल्पः । द्यावापृथिव्याविति वा अहोरात्रे इति वा ।
सत्यं च समा चेति कात्थक्यः । ये देव्यौ जोषयित्र्यौ । वसुधिती वसुधानं याते वसुनो धारयित्र्यौ वा ये च देवमिन्द्रम् अवर्धताम् अवर्धयताम् । अयाव्यन्याघाद्वेषांसि ययोश्च मध्ये अयावि । 'यु पृथग्भावे' पृथक्करोति । लकारव्यत्ययः । अन्या एका अघा अघानि पापानि द्वेषांसि च दौर्भाग्यानि आ अन्यावक्षन् वसुवार्याणि यजमानाय । अन्या एका आवक्षत् आवहति वसूनि व रणीयाणि यजमानर्थम् । कथंभूते । शिक्षिते विदितवेद्ये तत्त्वज्ञे । ते च वसुवननाय वसुधानाय च वीतां पिबतां त्वमपि हे होतः, यज ॥ १५॥
म० एकाधिकातिजगती। जोष्ट्री जुषेते ते जोष्ट्र्यौं प्रीतियुक्ते देवी देव्यौ । वसुधिती वसुनो धनस्य धितिर्धारणं याभ्यां ते द्यावापृथिव्यौ अहोरात्रे वा । 'सस्यं च समा चेति कात्थक्यः' (निरु. ९ । ४१)। ते इन्द्रं देवमवर्धतामवर्धयताम् । तयोर्मध्ये अन्या एका अघा अघानि पापानि द्वेषांसि दौर्भाग्यानि च अयावि । 'यु पृथग्भावे' दूरीकरोति । यौतेश्चिण् लकारव्यत्ययः । अन्या द्वितीया वार्याणि वरणीयानि भोगयोग्यानि वसु वसूनि धनानि आवक्षत् आवहति । कीदृश्यौ ते । शिक्षिते विदितवेद्ये तत्त्वज्ञे । ते वीताम् ॥ १५ ॥

षोडशी। ।
दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॒ सु॒दुघे॒ पय॒सेन्द्र॑मवर्धताम् ।
इष॒मूर्ज॑म॒न्या व॑क्ष॒त्सग्धि॒ᳪं᳭ सपी॑तिम॒न्या नवे॑न॒ पूर्वं॒ दय॑माने पुरा॒णेन॒ नव॒मधा॑ता॒मूर्ज॑मू॒र्जाहु॑ती ऊ॒र्जय॑माने॒ वसु॒ वार्या॑णि॒ यज॑मानाय शिक्षि॒ते व॑सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ।। १६ ।।
उ० देवी ऊर्जाहुती। अधस्तनप्रैषोक्त एव देवताविकल्पः। ये देव्यौ ऊर्जाहुती ऊर्जाह्वान्यौ दुघे दोग्ध्र्यौ अन्योन्यम् । 'अनयोरनुसंभोगमिमाः सर्वाः प्रजाः अनुसंभुञ्जत' इति श्रुतिः । सुदुघे साधुदोहने । ये च पयसा इन्द्रम् अवर्धतामवर्धयताम् । ययोश्च इपमन्नम् उर्जं च तदुपसेचनं दध्यादि अन्या एका आवक्षत् आवहति यजमानाय । सग्धिं सपीतिमन्या अन्या अपरा च सग्धिं समानां जग्धिं पुत्रपौत्रादिभिः । सपीतिं समानां पीतिं पानं च आवक्षत् आवहति यजमानाय नवेन पूर्वं दयमाने पुराणेन नवमधाताम् । ये च देव्यौ नवेन ऊर्जा धान्येन पूर्वं पुरातनम् ऊर्जं धान्यम् । दयमाने दयतिः रूपदयाकर्मा । रक्षितवत्यौ सत्यौ अधाताम् । पुराणेन च ऊर्जा धान्येन नवमूर्जं धान्यम् अधाताम् धारितवत्यौ । ये च ऊर्जाहुती ऊर्जयमाने स्वीकुर्वाणे। वसूनि वरणीयानि यजमानाय । शिक्षिते विदितवेद्ये च वसुवननाय वसुधानाय च वीतां पिबताम् । त्वमपि हे होतः, यज ॥ १६ ॥
म० विकृतिः । अधस्तनमन्त्रोक्तो देवताविकल्पः । देवी देव्यौ पूर्वप्रेषोक्ते पयसा दुग्धेनेन्द्रमवर्धताम् अवर्धयताम् 'छन्दस्युभयथा' (पा० ३।४।११७ ) इति शप् आर्धधातुकत्वाण्णिचो लोपः । कीदृश्यौ । ऊर्जाहुती ऊर्जा बलं तद्युक्ता आहुतिराह्वानं ययोस्ते । दुघे दुग्धस्ते दुघे 'दुहः कव्घश्च ' ( पा० ३ । २ । ७० ) इति कप् घादेशश्च । दोग्ध्र्यौ 'अनयोरनु संभोगमिमाः सर्वाः प्रजा अनुसंभुञ्जतः' इति श्रुतेः । सुदुघे साधुदोहने । तयोर्मध्ये अन्या एका इषमन्नमूर्जं दध्यादि च वक्षत् वहति यजमानाय । अन्या द्वितीया सग्धिं सपीतिं च वक्षत् समाना ग्धिर्भोजनं सग्धिः ताम् । समाना पीतिः सपीतिः पुत्रादिभिः सह पानभोजने वहति । ये देव्यौ नवेनान्नेन पूर्वं पुराणमन्नमधाताम् पुराणेनान्नेन नवमन्नमधाताम् । यजमानाय वार्याणि वसु वसूनि चाधाताम् । अन्नं धनं चाक्षयं कृतवत्यावित्यर्थः । कीदृश्यौ । दयमाने उक्षन्त्यौ कृपयन्त्यौ वा । ऊर्जाहुती ऊर्जायुता आहुतिर्होमो ययोस्ते । ऊर्ज रसमूर्जयमाने वर्धयन्त्या । शिक्षिते तत्त्वज्ञे । ते वीतां पिबताम् ॥ १६ ॥

सप्तदशी।
दे॒वा दैव्या॒ होता॑रा दे॒वमिन्द्र॑मवर्धताम् ।
ह॒ताघ॑शᳪं᳭सा॒वाभा॑र्ष्टां॒ वसु॒ वार्या॑णि॒ यज॑मानाय शिक्षि॒तौ व॑सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ।। १७ ।।
उ० देवा दैव्या । यौ देवौ दैव्यौ होतारौ । एकः पार्थिवोऽग्निः एकश्च मध्यमः । देवमिन्द्रमवर्धताम् । यौ च हताघशंसावभार्ष्टां वसुवार्याणि यजमानाय । शिक्षितौ अघं पापं ये शंसन्ति ते अघशंसाः। हता अघशंसा याभ्यां तौ हताघशंसौ । आभार्ष्टाम् आहार्ष्टाम् हृतवन्तौ वसूनि वरणीयानि यजमानाय । शिक्षितौ अवगतार्थौ तौ च वसुवननाय वसुधानाय च वीतां पिबतां । त्वमपि हे होतः, यज ॥ १७ ॥
म० अतिजगती। एकः पार्थिवोऽग्निः अन्यो मध्यमः । देवा देवौ दैव्या दैव्यौ होतारौ • इन्द्रं देवमवर्धताम् । यजमानाय | वार्याणि वसु वसूनि च आभार्ष्टाम् आहार्ष्टामाहृतवन्तौ । आङ्पूर्वाद्धरतेर्लुङ् हस्य भः । कीदृशौ । हताघशंसौ अघं पापं शंसतीच्छति अघशंसः पापी हतोऽघशंसो याभ्यां तौ पापिनिवर्तको । तौ वीताम् ॥ १७ ॥

