शुक्लयजुर्वेदः/अध्यायः २७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २६ शुक्लयजुर्वेदः
अध्यायः २७
[[लेखकः :|]]
अध्यायः २८ →

अध्यायः 27
पञ्चचितिकस्याग्नेः मन्त्राः

27.1
समास् त्वाग्न ऽ ऋतवो वर्धयन्तु संवत्सरा ऽ ऋषयो यानि सत्या ।
सं दिव्येन दीदिहि रोचनेन विश्वा ऽ आ भाहि प्रदिशश् चतस्रः ॥

27.2
सं चेध्यस्वाग्ने प्र च बोधयैनम् उच् च तिष्ठ महते सौभगाय ।
मा च रिषद् उपसत्ता ते ऽ अग्ने ब्रह्माणस् ते यशसः सन्तु मा ऽन्ये ॥

27.3
त्वाम् अग्ने वृणते ब्राह्मणा ऽ इमे शिवो ऽ अग्ने संवरणे भवा नः ।
सपत्नहा नो ऽ अभिमातिजिच् च स्वे गये जागृह्य् अप्रयुच्छन् ॥

27.4
इहैवाग्ने ऽ अधि धारया रयिं मा त्वा नि क्रन् पूर्वचितो निकारिणः ।
क्षत्रम् अग्ने सुयमम् अस्तु तुभ्यम् उपसत्ता वर्धतां ते ऽ अनिष्टृतः ॥

27.5
क्षत्रेणाग्ने स्वायुः सꣳ रभस्व मित्रेणाग्ने मित्रधेये यतस्व ।
सजातानां मध्यमस्था ऽ एधि राज्ञाम् अग्ने विहव्यो दीदिहीह ॥

27.6
अति निहो ऽ अति स्रिधो ऽत्य् अचित्तिम् अत्य् अरातिम् अग्ने ।
विश्वा ह्य् अग्ने दुरिता सहस्वाथास्मभ्यꣳ सहवीराꣳ रयिं दाः ॥

27.7
अनाधृष्यो जातवेदा ऽ अनाधृष्टो विराड् अग्ने क्षत्रभृद् दीदिहीह ।
विश्वा ऽ आशाः प्रमुञ्चन् मानुषीर् भयः शिवेभिर् अद्य परि पाहि नो वृधे ॥

27.8
बृहस्पते सवितर् बोधयैनꣳ सꣳशितं चित् संतराꣳ सꣳ शिशाधि ।
वर्धयैनं महते सौभगाय विश्व ऽ एनम् अनु मदन्तु देवाः ॥

27.9
अमुत्रभूयादध यद् यमस्य बृहस्पते ऽ अभिशस्तेर् अमुञ्चः ।
प्रत्य् औहताम् अश्विना मृत्युम् अस्माद् देवानाम् अग्ने भिषजा शचीभिः ॥

27.10
उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् ।
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥

27.11
ऊर्ध्वा ऽ अस्य समिधो भवन्त्य् ऊर्ध्वा शुक्रा शोचीꣳष्य् अग्नेः ।
द्युमत्तमा सुप्रतीकस्य सूनोः ॥

27.12
तनूनपाद् असुरो विश्ववेदा देवो देवेषु देवः ।
पथो अनक्तु मध्वा घृतेन ॥

27.13
मध्वा यज्ञं नक्षसे प्रीणानो नराशꣳसो ऽ अग्ने ।
सुकृद् देवः सविता विश्ववारः ॥

27.14
अच्छायम् एति शवसा घृतेनेडानो वह्निर् नमसा ।
अग्निꣳ स्रुचो ऽ अध्वरेषु प्रयत्सु ॥

27.15
स यक्षद् अस्य महिमानम् अग्नेः स ऽ ईं मन्द्रा सुप्रयसः ।
वसुश्चेतिष्ठो वसुधातमश् च ॥

27.16
द्वारो देवीर् अन्व् अस्य विश्वे व्रता ददन्ते ऽ अग्नेः ।
उरुव्यचसो धाम्ना पत्यमानाः ॥

27.17
ते ऽ अस्य योषणे दिव्ये न योना ऽ उषासानक्ता ।
इमं यज्ञम् अवताम् अध्वरं नः ॥

27.18
दैव्या होतारा ऽ ऊर्ध्वम् अध्वरं नो ऽग्नेर् जिह्वाम् अभि गृणीतम् ।
कृणुतम् नः स्विष्टम् ॥

27.19
तिस्रो देवीर् बर्हिर् इदꣳ सदन्त्व् इडा सरस्वती भारती ।
मही गृणाना ॥

27.20
तन् नस् तुरीपम् अद्भुतं पुरुक्षु त्वष्टा सुवीर्यम् ।
रायस्पोषं वि ष्यतु नाभिम् अस्मे ॥

27.21
वनस्पते ऽव सृजा रराणस् त्मना देवेषु ।
अग्निर् हव्यꣳ शमिता सूदयाति ॥

27.22
अग्ने स्वाहा कृणुहि जातवेदो ऽ इन्द्राय हव्यम् ।
विश्वे देवा हविर् इदं जुषन्ताम् ॥

27.23
पीवो ऽ अन्ना रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुताम् अभिश्रीः ।
ते वायवे समनसो वि तस्थुर् विश्वेन् नरः स्वपत्यानि चक्रुः ॥

27.24
राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् ।
अध वायुं नियुतः सश्चत स्वा ऽ उत श्वेतं वसुधितिं निरेके ॥

27.25
आपो ह यद् बृहतीर् विश्वम् आयन् गर्भं दधाना जनयन्तीर् अग्निम् ।
ततो देवानाꣳ सम् अवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥

27.26
यश् चिद् आपो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर् यज्ञम् ।
यो देवेष्व् अधि देव ऽ एक ऽ आसीत् कस्मै देवाय हविषा विधेम ॥

27.27
प्र याभिर् यासि दाश्वाꣳसम् अच्छा नियुद्भिर् वायविष्टये दुरोणे ।
नि नो रयिꣳ सुभोजसं युवस्व नि वीरं गव्यम् अश्व्यं च राधः ॥

27.28
आ नो नियुद्भिः शतिनीभिर् अध्वरꣳ सहस्रिणीभिर् उप याहि यज्ञम् ।
वायो ऽ अस्मिन् सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥

27.29
नियुत्वान् वायवा गह्य् अयꣳ शुक्रो अयामि ते ।
गन्तासि सुन्वतो गृहम् ॥

27.30
वायो शुक्रो ऽ अयामि ते मध्वो ऽ अग्रं दिविष्टिषु ।
आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥

27.31
वायुर् अग्रेगा यज्ञप्रीः साकं गन् मनसा यज्ञम् ।
शिवो नियुद्भिः शिवाभिः ॥

27.32
वायो ये ते सहस्रिणो रथासस् तेभिर् आ गहि ।
नियुत्वान्त् सोमपीतये ॥

27.33
एकया च दशभिश् च स्वभूते द्वाभ्याम् इष्टये विꣳशती च ।
तिसृभिश् च वहसे त्रिꣳशता च नियुद्भिर् वायव् इह ता वि मुञ्च ॥

27.34
तव वायवृतस्पते त्वष्टुर् जामातर् अद्भुत ।
अवाꣳस्य् आ वृणीमहे ॥

27.35
अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः ।
ईशानम् अस्य जगतः स्वर्दृशम् ईशानम् इन्द्र तस्थुषः ॥

27.36
न त्वावाꣳ२ऽ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे ॥

27.37
त्वाम् इद्धि हवामहे साता वाजस्य कारवः ।
त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां काष्ठास्व् अर्वतः ॥

27.38
स त्वं नश् चित्र वज्रहस्त धृष्णुया मह स्तवानो ऽ अद्रिवः ।
गाम् अश्वꣳ रथ्यम् इन्द्र सं किर सत्रा वाजं न जिग्युषे ॥

27.39
कया नश् चित्र ऽ आ भुवद् ऊती सदावृधः सखा ।
कया शचिष्ठया वृता ॥

27.40
कस् त्वा सत्यो मदानां मꣳहिष्ठो मत्सद् अन्धसः ।
दृढा चिद् आरुजे वसु ॥

27.41
अभी षु णः सखीनाम् अविता जरितॄणाम् ।
शतं भवास्य् ऊतये ॥

27.42
यज्ञा-यज्ञा वो ऽ अग्नये गिरा-गिरा च दक्षसे ।
प्र-प्र वयम् अमृतं जातवेदसं प्रियं मित्रं न शꣳसिषम् ॥

27.43
पाहि नो ऽ अग्न ऽ एकया पाह्य् उत द्वितीयया ।
पाहि गीर्भिस् तिसृभिर् ऊर्जां पते पाहि चतसृभिर् वसो ॥

27.44
ऊर्जो नपातꣳ स हिनायम् अस्मयुर् दाशेम हव्यदातये ।
भुवद् वाजेष्व् अविता भुवद् वृध ऽ उत त्राता तनूनाम् ॥

27.45
संवत्सरो ऽसि परिवत्सरोऽसीदावत्सरो ऽसीद्वत्सरो ऽसि वत्सरो ऽसि ।
उषसस् ते कल्पन्ताम् अहोरात्रास् ते कल्पन्ताम् अर्धमासास् ते कल्पन्तां मासास् ते कल्पन्ताम् ऋतवस् ते कल्पन्ताꣳ संवत्सरस् ते कल्पताम् ।
प्रेत्या ऽ एत्यै सं चाञ्च प्र च सारय ।
सुपर्णचिद् असि तया देवतयाङ्गिरस्वद् ध्रुवः सीद ॥

भाष्यम्(उवट-महीधर)

सप्तविंशोऽध्यायः ।

तत्र प्रथमा।

समा॑स्त्वाग्न ऋ॒तवो॑ वर्धयन्तु संवत्स॒रा ऋष॑यो॒ यानि॑ स॒त्या ।
सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिश॒श्चत॑स्रः ।। १ ।।
उ० समास्त्वा । आग्निकोऽध्यायः । सामिधेन्यो नव त्रिष्टुभः आग्नेय्योऽग्निना दृष्टाः । प्राक्पीवोन्नाया ऋषिरग्निः कर्माङ्गभूतमग्निं स्तौति । समाशब्दो मासवचनः संवत्सर इति शब्दोपादानसामर्थ्यात् । समाः मासाश्च त्वां हे अग्ने, ऋतवश्व वर्धयन्तु । संवत्सराश्च ऋषयश्च सप्त ऋषयो मन्त्रद्रष्टारो वा प्राणा वा । यानि च सत्या सत्यानि आर्षा मन्त्राः । त्वां वर्धयन्त्वित्यनुवर्तते । त्वमप्येतैर्वर्धमानः संदिव्येन .दीदिहि रोचनेन । संदीदिहि संदीप्यस्व दिव्येन दिविभवेन रोचनेन दीप्त्या । किंच विश्वाः सर्वा आभाहि दीपय दिशः प्रदिशश्च चतस्रः आभाहि ॥ १॥
म० अयमध्यायः पञ्चचितिकस्याग्नेः संबन्धी प्रजापतिदृष्टः । नव ऋचोऽग्निदेवत्यास्त्रिष्टुभोऽग्निना दृष्टाः इष्टकापशौ समिध्यमानसमिद्वत्योरन्तराले आसां विनियोगः । अग्निर्ऋषिः कर्माङ्गभूतमग्निं स्तौति । हे अग्ने, एते त्वा त्वां वर्धयन्तु । के समा मासाः । संवत्सरस्य पृथगुक्तः समाशब्दो मासवाचकः । ऋतवो वसन्ताद्याः संवत्सराः तदधिष्ठातारः ऋषयो मन्त्रद्रष्टारः । यानि सत्या सत्यानि । सत्यरूपा मन्त्रा इत्यर्थः । त्वमप्येतैर्वर्धमानो दिव्येन दिवि भवेन रोचनेन दीप्त्या संदीदिहि संदीप्यस्व । दिवैः श्लौ लुकि रूपम् । 'तुजादीनां दीर्घाऽभ्यासस्य' (पा० ६ । १ । ७) इत्यभ्यासदीर्घः । किंच विश्वाः सर्वाः प्रदिशो विदिशः चतस्रो दिशश्च आभाहि दीपय । अन्तर्भूतो ण्यर्थः 'भा दीप्तौ' ॥ १॥

