शुक्लयजुर्वेदः/अध्यायः २६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २५ शुक्लयजुर्वेदः
अध्यायः २६
[[लेखकः :|]]
अध्यायः २७ →

अध्यायः 26
खिलसंज्ञकाः मन्त्राः

26.1
अग्निश् च पृथिवी च संनते ते मे सं नमताम् अदः ।
वायुश् चाऽन्तरिक्षं च संनते ते मे सं नमताम् अदः ।
ऽ आदित्यश् च द्यौश् च संनते ते मे सं नमताम् अदः ।
ऽ आपश् च वरुणश् च संनते ते मे सं नमताम् अदः ।
सप्त सꣳसदो ऽ अष्टमी भूतसाधनी ।
सकामाꣳ२ऽ अध्वनस् कुरु संज्ञानम् अस्तु मे ऽमुना ॥

26.2
यथेमां वाचं कल्याणीम् आवदानि जनेभ्यः ।
ब्रह्मराजन्याभ्याꣳ शूद्राय चार्याय च स्वाय चारणाय ।
प्रियो देवानां दक्षिणायै दातुर् इह भूयासम् अयं मे कामः सम् ऋध्यताम् उप मादो नमतु ॥

26.3
बृहस्पते ऽ अति यद् अर्यो ऽ अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु ।
यद् दीदयच्छवस ऽ ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ।
उपयामगृहीतो ऽसि बृहस्पतये त्वा ।
एष ते योनिर् बृहस्पतये त्वा ॥

26.4
इन्द्र गोमन्न् इहा याहि पिबा सोमꣳ शतक्रतो ।
विद्यद्भिर् ग्रावभिः सुतम् ।
उपयामगृहीतो ऽसीन्द्राय त्वा गोमते ।
ऽ एष ते योनिर् इन्द्राय त्वा गोमते ॥

26.5
इन्द्रा याहि वृत्रहन् पिबा सोमꣳ शतक्रतो ।
गोमद्भिर् ग्रावभिः सुतम् ।
उपयामगृहीतो ऽसीन्द्राय त्वा गोमते ।
ऽ एष ते योनिर् इन्द्राय त्वा गोमते ॥

26.6
ऋतावानं वैश्वानरम् ऋतस्य ज्योतिषस् पतिम् ।
अजस्रं घर्मम् ईमहे ।
उपयामगृहीतो ऽसि वैश्वानराय त्वा ।
एष ते योनिर् वैश्वानराय त्वा ॥

26.7
वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानाम् अभिश्रीः ।
इतो जातो विश्वम् इदं वि चष्टे वैश्वानरो यतते सूर्येण ।
उपयामगृहीतो ऽसि वैश्वानराय त्वा ।
एष ते योनिर् वैश्वानराय त्वा ॥

26.8
वैश्वानरो न ऽ ऊतय ऽ आ प्र यातु परावतः ।
अग्निर् उक्थेन वाहसा ।
उपयामगृहीतो ऽसि वैश्वानराय त्वा ।
एष ते योनिर् वैश्वानराय त्वा ॥

26.9
अग्निर् ऋषिः पवमानः पाञ्चजन्यः पुरोहितः ।
तम् ईमहे महागयम् ।
उपयामगृहीतो ऽस्य् अग्नये त्वा वर्चसे ।
ऽ एष ते योनिर् अग्नये त्वा वर्चसे ॥

26.10
महाꣳ२ऽ इन्द्रो वज्रहस्तः षोडशी शर्म यच्छतु ।
हन्तु पाप्मानं यो ऽस्मान् द्वेष्टि ।
उपयामगृहीतो ऽसि महेन्द्राय त्वा ।
एष ते योनिर् महेन्द्राय त्वा ॥

26.11
तं वो दस्मम् ऋतीषहं वसोर् मन्दानम् अन्धसः ।
अभि वत्सं न स्वसरेषु धेनव ऽ इन्द्रं गीर्भिर् नवामहे ॥

26.12
यद् वाहिष्ठं तद् अग्नये बृहद् अर्च विभावसो ।
महिषीव त्वद् रयिस् त्वद् वाजा ऽ उद् ईरते ॥

26.13
एह्य् ऊ षु ब्रवाणि ते ऽग्न ऽ इत्थेतरा गिरः ।
एभिर् वर्धास ऽ इन्दुभिः ॥

26.14
ऋतवस् ते यज्ञं वि तन्वन्तु मासा रक्षन्तु ते हविः ।
संवत्सरस् ते यज्ञं दधातु नः प्रजां च परि पातु नः ॥