अष्टादशी।
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः पति॒मिन्द्र॑मवर्धयन् ।
अस्पृ॑क्ष॒द्भार॑ती॒ दिव॑ᳪं᳭ रु॒द्रैर्य॒ज्ञᳪं᳭ सर॑स्व॒तीडा॑ वसु॑मती गृ॒हान् व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। १८ ।।
उ०. देवीस्तिस्रः । आदरार्थोऽभ्यासः। पतिं देवानां पालयितारम् इन्द्रमवर्धयन् । तासां मध्ये भारती भरत आदित्यः तस्य इयं भारती दिवम् अक्षत् स्पृशति । रुद्रैर्यज्ञं सरस्वती। सरस्वती च रुद्रैः सहिता यज्ञम् अस्पृक्षत् । इडा च वसुमती वसुभिः तद्वती गृहान् अस्पृक्षत् । गृहशब्देनात्रायं लोकोऽभिधीयते लक्षणया पृथिवीस्थानत्वादिडायाः । ताः वसुवननाय वसुधानाय च व्यन्तु पिबन्तु । त्वमपि हे होतः, यज ॥ १८॥
म० अति जगती । तिस्रो देवीः देव्यः पतिं पालकमिन्द्रमवर्धयन् । आदरार्थ पुनरुक्तिः । ता एवाह । भारती दिवं स्वर्गमस्पृक्षत् स्पृशति । भरतो रविस्तत्कान्तिर्भारती। सरस्वती रुद्रैः युता यज्ञमस्पृक्षत् । वसुमती वसुयुता इडा गृहानस्पृक्षत् । गृहशब्देन भूलोकः। ता व्यन्तु ॥ १८ ॥

एकोनविंशी। ।
दे॒व इन्द्रो॒ नरा॒शᳪं᳭स॑स्त्रिवरू॒थस्त्रि॑वन्धु॒रो दे॒वमिन्द्र॑मवर्धयत् ।
श॒तेन॑ शितिपृ॒ष्ठाना॒माहि॑तः स॒हस्रे॑ण॒ प्र व॑र्तते मि॒त्रावरु॒णेद॑स्य हो॒त्रमर्ह॑तो॒ बृह॒स्पति॑: स्तो॒त्रम॒श्विनाध्व॑र्यवं वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। १९ ।।
उ० देव इन्द्रः । यज्ञो देवता देवः दानादिगुणयुक्तः यज्ञः इन्द्रः । 'इदि परमैश्वर्ये' परमेश्वरः । नराशंसः नरा अस्मिन्नासीनाः शंसन्तीति नराशंसः । त्रिवरूथः वरूथ शब्दो गृहवचनः । त्रीणि वरूथानि गृहाणि सदोहविर्धानाग्नीध्राणि यस्य स त्रिवरूथः। त्रिवन्धुरः । वन्धुरशब्दः सारथिस्थानवचनः । त्रीणि वन्धुराणि सारथिस्थानानि ऋग्यजुःसामलक्षणानि यस्य स त्रिवन्धुरः । देवमिन्द्रमवर्धयत् । यश्च शतेन शितिपृष्ठानामाहितः । शतगुणो हि अग्निराधेयस्तदभिप्रायमेतत् । सहस्रेण गवां प्रवर्तते । सहस्रेण गवां यष्टव्यमित्युक्तेः। यस्य चास्य मित्रावरुणा इत् मित्रावरुणावेव होत्रमर्हतः। बृहस्पतिश्च स्तोत्रमौद्गात्रमर्हति । अश्विनौ च आध्वर्यवमर्हतः । स वसुवननाय वसुधानाय च वेतु पिबतु । त्वमपि हे होतः यज ॥ १९ ॥
म० कृतिः । नरा अस्मिन्नासीनाः शंसन्ति नराशंसः यज्ञो देवः इन्द्रं देवमवर्धयत्। कीदृशो नराशंसः। इन्दतीतीन्द्रः ऐश्वर्यवान् । त्रिवरूथः वरूथं गृहम् । त्रीणि वरूथानि सदोहविर्धानाग्नीध्राणि यस्य सः। त्रिबन्धुरः त्रीणि बन्धुराणि ऋग्यजुःसामलक्षणानि बन्धनानि यस्य सः । नराशंसः शितिपृष्ठानां शतेनाहितः सन् सहस्रेण गोसहस्रेण प्रवर्तते । शिति श्यामं पृष्ठं यासां ताः शितिपृष्ठा गावः । मित्रावरुणा इत् मित्रावरुणावेवास्य नराशंसस्य होत्रमर्हतः होतृकर्मणि योग्यौ भवतः । बृहस्पतिः स्तोत्रमौद्गात्रमर्हति । अश्विना अश्विनौ अस्याध्वर्यवमर्हतः । स वेतु ॥ १९ ॥

विंशी।
दे॒वो देवै॒र्वन॒स्पति॒र्हिर॑ण्यपर्णो॒ मधु॑शाखः सुपिप्प॒लो दे॒वमिन्द्र॑मवर्धयत् ।
दिव॒मग्रे॑णास्पृक्ष॒दान्तरि॑क्षं पृथि॒वीम॑दृᳪं᳭हीद्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। २० ।।
उ० देवो देवैः । यूप उच्यते । यो देवो वनस्पतिः देवैरेव हिरण्यपर्णः देवाः सौवर्णानि पर्णानि यस्य स तथोक्तः । मधुशाखः मधुरसवती शाखा यस्य स मधुशाखः देवैरेव । सुपिप्पलः साधुफलो देवैरेव देवमिन्द्रमवर्धयत् । यश्च दिवम् अग्रेण अस्पृक्षत् स्पृशति । आ अन्तरिक्षमस्पृक्षदित्यनुषङ्गः । मध्येनेति शेषः साकाङ्क्षत्वात् । पृथिवीमदृंहीत् पृथिवीम् उपरेणेति शेषः । अदृंहीत् दृढामकरोत् । स वनस्पतिः वसुवननाय वसुधानाय च वेतु पिबतु । त्वमपि हे होतः, यज ॥ २० ॥
म० अतिशक्वरी । यूप उच्यते । वनस्पतिर्देवो देवैः सह इन्द्रमवर्धयत् । कीदृशः । हिरण्यपर्णः हिरण्यमयानि पर्णानि यस्य । मधुशाखः मधुर्मधुरा रसवती शाखा यस्य । सुपिप्पलः शोभनानि पिप्पलानि फलानि यस्य । यो वनस्पतिरग्रेण दिवं स्वर्गमस्पृक्षत् स्पृशति । स्पृशेर्लुङि 'शल इगुपधादनिटः क्सः' , (पा० ३ । १ । ४५) इति क्सप्रत्ययः। अन्तरिक्षं मध्येनेति शेषः । आ स्पृशति । पृथिवीमुपरेणेति शेषः । अदृंहीत् दृढामकरोत् । स वेतु ॥ २० ॥