द्वितीया।
सं चे॒ध्यस्वा॑ग्ने॒ प्र च॑ बोधयैन॒मुच्च॑ तिष्ठ मह॒ते सौ॑भगाय ।
मा च॑ रिषदुपस॒त्ता ते॑ अग्ने ब्र॒ह्माण॑स्ते य॒शस॑: सन्तु॒ मान्ये ।। २ ।।
उ० संच समिद्ध्यस्व च हे अग्ने, प्रबोधय च अवगतार्थं च एनं यजमानं कुरु यथाग्निश्चेतव्य इति । उत्तिष्ठ च महते सौभगाय ऐश्वर्याय । किंच मा च रिषत् मा च विनश्यतु । उपसत्ता उपसदनस्य कर्ता यजमानः । सह्यग्निमुपसीदति । । ते तव । हे अग्ने । किंच । ब्रह्माणस्ते ब्राह्मणाश्च ऋत्विग्यजमानाः तवसंबन्धिनः । यशसः सन्तु । मत्वर्थीयलोपः । यशस्विनः सन्तु । मा अन्ये यशस्विनः सन्तु अयजमाना अलंकरिष्णवः ॥ २॥
म० 'व्यवहिताश्च' (१ । ४ । ८२ ) इति पाणिन्युक्तेः । उपसर्गक्रिययोव्यवधानम् । हे अग्ने, समिध्यख दीप्यख च । व्यत्ययेन इयन् । एनं यजमानं प्रबोधय च ज्ञातार्थ कुरु अग्निश्वेतव्य इति । महते सौभगाय ऐश्वर्याय उत्तिष्ट च । ऐश्वर्य दातुमुद्यम कुर्वित्यर्थः । किंच हे अग्ने, ते तव उपसीदनीत्युपसता तृच सेवकः । मा रिपत् च मा नश्यतु च । यजमानो ह्यग्निमुपसीदति । ते तव ब्रह्माणः वामणा ऋलिग्यजमानाः । यशराः यशस्विनः सन्तु । मत्वर्थीय प्रत्ययलोपः । मा अन्य अयज्वानो मा यशसः सन्तु ॥ २ ॥

तृतीया।
त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने सं॒वर॑णे भवा नः ।
स॒प॒त्न॒हा नो॑ अभिमाति॒जिच्च॒ स्वे गये॑ गागृ॒ह्यप्र॑युच्छन् ।। ३ ।।
उ० त्वामग्ने । हे अग्ने, त्वाम् इमे ब्राह्मणाः ऋत्विजः वृणते वृण्वन्ति यागाय । यतएवमतः प्रार्थयामः । शिवः शान्तः हे अग्ने, संवरणे ब्राह्मणैः सह एकस्मिन्वरणे भव । ना अस्माकम् । त्वं देवो वयं च मर्त्या इत्यभिप्रायः । सपत्नहा अभिमातिजिच्च । सपत्नानां हन्ता च भवास्माकम् । अभिमातिशब्दोपि शत्रुवचनः । अत एवं व्याख्यायते । सपत्नानां हन्ता भव हतावशिष्टानां जेता च भवेति । किंच । स्वे गये स्वकीये गृहे । जागृहि अप्रयुच्छन् । 'युच्छी प्रमादे'। अप्रमाद्यन् उद्तमना इत्यर्थः ॥ ३ ॥
म० हे अग्ने, इमे ब्राह्मणाः ऋत्विजः त्वा त्वां वृणते 'वृङ् संभक्तौ' यागाय भजन्ति । अतो हे अग्ने, संवरणे ब्राह्मणैः सहैकस्मिन्वरणे सति नोऽस्माकं शिवः शान्तो भव । अस्माकं सपत्नहा अभिमातिजिच्च भव । अभिमातिरपि शत्रुः तत एवं व्याख्या । सपत्नानां हन्ता भव हतावशिष्टानां जेता च भव । किंच स्वे गये निजे गृहे जागृहि सावधानो भव । किं कुर्वन् । अप्रयुच्छन् अप्रमाद्यन् ॥ ३ ॥

चतुर्थी।
इ॒है॒वाग्ने॒ अधि॑ धारया र॒यिं मा त्वा॒ नि क्र॑न्पूर्व॒चितो॑ निका॒रिण॑: ।
क्ष॒त्रम॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्धतां ते॒ अनि॑ष्टृतः ।। ४ ।।
उ० इहैव । इह एव कर्मणि वर्तमानानामस्माकम् हे अग्ने, अधिधारय रयिं उपरि निक्षिप धनम् । किंच । मा त्वा त्वां निक्रन्नीचैः कुर्वन्तु अवज्ञया पश्यन्तु । पूर्वचितः पूर्वं ये अग्निं चितवन्तः । निकारिणः ज्ञानकर्मसमुच्चयातिशयेन येऽन्योन्यजन्मानि नीचैः कुर्वन्ति । किंच । क्षत्रम् हे अग्ने, सुयमं साधुयन्तृ अस्तु तुभ्यं तव । किंच उपसत्ता यजमानः। सह्युपसदनं करोत्यग्नेः । वर्धतां ते तव । अनिष्टृतः । 'स्तृ हिंसायाम्' । अनुपहिंसितः सन् ॥ ४ ॥
म० हे अग्ने, इहैवास्मास्वेव यजमानेषु रयिं धनं त्वमधिधारय अधिकं देहि । किंच पूर्वं चिन्वन्ति पूर्वचितः पूर्वमग्निं चितवन्तोऽतएव निकारिणः नितरां यज्ञकरणशीलाः त्वा त्वां मा निक्रन् मा नीचैः कुर्वन्तु । मावजानन्त्वित्यर्थः । करोतेः शपि लुप्ते लङि प्रथमबहुवचने रूपम् । किंच हे अग्ने, क्षत्रं क्षत्रजातिः तुभ्यं तव सुयममस्तु । सुखेन यन्तुं शक्यं सुयमं सुखेन वशीकर्तुं शक्यमस्तु । 'ईषद्दुःसुषु-' (पा० ३ । ३ । १२६) इति सुपूर्वाद्यमेः खल् । किंच ते तव उपसत्ता उपसदनकर्ता यष्टा अनिष्टृतः अनुपहिंसितः सन् वर्धताम् धनपुत्रादिभिरेधताम् । 'स्तृञ् हिंसायां' निष्टान्तः ॥ ४ ॥

पञ्चमी।
क्ष॒त्रेणा॑ग्ने॒ स्वायु॒: सᳪं᳭ र॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धेये॑ यतस्व ।
स॒जा॒तानां॑ मध्यम॒स्था ए॑धि॒ राज्ञा॑मग्ने विह॒व्यो॒ दीदिही॒ह ।। ५ ।।
उ० क्षत्रेणाग्ने । क्षत्रेण संपाद्यात्मानम् हे अग्ने, स्वायुः साध्वायुः सन् । संभरस्व यज्ञं वोढुम् । मित्रेण च संपाद्यात्मानं मित्रधेये यतस्व । यथा मित्राणि धार्यन्ते तथा यत्नं कुरु । किंच सजातानां समानजन्मनाम् । मध्यमस्था एधि मध्यमस्थानो भव । यथा सजाता अपि यज्वानो भवन्ति तथा स्यादित्यभिप्रायः । किंच राज्ञां हे अग्ने, विहव्यः । विविधमाह्वातव्यः । दीदिहि दीप्यस्व । इह यज्ञगृहे । यथा राजानोऽपि यज्वानो भवेयुः तथास्त्वित्यभिप्रायः ॥५॥ ,
म० हे अग्ने, त्वं क्षत्रेण संरभस्व समारभस्व । ण्यन्तो बोध्यः । क्षत्रेण समारम्भय यज्ञमिति शेषः । क्षत्रियान्यज्ञं कारयेत्यर्थः । कीदृशस्त्वम् । स्वायुः शोभनमायुः जीवनं यस्य सः । यद्वा आयुः उकारान्तो मनुष्यवाची । शोभन आयुर्मनुष्यो यजमानो यस्य स स्वायुः । किंच हे अग्ने, मित्रेण सूर्येण सह वर्तमानः सन् मित्रधेये यतस्व । धातुं धारयितुं योग्यं धेयम् मित्रस्य यजमानस्य धेयं कार्यं यागलक्षणं तत्र यत्नं कुरु यजमानेन यज्ञं कारय । किंच सजातानां समानजन्मनां मध्यमस्थाः मध्यमे तिष्ठतीति क्विप् । मध्यमस्थ एधि भव । सजाता अपि यज्वानो भवन्त्वित्यर्थः । किंच हे अग्ने, इह यज्ञगृहे दीदिहि दीप्यस्व । दीव्यतेर्व्यत्ययेन शपः श्लुः 'श्लौ' । ( पा० ६ । १ । १०) इति द्वित्वम् 'तुजादीनां दीर्घः' (पा० ६।१।७) इत्यभ्यासदीर्घः । कीदृशस्त्वम् । राज्ञां विहव्यः । कर्तरि षष्ठी राजभिर्विविधं हूयते आहूयते विहव्यः । राजभिर्यज्ञे आह्वातव्यः ॥ ५ ॥

षष्ठी। ।
अति॒ निहो॒ अति॒ स्रिधोऽत्यचि॑त्ति॒मत्यरा॑तिमग्ने ।
विश्वा॒ ह्य॑ग्ने दुरि॒ता सह॒स्वाथा॒स्मभ्य॑ᳪं᳭ स॒हवी॑राᳪं᳭ र॒यिं दा॑: ।। ६ ।।
उ० अति निहः अतिक्रम्य निहन्तॄन् । निपूर्वस्य हन्तेः उः प्रत्ययः। प्रथमैकवचनस्य स्थाने द्वितीयाबहुवचनं वाक्यसंबन्धात् । अतिस्रिधः । स्रेधतिः कुत्सितकर्मा । अतिक्रम्य च कुत्सिताचरणान् । अत्यचित्तिम् । अचित्तिरन्यमनस्कता। अतिक्रम्य चान्यमनस्कताम् । अत्यरातिम् अरातिरनुपजीव्यो जनः तं चातिक्रम्य हे अग्ने, विश्वा ह्यग्ने दुरिता सहस्व विश्वानि दुरितानि सहस्व अभिभव । हिरनर्थकः । अथानन्तरम् । अस्मभ्यं सहवीरां सपुत्रां रयिं धनं दाः दद्याः ॥६॥
म० हे अग्ने, हि निश्चितं विश्वा विश्वानि सर्वाणि दुरिता दुरितानि पापानि त्वं सहस्व अभिभव । निवर्तयेत्यर्थः । किं कृत्वा । निहः निहन्ति निहः । निपूर्वाद्धन्तेर्डप्रत्ययः । सुपां सुलुगिति शसः सु आदेशः । निहान् हन्तॄन् अतिक्रम्य । स्रेधतिः कुत्सितकर्मा । स्रेधन्ति स्रिधः क्विप् । कुत्सिताचारान् अतिक्रम्य । अचित्तिमन्यमनस्कतामतिक्रम्य । न रातिर्दानं यस्य सोऽरातिस्तमदातारमतिक्रम्य । दुष्टान्सर्वानतिक्रम्य पापं नाशयेत्यर्थः । किंच अथानन्तरं हे अग्ने, अस्मभ्यं सहवीरां वीरैः पुत्रैः सहितां रयिं दाः देहि लुङ् ॥ ६ ॥

सप्तमी।
अ॒ना॒धृ॒ष्यो जा॒तवे॑दा॒ अनि॑ष्टृतो वि॒राडग्ने॑ क्षत्र॒भृद्दी॑दिही॒ह ।
विश्वा॒ आशा॑: प्रमु॒ञ्चन्मानु॑षीर्भि॒यः शि॒वेभि॑र॒द्य परि॑ पाहि नो वृ॒धे ।। ७ ।।
उ० अनाधृष्यः । यस्त्वमनाधृष्यः अशक्यः खलीकर्तुम् । जातवेदाः जातप्रज्ञानश्च । अनिष्टृतः अनुपहिं सितश्च । स्तृणातेरेतद्रूपम् । विराट् च ‘राजृ दीप्तौ' । विराजनशीलः विराट् क्षेत्रभृच्च । तं त्वां ब्रवीमि हे अग्ने, दीदिहि दीप्यस्व । इह कर्मणि वर्तमानः । विश्वाः सर्वाः आशा दिशः । किंच प्रमुञ्चन्मानुषीर्भियः विक्षिपन्मानुषाणि भयानि जन्मजरामृत्युशोकदैन्यादीनि । शिवेभिः शिवैः शान्तैः (अर्चिभिः) अद्यास्मिन्द्यवि । परिपाहि नः सर्वतो गोपायास्मान् । किमर्थम् । वृधे वर्धनाय ॥ ७ ॥
म. हे अग्ने, इह कर्मणि वर्तमानस्त्वं विश्वा आशाः दीदिहि सर्वाः दिशः प्रकाशय । कीदृशस्त्वम् । अनाधृष्यः पराभवितुमशक्यः । जातवेदाः जातं वेदो धनं ज्ञानं वा यस्मात् । अनिष्टृतः न हिंसितः केनापि 'स्तृ हिंसायां' क्तान्तः । विराट् विविधं राजमानः क्षत्रभृत् क्षत्रं बिभर्ति पुष्णाति । किंच मानुषीः मनुष्यसंबन्धिनीर्भियः जन्मजरामृतिदैन्यशोकादिकाः प्रमुञ्चन्निवर्तयन्सन् शिवेभिः शिवैः शान्तैस्तेभिरद्य वृधे वृद्ध्यै नोऽस्मान्परिपाहि । वर्धनं वृत् तस्मै वृधे संपदादित्वाद्भावे क्विप् ॥ ७ ॥