26.15
उपह्वरे गिरीणाꣳ संगमे च नदीनाम् ।
धिया विप्रो ऽ अजायत ॥

26.16
उच्चा ते जातम् अन्धसो दिवि सद् भूम्य् आ ददे ।
उग्रꣳ शर्म महि श्रवः ॥

26.17
स न ऽ इन्द्राय यज्यवे वरुणाय मरुद्भ्यः ।
वरिवोवित् परि स्रव ॥

26.18
एना विश्वान्य् अर्य ऽ आ द्युम्नानि मानुषाणाम् ।
सिषासन्तो वनामहे ॥

26.19
अनु वीरैर् अनु पुष्यास्म गोभिर् अन्व् अश्वैर् अनु सर्वेण पुष्टैः ।
अनु द्विपदानु चतुष्पदा वयं देवा नो यज्ञम् ऋतुथा नयन्तु ॥

26.20
अग्ने पत्नीर् इहा वह देवानाम् उशतीर् उप ।
त्वष्टारꣳ सोमपीतये ॥

26.21
अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऽ ऋतुना ।
त्वꣳ हि रत्नधा ऽ असि ॥

26.22
द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत ।
नेष्ट्राद् ऋतुभिर् इष्यत ॥

26.23
तवायꣳ सोमस् त्वम् एह्य् अर्वाङ्छश्वत्तमꣳ सुमना ऽ अस्य पाहि ।
अस्मिन् यज्ञे बर्हिष्य् आ निषद्या दधिष्वेमं जठर ऽ इन्दुम् इन्द्र ॥

26.24
अमेव नः सुहवा ऽ आ हि गन्तन नि बर्हिषि सदतना रणिष्टन ।
अथा मन्दस्व जुजुषाणो ऽ अन्धसस् त्वष्टर् देवेभिर् जनिभिः सुमद्गणः ॥

26.25
स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ।
इन्द्राय पातवे सुतः ॥

26.26
रक्षोहा विश्वचर्षणिर् अभि योनिम् अयोहतम् ।
द्रुणा(द्रोणे) सधस्थम् आसदत् ॥

भाष्यम्(उवट-महीधर)