एकविंशी।
दे॒वं ब॒र्हिर्वारि॑तीनां दे॒वमिन्द्र॑मवर्धयत् ।
स्वा॒स॒स्थमिन्द्रे॒णास॑न्नम॒न्या ब॒र्हीᳪं᳭ष्य॒भ्य॒भूद्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। २१ ।।
उ० देवं बर्हिः । यद्देवं बर्हिः । वारितीनाम् वाः उदकम् 'इण् गतौ' वारुदकमितिः स्थानं यासां ता वारितय ओषधयः तासां मध्ये देवं वरिष्ठम् । यद्वा वार्य इति दर्भरूपेणावस्थानं येषां ते वारितयः दर्भाः । अत्र श्रुतिः 'तदेताभ्यामुत्पुनाति' इत्युपक्रम्य 'तस्मादुहैका आपो बीभत्सांचक्रिरे' इति अभिधीयते । त इमे दर्भा इत्याह । वारितीनां दर्भाणां संघातभूतम् देवमिन्द्रमवर्धयत् । यच्च स्वासस्थम् साधु आस्थेयं देवमनुष्यैः । यत्र च इन्द्रेण आसन्नम् आस्थितम् । यच्च अन्या अन्यानि हवींषि अभ्यभूत् अभिभवतीति कालव्यत्ययः । तत् वसुवननाय वसुधानाय च वेतु पिबतु । त्वमपि हे होतः, यज ॥२१॥
म० आर्षी त्रिष्टुप् । बर्हिः अनुयाजदेव इन्द्रं देवमवधर्यत् । अन्या अन्यानि बर्हींष्यभ्यभूत् अभिभवति तद्वेतु । कीदृशं बर्हिः । वारितीनामोषधीनां मध्ये देवं दीप्यमानं । श्रेष्ठम् । वारि जले इतिर्गतिर्यासां ता वारितयो जलाश्रिता ओषधयः । स्वासस्थं सुखेनासनेन स्थीयते यत्र तत्स्वासस्थम् । इन्द्रेणासन्नमाश्रितम् ॥ २१॥

द्वाविंशी।
दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृद्दे॒वमिन्द्र॑मवर्धयत् ।
स्वि॑ष्टं कु॒र्वन्त्स्वि॑ष्ट॒कृत्स्वि॑ष्टम॒द्य क॑रोतु नो वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। २२ ।।
उ० देवो अग्निः । स्विष्टकृत् शोभनमिष्टं कर्तव्यमिति | यस्यायमधिकारः । देवं च इन्द्रमवर्धयत् । यश्च स्विष्टं कुर्वन् स्विष्टकृतनामभूतः सः। स्विष्टं साध्विष्टम् अद्य अस्मिन्कर्मणि करोतु नोऽस्माकम् । अपिच वसुवननाय वसुधानाय च वेतु पिबतु । त्वमपि हे होतः, यज ॥ २२॥ ।
म०. आर्षी त्रिष्टुप् । स्विष्टकृद्देवः अग्निः इन्द्रं देवमवर्धयत् स नोऽस्माकं स्विष्टं साधु इष्टं करोतु वेतु च । कीदृशः । स्विष्टं कुर्वन्सन् स्विष्टकृत् नाम शोभनमिष्टं कर्तव्यमिति तस्याधिकारः ॥ २२ ॥

त्रयोविंशी।
अ॒ग्निम॒द्य होता॑रमवृणीता॒यं यज॑मान॒: पच॒न्पक्ती॒: पच॑न्पुरो॒डाशं॑ ब॒ध्नन्निन्द्रा॑य॒ छाग॑म् ।
सू॒प॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभव॒दिन्द्रा॑य॒ छागे॑न । अघ॒त्तं मे॑द॒स्तः प्रति॑ पच॒ताग्र॑भी॒दवी॑वृधत्पुरो॒डाशे॑न ।
त्वाम॒द्य ऋ॑षे ।। २३ ।।
उ० अग्निमद्य । व्याख्यातः प्रैषः । ऐन्द्र एकः पशुरिति विशेषः ॥ २३ ॥
म०. त्वामद्य अयं प्रतीकः उभयत्रापि । ऐन्द्रपशुसंबन्धी । सूक्तवाकप्रैषः । त्वामद्य ऋषे इत्ययं मन्त्र उभयत्रापि ऐन्द्रानु वाके वायोधसानुवाके च प्रतीकोक्तः आदिमात्रेणोक्तः सकलो ज्ञेयः । अग्निमद्य एकाधिका प्राजापत्या जगती । सूपस्थाः ब्राह्मी उष्णिक् । त्वामद्य एकाधिका विकृतिः । व्याख्यातः प्रैषः ( २१ । ५९-६१ ) ॥ २३ ॥

चतुर्विंशी।
होता॑ यक्षत्समिधा॒नं म॒हद्यश॒: सुस॑मिद्धं॒ वरे॑ण्यम॒ग्निमिन्द्रं॑ वयो॒धस॑म् ।
गा॒य॒त्रीं छन्द॑ इन्द्रि॒यं त्र्यविं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। २४ ।।
उ० होता यक्षत् । इन्द्राय वयोधसे । पशुसंस्कारश्चैन्द्रः तत्रैते प्रैषाः । अतः प्रयाजदेवताऽविरोधेन यथैन्द्राः संपद्यन्ते तथा व्याख्यायन्ते । दैव्यो होता यजतु समिधानमग्निम् । महच्च यशः अग्निसंबन्धि । सुसमिद्धं चाग्निमेव । वरेण्यं वरणीयं चाग्निम् । इन्द्रं च वयोधसम् वयः आधातव्यमस्मिन्निति वयोधास्तं वयोधसम् । वयसः आयुषो वा धारयितारम् । किं कुर्वन् दैव्यो होता यजतु । गायत्रीं च छन्दः इन्द्रियं वीर्यं च त्र्यविं च गां वयश्च आयुः दधत् धारयन् । इन्द्रे इत्यध्याहारः प्रकरणात् । प्रयाजदेवता च इन्द्रसहिता वेतु पिबतु आज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥ २४ ॥
म० एकादश वायोधसे पशौ प्रयाजप्रैषाः समित्तनूनपादाद्याप्रीदेवताः । अतिजगती । दैव्यो होता अग्निं वयोधसमिन्द्रं च यजतु । वयः आयुर्दधाति वयोधाः तम् आयुषो धातारं धारयितारं वा । कीदृशमग्निम् । समिधानं दीप्यमानम् । महद्यशः । सुपां सुलुगिति तृतीयैकवचनस्य सुआदेशः । महता यशसा समिद्धं दीप्तम् । वरेण्यं वरणीयम् । किं कुर्वन् यजतु । गायत्रीं छन्दः इन्द्रियं वीर्यम् त्र्यविं गाम् वयः आयुश्च दधत् स्थापयन् इन्द्रे इति शेषः । षण्मासात्मकः कालोऽविः त्रयोऽवयो यस्याः सा त्र्यविः सार्धसंवत्सरा गौः ताम् । प्रयाजदेवतेन्द्रयुता आज्यं वेतु । हे मनुष्यहोतः, त्वमपि यज । एवमग्रेऽपि ॥ २४ ॥

पञ्चविंशी।
होता॑ यक्ष॒त्तनू॒नपा॑तमु॒द्भिदं॒ यं गर्भ॒मदि॑तिर्द॒धे शुचि॒मिन्द्रं॑ वयो॒धस॑म् ।
उ॒ष्णिहं॒ छन्द॑ इन्द्रि॒यं दि॑त्य॒वाहं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। २५ ।।
उ० होता यक्षत्तनूनपातम् । दैव्योहोता यजतु तनूनपातम् । उद्भिदम् उद्भेत्तारं यज्ञफलानाम् । यं च गर्भम् अदितिः दधे धारितवती । शुचिं पवित्रम् । इन्द्रं च यजतु वयोधसम् । वय आयुर्धीयते यस्मिन् तं वा वयसो धारयितारं वा । किंकुर्वन्दैव्यो होता यजतु । उष्णिहं च छन्दः इन्द्रियं वीर्यं च दित्यवाहं च गां वय आयुश्च इन्द्रे दधत् धारयन् । प्रयाजदेवता च इन्द्रसहिता वेतु पिबतु आज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥ २५ ॥
म० एकाधिका जगती । होता तनूनपातं प्रयाजदेवं वयोधसमिन्द्रं च यजतु । अदितिर्यं गर्भं दधे तं इन्द्रमित्यर्थः । कीदृशं तनूनपातम् । उद्भिदम् उद्भिनत्ति प्रकटयति फलमित्युद्भित् तं । यज्ञफलानामुद्भेत्तारम् । शुचिं पवित्रम् । किं कुर्वन् । उष्णिहं छन्दः इन्द्रियम् दित्यवाहं गाम् वयश्च इन्द्रे दधत् । द्विवर्षा गौर्दित्यवाट् । स सेन्द्रो वेतु ॥ २५ ॥