अष्टमी।
बृह॑स्पते सवितर्बो॒धयै॑न॒ᳪं᳭ सᳪं᳭शि॑तं चित्सन्त॒राᳪं᳭ सᳪं᳭ शि॑शाधि ।
व॒र्धयै॑नं मह॒ते सौ॑भगाय॒ विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः ।। ८ ।।
उ० बृहस्पते सवितः । हे बृहस्पते, हे सवितः, बोधय कामेष्ववगतार्थं कुरु । एनं यजमानं । किंच । संशितं चित् । चिच्छब्दोऽप्यर्थे । संशितव्रतमपि यजमानम् संतरामतितराम् संशिशाधि शिक्षय । वर्धय च एनं यजमानम् । महते सौभगाय ऐश्वर्याय । विश्वे च देवा एनं यजमानम् अनुमदन्तु उत्साहयन्तु । बृहस्पतिशब्देन सवितृशब्देन चात्राग्निरेवोच्यते । अथवा वाक्यद्वयम् । एकेन बृहस्पतिरुक्तः अपरेण सविता ॥ ८॥
म० हे बृहस्पते हे सवितः, एनं यजमानं बोधय कर्माभिज्ञं कुरु । किंच चिदप्यर्थे । संशितं चित् संशितं शिक्षितमपि संतरामतितरां संशिशाधि शिक्षय । शासेः शपः श्लौ द्वित्वम् छान्दसमभ्यासस्येत्वम् । किंच महते सौभगाय ऐश्वर्याय एनं वर्धय । विश्वे देवाः एनं यजमानमनुमदन्तु तृप्ता हृष्टा वा भवन्तु । बृहस्पतिसवितृशब्दाभ्यां सामिधेन्यङ्गभूतोऽग्निरेवोच्यते वाक्यद्वयं वा । एकेन बृहस्पतिरुक्तोऽन्येन सविता ॥ ८॥

नवमी।
अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒रमु॑ञ्चः ।
प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्माद्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः ।। ९ ।।
उ० अमुत्र भूयात् । अमुत्रामुष्मिँल्लोके यत् शरीरं भूयात् । अध अथ यत् यमस्य सदने च शरीरं भूयात् । तस्मात् च हे बृहस्पते, अभिशस्तेः अभिशंसनाच्च अमुञ्चः । किंच प्रत्यौहतां प्रतिप्रेरयताम् अन्यत्र नयताम् । अश्विनौ मृत्युम् अस्माद्यजमानात् । कथंभूतावश्विनौ । देवानां भिषजौ हे अग्ने, शचीभिः । अत्रापि बृहस्पतिशब्द आमन्त्रितोऽग्निशब्दस्य द्रष्टव्यः । सामिधेनीप्रकरणस्याग्नेयत्वात् । ननु बृहस्पतिशब्दो नैघण्टुको न चाग्निशब्द इति 'ता आग्नेय्यः प्राजापत्या यदग्निरपश्यत् तेनाग्नेय्यो यत्प्रजापतिᳪं᳭ समैधत तेन प्राजापत्या' इति श्रुतेः प्रजापतेः सर्वदेवात्मकत्वात् । 'तस्मादेनं प्रजापतिᳪं᳭ सन्तमग्निरित्याचक्षते' इति श्रुतेरदोषः ॥ ९॥
म० हे बृहस्पते, त्वममुत्रभूयादध अमुत्र परलोके भवनममुत्रभूयम् । 'भुवो भावे' (पा० ३। १ । १०७) इति क्यप् । परलोकगमनान्मरणान्मुञ्च । मरणाद्रक्षेत्यर्थः । लकारव्यत्ययः । अध अथ यत् यमस्य भयं परलोकभयं नरकपातादि तस्मादपि मुञ्च । किंच अभिशस्तेः अभिशापादपि । लोकापवादादपि मुञ्च । देवानां भिषजौ अश्विना अश्विनौ अस्माद्यजमानात् मृत्युं प्रत्यौहतां निवर्तयतां । कैः । शचीभिः कर्मभिः कृत्वा । अत्र बृहस्पतिरग्निरेव सामिधेनीप्रकरणस्याग्नेयत्वात् ॥ ९॥

दशमी।
उद्व॒यं तम॑स॒स्परि॒ स्व: पश्य॑न्त॒ उत्त॑रम् ।
दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ।। १० ।।
उ० उद्वयमिति व्याख्यातम् ॥ १० ॥
म० व्याख्याता ( अ० २० । क० २१) ॥ १० ॥

एकादशी । .
ऊ॒र्ध्वा अ॑स्य स॒मिधो॑ भवन्त्यू॒र्ध्वा शु॒क्रा शो॒चीᳪं᳭ष्य॒ग्नेः ।
द्यु॒मत्त॑मा सु॒प्रती॑कस्य सू॒नोः ।। ११ ।।
उ० ऊर्ध्वा अस्य । द्वादश आप्रियः प्रयाजदेवत्य उष्णिहः । अष्टम्याद्ये द्वे गायत्र्यौ । 'ता विषमा विषमाक्षरपादा' इत्यादि श्रुतेः । ता आग्नेय्यः प्राजापत्याः । 'यदग्निरपश्यत्तेनाग्नेय्यः यत्प्रजापतिमाप्रीणात्तेन प्राजापत्याः' इति च श्रुतिः । अग्निर्ऋषिः । प्रजापतिश्चाग्निरूपेण संस्तूयते । अस्याग्नेः प्रजापतिरूपेण संस्तूयमानस्य ऊर्ध्वाः प्रगुणाः देवमार्गेण यायिन्यः समिधो भवन्ति । ऊर्ध्वा शुक्रा ऊर्ध्वानि च शुक्राणि शोचींष्यर्चींषि भवन्ति । द्युमत्तमा दीप्तिमत्तमा च वीर्यवत्तमानि चेत्यर्थः । सुप्रतीकस्य सुमुखस्य यजमानस्य सूनोः । स ह्येनं जनयति । य इत्थंभूतोऽग्निस्तं वयं स्तुम इति वाक्यशेषः ॥ ११ ॥
म० द्वादशाप्रीदेवत्या उष्णिहो विषमपादा आग्नेय्योऽग्निना दृष्टाः । अग्निः प्रजापतित्वेन स्तूयते तेन प्राजापत्या अपि । ता आग्नेय्यः प्राजापत्याः 'यदग्निरपश्यत्तेनाग्नेय्यो यत्प्रजापतिमाप्रीणात्तेन प्राजापत्याः' इति श्रुतेः । अस्याग्नेः समिधः ऊर्ध्वाः देवगामिन्यो भवन्ति । शोचींषि तेजांस्यपि ऊर्ध्वा ऊर्ध्वानि भवन्ति । कीदृशानि शोचींषि । शुक्रा शुक्राणि शुद्धानि । द्युमत्तमा द्यौः दीप्तिः प्रकाशो येषां तानि द्युमन्ति अत्यन्तं द्युमन्ति द्युमत्तमानि विश्वप्रकाशकानि । कीदृशस्याग्नेः । सुप्रतीकस्य सुष्ठु प्रतीकं मुखं यस्य । तथा सूनोः यजमानपुत्रस्य 'स यदेनं जनयति तेनास्यैष सूनुः' इति श्रुतेः । य ईदृशस्तं स्तुम इति शेषः ॥ ११ ॥

द्वादशी।
तनू॒नपा॒दसु॑रो वि॒श्ववे॑दा दे॒वो दे॒वेषु॑ दे॒वः ।
प॒थो अ॑नक्तु॒ मध्वा॑ घृ॒तेन॑ ।। १२ ।।
उ० तनूनपात् । आज्यस्य अग्नेर्वा । यः तनूनां गवां नपात् आज्याभिप्रायमेतदुच्यते । अथवा योऽग्निः तनूनामपां नपात् पौत्रः । असुरः असुमान् प्राणवान् । रो मत्वर्थीयः । यद्वा असुरः वसुरः धनवान् । अस्मिन्पक्षे आदिलोपः । विश्ववेदाः सर्वधनः सर्वज्ञो वा । देवो दानादिगुणयुक्तः ।। देवेष्वपि देवः दीप्तिमान् । य ईदृशः सः पथः यज्ञमार्गान् अनक्तु । मध्वा मधुस्वादुना घृतेन । इत्थं नाम प्रभूतं यज्ञे घृतमस्तु येन मार्गा अभ्यक्ताः स्युरित्यभिप्रायः ॥ १२॥
म. देवोऽग्निः मध्वा मधुना मधुरेण घृतेन पथो यज्ञमार्गाननक्तु । मध्वेति नुमभावः अनित्यमागमशासनमित्युक्तेः । पथो अनक्तु इत्यत्र 'प्रकृत्यान्तःपादमव्यपरे' (पा० ६।१। ११५) इति सन्ध्यभावः । यज्ञे बहु घृतमस्तु । येन मार्गा घृताभ्यक्ताः स्युरिति भावः । कीदृशो देवः । तनूनपात् तनूनामपां नपात् पौत्रः । अद्भ्यो वृक्षा जायन्ते तेभ्योऽग्निरित्यपां पौत्रः । असुरः असवोऽस्य सन्ति प्राणवान् । रो मत्वर्थः । विश्ववेदाः सर्वधनः । देवेषु अपि देवः दीप्तिमान् श्रेष्ठः ॥ १२॥

त्रयोदशी।
मध्वा॑ य॒ज्ञं न॑क्षसे प्रीणा॒नो नरा॒शᳪं᳭सो॑ अग्ने ।
सु॒कृद्दे॒वः स॑वि॒ता वि॒श्ववा॑रः ।। १३ ।।
उ० मध्वा यज्ञम् । हे अग्ने, यस्त्वं मध्वा मधुस्वादुना घृतेन यज्ञं नक्षसे व्याप्नोषि । नक्षतिर्व्याप्तिकर्मा । कथंभूतः । प्रीणानः देवान् । नराशंसश्च नरैर्ऋत्विग्भिर्यः शंस्यते स्तूयते स तथोक्तः । सुकृच्च साधुकृच्च । देवः सविता । विश्ववारः सर्वस्य वरणीयश्च भवसि । तं त्वां स्तुम इति शेषः ॥ १३ ॥
म० हे अग्ने, त्वं मध्वा स्वादुना घृतेन यज्ञं नक्षसे व्याप्नोषि । नक्षतिर्व्याप्तिकर्मा । कीदृशस्त्वम् । प्रीणानः प्रीणीतेसौ प्रीणानः देवान् तर्पयन् । नराशंसः नरैर्ऋत्विग्भिराशंस्यते स्तूयते नराशंसः । सुकृत् शोभनकारी । देवः दीप्तिमान् । सविता विश्वस्योत्पादकः । विश्वेन व्रियते सेव्यते विश्ववारः विश्वं वृणोति अङ्गीकरोतीति वा कर्मण्यण् । सर्वस्य वरणीयः सर्वाङ्गीकर्ता वा ॥ १३॥