षड्विंशोऽध्यायः।

तत्र प्रथमा।
अ॒ग्निश्च॑ पृथि॒वी च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒दो वा॒युश्चा॒न्तरि॑क्षं च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒द
आ॑दि॒त्यश्च द्यौश्च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒द आप॑श्च॒ वरु॑णश्च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒दः ।
स॒प्त स॒ᳪं᳭सदो॑ अष्ट॒मी भू॑त॒साध॑नी । सका॑माँ॒२ अध्व॑नस्कुरु सं॒ज्ञान॑मस्तु मे॒ऽमुना॑ ।। १ ।।
उ० इषेत्वेति प्रारभ्य दर्शपौर्णमासाग्निहोत्रपशुचातुर्मास्याग्निष्टोमवाजपेयराजसूयाग्निसौत्रामण्यश्वमेधसंबद्धा मन्त्रा व्याख्याताः । नामाख्यातोपसर्गनिपातजनिता वाक्यार्थाश्च ॥ अथेदानीं खिलान्यनुक्रमिष्यामः । अग्निष्टोमाग्निसौत्रामण्यश्वमेधपुरुषमेधसर्वमेधपितृमेधप्रवर्ग्योपनिषत्संबद्धा मन्त्रा व्याख्येयाः त इहोच्यन्ते । अत्र च ये अत्र संबद्धा मन्त्रास्तेषां तदेवार्षम् । असंबद्धानां तु आदित्य एव 'आदित्यानीमानि यजूᳪं᳭षीति वा आहुः' इति श्रुतेः । याज्ञवल्क्यो वा 'याज्ञवल्क्येनाख्यायन्ते' इति श्रुतेः । अविनियुक्तानां मन्त्राणां लैङ्गिको विनियोगः । तद्यथा अग्निश्च पृथिवी चेति सप्त सन्नंतिमन्त्राः । लिङ्गं नाम प्रकाशनसामर्थ्यमुच्यते । यो हि यमर्थं वदितुं समर्थः स तत्र श्रुत्या विनियुज्यते । अग्निश्च पृथिवी च सन्नते । सन्नमनं सन्नतिः प्रह्वीभावः आनुकूल्येन प्रवृत्तिः । अग्निश्च पृथिवी च संभोगार्थं संनते कस्मादतो ब्रवीमि ते अग्निपृथिव्यौ मे मम सन्नमताम् । अत्र णिचो लोपश्छान्दसः । सन्नमयतां वशवर्तिनं कुरुतामित्यर्थः । अद इति पुरुषादेर्विशेषनामोपलक्षणम् । द्वितीयान्तं चोपलक्षयति कर्मभावात् । एवमुत्तरेष्वपि योज्यम् । वायुश्चान्तरिक्षं च आदित्यश्च द्यौश्च आपश्च वरुणश्च सप्तसंसदः परमात्मोच्यते । यस्य तव सप्तसंसदः सप्तसंसदानि प्रकृतानीत्येवम् अग्निपृथिवीवाय्वन्तरिक्षादित्यद्युलोकाम्बुवरुणान्तानि । यस्य च तव अष्टमी बभूव भूतानां साधनी पृथिवी । नहि पृथिवीमन्तरेण भूतानामुत्पत्तिरस्ति । तत्त्वं प्रार्थ्यसे । सकामान् अध्वनः कुरु सकामान्मार्गान् अस्माकं कुरु । यदा हि तैर्लभ्यते तदा सकामा मार्गाः स्युः । संज्ञानं च सङ्गतं च ज्ञानम् अस्तु मे मम अमुना । विशेषनामाभिप्रायमेतत् । विज्ञानात्मा वोच्यते । यस्य तव सप्तसंसदः । मनश्च बुद्धिश्च पञ्च बुद्धीन्द्रियाणि च । अष्टमी च वाक् भूतसाधनी भूतप्रज्ञप्तिकरी । तं त्वां ब्रवीमि । सकामान् अध्वनः कुरु अस्माकम् । संज्ञानं च अस्तु मे मम अमुना ॥ १ ॥
म० इषे त्वेत्यारभ्य दर्शपौर्णमासपितृयज्ञाग्निहोत्रोपस्थानपशुचातुर्मास्याग्निष्टोमवाजपेयराजसूयाग्निसौत्रामण्यश्वमेधसंबद्धा मन्त्रा व्याख्याताः । इदानीं खिलान्युच्यन्ते क्वचिद्विनियोगानुक्तेः । तेषां विवस्वानृषिरन्यस्यानुक्तेः 'आदित्यानीमानि यजूंषि व्याख्यायन्ते' (बृह० ५। ५। ३३) इति श्रुतेः याज्ञवल्क्यो वा 'याज्ञवल्क्येन व्याख्यायन्ते' इति श्रुतेः । अग्निश्च । सप्त लिङ्गोक्तानि यजूंषि । चतस्र ऋग्गायत्र्यः । सप्त संसदः आसुर्यनुष्टुप् । सकामान् प्राजापत्यानुष्टुप् । यथेमाम् ब्राह्मी गायत्री । अग्निश्च पृथिवी च संते संनमनं संतम् आनुकूल्येन प्रवृत्तिः अग्निपृथिव्यौ भोगाय सङ्गते । अतो ब्रवीमि त अग्निपृथिव्यौ मे ममादः अमुकं संनमतां संनमयताम् वशवर्तिनं कुरुतामित्यर्थः । अद इति पुरुषादेर्नाम द्वितीयान्तं प्रयोज्यम् । 'छन्दस्युभयथा' (पा० ३ । ४ । ११७ ) इति शपोऽप्यार्धधातुकत्वात् ‘णेरनिटि' (पा० ६ । ४ । ५१) इति णिचो लोपः संनमतामित्यत्र । एवमुत्तरेष्वपि मन्त्रेषु योज्यम् । वायुरन्तरिक्षं च संते ते ममामुकं संनमयताम् । आदित्यः द्यौश्च संते ते म० । आपश्च वरुणश्च संते ते म० । परमात्मानं प्रत्युच्यते । हे स्वामिन् , यस्य तव सप्त संसदः संसदनानि अधिष्ठानानि अग्निवाय्वन्तरिक्षादित्यद्युलोकाम्बुवरुणाख्यानि तत्राष्टमी भूतसाधनी पृथ्वी । भूतानि साधयति उत्पादयति भूतसाधनी । भूमिं विना भूतोत्पत्तेरभावात् । अतः सर्वाधिष्ठानभूतस्त्वमध्वनो मार्गान् सकामान् कुरु । येषु मार्गेषु मया गम्यते तत्रास्माकं कामप्राप्तिरस्त्वित्यर्थः । किंच मे ममामुना देवदत्तादिना संज्ञानं सङ्गतं ज्ञानमस्तु इष्टेन मम प्रीतिरस्तु । विज्ञानात्मा वोच्यते । यस्य तव सप्त संसदः पञ्च बुद्धीन्द्रियाणि मनो बुद्धिश्चेति सप्तायतनानि अष्टमी भूतसाधनी भूतानि साधयति वशीकरोतीति भूतसाधनी वाक् स त्वं नोऽस्माकमध्वनः सकामान् कुरु । अमुना सह मे संज्ञानं सङ्गतमस्तु ॥१॥