षड़्विंशी।
होता॑ यक्षदी॒डेन्य॑मीडि॒तं वृ॑त्र॒हन्त॑म॒मिडा॑भि॒रीड्यँ॒ सह॒: सोम॒मिन्द्रँ॑ वयो॒धस॑म् ।
अ॒नु॒ष्टुभं॒ छन्द॑ इन्द्रि॒यं पञ्चा॑विं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। २६ ।।
उ० होता यक्षदीडेन्यम् । दैव्यो होता यजतु । ईडेन्यं स्तुत्यम् । ईडतेरेन्यप्रत्ययः । ईडितम् ऋषिभिः स्तुतम् । वृत्रहन्तमम् अतिशयेन वृत्रस्य हन्तारम् । इडाभिः प्रयाजदेवताभिः । ईड्यं स्तुत्यम् । इन्द्रविशेषणान्येतानि । सहः सोमं च यजतु । सहःसोमशब्दौ नैघण्टुकौ इन्द्रसंबन्धात्पठ्येते । इन्द्रं च वयोधसं वयस आयुषो धारयितारम् । किं कुर्वन्यजतु । अनुष्टुभं च छन्दः इन्द्रियम् वीर्यं च पञ्चाविं च गां वय आयुश्च इन्द्रे दधत् धारयन् । प्रयाजदेवता च इन्द्रसहिता वेतु पिबतु आज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥ २६ ॥
म० व्यूहेन शक्वरी । होता इडाभिः प्रयाजदेवताभिः सह वयोधसमिन्द्रं यजतु । कीदृशमिन्द्रम् । ईडेन्यम् ईडितुं योग्य ईडेन्यः ईडेरेन्यप्रत्ययः । ईडितमृषिभिः स्तुतम् । वृत्रहन्तमम् 'नाद्धस्य' (पा० ८।२।१७ ) इति नुडागमः । ईड्यं | सर्वैः स्तुत्यम् । सहः सोमं सहसा बलेन सोमवदाह्लादकम् । किं कुर्वन् । अनुष्टुभं छन्दः इन्द्रियम् पञ्चाविं गाम् वयश्चेन्द्रे दधत् । पञ्चावयो यस्याः सा सार्धद्विवर्षा गौः । स वेतु ॥ २६ ॥

सप्तविंशी। ।
होता॑ यक्षत्सुब॒र्हिषं॑ पूष॒ण्वन्त॒मम॑र्त्य॒ᳪं᳭ सीद॑न्तं ब॒र्हिषि॑ प्रि॒येऽमृतेन्द्रं॑ वयो॒धस॑म् ।
बृ॒ह॒तीं छन्द॑ इन्द्रि॒यं त्रि॑व॒त्सं गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। २७ ।।
उ० होता यक्षत् । दैव्यो होता यजतु । सुबर्हिषं शोभनबर्हिष्कम् । पूषण्वन्तं पूष्णा संयुक्तम् अमर्त्यममरणधर्माणम् । सीदन्तं बर्हिषि प्रिये अवस्थानं कुर्वन्तं बर्हिष्यभिरुचिते । अमृते इन्द्रं वयोधसम् । किं कुर्वन् यजतु । बृहतीं च छन्दः इन्द्रियं वीर्यं च त्रिवत्सं च गां वय आयुश्च इन्द्रे दधत् धारयन् । प्रयाजदेवता चेज्यमाना इन्द्रेण सह वेतु पिबतु आज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज । ननु प्रयाजदेवताया अत्राधिकरणभावः केवलमुपलभ्यते नतु देवतात्वमिति यश्चोदयेत् तं प्रत्याह । इत्थंभूतमेव बर्हिषो देवतात्वमित्यदोषः । तथा द्वारामपि देवतात्वम् ॥ २७ ॥
म० शक्वरी । होता वयोधसमिन्द्रं यजतु । कीदृशम् । सुबर्हिषं शोभनं बर्हिः प्रयाजदेवता यस्य तम् । पूषण्वन्तम् पूषास्यास्ति पूषण्वांस्तं पूष्णा युक्तम् । अमर्त्यममरणधर्माणम् । प्रिये रुचिते अमृता अमृते अनश्वरे बर्हिषि सीदन्तं तिष्ठन्तम् । किं कुर्वन् । बृहतीं छन्दः इन्द्रियम् त्रिवत्सं गां वयश्चेन्द्रे दधत् । वत्सः संवत्सरः त्रयो वत्सा यस्य त्रिवत्सो गौः त्रिवर्षो वृषः । स वेतु ॥ २७ ॥

अष्टाविंशी।
होता॑ यक्ष॒द्व्यच॑स्वतीः सुप्राय॒णा ऋ॑ता॒वृधो॒ द्वारो॑ दे॒वीर्हि॑र॒ण्ययी॑र्ब्र॒ह्माण॒मिन्द्रं॑ वयो॒धस॑म् ।
प॒ङ्क्तिं छन्द॑ इ॒हेन्द्रि॒यं तु॑र्य॒वाहं॒ गां वयो॒ दध॒द्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। २८ ।।
उ० होता यक्षद्व्यचस्वतीः । दैव्यो होता यजतु व्यचस्वतीर्व्यञ्चनवतीर्गमनवतीः । सुप्रायणाः साधुप्रगमनाः । ऋतावृधः सत्यवृधो वा यज्ञवृधो वा । द्वारः यज्ञगृहद्वारः। द्वितीयाबहुवचनान्तान्येतानि पदानि । देवीर्यज्ञफलदात्रीः हिरण्ययीः अविनाशिनीः । तथा । ब्रह्माणं परिवृढम् इन्द्रं । वयोधसम् आयुषो धारयितारं च यजतु पङ्क्तिं च छन्दः । इहेत्यभिनयदर्शनम् । इहास्मिन्निन्द्रे इन्द्रियं वीर्यं च तुर्यवाहं गां च आयुश्च दधत् धारयन् । सेन्द्रा द्वारश्चेज्यमाना व्यन्तु पिबन्तु आज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥ २८ ॥
म० अतिशक्वरी । होता द्वारो देवीः ब्रह्माणं परिवृढं वयोधसमिन्द्रं च यजतु । कीदृशीर्द्वारः । व्यचस्वतीः व्यचो व्यञ्चनं गमनावकाशो विद्यते यासु ताः । अतएव सुप्रायणाः शोभनं प्रकर्षेणायनं गमनं यासु ताः । ऋतवृधः सत्यस्य वर्धयित्रीः । हिरण्ययीः हिरण्मयीः दृढाः । किं कुर्वन् । पङ्क्तिं छन्दः इन्द्रियम् तुर्यवाहं गाम् वयश्च इह इन्द्रे दधत् । सार्धत्रिवर्षो गोस्तुर्यवाट् तुर्यं चतुर्थं वर्षं वहतीति ॥ २८ ॥