चतुर्दशी ।
अच्छा॒यमे॑ति॒ शव॑सा घृ॒तेने॑डा॒नो वह्नि॒र्नम॑सा ।
अ॒ग्निᳪं᳭ स्रुचो॑ अध्व॒रेषु॑ प्र॒यत्सु॑ ।। १४ ।।
उ० अच्छायम् । 'अच्छाभेराप्तुमिति शाकपूणिः' । अच्छ एति अभ्येति । अग्निम् अयमध्वर्युः । शवसा स्वकीयेन प्रज्ञानबलेन युक्तः । घृतेन च गृहीतेन ईडानः स्तुवन् । वह्निर्वोढा । नमसा चानेन हविर्लक्षणेनाभ्युद्यतेन सुचः बाहुभ्यां गृहीत्वा । अध्वरेषु प्रयत्सु यज्ञेषु वर्तमानेषु ॥१४॥ -
म० अयमध्वर्युः अध्वरेषु प्रयत्सु वर्तमानेषु सत्सु अग्निमच्छ एति अभ्येति । 'अच्छाभेराप्तुमिति शाकपूणिः' (निरु. ५। २८) । कीदृशः । शवसा ज्ञानबलेन ईडानः 'ईड स्तुतौ' शानच् । तथा वह्निः वहति यज्ञभारमिति वह्निः यज्ञनिर्वाहकः । किं कृत्वा । घृतेन नमसा अन्नेन हविर्लक्षणेनोपलक्षिताः स्रुचो जुह्वाद्या गृहीत्वेति शेषः ॥ १४ ॥

पञ्चदशी ।
स य॑क्षदस्य महि॒मान॑म॒ग्नेः स ईं॑ म॒न्द्रा सु॑प्र॒यस॑: ।
वसु॒श्चेति॑ष्ठो वसु॒धात॑मश्च ।। १५ ।।
उ० स यक्षत् । स एवाध्वर्युः यक्षत् यजतु । अस्याग्नेः संबन्धि महिमानं महाभाग्यम् । स ईम् स एव च मन्द्रा मन्दनीयान्यन्नानि यजतु । कथंभूतस्याग्नेः । सुप्रयसः । प्रय इत्यन्ननाम । शोभनानि प्रयांस्यन्नानि हविर्लक्षणानि यस्य स सुप्रयाः तस्य सुप्रयसः । अथ कस्मादन्यदेवताः परित्यज्याग्नेर्महिमानं यक्षदित्युच्यत इतिचेदत आह । वसुश्चेतिष्ठो वसुधातमश्च । यतोऽसौ वसुः वासयिता चेतिष्ठो ऽतिशयेन चेतयिता । कृताकृतगुणविशेषः । वसूनां धनानां धातमो दातृतमश्च अतः अग्निः स्तूयते ॥ १५॥
म० सोऽध्वर्युरस्याग्नेः महिमानं यक्षत् यजतु 'सिब्बहुलं लेटि' (पा० ३।१।३४) 'लेटोऽडाटौ' 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ९४-९७) इति सूत्रैर्यक्षदिति रूपम् । सः ईम् स च मन्द्रा मन्द्राणि मदजनकानि हवींषि च यजतु ददातु । कीदृशस्याग्नेः । सुप्रयसः प्रयस् इत्यन्ननाम । शोभनानि प्रयांसि यस्य सुप्रयास्तस्य । कीदृशस्याग्नेर्महिमानं यजतु । यो वसुः वासयिता । चेतिष्ठः अतिचेतयिता । वसुधातमः वसूनां धनानां दातृतमः । क्विबन्तात्तमप् ॥ १५ ॥

षोडशी।
द्वारो॑ दे॒वीरन्व॑स्य॒ विश्वे॑ व्र॒ता द॑दन्ते अ॒ग्नेः ।
उ॒रु॒व्यच॑सो॒ धाम्ना॒ पत्य॑मानाः ।। १६ ।।
उ० द्वारो देवीः । अस्याग्नेः प्रथमम् द्वारः देव्यः व्रता व्रतानि कर्माणि ददन्ते धारयन्ति । ताभ्यः अनु पश्चात् । विश्वे विश्वेदेवाः । देवशब्दलोपः । व्यवहितपदप्रायोऽर्धर्चः। कथंभूता द्वारः । उरुव्यचसः बहुव्यञ्जनाः । धाम्ना स्थानेन । ऋत्विक्संबन्धिना। पत्यमानाः। 'पत ऐश्वर्ये' ऐश्वर्यं कुर्वाणाः। या इत्थंभूता यज्ञगृहद्वारस्ता वयं स्तुम इति शेषः ॥ १६ ॥
म० द्वारो देव्योऽस्याग्नेर्व्रता व्रतानि कर्माणि ददन्ते धारयन्ति 'दद दाने धृतौ च' । अनु पश्चात् विश्वे सर्वे देवाः अग्निव्रतानि ददन्ते । कीदृश्यो द्वारः । उरुव्यचसः उरु विशालं व्यचोऽवकाशो यासां ताः विशालान्तराः । तथा धाम्ना स्थानेन पत्यमानाः ‘पत ऐश्वर्ये' दिवादिरात्मनेपदी । पत्यन्ते ईशते ताः पत्यमानाः स्थानैरैश्वर्यं कुर्वाणाः । ऋत्विजां स्थानानि ददाना इत्यर्थः । ताः स्तुमः ॥ १६ ॥

सप्तदशी।
ते अ॑स्य॒ योष॑णे दि॒व्ये न योना॑ उ॒षासा॒नक्ता॑ ।
इ॒मं य॒ज्ञमव॑तामध्व॒रं न॑: ।। १७ ।।
उ० ते अस्य । ते उषासानक्ता उषाश्चाहो नक्ता च रात्रिः । अस्याग्नेः । योना योनौ आहवनीयाख्ये स्थितस्य । योषणे भार्ये । दिव्ये दिवि भवे । नकारोऽनर्थकः । ते इमं यज्ञम् अवतां सुगुप्तं कुरुताम् । अध्वरं सोमं च नोऽस्माकं संपादयतामिति शेषः॥ १७ ॥
म० उषाश्च नक्ता रात्रिश्च उषासानक्ता । उषस उषासादेशो द्वन्द्वे । ते प्रसिद्धे उषासानक्ता अहोरात्रिदेव्यौ नोऽस्माकमिमं यज्ञमवतां रक्षताम् । कीदृश्यौ ते । अस्याग्नेः योषणे भार्ये । तथा दिव्ये दिवि भवे स्वर्गस्थे । कीदृशस्य । अग्नेः योनौ गार्हपत्यस्थाने स्थितस्येति शेषः । नकारः पादपूरणः । कीदृशं यज्ञम् । अध्वरम् 'ध्वृ कोटिल्ये' न ध्वरतीत्यध्वरस्तम् । अकुटिलं शास्त्रोक्तमित्यर्थः ॥ १७ ॥

अष्टादशी।
दै॑व्या॒ होतारा ऊ॒र्ध्वम॑ध्व॒रं नो॒ऽग्नेर्जि॒ह्वाम॒भि गृ॑णीतम् ।
कृ॒णु॒तं न॒: स्वि॒ष्ट्म् ।। १८ ।।
उ० दैव्या होतारा । अयं चाग्निरसौ च मध्यमः हे दैव्यौ होतारौ, ऊर्ध्वमध्वरं नः कुरुतम् देवयानयायिनं कुरुतमित्यभिप्रायः । अग्नेर्जिह्वामभिगृणीतम् । अग्निमुखं साधु वर्णयतमित्यर्थः । कृणुतं कुरुतं च नः अस्माकं स्विष्टिं साधुयजनम् ॥ १८॥
म० अयं चाग्निरसौ च मध्यमो वायुः हे दैव्याहोतारौ
अग्निवायू, युवां नोऽस्माकं स्विष्टिं शोभनं यजनं कृणुतं कुरुतम् । किंच नोऽस्माकमध्वरं यज्ञमूर्ध्वं कृणुतं देवमार्गगामिनं कुरुतम् । अग्नेर्जिह्वां ज्वालामभिगृणीतं वर्णयतम् समीची वह्निज्वालेति स्तुतमित्यर्थः ॥ १८ ॥

एकोनविंशी।
ति॒स्रो दे॒वीर्ब॒र्हिरेदᳪं᳭ स॑द॒न्त्विडा॒ सर॑स्वती॒ भार॑ती ।
म॒ही गृ॑णा॒ना ।। १९ ।।
उ०. तिस्रो देवीः तिस्रः देव्यः । बर्हिः आ इदं सदन्तु आसदन्तु आसीदन्तु इदं बर्हिः । कतमास्ताः । इडाः पृथिवीस्थाना । सरस्वती च मध्यस्थाना । मही स्तुवन्तीति प्रत्येकं तिसृभिरपि योज्यम् । यद्वा एकमेव वाक्यम् । तिस्रो देव्यो बर्हिरिदमासदन्तु इडासरस्वतीभारत्यो महत्यो गृणाना इति ॥ १९॥ ।
म० तिस्रो देव्यः इदं बर्हिरासदन्तु आसीदन्तु । छान्दसः । सीदादेशाभावः 'व्यवहिताश्च' (पा० १।४ । ८२) इत्याङा सह क्रियापदव्यवधानम् । कास्ता अत आह । इडा पृथिवीस्थाना सरस्वती मध्यस्थाना भारती द्युस्थाना । मही महती गृणाना स्तुवन्तीति विशेषणद्वयं तिसृणाम् ॥ १९ ॥

विंशी।
तन्न॑स्तु॒रीप॒मद्भु॑तं पुरु॒क्षु त्वष्टा॑ सु॒वीर्य॑म् ।
रा॒यस्पोषं॒ वि ष्य॑तु॒ नाभि॑म॒स्मे ।। २० ।।
उ० तन्नः तत् रायस्पोषम् नः अस्मभ्यमस्मदर्थम् । तुरीपं तूर्णमश्नुते तूर्णं चाप्नोति । अद्भुतं महत् अभूतपूर्वम् । पुरुक्षु पुरुषु बहुषु यत्क्षियति निवसति तत्पुरुक्षु । त्वष्टा देवः सुवीर्यं साधुवीर्यम् । रायस्पोषविषयान्येतानि चत्वारि पदानि । विष्यतु । स्यतिरुपसृष्टो विमोचने । विमुञ्चतु । नाभिमस्मे राष्ट्रमध्यं प्रत्यस्मासु ॥२०॥
म० त्वष्टा देवः तं प्रसिद्धं रायो धनस्य पोषं पुष्टिमस्मे अस्माकं नाभिं प्रति विष्यतु विमुञ्चतु । नाभौ मुक्तमुत्सङ्गे पततीति भावः । 'षोऽन्तकर्मणि' 'ओतः श्यनि' (पा. ७ । ३ । ७१) इत्योकारलोपः । 'स्यतिरुपसृष्टो विमोचने' इति यास्कः । कीदृशं रायस्पोषम् । नोऽस्माकं तुरीपम् तुरा वेगेन आप्नोति तुरीपं शीघ्रप्रापकम् । अद्भुतं महान्तम् । पुरुक्षु पुरुषु बहुषु क्षियति निवसति पुरुक्षु 'सुपां सुलुक्' (पा० ७ । १।३९) इत्यमो लुक् । क्षियतेरौणादिको डुप्रत्ययः । सुवीर्यं साधु वीर्यं सामर्थ्यं येन तम् । ईदृशं धनं देहीत्यर्थः ॥ २० ॥

एकविंशी।
वन॑स्प॒तेऽव॑ सृजा॒ ररा॑ण॒स्त्मना॑ दे॒वेषु॑ ।
अ॒ग्निर्ह॒व्यᳪं᳭ श॑मि॒ता सू॑दयाति ।। २१ ।।
उ० वनस्पतेऽव । हे वनस्पते, अवसृज । स्रङ्मुखयोरवाचीनं निक्षिप । हवींषि रराणः । यद्वा 'रा दाने' ददानः । त्मना 'मन्त्रेष्वाड्यादेरात्मनः' इत्याकारलोपः । देवेषु विषयभूतेषु । कस्मात्त्वमेवमुच्यसेऽस्माभिरित्यत आह । यतः अग्निः शमिता शामित्रमिति तद्धितलोपः। हव्यं हविर्जातम् सूदयाति । 'षूद क्षरणे' संस्करोति । अतो हे वनस्पते, अवसृजेति संबन्धः ॥ २१ ॥
म० अग्निः शमिता हव्यं सूदयाति सूदयति संस्करोति यतः अतो हे वनस्पते, तत्संस्कृतं हव्यमवसृज स्रुङ्मुखतोऽवाचीनां क्षिप । कीदृशस्त्वम् । त्मना आत्मना देवेषु रराणः हविर्ददानः ‘रा दाने' कानच् । मन्त्रेष्वाङ्यादेरात्मनः' (पा० ६ । ४ । १४१) इत्यालोपः ॥ २१ ॥