द्वितीया ।
यथे॒मां वाचं॑ कल्या॒णीमा॒वदा॑नि॒ जने॑भ्यः ।
ब्र॒ह्म॒रा॒ज॒न्या॒भ्याᳪं᳭ शू॒द्राय॒ चार्या॑य च॒ स्वाय॒ चार॑णाय च ।
प्रि॒यो दे॒वानां॒ दक्षि॑णायै दा॒तुरि॒ह भू॑यासम॒यं मे॒ काम॒: समृ॑ध्यता॒मुप॑ मा॒दो न॑मतु ।। २ ।।
उ० यथेमाम् । यथा इमां वाचं कल्याणीं अनुद्वेजिनीम् दीयतां भुज्यतामित्येवमादिकाम् । आवदानि जनेभ्योऽर्थाय । के ते जना इत्यत आह । ब्रह्मराजन्याभ्यां ब्राह्मणाय राजन्याय च शूद्राय च अर्याय च । अर्यों वैश्यः । स्वाय चात्मीयाय च । अरणः अपगतोदकः पर इत्यर्थः। आवदानीति सर्वत्र संबध्यते । प्रियो देवानाम् । अवसानरहितानुष्टुप् । यथेमां वाचमिति यथाशब्दयोगात्तथाशब्दोऽत्राध्याहर्तव्यः। तथा तेन प्रकारेण प्रियो देवानां भूयासम् । दक्षिणायै दक्षिणाया दातुश्च इहास्मिन्नेव काले प्रियो भूयासम् । अयमिति कामनामग्रहणम् । तद्यथा अयं ग्रामलाभकामः अस्मै मे समृद्यताम् । किंच उपमा अदः नमतु । अद इति यः काम इष्यते स उच्यते । तद्यथा उपनमतु मांप्रति देवदत्तः ॥ २॥
म० इमां कल्याणीमनुद्वेगकरीं वाचमहं यथा यतः आवदानि सर्वतो ब्रवीमि दीयतां भुज्यतामिति सर्वेभ्यो वच्मि । केभ्यस्तदाह । ब्रह्मराजन्याभ्यां ब्राह्मणाय राजन्याय क्षत्रियाय च शूद्राय अर्याय वैश्याय स्वायात्मीयाय अरणाय पराय । अरणोऽपगतोदकः शत्रुः नास्ति रणः शब्दो येन सह, वाक्संबन्धरहितः शत्रुरिति वा । प्रियो देवानां मध्येऽवसानरहितानुष्टुप् लौगाक्षिदृष्टा । यथेति पूर्वोत्तरत्र तथाशब्दोऽध्याहार्यः । यतोऽहं ब्राह्मणादिभ्यः कल्याणी वाचं वदामि तथा ततोऽहं देवानां प्रियः भूयासम् । इह संसारे दक्षिणायै दक्षिणायाः दातुश्च प्रियः भूयासम् । देवा दक्षिणादातारश्च मयि प्रीतिं कुर्वन्त्वित्यर्थः । किंच मे ममायं कामः समृद्ध्यतां सफलो भवतु । अयमिति नामनिर्देशः । धनपुत्रादिलाभकामो मे संपद्यतामित्यर्थः । किंच अदो मा मामुपनमतु । अद इति इष्टनामग्रहणम् । देवदत्तादिर्मा प्रीणयतु ॥ २ ॥