एकोनत्रिंशी।
होता॑ यक्षत्सु॒पेश॑सा सुशि॒ल्पे बृ॑ह॒ती उ॒भे नक्तो॒षासा॒ न द॑र्श॒ते विश्व॒मिन्द्रं॑ वयो॒धस॑म् ।
त्रि॒ष्टुभं॒ छन्द॑ इ॒हेन्द्रि॒यं प॑ष्ठ॒वाहं॒ गां वयो॒ दध॑द्वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ।। २९ ।।
उ० होता यक्षत्सुपेशसा । दैव्यो होता यजतु सुपेशसा सुपेशसौ । पेश इति रूपनाम । सुरूपे सुशिल्पे । 'यद्वै प्रतिरूपं तच्छिल्पम्' अन्योन्यं प्रतिरूपे । बृहती महत्यौ उभे नक्तोषासा न । समुच्चयार्थीयो नकारः। उभे अपि नक्तोषसौ। नक्ता रात्रिः उषाश्च रात्रेरपरकालः । दर्शते दर्शनीये । विश्वं सर्वात्मकमिन्द्रं वयोधसम् आयुषो धारयितारं च यजतु । किं कुर्वन् यजतु । त्रिष्टुभं च छन्दः इह इन्द्रे इन्द्रियं च वीर्यं पष्ठवाहं गां च वय आयुश्च दधत् धारयन् । नक्तोषासौ सेन्द्रे चेज्यमाने वीतां पिबतामाज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥ २९॥
म० अतिशक्वरी । होता उभे नक्तोषासा नकोषसौ विश्वं सर्वात्मकं वयोधसमिन्द्रं च यजतु । नक्ता रात्रिः उषा रात्रेरपरभागः । नकारश्चार्थः । कीदृश्यौ नक्तोषसौ। सुपेशसा सुपेशसौ पेशः रूपनाम । शोभनं पेशो ययोस्ते सुरूपे । | सुशिल्पे 'यद्वै प्रतिरूपं तच्छिल्पं' इति श्रुतेः । सुष्ठु शिल्पं ययोस्ते अन्योन्यं प्रतिरूपे । बृहती बृहत्यौ । दर्शते दर्शनीये । | दृशेरतच् प्रत्ययः । किं कुर्वन् । त्रिष्टुभं छन्दः इन्द्रियम् पष्ठवाहं गाम् वयश्च इहेन्द्रे दधत् । ते वीतां पिबताम् ॥ २९ ॥

त्रिंशी।
होता॑ यक्ष॒त्प्रचे॑तसा दे॒वाना॑मुत्त॒मं यशो॒ होता॑रा दैव्या क॒वी स॒युजेन्द्रं॑ वयो॒धस॑म् ।
जग॑तीं॒ छन्द॑ इन्द्रि॒यम॑न॒ड्वाहं॒ गां वयो॒ दध॑द्वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ।। ३० ।।
उ० होता यक्षत्प्रचेतसा । दैव्यो होता यजतु । प्रचेतसा प्रकृष्टज्ञानौ । यौ च देवानामुत्तमं यशः । यशः पुञ्जीकृतये होतारौ दैव्यौ । अयं चाग्निरसौ च मध्यमः । कवी क्रान्तदर्शनौ । सयुजा सहयोगिनौ । इन्द्रं च वयोधसम् आयुषो धारयितारम् । किंकुर्वन् दैव्यो होता यजतु । जगतीं छन्दः इन्द्रियं वीर्यं च । अनड्वाहं च गां वयः आयुश्च इन्द्रे दधत् धारयन् । तौ च दैव्यौ होतारौ सेन्द्रावीज्यमानौ वीतां पिबतामाज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥ ३० ॥
म० एकाधिका शक्वरी । होता दैव्यौ होतारौ वयोधसमिन्द्रं च यजतु । अयं चाग्निरसौ च मध्यम इति । होतारौ कीदृशौ । प्रचेतसा प्रकृष्टं चेतो ययोस्तौ प्रचेतसौ । देवानामुत्तमं यशः पुञ्जीकृतदेवयशोरूपौ । कवी क्रान्तदर्शनौ । सयुजा सह युङ्क्तस्तौ समानयोगौ । किं कुर्वन् । जगतीं छन्दः इन्द्रियम् अनड्वाहं गाम् वयश्च इन्द्रे दधत् । अनः शकटं वहतीत्यनड्वान् शकटक्षमो वृषः तौ वीताम् ॥ ३०॥

एकत्रिंशी।
होता॑ यक्ष॒त्पेश॑स्वतीस्ति॒स्रो दे॒वीर्हि॑र॒ण्ययी॒र्भार॑तीर्बृह॒तीर्म॒हीः पति॒मिन्द्रं॑ वयो॒धस॑म् ।
वि॒राजं॒ छन्द॑ इ॒हेन्द्रि॒यं धे॒नुं गां न वयो॒ दध॒द्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३१ ।।
 उ० होता यक्षत्पेशस्वतीः। दैव्यो होता यजतु पेशस्वतीः रूपसमृद्धाः तिस्रो देवीः हिरण्ययीः हिरण्यालंकृतशरीराः। भारतीः भरत आदित्यः तस्य भारतीः । बहुवचनमिडासरस्वत्युपलक्षणार्थम् । बृहतीः प्रभावतः महत्यः आदित्येन्द्राग्निसंबन्धात् । पतिं पालयितारम् इन्द्रं च वयोधसम् आयुषो धारयितारं यजतु । किंकुर्वन्यजतु । विराजं छन्दः इहास्मिन्निन्द्रे इन्द्रियं वीर्यं च । धेनुं गां न । नकारः समुच्चयार्थीयः । धेनुं च गां वय आयुश्च दधत् धारयन् । तिस्रो देव्यश्च सेन्द्रा ईज्यमानाः व्यन्तु पिबन्तु आज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥ ३१ ॥
म० एकाधिका शक्वरी । होता तिस्रो देवीः पतिं पालकं वयोधसमिन्द्रं च यजतु । कीदृशीस्तिस्रः । पेशो रूपमस्ति यासां ताः रूपसमृद्धाः । हिरण्ययीः हिरण्यालंकृतदेहाः । बृहतीः प्रभावेण । महीः महतीः तेजसा आदित्येन्द्राग्निसंबन्धात् । कास्ताः भारतीः। बहुवचनमिडासरस्वत्युपलक्षणम् । इडासरस्वतीभारत्यस्तिस्र इत्यर्थः । किं कुर्वन् । विराजं छन्दः इन्द्रियम् धेनुं दोग्ध्रीं गाम् वयश्चेन्द्रे दधत् । नकारश्चार्थः । सेन्द्रास्ता व्यन्तु ॥ ३१ ॥

द्वात्रिंशी।
होता॑ यक्षत्सु॒रेत॑सं॒ त्वष्टा॑रं पुष्टि॒वर्ध॑नᳪं᳭ रू॒पाणि॒ बिभ्र॑तं॒ पृथ॒क् पुष्टि॒मिन्द्रं॑ वयो॒धस॑म् ।
द्वि॒पदं॒ छन्द॑ इन्द्रि॒यमु॒क्षाणं॒ गां न वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३२ ।।
उ० होता यक्षत्सुरेतसम् । दैव्यो होता यजतु सुरेतसं त्वष्टारम् । शोभनं हि रेतस्त्वष्टुर्जगदुत्पत्तिबीजत्वात् । पुष्टिं वर्धयितारम् । रूपाणि बिभ्रतं पृथक् पुष्टिम् । जातिषु रूपाणि पुष्टिं च पृथक् धारयन्तम् । इन्द्रं च वयोधसं आयुषो धारयितारं यजतु । किंकुर्वन्यजतु । द्विपदं च छन्दः इन्द्रियं वीर्यम् उक्षाणं गां न । नकारः समुच्चयार्थीयो भिन्नक्रमः । उक्षाणं च गाम् वय आयुश्च इन्द्रे दधत् धारयन् । त्वष्टा च सेन्द्रः ईज्यमानः वेतु पिबतु आज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥ ३२ ॥
म. एकाधिका शक्वरी । होता त्वष्टारं वयोधसमिन्द्रं च यजतु । कीदृशं त्वष्टारम् । सुरेतसं शोभनं रेतो यस्य तम् । जगदुत्पादकत्वात्त्वष्टुः शोभनं रेतः । पुष्टिवर्धनं पुत्रादिपुष्टेर्वर्धयितारम् । पृथक् नानाजातिषु रूपाणि पुष्टिं च बिभ्रतम् । किं कुर्वन् । द्विपदं छन्दः इन्द्रियम् उक्षाणं रेतःसेकक्षमं गां वृषम् वयश्चेन्द्रे दधत् । नश्चार्थः । सेन्द्रस्त्वष्टा वेतु ॥ ३२ ॥