द्वाविंशी।
अग्ने॒ स्वाहा॑ कृणुहि जातवेद॒ इन्द्रा॑य ह॒व्यम् ।
विश्वे॑ दे॒वा ह॒विरि॒दं जु॑षन्ताम् ।। २२ ।।
उ० अग्ने स्वाहा । हे जातवेदः, स्वाहा कृणुहि स्वाहाकृतिं यज । इन्द्राय हव्यं हविः । प्रयच्छेति शेषः । विश्वेदेवाश्च इदं हविः जुषन्तां सेवन्ताम् ॥ २२ ॥
म० हे अग्ने, हे जातवेदः जातप्रज्ञान, हव्यमिन्द्राय स्वाहा कृणुहि स्वाहाकारेण प्रयच्छ । किंच विश्वेदेवा इदं हविर्जुषन्तां सेवन्ताम् ॥ २२ ॥

त्रयोविंशी ।
पीवो॑ अन्ना रयि॒वृध॑: सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः ।
ते वा॒यवे॒ सम॑नसो॒ वि त॑स्थु॒र्विश्वेन्नर॑: स्वप॒त्यानि॑ चक्रुः ।। २३ ।।
उ० अथैनं वायवे नियुत्वते शुक्लं तूपरमालभत इत्यस्य पशोः पीवो अन्ना रयिवृधः' इत्याद्याः षट् याज्यानुवाक्यास्त्रिष्टुभो वायव्याः । तत्र च प्राजापत्यः पशुपुरोडाश इति पठ्यते । तस्य आपो ह यत् द्वे प्राजापत्ये । यान् नियुतः अश्वान् । पीवोअन्नान् पीवः पुष्टमन्नं येषामिति पीवोअन्नान् रयिं धनं ये वर्धयन्ति ते रयिवृधः । सुमेधाः कल्याणप्रज्ञानो वायुः। श्वेतः वायोर्वर्णवचनम् ‘शुक्लो हि वायुः' इति श्रुतिः सिषक्ति सेचति । नियुतामभिश्रीः नियुतामभ्याश्रयणीयः । अथ यान्वायुः सिषक्ति ते नियुतोऽश्वा वायवेऽर्थाय । समनसः समनस्काः सन्तः वितस्थुः तान् विश्वा विश्वानि । इत् पादपूरणे । नरः मनुष्या ऋत्विग्यजमानाः स्वपत्यानि शोभनानामपत्यानां यानि कर्माणि तानि चक्रुः कुर्वन्ति । एतदुक्तं भवति । वाय्वश्वसंयोगे सति सर्वमिदं यज्ञादि प्रवर्तते इति ॥ २३ ॥
म० अथैतं वायवे नियुत्वते शुक्लं तूपरमालभते इति हुतस्य पशोः पीवोअन्ना रयिवृध इत्याद्याः षट् याज्यानुवाक्याः । द्वे वायुदेवत्ये त्रिष्टुभौ वसिष्ठदृष्टे । 'शुक्लो हि वायुः' इति श्रुतेः । श्वेतो वायुः यान्नियुतोश्वान् सिषक्ति सेवते ते नियुतः समनसः सममनस्काः सन्तो वायवेऽर्थाय वितस्थुर्विशेषेण तिष्ठन्ति । कीदृशान्नियुतः । पीवोअन्ना पीवः पुष्टमन्नं येषां तान् । नकारलोपः 'प्रकृत्यान्तःपादम्' (पा० ६ । १ ।११५) इति पीवोअन्नानित्यत्र सन्ध्यभावः । तथा रयिवृधः रयिं धनं वर्धयन्ति तान् । कीदृशः श्वेतः । सुमेधा शोभना मेधा बुद्धिर्यस्य । नियुतामभिश्रीः अश्वानामाश्रयणीयः । एवमश्वयोगे वायुना कृते नरो मनुष्या ऋत्विजः विश्वा इत् विश्वानि सर्वाण्येव स्वपत्यानि शोभनापत्यप्रापकाणि चक्रुः कर्माणीति शेषः ॥ २३ ॥

चतुर्विंशी।
रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् ।
अध॑ वा॒युं नि॒युत॑: सश्चत॒ स्वा उ॒त श्वे॒तं वसु॑धितिं निरे॒के ।। २४ ।।
उ० राये नु । राये धनाय उदकलक्षणाय नु क्षिप्रम् यं वायुं जज्ञतुः जनयामासतुः रोदसी द्यावापृथिव्यौ इमे । अनयोर्द्यावापृथिव्योः संयोगेऽपि सति वायुमन्तरेण जगद्धारणं नोपपद्यत इति जनितवत्यौ द्यावापृथिव्यौ । यं वायु च राये धनायोदकलक्षणाय । देवी धिषणा धियं बुद्धिं कर्म वा सनोति संभजते इति धिषणा वाक् मध्यस्थाना धाति धारयति । देवं दानादिगुणयुक्तम् । अध अथेत्यर्थः । समनन्तरमेव । तं वायुं नियुतः अश्वाः सश्चतः सरन्तः सेवन्तः स्वाः स्वकीयाः। उत अपिच श्वेतं वायुं वसुधितिं वसुनो धनस्योदकलक्षणस्य धारयितारम् । निरेके जनैराकीर्णप्रदेशेऽवस्थितं वायुम् । नियुतः सश्चतः स्वा इत्यनुवर्तते ॥ २४ ॥
म० इमे रोदसी द्यावापृथिव्यौ यं वायुं जज्ञतुः उत्पादयामासतुः नु क्षिप्रम् । किमर्थम् । राये धनायोदकरूपाय । धियं सनोति ददाति धिषणा वाक् देवी देवं वायुं धाति धारयति । शपो लुक् । राये धनाय । रोदस्योः सद्भावेऽपि वायुं विना जगद्धारणाशक्तेर्वायुरुत्पादितः । धिषणेति ह्रस्वमार्षम् । अध अथ उत्पत्त्यनन्तरमेव उत निश्चितं स्वा नियुतो निजाश्वा । वायुं सश्चतः सचन्ते सेवन्ते 'षच् सेवने पुरुषव्यत्ययः । क्व । निरेके निर्गतः रेकः रेचनं रेकः शून्यता यस्मात् तादृशे बहुजनाकीर्णे स्थाने । कीदृशं वायुम् । श्वेतं श्वेतवर्णम् । तथा वसुधितिं वसुनो धनस्य धितिर्धारणं यत्र तं धनस्य धारयितारम् ॥ २४ ॥

पञ्चविंशी।
आपो॑ ह॒ यद्बृ॑ह॒तीर्विश्व॒माय॒न् गर्भं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् ।
ततो॑ दे॒वाना॒ᳪं᳭ सम॑वर्त॒तासु॒रेक॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। २५ ।।
उ० आपो ह । 'आपो ह वा इदमग्रे सलिलमेवासीत्' इत्येतद्ब्राह्मणं निदानभूतमनयोः कण्डिकयोः । आपः । पुराकल्पद्योतको ह इति निपातः । यत् । बृहतीः बृहत्यः महत्यः । विश्वं सर्वम् आत्मत्वेन । आयन् प्रापुः । गर्भं हिरण्यगर्भलक्षणं दधानाः । जनयन्तीः जनयिष्यन्त्यः । अग्निम् अग्निरूपं हिरण्यगर्भम् । हिरण्यगर्भवचनो वा अग्निशब्दः । ततः गर्भात्संवत्सरोषितात् देवानां मध्ये समवर्तत समभवत् असुः प्राणात्मकः एकः देवानां । स हि लिङ्गशरीरः य इत्थंभूतो हिरण्यगर्भः । तस्मै कस्मै प्रजापतये हविषा विधेम हविर्दद्म इति विभक्तिव्यत्ययः ॥ २५ ॥
म० द्वे प्रजापतिदेवत्ये त्रिष्टुभौ हिरण्यगर्भदृष्टे प्रथमा द्व्यधिका । 'आपो ह वा इदमग्रे सलिलमेवास' (११।१। ६।१) इति ब्राह्मणमेतयोः कण्डिकयोर्निदानभूतं बोध्यम् । ह प्रसिद्धौ । यत् यदा पुरा आपो जलानि विश्वमायन् प्रापुः । कीदृश्य आपः । बृहतीः बृहत्यो महत्यः बहुलाः । तथा गर्भं हिरण्यगर्भलक्षणं दधानाः धारयन्त्यः । अतएवाग्निं जनयन्तीः अग्निरूपं हिरण्यगर्भं जनयन्त्यः उत्पादयिष्यन्त्यः । ततो गर्भात्संवत्सरोषितात् देवानामसुः प्राणरूप आत्मा लिङ्गशरीररूपो हिरण्यगर्भः समवर्तत उदपद्यत । कस्मै प्रजापतिरूपाय देवाय हिरण्यगर्भाय हविषा विधेम हविर्दद्मः । विभक्तिव्यत्ययः विधतिर्दानार्थः ॥ २५ ॥

षड्विंशी।
यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नय॑न्तीर्य॒ज्ञम् ।
यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त् कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। २६ ।।
उ० यश्चित् । योऽपि देवः अन्तर्यामी। आपः अपः इति विभक्तिव्यत्ययः । महिना महाभाग्येन । पर्यपश्यत् परितो दृष्टवान् । दक्षं प्रजापतिं दधानाः जनयन्तीः यज्ञं सृष्टियज्ञं । यश्च देवेष्वपि अधिदेवः एक आसीत् तस्मै कस्मै प्रजापतये हविषा विधेम हविर्दद्म इति विभक्तिव्यत्ययः ॥ २६ ॥
म०चिदप्यर्थः । यो देवोऽन्तर्यामी महिना महिम्ना आपः। विभक्तिव्यत्ययः । अपः पूर्वोक्ताः पर्यपश्यत् सर्वतो ददर्श । कीदृशीः । दक्षं कुशलं प्रजापतिं दधानाः । यज्ञं जनयन्तीः। यज्ञशब्देन यज्ञकर्त्री प्रजा उच्यते । सृष्टिकर्त्रीरित्यर्थः । यश्च "देवेष्वधि अधिकः एको मुख्यो देव आसीत् । तस्मै देवाय हविर्दद्मः ॥ २६ ॥

सप्तविंशी।
प्र याभि॒र्यासि॑ दा॒श्वाᳪं᳭स॒मच्छा॑ नि॒युद्भि॑र्वायवि॒ष्टये॑ दुरो॒णे ।
नि नो॑ र॒यिᳪं᳭ सु॒भोज॑सं युवस्व॒ नि वी॒रं गव्य॒मश्व्यं॑ च॒ राध॑: ।। २७ ।।
उ० प्रयाहि प्रयासि याभिर्नियुद्भिः । नियुच्छब्द उभयलिङ्गः स्त्रियां पुंसि च । दाश्वांसं यजमानं 'अच्छाभेराप्तुमिति शाकपूणिः' । हवींषि दत्तवन्तं यजमानमभि । हे वायो, इष्टये यागाय एषणाय वा । दुरोणे यज्ञगृहे वर्तमानं यजमानम् । ताभिर्नियुद्भिरागत्य । नो रयिं सुभोजसं युवस्व । निपूर्वो यौतिर्दानार्थः । नियुवस्व देहि नोऽस्मभ्यं रयिं धनम् । किंभूतम् । सुभोजसम् साधु भुज्यत इति सुभोजाः तं सुभोजसम् । किंच । वीरं पुत्रम् गव्यं च राधः अश्व्यं च राधो धनम् नियुवस्व इति ॥ २७ ॥
म०. द्वे वायुदेवत्ये त्रिष्टुभौ वसिष्ठदृष्टे। हे वायो, त्वं याभिर्नियुद्भिरश्वाभिः कृत्वा इष्टये यागाय दुरोणे यज्ञगृहे वर्तमानं दाश्वांसं हविर्दत्तवन्तं यजमानमच्छ अभिमुखं प्रयासि गच्छसि । 'निपातस्य च' (पा० ६ । ३ । १३६) इति संहितायामच्छा इति दीर्घः । 'व्यवहिताश्च' (पा० १।४ । ८२) इति प्रणयासीत्यस्य व्यवधानम् । ताभिर्नियुद्भिरागत्य नोऽस्मभ्यं रयिं धनं नियुवस्व देहि । नियौतिर्दानार्थः व्यत्ययेन शप्रत्ययः । कीदृशं रयिम् । सुभोजसं सुष्ठु भुज्यत इति सुभोजास्तम् । भुजेरसुन्प्रत्ययः । किंच वीरं पुत्रं गव्यं गोसंबन्धि अश्वमश्वसंबन्धि गोऽश्वरूपं राधः धनं च नियुवस्व ॥ २७ ॥