तृतीया।
बृह॑स्पते॒ अति॒ यद॒र्यो अर्हा॑द् द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु ।
यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ बृह॒स्पत॑ये त्वै॒ष ते॒ योनि॒र्बृह॒स्पत॑ये त्वा ।। ३ ।।
उ० बृहस्पते अति । बृहस्पतिसवेऽनया त्रिष्टुभा बृहस्पतिदेवतया ग्रहो गृह्यते । गृत्समदस्यार्षम् बृहस्पतेर्वा । हे बृहस्पते, अतिशयेन यत् द्रविणं धनम् । अर्य ईश्वरः । अर्यशब्दः स्वामिन्यन्तोदात्तः वैश्ये आद्युदात्तः । अर्हात् पूजयेत् । यच्च द्युमद्विभाति द्युमत् द्युतिमत् विभाति भासते । क्रतुमज्जनेषु यच्च क्रतुमत् यज्ञवत् जनेषु विभातीत्यनुवर्तते। यत् दीदयत् शवसा यच्च दीप्यते शवसा बलेन । रक्षितारोऽपि यस्य सन्तीत्यभिप्रायः । हे ऋतप्रजात ऋतात्सत्यादविनाशिनः प्रजायत इति ऋतप्रजातः तत्संबुद्धौ हे ऋतप्रजात, तत् द्रविणम् अस्मासु धेहि स्थापय । चित्रं नानारूपम् । उपयाम गृहीतोसि बृहस्पतये त्वा । एष ते योनिऽर्बृहस्पतये त्वा । स्थापनमन्त्रः ॥ ३ ॥
म० ब्रह्मदेवत्या त्रिष्टुप् गृत्समददृष्टा । बृहस्पतिसवे बार्हस्पत्यग्रहणेऽस्याः सोपयामाया विनियोगः । ऋतात् सत्यात् हे ऋतप्रजात, ब्रह्मणः सकाशात् प्रजातं प्रकृष्टं जातं जन्म यस्य ऋतप्रजातः । हे बृहस्पते बृहतां वेदानां पते पालक, चित्रं नानाविधं तत् द्रविणमस्मासु यजमानेषु धेहि धारय स्थापय देहीत्यर्थः । तत्किम् । अर्यः स्वामी यद्धनमर्हति पूजयति । 'लेटोडाटौ' (पा० ३ । ४ । ९४ ) इत्याडागमः। 'अर्यः स्वामिवैश्ययोः' (पा० ३ । १ । १०३ ) इत्यर्यशब्दः स्वामिन्यन्तोदात्तः वैश्ये आद्युदात्तः । ईश्वरयोग्यं धनं देहीत्यर्थः । यद्धनं जनेषु लोकेषु विभाति विविधं शोभते । कीदृशं धनम् । द्युमत् द्यौः कान्तिरस्यास्तीति द्युमत् 'दिव उच्च' (पा० ६ । १ । १३१) इत्युकारः । क्रतुमत् क्रतवो यज्ञा विद्यन्ते येन तत् । येन यज्ञाः क्रियन्ते तादृशं धनं देहीत्यर्थः । यत् धनं शवसा बलेन दीदयत् दापयति प्रापयति वा धनान्तरम् तद्धनं देहीत्यर्थः । 'दय दानगतिहिंसादानेषु' अस्माण्णिजन्ताल्लुङि रूपम् । अडभाव आर्षः । उपयामेन पात्रेण गृहीतोऽसि बृहस्पतयेऽर्थाय त्वा गृह्णामि । स्थापयति एष ते योनिः स्थानम् । बृहस्पतये त्वां सादयामि ॥ ३ ॥

चतुर्थी।
इन्द्र॒ गोम॑न्नि॒हा या॑हि॒ पिबा॒ सोम॑ᳪं᳭ शतक्रतो । वि॒द्यद्भि॒र्ग्राव॑भिः सु॒तम् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ गोम॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ गोम॑ते ।। ४ ।।
उ० इन्द्र गोमन् । द्वाभ्यां गायत्रीभ्यामिन्द्राय गोमते | ग्रहो गृह्यते गोसवे । आदित्यस्यार्षं याज्ञवल्क्यस्य वा । हे इन्द्र, गोमन् गोभिः स्तुतिभिर्वा संयुक्त, इह यज्ञे आयाहि आगच्छ । एत्य च पिब सोमम् । हे शतक्रतो बहुकर्मन् । कथंभूतं सोमम् । विद्यद्भिर्ग्रावभिः सुतम् 'दो अवखण्डने' अस्य शतरि । विद्यन्तः तै विद्यद्भिः विशेषेणावखण्डयद्भिः ग्रावभिः सुतमभिषुतं सोमम् । उपयामगृहीतोऽसीन्द्राय त्वा गोमते गृह्णामि । एष ते योनिरिन्द्राय त्वा गोमते सादयामि ॥ ४ ॥
म०. द्वे इन्द्रदेवत्ये गायत्र्यौ, रम्याक्षिदृष्टे गोसवे यज्ञे ग्रहग्रहणे नियुक्ते सोपयामे । शतं क्रतवः कर्माणि यस्य स शतक्रतुः हे शतक्रतो हे इन्द्र, हे गोमन् गावो धेनवः स्तुतयः किरणा वा विद्यन्ते यस्य स गोमान् । त्वमिह यज्ञे आयाहि आगच्छ । सोमं च पिब । 'द्व्यचोऽतस्तिङः' (पा० ६।३।१३५ ) इति दीर्घः । कीदृशं सोमम् । ग्रावभिः सुतमश्मभिरभिषुतम् । कीदृशैर्ग्रावभिः । विद्यद्भिः विशेषेण द्यन्ति खण्डयन्ति ते विद्यन्तः तैः । 'दो अवखण्डने' दिवादित्वाच्छ्यन् शतरि 'ओतः श्यनि' (पा० ७ । ३ । ७१) इत्योकार-लोपः । उपयाम० गोमते इन्द्राय त्वां गृह्णामि । सादयति एष ते० ॥ ४ ॥