त्रयस्त्रिंशी।
होता॑ यक्ष॒द्वन॒स्पति॑ᳪं᳭ शमि॒तार॑ᳪं᳭ श॒तक्र॑तु॒ᳪं᳭ हिर॑ण्यपर्णमु॒क्थिन॑ᳪं᳭ रश॒नां बिभ्र॑तं व॒शिं भग॒मिन्द्रं॑ वयो॒धस॑म् ।
क॒कुभं॒ छन्द॑ इ॒हेन्द्रि॒यं व॒शां वे॒हतं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३३ ।।
उ० होता यक्षद्वनस्पतिम् । दैव्यो होता यजतु वनस्पतिं शमितारं हविषः संस्कर्तारम् । शतक्रतुं बहुकर्माणम् । हिरण्यपर्णं सुवर्णमयपत्रम् । उक्थिनम् । 'वच परिभाषणे' अस्य उक्थिनं वचनवन्तं यज्ञवन्तं वा । रशनां बिभ्रतम् स्वरूपानुवादः । यूपे हि पशुबन्धनार्थं रज्जुर्बध्यते । वशिं कान्तं भगं भजनीयम् । इन्द्रं च वयोधसमायुषो धारयितारं यजतु । किं कुर्वन् दैव्यो होता यजतु । ककुभं च छन्दः इहेन्द्रे इन्द्रियं वीर्यं च वशां वन्ध्यां वेहतं गर्भघातिनीं च गां वय आयुश्च दधत् धारयन् । वनस्पतिश्च सेन्द्र ईज्यमानः वेतु पिबतु आज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥ ३३ ॥
म० अत्यष्टिः । होता वनस्पतिं वयोधसमिन्द्रं च यजतु । कीदृशं वनस्पतिम् । शमितारं संस्कर्तारं हविषाम् । शतक्रतुं बहुकर्माणम् । हिरण्यपर्णं हिरण्मयानि पर्णानि यस्य तम् । | उक्थिनम् उक्थानि शस्त्राणि सन्त्यस्य यज्ञवन्तं वा । रशनां रज्जु बिभ्रतम् । स्वभावानुवादः । यूपे हि पशुबन्धाय रज्जुर्बध्यते । वशिं कान्तम् । भगं भजनीयम् । किं कुर्वन् । ककुभं छन्दः इन्द्रियम् वशां वन्ध्यां वेहतं गर्भोपघातिनीं च | गाम् वयश्च इह इन्द्रे दधत् । सेन्द्रो वनस्पतिर्वेतु ॥ ३३ ॥

चतुस्त्रिंशी।
होता॑ यक्ष॒त्स्वाहा॑कृतीर॒ग्निं गृ॒हप॑तिं॒ पृथ॒ग्वरु॑णं भेष॒जं क॒विं क्ष॒त्रमिन्द्रं॑ वयो॒धस॑म् ।
अति॑च्छन्दसं॒ छन्द॑ इन्द्रि॒यं बृ॒हदृ॑ष॒भं गां वयो॒ दध॒द्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३४ ।।
उ० होता यक्षत्स्वाहाकृतीः । दैव्यो होता यजतु स्वाहाकृतीः प्रयाजदेवताः। अग्निं च गृहपतिं पृथक् यजतु । वरुणं च भेषजम् । तथा कविं कान्तदर्शनं । क्षत्रं प्रहाराद्रक्षितारम् । इन्द्रं च वयोधसमायुषो धारयितारम् यजतु । किंकुर्वन्यजतु । अतिच्छन्दसं च छन्दः इन्द्रियं च वीर्यं बृहन्महत् ऋषभं च गां वय आयुश्च इन्द्रे दधत् धारयन् । सेन्द्रश्च प्रयाजदेवता ईज्यमाना व्यन्तु पिबन्तु आज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥ ३४ ॥
म० अतिशक्वरी । होता स्वाहाकृतीः प्रयाजदेवताः इन्द्रं च यजतु । कीदृशमिन्द्रम् । अग्निम् अङ्गतीत्यग्निः अग्रे गन्तारम् । पृथक् प्रत्येकं यज्ञेषु । गृहपतिं गृहस्य पालकम् । वरुणम् व्रियतेऽसौ वरुणस्तम् ऋत्विग्भिर्वरणीयम् । भेषजं रोगनाशकम् । कविं कान्तदर्शनम् । क्षत्रं क्षतात्प्रहारात्त्रातारम् । वयोधसमायुषो दातारम् । किं कुर्वन् । अतिच्छन्दसं छन्दः इन्द्रियं वीर्यं बृहत् महत् ऋषभं पुष्टं गां वयश्चेन्द्रे दधत् । सेन्द्राः स्वाहाकृतयः आज्यं व्यन्तु । हे मनुष्यहोतः, त्वमपि यज ॥ ३४ ॥

पञ्चत्रिंशी।
दे॒वं ब॒र्हिर्व॑यो॒धसं॑ दे॒वमिन्द्र॑मवर्धयत् ।
गा॒य॒त्र्या छन्द॑सेन्द्रि॒यं चक्षु॒रिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। ३५ ।।
उ०. अथ वयोधसोनुयाजप्रैषाः । देवं बर्हिः यत् देवं द्योतनं बर्हिः । वयोधसमायुषो धारयितारं देवं दानादिगुणयुक्तं इन्द्रं अवर्धयत् । किंकुर्वन् । गायत्र्या छन्दसा इन्द्रियं वीर्यं चक्षुश्च इन्द्रे वय आयुश्च दधत् धारयत् । तत् वसुवननाय वसुधानाय च वेतु पिबतु आज्यस्य स्वमंशम् । त्वमपि हे होतः, यज ॥ ३५॥
म० वयोधसे पशावेवैकादशानुयाजानां प्रैषाः बर्हिरादिदेवताः । एकाधिके आर्ष्यौ त्रिष्टुभौ द्वे । बर्हिः देवं वयोधसमिन्द्रं देवमवर्धयत् । कीदृशं बर्हिः । गायत्र्या छन्दसा कृत्वा चक्षुरिन्द्रियं वयश्चेन्द्रे दधत् । तत् वसुवननाय वसुधानाय चाज्यं वेतु । षष्ठीसप्तम्यौ चतुर्थ्यर्थे । हे मनुष्यहोतः, त्वमपि यज । एवमग्रेऽपि व्याख्येयम् ॥ ३५ ॥