अष्टाविंशी।
आ नो॑ नि॒युद्भि॑: श॒तिनी॑भिरध्व॒रᳪं᳭ स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् ।
वायो॑ अ॒स्मिन्त्सव॑ने मादयस्व यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ।। २८ ।।
उ० आ नः । आ उपयाहि नः अस्माकम् अध्वरं यज्ञम् । नियुद्भिः अश्वैः । शतिनीभिः शतानि विद्यन्ते यासु ताः शतिन्यः ताभिः शतिनीभिः सहस्रिणीभिश्च । एतदुक्तं भवति । बहूनामपि वाहनानां वयं तर्पयितुं क्षमाः । एत्य च हे वायो, अस्मिन्सवने तृतीयसवने मादयस्व तृप्यस्व । इदानीमृत्विजः पादेनाह । यूयं पात पालयत स्वस्तिभिः अविनाशैः सदा नः अस्मान् ॥ २८ ॥ -
म० हे वायो, नियुद्भिरश्वाभिः नोऽस्माकमध्वरं यज्ञमुपयाहि । कीदृशीभिः । शतिनीभिः सहस्रिणीभिः शतं सहस्रं च संख्या यासां ताभिः वयं बहुवाहनतर्पणे शक्ता इति भावः । एत्य चास्मिन् सवने तृतीये मादयस्व तृप्यस्व । अथ पादेन ऋत्विज आह । हे ऋत्विजः, स्वस्तिभिः कल्याणैर्यूयं नोऽस्मान् पात रक्षत ॥ २८ ॥

एकोनत्रिंशी।
नि॒युत्वा॑न्वाय॒वाग॑ह्य॒यᳪं᳭ शु॒क्रो अ॑यामि ते ।
गन्ता॑सि सुन्व॒तो गृ॒हम् ।। २९ ।।
उ० नियुत्वान्वायो । पद वायव्या याज्यानुवाक्याः। तत्र वायो शुक्रो इत्यनुष्टुप् । एकया चेति त्रिष्टुप् । गायत्र्योऽन्याश्चतस्रः । तृतीयः पादः प्रथमं व्याख्यायते । यतो गन्ता गमनशीलः । तृन्नन्तोयं गन्ता उदात्तः । तद्धर्मा वा तत्साधुकारी वा एते हि तृनोऽर्थाः । असि । सुन्वतः अभिषवं कुर्वतः यजमानस्य गृहान्प्रति । अतो ब्रवीमि । नियुत्वान् नियुद्गुणको भूत्वा हे वायो, आगहि आगच्छ । अयंच शुक्रो ग्रहः अयामि आगच्छत्विति लकारपुरुषव्यत्ययः । ते त्वांप्रति । त्वमेव हि शुक्रादीनां ग्रहाणां स्थानमित्यभिप्रायः ॥ २९ ॥
म० षडृचो वायुदेवत्याः वायव्येष्टकापशुपक्षे वपादीनां याज्यानुवाक्यत्वेन नियुक्ताः । आद्या गायत्री गृत्समददृष्टा । हे वायो, यतः सुन्वतो यजमानस्य गृहं प्रति त्वं गन्ता गमनशीलोऽसि । तृन्नन्त आद्युदात्तत्वात् । अतो नियुत्वानश्वावान्सन् आगहि आगच्छ । शपो लुक् । अयं शुक्रो ग्रहः ते त्वां प्रति अयामि आगच्छतु प्राप्नोतु । लकारपुरुषव्यत्ययः । शुक्रादिग्रहाणां पात्रं त्वमेवेति भावः ॥ २९ ॥

त्रिंशी।
वायो॑ शु॒क्रो अ॑यामि ते॒ मध्वो॒ अग्रं॒ दिवि॑ष्टिषु ।
आ या॑हि॒ सोम॑पीतये स्पा॒र्हो दे॑व नि॒युत्व॑ता ।। ३० ।।
उ० वायो शुक्रः । हे वायो, शुक्रो ग्रहः अयामि स्वयमेवागच्छतु ते त्वांप्रति । कथंभूतः । मध्वो अग्रम् रसस्य सारभूतः दिविष्टिषु यज्ञेष्वित्यर्थः । त्वं च आयाहि सोमपीतये सोमपानाय । यतः स्पार्हः स्पृहणीयः हे देव । नियुत्वता नियुच्छब्दवता मन्त्रेण स्तूयसे ॥ ३० ॥
म० अनुष्टुप् पुरुमीढाजमीढदृष्टा । हे वायो, शुक्रो ग्रहः त्वामयामि आगच्छतु । कीदृशः शुक्रः । दिविष्टिषु मध्वः अग्रं द्यौरिष्यते प्रार्थ्यते याभिस्ता दिविष्टयो यज्ञाः ज्योतिष्टोमेन स्वर्गकामो यजेतेत्युक्तेः मध्वः मधुनो रसस्याग्रं सारभूतः । यज्ञरसेषु शुक्रो ग्रहः सारभूत इत्यर्थः । किंच हे देव वायो, नियुत्वता अश्वावता रथेन आयाहि आगच्छ । किमर्थम् ।। सोमपीतये सोमपानाय । कीदृशस्त्वम् । स्पार्हः स्पृहायोग्यः जयमानादिभिः स्पृहणीयः ॥ ३० ॥

एकत्रिंशी।
वा॒युर॑ग्रे॒गा य॑ज्ञ॒प्रीः सा॒कं ग॒न्मन॑सा य॒ज्ञम् ।
शि॒वो नि॒युद्भि॑: शि॒वाभि॑: ।। ३१ ।।
उ० वायुरग्रेगाः । वायुः अग्रगमनशीलः यज्ञप्रीः यज्ञेन प्रीयत इति यज्ञप्रीः । साकं गच्छ गच्छति मनसा यज्ञम् । यो ह्यादरेण विस्मित आगच्छति स मनसा सहागतो भवति । कथंभूतः । शिवः शान्तः नियुद्भिः अश्वाभिः शिवाभिरेव ॥ ३१ ॥
म० द्वे गायत्र्यौ । वायुः शिवाभिः कल्याणरूपाभिः नियुद्भिरश्वाभिः कृत्वा मनसा साकं चित्तेन सह सादरं यज्ञं गन् गच्छतु । कीदृशः । अग्रेगाः अग्रे गच्छतीत्यग्रेगाः 'विड्वनोरनुनासिकस्यात्' (पा० ६ । ४ । ४१) इत्याकारः । यज्ञप्रीः यज्ञेन प्रीयते तुष्यतीति यज्ञप्रीः । शिवः कल्याणकरः ॥ ३१॥

द्वात्रिंशी।
वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि ।
नि॒युत्वा॒न्त्सोम॑पीतये ।। ३२ ।।
उ० वायो ये । हे वायो, ये ते तव । सहस्रिणः सहस्रसंख्याभिर्युक्ताः । रथासः रथा एव रथासः । तेभिः तैः आगहि आगच्छ । नियुत्वान्भूत्वा सोमपीतये सोमपानाय ॥ ३२॥ -
म० हे वायो, ये ते तव सहस्रिणः सहस्रसंख्याका रथासः रथाः तेभिस्तैः रथैः आगहि आगच्छ । किमर्थं । सोमपानाय । कीदृशस्त्वम् । नियुत्वान् अश्वायुक्तः । नियुतो वायोरिति निघण्टूक्तेः ॥ ३२॥

त्रयस्त्रिंशी।
एक॑या च द॒शभि॑श्च स्वभूते॒ द्वाभ्या॑मि॒ष्टये॑ विᳪं᳭श॒ती च॑ ।
ति॒सृभि॑श्च॒ वह॑से त्रि॒ᳪं᳭शता॑ च नि॒युद्भि॑र्वायवि॒ह ता विमु॑ञ्च ।। ३३ ।।
उ० एकया च एकस्यां वायव्यायामृचि पात्राणि विमुच्यन्ते । हे वायो, स्वभूते स्वकीया भूतिर्यस्य जगत्सर्वं स स्वभूतिः । यानि पात्राणि वहसे इष्टये देवयज्यायै । एकया च नियुता दशभिश्च नियुद्भिः द्वाभ्यां च नियुद्भ्याम् । विंशती च । विंशतिशब्दस्य पूर्वसवर्णदीर्घ आदेशः । विंशत्या च नियुद्भिः । तिसृभिश्च त्रिंशता च नियुद्भिरेव । ता तानि पात्राणि इह विमुञ्च ॥ ३३॥ -
म० त्रिष्टुप् अनयर्चा पात्राणि मुच्यन्ते । स्वा निजा भूतिः समृद्धिर्जगद्रूपा यस्य स स्वभूतिः हे स्वभूते, हे वायो, एकया दशभिः द्वाभ्यां विंशती विंशत्या पूर्वसवर्णः । तिसृभिः त्रिंशता च नियुद्भिः अश्वाभिः कृत्वा । इष्टये यज्ञाय त्वं यानि पात्राणि वहसे ता तानि पात्राणि इह यज्ञे विमुञ्च । पञ्च चकाराः समुच्चयार्थाः ॥ ३३ ॥

चतुस्त्रिंशी।
तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत ।
अवा॒ᳪं᳭स्या वृ॑णीमहे ।। ३४ ।।
उ० तव वायो । हे वायो, ऋतस्पते सत्यपालक । यज्ञवचन ऋतशब्दः । सत्यपते । त्वष्टुरादित्यस्य जामातः, स ह्यादित्यादप आदाय गर्भयति ततो विप्रुषो जायन्ते अतो वायुर्जामाता त्वष्टुः । अद्भुत अभूतपूर्व । तव संबन्धीनि अवांसि अन्नानि । आवृणीमहे आयाचामः ॥ ३४ ॥
म० गायत्री व्यश्वदृष्टा । हे वायो, हे ऋतस्पते सत्यस्य पालक, ऋतस्य पतौपरे सुडागमः । हे त्वष्टुर्जामातः, आदित्यादप आदाय वायुर्गर्भयति ततो वृष्टिर्भवतीति वायुरादित्यस्य जामाता । हे अद्भुत आश्चर्यरूप, तवावांसि अन्नानि वयमावृणीमहे प्रार्थयामः ॥ ३४ ॥

पञ्चत्रिंशी।
अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नव॑: ।
ईशा॑नम॒स्य जग॑तः स्व॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुष॑: ।। ३५ ।।
उ० अभि त्वा 'रथन्तरं दक्षिणे पक्षे' इति श्रुतिः । नान्योध्वर्योर्गायेदिति यतोऽत एषां साम्नां योनयः पठ्यन्ते । तत्रेन्द्रप्रगाथो रथन्तरस्य योनिः। तत्र प्रथमा बृहती द्वितीया सतोबृहती । अभि त्वा शूर नोनुमः आभिमुख्येन त्वां हे शूर, नोनुमः नमामः । कथमिव । अदुग्धा इव धेनवः । यथा वत्सान्प्रति अदुग्धा धेनवः नमन्ति एवं त्वां प्रति हविर्भिः स्तोत्रैः शस्त्रैश्चाभिमुख्येन नमामः। यद्वा 'णु स्तुतौ'। अयमत्र धातुः शब्दसारूप्यात् । अभिनोनुमः अभिष्टुमः त्वां कृतकृत्याः सन्तः स्तुतस्तोत्राः कृतशस्त्रा उद्यतहविष्काः । कथमिव । अदुग्धा इव धेनवः । यथा अदुग्धा अकृतकृत्या धेनवः वत्समभितुष्टुवुः एवम् । कथंभूतं त्वामभिनोनुमः । ईशानमस्य जगतः जङ्गमस्य । स्वर्दृशम् स्वः पश्यतीति स्वर्दृक् तं स्वर्दृशम् । यद्वा स्वरादित्यः तद्वत् यो दृश्यते स स्वर्दृक् तं स्वर्दृशम् । ईशानं च हे इन्द्र, तस्थुषः स्थितवतः स्थावरस्येत्यर्थः ॥ ३५ ॥
म० बृहतीसतोबृहतीद्वयं प्रगाथं वसिष्ठदृष्टमिन्द्रदेवत्यम् । 'रथन्तरं दक्षिणे पक्षे' इति श्रुतेः । 'नान्योऽध्वर्योर्गायेत्' इत्यध्वयोर्गानं विहितम् । अतः साम्नां योनय ऋचः पठ्यन्ते । तत्रैन्द्रः प्रगाथो रथन्तरस्य योनिः । हे शूर इन्द्र, वयं त्वा त्वामभिनोनुमः आभिमुख्येनात्यन्तं स्तुमः 'नु स्तुतौ' यङ्लुगन्तम् । तत्र दृष्टान्तः । अदुग्धाः धेनवः इव यथा अदुग्धा गावो वत्सान्स्तुवन्ति । कीदृशं त्वाम् । जगतो जङ्गमस्येशानं प्रभुम् । स्वर्दृशं स्वः पश्यतीति स्वर्दृक् तम् । यद्वा स्वः आदित्य इव दृश्यते स्वर्दृक् तस्थुषः स्थावरस्य ईशानम् । विश्वनियन्तारमित्यर्थः ॥ ३५॥