पञ्चमी।
इन्द्राया॑हि वृत्रह॒न्पिबा॒ सोम॑ᳪं᳭ शतक्रतो । गोम॑द्भि॒र्ग्राव॑भिः सु॒तम् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ गोम॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ गोम॑ते ।। ५ ।।
उ० इन्द्रायाहि । हे इन्द्र, आगच्छ । हे वृत्रहन् वृत्रस्य हन्तः, एत्य च सोमं पिब । हे शतक्रतो बहुकर्मन् । कथंभूतं सोमम् । गोमद्भिः स्तुतिमद्भिः । ग्राह्यसंयुतैर्वा अंशुवचनो वा गोशब्दः । ग्रावभिः सुतमभिषुतम् । उपयामेति व्याख्यातम् ॥ ५॥
म० वृत्रं दैत्यं हन्ति वृत्रहा । शतं क्रतवो मखा यस्य स शतक्रतुः । हे वृत्रहन् हे शतक्रतो, हे इन्द्र, त्वमायाहि आगच्छ सोमं च पिब । कीदृशं सोमम् । ग्रावभिः सुतम् । कीदृशैर्ग्रावभिः । गोमद्भिः गौः स्तुतिर्विद्यते येषां ते गोमन्तस्तैः । उप० एष ते व्याख्याते ॥ ५ ॥

षष्ठी।
ऋ॒तावा॑नं वैश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पति॑म् । अज॑स्रं घ॒र्ममी॑महे ।
उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा ।। ६ ।।
उ० ऋतावानम् । तिस्रो वैश्वानरीयाः पुरोरुचः गायत्रीत्रिष्टुप्गायत्र्यः । अधस्तन एव ऋषिः । ऋतावानं सत्यव्रतं यज्ञवन्तमुदकवन्तं वा वैश्वानरम् । ऋतस्य वा उदकस्य यज्ञस्य सत्यस्य वा ज्योतिषश्च पतिम् । अथवा ऋतस्य सर्वगतस्य ज्योतिषः पतिमधिपतिम् । अजस्रं अनुपक्षीणं घर्मम् अक्षरणं दीप्तं वा ईमहे याचामहे । आयज्ञसमाप्तिमिति शेषः । सामर्थ्यात् । उपयामेति व्याख्यातम् ॥ ६ ॥
म० तिस्रो वैश्वानरीयाः पुरोनुवाक्याः । आद्या गायत्री प्रदुराक्षिदृष्टा । वयं वैश्वानरमीमहे याचामः । यज्ञसमाप्तिमिति शेषः । ईमहे याञ्चाकर्मसु पठितः। कीदृशं वैश्वानरम् । ऋतवानम् ऋतं सत्यं यज्ञो जलं वास्यास्ति ऋतवा तम् 'छन्दसीवनिपौ वाच्यौ' (पा० ५। २ । १०९ । वा० २) इत्यस्त्यर्थे वन्प्रत्ययः संहितायामृतस्य दीर्घः । ऋतस्य सत्यस्याविनाशिनो ज्योतिषः तेजसः पतिं पालकम् । तेजोऽधिष्ठानमित्यर्थः । अजस्रं न जस्यति नश्यतीति अजस्रस्तमनुपक्षीणम् 'जसु हिंसायाम्' 'नमिकम्पि-' (पा० ३ । २ । १६७) इति रप्रत्ययः । घर्मं 'घृ क्षरणदीप्त्योः' जिघर्ति क्षरति जलं घर्मस्तम् दीप्तं वा । उपया० वैश्वानराय त्वां गृह्णामि । एष ते० सादयामि ॥ ६॥