षट्त्रिंशी।
दे॒वीर्द्वारो॑ वयो॒धस॒ᳪं᳭ शुचि॒मिन्द्र॑मवर्धयन् ।
उ॒ष्णिहा॒ छन्द॑सेन्द्रि॒यं प्रा॒णमिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ३६ ।।
उ० देवीर्द्वारः । या देव्यः द्वारः वयोधसमायुषो धारयितारम् । शुचिं पवित्रम् इन्द्रम् अवर्धयन् । किं कुर्वत्यः । उष्णिहा । छन्दसा इन्द्रियं वीर्यं प्राणं च इन्द्रे वय आयुश्च दधत् दधत्य इति लिङ्गवचनव्यत्ययः । धारयन्त्य इत्यर्थान्तरम् । ताः वसुवननाय वसुधानाय च व्यन्तु पिबन्तु । त्वमपि हे होतः, यज ॥ ३६ ॥
म० द्वारो देव्यः वयोधसं शुचिं पवित्रमिन्द्रमवर्धयन् । कीदृश्थो द्वारः । उष्णिहा छन्दसा कृत्वा सह वा प्राणमिन्द्रियं प्राणेन्द्रियं वयश्चेन्द्रे दधत् दधत्यः । लिङ्गवचनव्यत्ययः । ता व्यन्तु ॥ ३६ ॥

सप्तत्रिंशी।
दे॒वी उ॒षासा॒नक्ता॑ दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वी दे॒वम॑वर्धताम् ।
अ॒नु॒ष्टुभा॒ छन्द॑सेन्द्रि॒यं बल॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ।। ३७ ।।
उ० देवी उषासानक्ता । ये देव्यौ उषासानक्ता उषाश्च रावेरपरकालः नक्तेति रात्रिनाम । देवमिन्द्रं वयोधसमायुषो धारयितारम् । देवी देव्यौ देवम् । एको देवीशब्दो दीप्तिवचनोऽपरो दानादिगुणयुक्तवचनः । देवशब्दोऽप्येवमेव । अवर्धताम् । किंकुर्वन्त्यौ । अनुष्टुभा छन्दसा इन्द्रियं बलं च इन्द्रे वय आयुश्च दधत् धारयन्त्यौ । ते वसुवननाय वसुधानाय च वीतां पिबतामाज्यस्य स्वमंशम् । त्वमपि हे होतः, यज ॥ ३७॥
म० द्वे ब्राह्यौधा बृहत्यौ । उषासानक्तौ देवी देव्यौ वयोधसमिन्द्रं देवमवर्धताम् । उषाश्च नक्तं च उषासानक्ता 'उषासोषसः' (पा० ६ । ३ । ३१) इत्युषःशब्दस्य देवताद्वन्द्वे उषासाआदेशः विभक्तेराकारश्च । कीदृश्यौ ते । देवी दीप्यमाने । कीदृशमिन्द्रम् । देवं दीप्यमानम् । एकौ देवीदेवशब्दौ दीप्तिवाचकौ अन्यौ सुरवाचकौ । अनुष्टुभा छन्दसा बलमिन्द्रियं वयश्च इन्द्रे दधत् दधत्यौ । दधदित्यव्ययम् लिङ्गवचनव्यत्ययो वा । ते वीताम् ॥ ३७॥

अष्टत्रिंशी।
दे॒वी जोष्ट्री॒ वसु॑धिती दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वी दे॒वम॑वर्धताम् ।
बृ॒ह॒त्या छन्द॑सेन्द्रि॒यᳪं᳭ श्रोत्र॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ।। ३८ ।।
उ० देवी जोष्ट्री । ये देव्यौ जोष्ट्र्यौ जोषयित्र्यौ । वसुधिती वसुधात्र्यौ देवं दीप्तं वयोधसमायुषो धारयितारमिन्द्रम् देव्यौ देवम् अवर्धताम् । ते बृहत्या छन्दसा इन्द्रियं वीर्यं श्रोत्रं च इन्द्रे वय आयुश्च दधत् धारयन्त्यौ सत्यौ वसुवननाय वसुधानाय च वीतां पिबतामाज्यस्य स्वमंशम् । । त्वमपि हे होतः, यज ॥ ३८ ॥
म० देवी देव्यौ दीप्यमाने अनुयाजदेवते देवं दीप्तं वयोधसमिन्द्रं देवमवर्धताम् । देवीदेवशब्दौ पूर्ववत् । कीदृश्यौ । जोष्ट्र्यौ जुषेते ते जोष्ट्र्यौ प्रीतियुक्ते । जुषेस्तृच् । वसुधिती वसुनो धनस्य धारयित्र्यौ । बृहत्या छन्दसा श्रोत्रमिन्द्रियं वयश्च इन्द्रे दधत्यौ ॥ ३८ ॥

एकोनचत्वारिंशी। ।
दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दु॒घे॒ पय॒सेन्द्रं॑ वयो॒धसं॑ दे॒वी दे॒वम॑वर्धताम् ।
प॒ङ्क्त्या छन्द॑सेन्द्रि॒यᳪं᳭ शु॒क्रमिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ।। ३९ ।।
उ० देवी ऊर्जाहुती । ये देवी दात्र्यौ ऊर्जाहुती ऊर्जाह्वान्यौ दुघे दोग्ध्र्यौ सुदुघे सुदोहने पयसा इन्द्रं वयोधसं . देवी देव्यौ द्युस्थाने देवं द्युस्थानम् अवर्धताम् । ते पङ्क्त्या छन्दसा इन्द्रियं वीर्यं शुक्रं च इन्द्रे वय आयुश्च दधत् धारयन्त्यौ वसुवननाय वसुधानाय च वीतां पिबतामाज्यस्य स्वमंशम् । त्वमपि हे होतः, यज ॥ ३९॥
म० शक्वरी । देवी दात्र्यौ ऊर्जाह्वान्यौ देव्यौ पयसा वयोधसं देवमिन्द्रमवर्धताम् । कीदृश्यौ । दुघे दोग्ध्र्यौ । सुदुघे सुखेन दोग्धुं शक्ये । पङ्क्यां छन्दसा शुक्रं वीर्यमिन्द्रियं वयः चेन्द्रे दधत्यौ ॥ ३९ ॥

चत्वारिंशी।
दे॒वा दैव्या॒ होता॑रा दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वौ दे॒वम॑वर्धताम् ।
त्रि॒ष्टुभा॒ छन्द॑सेन्द्रि॒यं त्विषि॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ।। ४० ।।
उ० देवा दैव्या । यौ देवौ दातारौ दैव्यौ होतारौ अयं चाग्निरसौ च मध्यमः । देवं दातारमिन्द्रं वयोधसमायुषो धारयितारम् देवौ द्युस्थानौ देवं द्युस्थानम् अवर्धताम् । तौ त्रिष्टुभा छन्दसा इन्द्रियं वीर्यं त्विषिं दीप्तिं च इन्द्रे वयश्चायुः दधत् धारयन्तौ वसुवननाय च वसुधानाय वीतां पिबतामाज्यस्य स्वमंशम् । हे होतः, यज ॥ ४० ॥
म० अतिजगती । दैव्या दैव्यौ देवा देवौ दीप्तौ देवसंबन्धिनौ होतारा होतारौ देवौ वयोधसं देवं दीप्तमिन्द्रं देवमवर्धताम् । त्रिष्टुभा छन्दसा त्विषिं कान्तिमिन्द्रियं त्वगिन्द्रियं वयश्चेन्द्रे दधतौ ॥ ४० ॥