षट्त्रिंशी।
न त्वावाँ॑२ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते ।
अ॒श्वा॒यन्तो॑ मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्त॑स्त्वा हवामहे ।। ३६ ।।
उ० न त्वावान् । येन त्वावान् त्वत्सदृशः अन्यः दिव्यः दिविभवः नच पार्थिवः अस्तीति शेषः । नच जातः नच जनिष्यते उत्पत्स्यति । अतः अश्वायन्तः अश्वान्कामयमानाः हे मघवन् धनवन् इन्द्र, वाजिनः वाजोऽन्नम् तद्येषामस्ति ते वाजिनः हविषा संयुक्ताः सन्तः । गव्यन्तः गाः कामयमानाः । त्वां हवामहे आह्वयामः ॥ ३६ ॥
म० हे मघवन् धनवन् , हे इन्द्र, दिवि भवो दिव्यः पार्थिवः पृथिवीभवश्च त्वावान् त्वत्सदृशोऽन्यो नास्तीति शेषः । न च जातः न जनिष्यते उत्पत्स्यते । त्वत्सदृशोऽस्तीति त्वावान् । सादृश्यार्थे वतुप्रत्ययः । अतो वयं त्वा त्वां हवामहे । । कीदृशा वयम् । अश्वायन्तः अश्वान् कामयमानाः 'अश्वाघस्यात्' । (पा० ७ । ४ । ३७) इति क्यचि आत्वम् । ततः शतृप्रत्ययः । वाजिनोऽन्नवन्तः हविर्युताः । गव्यन्तः गा इच्छन्तीति गव्यन्तः गोकामाः । गवाश्वान्देहीत्यर्थः ॥ ३६ ॥

सप्तत्रिंशी।
त्वामिद्धि हवा॑महे सा॒तौ वाज॑स्य का॒रव॑: ।
त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ।। ३७ ।।
उ० त्वामित् । बृहतो योनिः देवतादितुल्यम् । इच्छब्द एवार्थे हिर्निरर्थकः । त्वामेव हवामहे आह्वयामः । सातौ वाजस्य सातिर्लाभः । लाभे अन्नस्य विषयभूते । अपिच कारवः कर्तारः स्तोमानां वयम् त्वामेव च वृत्रेषु शत्रुषु हन्तव्येषु हे इन्द्र, सत्पतिं सतां पालयितारम् श्रुतिस्मृतिविहितानुष्ठातारो निषिद्धकर्मपरित्यागिनः सन्तः तत्पतिम् । नरः मनुष्याः आह्वयन्ति । त्वामेव काष्ठासु जेतव्यासु अर्वतः अश्ववतः रथिनो वा आह्वयन्ति । नहि त्वदृते पुरुषाणां किंचित्सिध्यतीत्यभिप्रायः ॥ ३७ ॥
म० ऋग्द्वयमैन्द्रः प्रगाथः शम्युदृष्टः बृहत्साम्नो योनिः अध्वर्योर्गानस्योक्तः । आद्या बृहती द्वितीया सतोबृहती 'बृहदुत्तरे पक्षे' इति श्रुतेः । हे इन्द्र, कारवः कर्तारः यज्ञानाम् नरः ऋत्विजो वयं त्वामेव हवामहे आह्वयामः । इत् एवार्थे हि निश्चये । किंनिमित्तम् । वाजस्यान्नस्य सातौ लाभनिमित्तम् । वृत्रेषु शत्रुषु शत्रुघातनिमित्तम् । काष्ठासु दिक्षु दिग्विजयनिमित्तम् । कीदृशं त्वाम् । सत्पतिं सतां पालयितारम् । श्रुतिस्मृत्युक्ताचाररता निषिद्धत्यागिनः सन्तः कथ्यन्ते । तथा अर्वतः अश्वप्राप्तिनिमित्तं च । विभक्तिव्यत्ययः । त्वांशब्दावृत्तिरादरार्था ॥ ३७॥

अष्टत्रिंशी।
स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒ह स्त॑वा॒नो अ॑द्रिवः ।
गामश्व॑ᳪं᳭ र॒थ्य॒मिन्द्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे॑ ।। ३८ ।।
उ० स त्वम् । सः त्वं नः अस्मभ्यम् हे चित्र चायनीय, हे वज्रहस्त, धृष्णुया प्रसहनेन महः महत्त्वेन च स्तवानः स्तूयमान इति विकरणव्यत्ययः । हे अद्रिवः अद्रिवन् , अद्रिसारमयं वज्रं तद्यस्यास्तीति संबोध्यते अद्रिव इति । गाम् अश्वं च रथ्यं रथे साधुम् हे इन्द्र, संकिर । संकिरतिर्दानातिशये । अनेकदेशप्रकीर्णं देहि । कथमिव । सत्रा वाजं न जिग्युषे । नकार उपमार्थीयः । यथा जिग्युषे विजितवते । अश्वाय हस्तिने वा । सत्रा त्राणसहितम् वाजं यवसम् । सस्नेहमपरिमितं संकिरेयुर्दद्युः एवमस्मभ्यं देहि ॥ ३८॥
म० हे चित्र आश्चर्यकारिन् , हे वज्रहस्त, वज्रं हस्ते यस्य, हे अद्रिवः अद्रयोऽजेयत्वेन सन्तीत्यद्रिवान् तत्संबुद्धिः 'मतुवसोः ' (पा० ८ । ३ । १) इति रुत्वम् । हे इन्द्र, स त्वं नोऽस्मभ्यं गामश्वं च संकिर देहि । संपूर्वः किरतिर्दानार्थः । कीदृशमश्वम् । रथ्यं रथे साधुं रथवहनसमर्थम् । कीदृशस्त्वम् । धृष्णुया प्रागल्भ्येन महः महसा तेजसा च स्तवानः स्तूयमानः । धृषेः क्नुः ततो विभक्तेर्यादेशः । धृष्णुना धृष्णुत्वेन भावप्रधानो निर्देशः । महः विभक्तिलोपः । स्तवान इत्यत्र विकरणव्यत्ययः । कथमिव । वाजंन वाजमिव । न इवार्थे । यथा जिग्युषे जितवतेऽश्वाय हस्तिने वा यथा सत्रा त्राणं त्रा रक्षणम् तत्सहितं वाजमन्नं यवं यथा ददति तथास्मभ्यं देहि ॥३८॥

एकोनचत्वारिंशी।
कया॑ नश्चि॒त्र आभु॑वदू॒ती स॒दावृ॑ध॒: सखा॑ ।
कया॒ शचि॑ष्ठया वृ॒ता ।। ३९ ।।
उ० कया नः । वामदेव्यस्य योनिः तिस्र ऐन्द्र्यो गायत्र्यः अन्त्यपादो निचृत् । कया नश्चित्र आभुवदूती कया पुनः ऊती ऊत्या केन पुनरवनेन तर्पणेन । नः अस्माकम् चित्रः चायनीयः इन्द्रः । आभुवत् भूयात् । आकारो वृतासह संबध्यते । सदावृधः सदाकालं वर्धयिता । सखा च कया च नाम शचिष्ठया । शचीति कर्मनाम मतुब्लोपः । अतिशयेन कर्मवत्या अवृता कर्मणा सदावृधः सखा भूयादिति वर्तते ॥ ३९ ॥
म० तिस्रो गायत्र्यः इन्द्रदेवत्या वामदेवदृष्टाः वामदेव्यसाम्नो योनिः 'वामदेव्यमात्मन्' इति श्रुतेः अन्त्या पादनिचृत् सप्ताक्षरत्रिपादा । पूर्वर्चः इन्द्रपदमनुषञ्जनीयम् । इन्द्रः कया ऊती ऊत्या अवनेन तर्पणेन प्रीणनेन वा नोऽस्माकं सखा सहायः आभुवत् आभिमुख्येन भवति । तथा वृता वर्तत इति वृत् तया वृता वर्णमानया शचिष्ठया अतिशयेन शची शचिष्ठा तया अतिशयवत्या यागक्रिययास्माकं सखा भवति । शचीति कर्मनाम तत इष्ठन्प्रत्ययः । कीदृश इन्द्रः । चित्रः विचित्रः पूज्यो वा । सदावृधः सदा वर्धत इति सदावृधः 'इगुपध-' (पा० ३ । १ । १३५) इति कप्रत्ययः । सदा वर्धमानः । ऊती तृतीयैकवचनस्य 'सुपां सुलुक्' (पा० ७ । १ । ३९) इति पूर्वसवर्णः । अभुवत् 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७ ) इति तिप इलोपः शपश्छान्दसे ङित्त्वे धातोरुवङ्ङादेशः ॥ ३९ ॥

चत्वारिंशी।
कस्त्वा॑ स॒त्यो मदा॑नां॒ मᳪं᳭हि॑ष्ठो मत्स॒दन्ध॑सः ।
दृ॒ढा चि॑दा॒रुजे॒ वसु॑ ।। ४० ।।
उ० कस्त्वा को नाम त्वाम् मत्सत् सादयति । सत्यः अवितथः । मदानां मध्ये मंहिष्ठ अतिशयेन मदजनकः । अन्धसः सोमस्य स्वभूतोंऽशः । येन मत्तः सन् त्वम् । दृढा चित् दृढान्यप्यसुरवृन्दानि । आरुजे आरुजसि चूर्णयसि वसु च ददासीति शेषः । यद्वा दृढान्यपि सुवर्णप्रभृतीनि चिरकालस्थायीनि वसूनि आरुजसि चूर्णयसि दानाय ॥४०॥
म० हे इन्द्र, अन्धसोऽन्नस्य सोमरूपस्य कः अंशः त्वा त्वां मत्सत् माद्यति मत्तं करोति 'मदी हर्षे' 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमः 'सिब्बहुलं लेटि' (पा. ३।१। ३४ ) सिप्प्रत्ययः तिप इलोपः । कीदृशः । मदानां मंहिष्ठः मदयन्ति तानि मदानि पचाद्यच् मदजनकानि हवींषि तेषां मध्ये मंहिष्ठः श्रेष्ठः अत्यन्तमदजनकः 'मंहि कान्तौ' चुरादिः मंहयति द्योतते मंही अत्यन्तं मंही मंहिष्ठः । यद्वा 'महि वृद्धौ' भ्वादिः । मंहते वर्धते मंही अत्यन्तं मंही मंहिष्ठः । येनांशेन मत्तः सन् दृढचित् दृढान्यपि वसु वसूनि धनानि कनकादीनि त्वमारुजे 'रुजो भङ्गे' पुरुषपदव्यत्ययः । आरुजसि चूर्णयसि दातुं भनक्षि । भङ्क्त्वा भङ्क्त्वा ददासीत्यर्थः ॥४०॥

एकचत्वारिंशी।
अ॒भी षु ण॒: सखी॑नामवि॒ता ज॑रितॄ॒णाम् ।
श॒तं भ॑वास्यू॒तये॑ ।। ४१ ।।
उ० अभी षु णः आभिमुख्येन सुष्ठु च नः अस्माकं सखीनाम् अविता पालयिता। जरितॄणां स्तोतॄणां च अस्माकं पालयिता । किंच । शतं भवासि शतधा भवसि । हे इन्द्र, ऊतये अवनाय रक्षणाय । प्रकृतत्वादस्माकमेव सखीनां जरितॄणां च ॥ ४१ ॥
म० हे इन्द्र, त्वमूतयेऽवनाय पालनाय सु सुष्ठु सम्यक् अभि आभिमुख्येन शतं भवासि भवसि । आडागमः । शतशब्दो बहुवाची। बहुरूपो भवसि । पालनाय नानारूपाणि दधासीत्यर्थः । कीदृशस्त्वम् । सखीनां मित्राणां जरितॄणां स्तोतॄणां नोऽस्माकमृत्विजामविता पालयिता । संहितायामभीत्यस्य दीर्घः । 'सुनः' । (पा० ८।३ । १०७) सुशब्दस्य षत्वम् । 'नश्च धातुस्थोरुषुभ्यः' (पा० ८ । ४ । २७ ) इति षुशब्दात् परस्य नः इत्यस्य णत्वम् ॥ ४१ ॥