सप्तमी।
वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः ।
इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण ।
उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा ।। ७ ।।
उ० वैश्वानरस्य सुमतौ । द्वितीयः पादः पूर्वं व्याख्यायते । यः वैश्वानरः राजा दीप्तः । हिकमिति निपातसमाहारोऽनर्थः । यश्च वैश्वानरः भुवनानां भूतजातानामभिश्रीः अभ्याश्रयणीयः सर्वोपकारसामर्थ्यात् । यश्च इतो जातः इतोऽरणितः कुतश्चिद्वा उत्पन्नः सन् विश्वमिदं सर्वमिदं विचष्टे अभिविपश्यति । यथा द्रष्टव्यं कर्मानुरूपेण यश्च वैश्वानरः यतते स्पर्धते । सूर्येण सह स्वकीयदीप्त्या तस्य वैश्वानरस्य सुमतौ कल्याणमतौ वयं स्यामेति प्रार्थना । उपयामेति समञ्जसम् ॥ ७ ॥
म० त्रिष्टुप् कुत्सदृष्टा । वैश्वानरस्य सुमतौ शोभनबुद्धौ वयं स्याम भवेम । कं निपातः पादपूरणः । हि यस्माद्धेतोर्वैश्वानरः इतोऽरणितो जातः उत्पन्नः सन् इदं विश्वं सर्वं विचष्टे कर्मानुरूपं पश्यति । सूर्येण सह यतते स्पर्धते च । सूर्यसमतेजा इत्यर्थः । कीदृशोऽग्निः । राजा राजते दीप्यते राजा । भुवनानां भूतजातानामभिश्रीः आश्रयणीयः । अभि समन्तात् श्रीयते सेव्यतेऽभिश्रीः । कर्मणि क्विप् । उप० एष ते उक्ते ॥ ७॥

अष्टमी।
वै॒श्वा॒न॒रो न ऊ॒तय॒ आ प्र या॑तु परा॒वत॑: । अ॒ग्निरु॒क्थेन॒ वाह॑सा ।
उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा ।। ८ ।।
उ० वैश्वानरो नः वैश्वानरोऽग्निः नोऽस्मान् ऊतये अवनाय पालनाय आप्रयातु आगच्छतु । परावतः दूरात् । यो हि दूरादागच्छेत् आगच्छेदप्यसौ समीपादित्यभिप्रायः। केन आ प्रयातु । उक्थेन स्तोमेन । वाहसा वाहनभूतेन । अन्यत्रापि स्तोमो वाहन इत्युच्यते । वाहिष्ठो वाहनः स्तोम इति । उपयामेति समानम् ॥ ८॥
म० गायत्री। नोऽस्माकमूतयेऽवनाय परावतः दूरदेशाद्वैश्वानरः आ प्रयातु आगच्छतु । केन । वाहसा वाहनभूतेन । उक्थेन स्तोमेन 'वाहिष्ठो वाहनानां स्तोमो दूतो हुतं नरा' इति श्रुत्यन्तरे स्तोमस्य वाहनत्वमुक्तम् । उप० एष० उक्ते ॥ ८॥

नवमी।
अ॒ग्निर्रृषि॒: पव॑मान॒: पाञ्च॑जन्यः पु॒रोहि॑तः । तमी॑महे महाग॒यम् ।
उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा॒ वर्च॑स ए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ वर्च॑से ।। ९ ।।
उ० अग्निर्ऋषिः । आग्नेयी गायत्री पुरोरुक् । ऋषिरुक्तः । यः अग्निः ऋषिः द्रष्टा मन्त्राणाम् । पवमानः इतश्चेतश्च गच्छन्। पाञ्चजन्यः पञ्चजनेभ्यो हितः। चत्वारो वर्णा निषादपञ्चमाः पञ्चजनाः। तेषां हि यज्ञेऽधिकारोऽस्ति । पुरोहितः पुर एनं दधाति यज्ञं कुर्वाणाः । तम् ईमहे याचामहे । महागयं महान्तं गृहम् । महत्त्वं च गृहस्य द्रव्यनिबन्धनम् । उपयामगृहीतोस्यग्नये त्वा वर्चस इति व्याख्यातम् ॥ ९॥
म० अग्निदेवत्या गायत्री वसिष्ठभरद्वाजदृष्टा पुरोरुक् । महान् गयः स्तुतिर्यस्य स महागयो महागृहरूपो वा तमग्निं वयमीमहे याचामहे । तं कम् । योऽग्निर्ऋषिः मन्त्रद्रष्टा । पवमानः 'पव गतौ' पवत इतस्ततो गच्छति पवमानः । यद्वा 'पूङ् शोधने' पवते शोधयति पवमानः । पाञ्चजन्यः पञ्चजनेभ्यो हितः । विप्रादयश्चत्वारो वर्णा निषादश्चेति पञ्चजनास्तेषां यज्ञाधिकारात् । पुरोहितः पुरोऽग्रे हितः स्थापितः दधातेर्निष्ठा । उप० वर्चसे तेजोरूपायाग्नये त्वां गृह्णामि । एष० ॥ ९॥