एकचत्वारिंशी ।
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर्व॑यो॒धसं॒ पति॒मिन्द्र॑मवर्धयन् ।
जग॑त्या॒ छन्द॑सेन्द्रि॒यᳪं᳭ शूष॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ४१ ।।
उ० देवीस्तिस्रः । याः तिस्रोदेव्यः सरस्वतीडाभारत्यः । आदरार्थमभ्यासः । वयोधसमायुषो धारयितारम् पतिं पालयितव्यम् इन्द्रमवर्धयन् । ता जगत्या छन्दसा इन्द्रियं वीर्यम् । शूषम् शूषशब्दो बलवचनः । बलम् इन्द्रे वय आयुश्च दधत् दधत्यः वसुवननाय वसुधानाय च व्यन्तु पिबन्तु आज्यस्य स्वमंशं हे होतः, यज ॥ ४१ ॥
म० एकाधिका ब्राह्मी अनुष्टुप् । तिस्रो देव्यो भारतीडासरस्वत्यः पतिं पालकं वयोधसमिन्द्रमवर्धयन् । अभ्यास आदरार्थः । कीदृश्यः । जगत्या छन्दसा शूषं बलमिन्द्रियं वयश्चेन्द्रे दधत्यः ॥ ४१ ॥

द्विचत्वारिंशी।
दे॒वो नरा॒शᳪं᳭सो॑ दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वो दे॒वम॑वर्धयत् ।
वि॒राजा॒ छन्द॑सेन्द्रि॒यᳪं᳭ रु॒पमिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। ४२ ।।
उ० देवो नराशंसः । यो देवो द्युस्थानो नराशंसो यज्ञः देवं द्युस्थानम् इन्द्रं वयोधसमायुषो धारयितारम् । देवो देवम् दानादिगुणयुक्त इत्युभयत्र । अवर्धयत् । स इदानीं विराजा छन्दसा इन्द्रियं वीर्यं रूपं च इन्द्रे वय आयुश्च दधत् धारयन् वसुवननाय वसुधानाय च वेतु पिबतु आज्यस्य स्वमंशं हे होतः, यज ॥ ४२ ॥
म० अतिजगती । देवो दाता नराशंसो देवः देवं दीप्तं वयोधसमिन्द्रमवर्धयत् । कीदृशः । विराजा छन्दसा रूपमिन्द्रियं वयश्चेन्द्रे दधत् ॥ ४२ ॥

त्रिचत्वारिंशी।
दे॒वो वन॒स्पति॑र्दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वो दे॒वम॑वर्धयत् ।
द्विप॑दा॒ छन्द॑सेन्द्रि॒यं भग॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। ४३ ।।
उ० देवो वनस्पतिः ।यो देवो वनस्पतिर्यूपः । देवं द्युस्थानम् इन्द्रं वयोधसमायुषो धारयितारम् देवो देवम् - दीप्त इत्युभयत्र । अवर्धयत् । स इदानीं द्विपदा छन्दसा इन्द्रियं वीर्यं भगमैश्वर्यं च इन्द्रे वय आयुश्च दधत् धारयन् वसुवननाय वसुधानाय च वेतु पिबतु । त्वमपि हे होतः, यज ॥ ४३ ॥
म० अतिजगती । देवो दाता वनस्पतिर्यूपः देवं द्योतनं वयोधसमिन्द्रं देवमवर्धयत् । कीदृशः । द्विपदा छन्दसा भगं । सौभाग्यरूपमिन्द्रियं वयश्चेन्द्रे दधत् ॥ ४३ ॥

चतुश्चत्वारिंशी।
दे॒वं ब॒र्हिर्वारि॑तीनां दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वं दे॒वम॑वर्धयत् ।
क॒कुभा॒ छन्द॑सेन्द्रि॒यं यश॒ इन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। ४४ ।।
उ० देवं बर्हिः । यद्देवं श्रेष्ठं बर्हिः । वारितीनां वार्भ्यः अद्भ्यः इतीनामुद्गतानाम् । ओषधीनामित्यर्थः । देवं द्युस्थानम् इन्द्रं वयोधसमायुषो धारयितारम् देवं देवम् दानादिगुणयुक्तमित्युभयत्र । अवर्धयत् । तत्ककुभा छन्दसा इन्द्रियं वीर्यं यशश्च इन्द्रे वय आयुश्च दधत् धारयन् वसुवननाय वसुधानाय च वेतु पिबतु आज्यस्य स्वमंशम् । त्वमपि हे होतः, यज ॥ ४४ ॥
म. ब्राह्मी बृहती । बर्हिः देवमिन्द्रमवर्धयत् । कीदृशमिन्द्रम् । देवं दीप्यमानम् । वयोधसं वयसो दातारम् । कीदृशं बर्हिः । वारितीनां वार्भ्यः सकाशात् इतिरुत्पत्तिर्यासां 'ता वारितय ओषधयस्तासां मध्ये देवं दीप्तं श्रेष्ठमित्यर्थः । ककुभा छन्दसा यशोरूपमिन्द्रियं वयश्चेन्द्रे दधत् ॥ ४४ ॥

पञ्चचत्वारिंशी।
दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृद्दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वो दे॒वम॑वर्धयत् ।
अति॑च्छन्दसा॒ छन्द॑सेन्द्रि॒यं क्ष॒त्रमिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। ४५ ।।
उ० देवो अग्निः । यो देवो द्युस्थानः अग्निः स्विष्टकृत् साधु इष्टं कर्तव्यमिति यस्यायमधिकारः । देवं द्युस्थानम् इन्द्रं वयोधसमायुषो धारयितारम् देवो देवम् दीप्त इत्युभयत्र । अवर्धयत् अतिच्छन्दसा छन्दसा स इदानीम् इन्द्रियं वीर्यम् क्षत्रं क्षतात्त्राणम् इन्द्रे वय आयुश्च दधत् धारयन् वसुवननाय वसुधानाय च वेतु पिबतु आज्यस्य स्वमंशम् । त्वमपि हे होतः, यज ॥ ४५ ॥
म० ब्राह्मी बृहती । देवो दाता स्विष्टकृत् अग्निः देवो वयोधसं देवं दीप्तमिन्द्रं देवमवर्धयत् । कीदृशः । अतिच्छन्दसा छन्दसा क्षत्रं क्षतात्त्राणरूपमिन्द्रं वयश्चेन्द्रे दधत् । स वसुवननाय वसुधानाय च वेतु । हे होतः, त्वमपि यज ॥४५॥

षट्चत्वारिंशी।
अ॒ग्निम॒द्य होता॑रमवृणीता॒यं यज॑मान॒: पच॒न्पक्ती॒: पच॑न्पुरो॒डाशं॑ ब॒ध्नन्निन्द्रा॑य वयो॒धसे॒ छाग॑म् ।
सू॒प॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभव॒दिन्द्रा॑य वयो॒धसे॒ छागे॑न ।
अघ॒त्तं मे॑द॒स्तः प्रति॑पच॒ताग्र॑भी॒दवी॑वृधत्पुरो॒डाशे॑न । त्वाम॒द्य ऋ॑षे ।। ४६ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां अष्टाविंशोऽध्यायः ॥ २८ ॥
उ० अग्निमद्येति व्याख्यातम् । इन्द्राय वयोधसे इति विशेषः ॥ ४६॥
इति उवटकृतौ मन्त्रभाष्ये अष्टाविंशतितमोऽध्यायः ॥२८॥
म० अग्निमद्य एकाधिका ब्राह्मी गायत्री । सूपस्थाः ब्राह्म्यनुष्टुप् । एते व्याख्याते ( क. २३)। त्वामद्य प्रतीकोक्तः सर्वोऽपि पाठ्यः । एकाधिका विकृतिः । अयमपि व्याख्यातः (क० २३ ) । इन्द्राय वयोधसे इति विशेषः ॥ ४६ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
अष्टाविंशोऽयमध्यायोऽगमत्सौत्रामणीभवः ॥
इति सौत्रामणीसंबन्धिप्रयाजानुयाजप्रैषनिरूपणंनामाष्टाविंशोऽध्यायः ॥ २८ ॥