द्विचत्वारिंशी।
य॒ज्ञा य॑ज्ञा वो अ॒ग्नये॑ गि॒रा गि॑रा च॒ दक्ष॑से ।
प्र प्र॑ व॒यम॒मृतं॑ जा॒तवे॑दसं प्रि॒यं मि॒त्रं न श॑ᳪं᳭सिषम् ।। ४२ ।।
उ० यज्ञा यज्ञा वः आग्नेयस्त्र्यचः । तत्र द्वे बृहत्यौ तृतीया सतोबृहती । यज्ञायज्ञस्य साम्नो योनिः । यज्ञेयज्ञे इति सप्तम्येकवचनस्य आ आदेशः वीप्सायाम् । वः इति यजमानविषयं युष्मदर्थम् । अग्नये अग्निमिति विभक्तिव्यत्ययः वाक्यसंबन्धात् । गिरा गिरा च । तया तया च गिरा वाचा स्तुतिलक्षणया दक्षसे । दक्षसमिति सन्नतिः । दक्षवन्तमुत्साहवन्तम् । अग्निविशेषणं चैतत् । प्र प्रः 'प्रसमुपोदः पादपूरणम्' इत्यभ्यासः । शंसिषेत्याख्यातेन संबन्धः। प्रशंसिषं वयम् अहमिति वचनव्यत्ययः । अमृतममरणधर्माणम् । जातवेदसं जातप्रज्ञानम् । प्रियं मित्रं न मित्रमेव । अथ वाक्यार्थवशा सदानुपूर्वी । अहं यज्ञे यज्ञे वः युष्मदर्थे अग्निं दक्षवन्तं तयातया च स्तुत्या प्रशंसिषम् अमृतं जातवेदसं प्रियं मित्रमिव ॥ ४२ ॥
म० तृचः प्रगाथः आग्नेयः शंयुदृष्टः यज्ञायज्ञियस्य साम्नो योनिः । 'यज्ञायज्ञियं पुच्छम्' इति श्रुतेः । द्वे बृहत्यौ । तृतीया सतोबृहती । यज्ञायज्ञ वीप्सायां द्वित्वम् । सप्तम्येकवचनस्याकारः । व इति द्वितीयाबहुवचनमेकवचनार्थे यजमानविषयं वा । अग्नये चतुर्थ्येकवचनं द्वितीयैकवचनार्थे । गिरागिरा वीप्सायां द्वित्वम् । चः पादपूरणः । दक्षसे । चतुर्थी द्वितीयार्थे । 'प्रसमुपोदः पादपूरणे' (पा० ८।१।६) इति द्वित्वम् । तस्य च शंसिषमिति क्रियया संबन्धः । वयमिति प्रथमाबहुवचनमेकवचनार्थे । तथा चैवं योजना । यज्ञेयज्ञेऽनेकयज्ञेषु गिरागिराऽन्ययान्यया स्तुत्या वः त्वाम् । यद्वा वो युष्माकमर्थे अग्निं प्रशंसिषं स्तौमि । 'शंस स्तुतौ' लुड् अडभाव आर्षः । कीदृशमग्निं । दक्षसम् दक्षतेरुत्साहार्थस्य धातोरसुन्प्रत्ययः । दक्षते उत्सहते दक्षाः तम् उत्साहिनम् । यद्वा दक्ष इति बलनाम अन्तर्नीतमत्वर्थं द्रष्टव्यम् । दक्षसं बलवन्तम् । अमृतममरणधर्माणम् । जातवेदसम् जातं वेदो ज्ञानं धनं वा यस्मात्तम् । प्रियं प्रीतिजनकम् । नशब्द उपरिष्टादुपचारादुपमार्थीयः । मित्रं न मित्रमिव यथा कश्चित्प्रियं मित्रं स्तौति तद्वदग्निं स्तुमह इत्याशास्महे ॥ ४२ ॥

त्रिचत्वारिंशी।
पा॒हि नो॑ अग्न॒ एक॑या पा॒ह्युत द्वि॒तीय॑या ।
पा॒हि गी॒र्भिस्ति॒सृभि॑रूर्जां पते पा॒हि च॑त॒सृभि॑र्वसो ।। ४३ ।।
उ० पाहि नः गोपाय नः अस्मान् । हे अग्ने, एकया गिरा ऋग्लक्षणया। पाह्युत गोपाय च । द्वितीयया द्वाभ्यां गीर्भ्यामृग्यजुर्लक्षणाभ्याम् । पाहि च गीर्भिः तिसृभिः स्तुतिभिः । हे ऊर्जामन्नानां पते, पाहि च चतसृभिः गीर्भिः। ऋगाद्यास्तिस्रः गद्यपद्यकाव्यलक्षणा चतुर्था गीः । हे वसो वासयितः ॥ ४३॥
म० गर्गदृष्टा । हे अग्ने, हे ऊर्जां पते अन्नानां पालक, हे वसो वासयितः, यद्वा लुप्तमत्वर्थं द्रष्टव्यम् । हे वसो वसुमन् धनवन् , एकया गिरा इति पदस्यानुषङ्गः एकया गिरा ऋग्लक्षणया तृतीयानिर्देशात् स्तुतः सन्नितिवाक्यशेषः । नोऽस्मान् पाहि रक्ष । उत अपिच द्वितीयया यजुर्लक्षणया स्तुतः सन् पाहि । तिसृभिर्गीर्भिः ऋग्यजुःसामलक्षणाभिः स्तुतो नः पाहि । चतसृभिः ऋग्यजुःसामनिगदलक्षणाभिः स्तुतो नः पाहि । गद्यपद्यकाव्यादिरूपा चतुर्थी गीः ॥ ४३ ॥

चतुश्चत्वारिंशी।
ऊ॒र्जो नपा॑त॒ᳪं᳭ स हि॒नाऽयम॑स्म॒युर्दाशे॑म ह॒व्यदा॑तये ।
भुव॒द्वाजे॑ष्ववि॒ता भुव॑द्वृ॒ध उ॒त त्रा॒ता त॒नूना॑म् ।। ४४ ।।
उ० ऊर्जो नपातम् । स त्वं हे अध्वर्यो, ऊर्जो नपातम् ऊर्जशब्देनाप उच्यन्ते । ताभ्य ओषधिवनस्पतयो जायन्ते तेभ्य एष जायते इत्यपां पौत्रोऽग्निः । तम् । हिन तर्पय । अयम् अस्मयुः । अयं हि अग्निः अस्मान्कामयते । अतो वयं च । दाशेम संकल्पं कुर्याम । हव्यदातये हविषो दानाय । भुवद्वाजेष्वविता यतोऽयम् वाजेष्वन्नेषु विषयभूतेषु अविता गोप्ता । भुवत् भवति । भुवद्वृधे वर्धनाय च भवति । उत अपिच । त्राता तनूनां शरीराणाम् । बहुवचनोपदेशाद्भार्यादिशरीरग्रहणम् । यत एवम् अतः ऊर्जो नपातं हिन इति संबन्धः । एवमदूरविप्रकर्षेण । विषममन्त्रा व्याख्येयाः ॥ ४४ ॥
म० यजमानोऽध्वर्युं प्रार्थयते । हे अध्वर्यो, ऊर्जो नपातमपां पौत्रमग्निं स त्वं हिन हिनु तर्पय 'हि गतौ वृद्धौ च' स्वादिः लोट् उलोपश्छान्दसः । उर्क् शब्देनाप उच्यन्ते । अद्भ्यो वृक्षा जायन्ते तेभ्योऽग्निरित्यपां पौत्रोऽग्निः । यतोऽयमग्निरस्मयुः अस्मानिच्छति अस्मयुः 'क्याच्छन्दसि' (पा० ३।२।१७०) इत्युप्रत्ययः । अतो हव्यदातये हविषो दानाय दाशेम संकल्पयामः । 'दाशृ दाने' अत्र संकल्पार्थः । यतोऽयं वाजेष्वन्नेषु अविता रक्षिता भुवत् भवति । वृधे वृद्धौ च भुवत् भवति । उतापिच तनूनां शरीराणां त्राता रक्षिता भवति । बहुवचनं भार्यादिशरीररक्षार्थमुपात्तम् । अग्निरन्नतनुरक्षिता वर्धयितास्मान् कामयतेऽतो हविर्दानाय तं संकल्पयामः ॥ ४४ ॥

पञ्चचत्वारिंशी।
सं॒व॒त्स॒रो॒ऽसि परिवत्स॒रो॒ऽसीदावत्स॒रो॒ऽसीद्वत्स॒रो॒ऽसि वत्स॒रो॒ऽसि ।
उ॒षस॑स्ते कल्पन्तामहोरा॒त्रास्ते॑ कल्पन्तामर्धमा॒सास्ते॑ कल्पन्तां मा॒सास्ते कल्पन्तामृ॒तव॑स्ते कल्पन्ताᳪं᳭ संवत्स॒रस्ते॑ कल्पताम् । प्रेत्या॒ एत्यै॒ सं चाञ्च॒ प्र च॑ सारय ।
सुप॒र्ण॒चिद॑सि॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒व: सी॑द ।। ४५ ।।
 <poem>इति माध्यन्दिनीयायां वाजसनेयसंहितायां सप्तविंशोऽध्यायः ॥ २७॥
उ० संवत्सरोऽसि । संचितोऽग्निरनेन वपुषा अभिमृश्यते । 'पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम्' इति यदुक्तं ज्योतिःशास्त्रे तदिहोच्यते । हे अग्ने, यस्त्वं संवत्सरोऽसि । सर्वस्य सारितासि । नच त्वामन्यः सारयति । यश्च त्वं परिवत्सरोऽसि यश्च इदावत्सरोऽसि । इदा इदानीमिति समानार्थौं । यश्च इद्वत्सरोऽसि इदिति निपातः । यश्च वत्सरोऽसि निर्विशेषेण तस्य ते भवतः उषसः कल्पन्तां क्लृप्ता भवन्त्ववयवत्वेन । एवम् अहोरात्रा अर्धमासा मासा ऋतवश्च संवत्सरश्च कल्पताम् । त्वं च प्रेत्यै प्रगमनाय एत्यै आगमनाय संचाञ्च प्रसारय च । समं च प्रसारय च । स्वेच्छया संकोचविकाशधर्मा भवेत्यभिप्रायः। सुवर्णचिदसीत्याकृतिवचनम् । तया देवतया वाचा सहितः । अङ्गिरस्वत् प्राण इव । ध्रुवः शाश्वतिकः । सीद अवस्थानं कुरु । अभि त्वा शूर नोनुम इत्यादिपरमेष्ठ्यपश्यत् ॥ ४५ ॥ इति उवटकृतौ मन्त्रभाष्ये सप्तविंशोऽध्यायः ॥ २७ ॥
म० अग्निदेवत्यं यजुः । अत्र यजुषि नवनवत्यक्षराणि एको व्यूहः । ततः शताक्षराभिकृतिश्छन्दः । चित्याग्नेरभिमर्शने विनियोगः । ‘पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम्' इति ज्योतिःशास्त्रोक्तमिहोच्यते । हे अग्ने, त्वं संवत्सरोऽसि परिवत्सरोऽसि इदावत्सरोऽसि इद्वत्सरोऽसि वत्सरोऽसि निर्विशेषणः पञ्चसंवत्सरात्मकयुगरूपोऽसीत्यर्थः । 'युगं भवेद्वत्सरपञ्चकेन' इति ज्योतिःशास्त्रोक्तेः । तस्य ते तव उषसः प्रातःकालादयः कालविशेषाः सङ्गवमध्याह्नादयः अहोरात्राः दिवसनिशाः अर्धमासाः पक्षाः मासाश्चैत्रादयः ऋतवो वसन्तादयः कल्पन्तामवयवत्वेन क्लृप्ता भवन्तु । संवत्सरश्च उपलक्षणम् । संवत्सरादयः पञ्चापि कल्पन्ताम् । क्रियावृत्तिरादरार्था । किंच प्रेत्यै प्रगमनाय एत्यै आगमनाय च समञ्च संकुच प्रसारय च । स्वेच्छया संकोचविकासौ कुर्विति भावः । किंच सुपर्णाकारेण चितत्वात्सुपर्णचिदिति । तया देवतया वाचा सहितः सन् अङ्गिरस्वत् अङ्गिरस इव प्राणा इव ध्रुवः स्थिरः सीद तिष्ठ ॥ ४५ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
सप्तविंशोऽयमध्याय आग्निको विरतोऽधुना ॥ २७ ॥