दशमी।
म॒हाँ२ इन्द्रो॒ वज्र॑हस्तः षोड॒शी शर्म॑ यच्छतु । हन्तु॑ पा॒प्मानं॒ योऽस्मान्द्वेष्टि॑ ।।
उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ।। १० ।।
उ० महाँ इन्द्रः । माहेन्द्री पुरोरुक् गायत्री । उक्तमार्षम् । महान् इन्द्रः वज्रहस्तः । षोडशी पञ्चप्राणाः पञ्चबुद्धीन्द्रियाणि पञ्चकर्मेन्द्रियाणि मनः षोडशं एतलिङ्गं यस्य स षोडशीन्द्रः । पञ्चदशो वा वज्रश्चेन्द्रश्च षोडशी वज्रस्य । शर्म शरणं यच्छतु ददातु । हन्तु च पाप्मानं ब्रह्महत्यादिकम् । यश्चास्मान् द्वेष्टि तं च हन्तु । यं च वयं द्विष्मः तं च हन्तु । उपयामेति समानम् ॥ १० ॥
म० महेन्द्रदेवत्या गायत्री वसिष्ठकृता पुरोरुक् । इन्द्रः शर्म सुखं यच्छतु ददातु । योऽस्मान् द्वेष्टि तं च पाप्मानं पापिष्ठं हन्तु नाशयतु । यद्वास्मद्द्वेष्टारं पाप्मानं च पापं ब्रह्महत्यादिकं हन्तु । 'अस्त्री पङ्कं पुमान्पाप्मा' इत्यमरः। कीदृश इन्द्रः । महान् श्रेष्ठः वज्रहस्तः वज्रं हस्ते यस्य सः । षोडशी पञ्च प्राणा दशेन्द्रियाणि मनश्चेति षोडशपदार्था लिङ्गशरीररूपा यस्य स षोडशी । आत्मरूप इत्यर्थः । उप० एष० उक्ते ॥ १० ॥

एकादशी।
तं वो॑ द॒स्ममृ॑ती॒षहं॒ वसो॑र्मन्दा॒नमन्ध॑सः । अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं॑ गी॒र्भिर्न॑वामहे ।। ११ ।।
उ० तं वः ऐन्द्री बृहती । जपस्वाध्यायादिषु विनियोगः। आदित्यस्यार्षं याज्ञवल्क्यस्य वा आ अध्यायपरिसमाप्तेः । हे ऋत्विग्यजमानाः, तमिन्द्रं गीर्भिर्वाग्भिः स्तुतिलक्षणाभिः । नवामहे 'णु स्तुतौ' अभिष्टुमः । किमर्थम् । वः युष्मभ्यं दास्यतीति । कथंभूतमिन्द्रम् । दस्मं दर्शनीयम् । प्रियवादिनं कार्यसाधकं च । ऋतीषहम् ऋती गतिः गतिमात्रेण शत्रुं सहत इत्यृतीषाट् तमृतीषहम् । वसोर्मन्दानमन्धसः । वसोर्वासयितुः सोमस्य स्वकीयेनैकदेशेन मन्दानं माद्यन्तम् अन्धसः अध्यापनीयस्य चान्नस्य स्वकीयेनैवांशेन माद्यन्तम् । कथमिव नवामहे । वत्सं न स्वसरेषु धेनवः । नकार उपमार्थीयः । वत्समिव । स्वसरेषु स्वयमेव सरन्ति येषु तानि स्वसराण्यहानि तेषु स्वसरेषु अहस्सु । धेनवः यथा नवप्रसूता धेनवः दिनेषु अतिहार्दात् वत्सं शब्दैराश्वासयेयुः एवं वयमप्यतिसौहार्देनेन्द्रं गीर्भिर्नवामह इति समस्तार्थः ॥ ११ ॥
म० इन्द्रदेवत्या पथ्या बृहती नोधागोतमदृष्टा स्वाध्यायादिषु नियुक्ता । आदित्ययाज्ञवल्क्ययोरार्षमाध्यायात् । हे यजमानाः, तमिन्द्रं वयं गीर्भिः स्तुतिलक्षणाभिर्वाग्भिः अभिनवामहे सम्यक् स्तुमहे 'नु स्तुतौ' व्यत्ययेन शप् । किंभूतमग्निम् । वो युष्माकं दस्मं दर्शनीयम् 'दस दर्शने' मप्रत्ययः । ऋतीषहम् 'ऋ गतौ' क्तिन्प्रत्ययः । ऋत्या गत्या सतेऽभिभवति शत्रूनिति ऋतिपषट् तम् 'पूर्वपदाच्च' (पा. ८।३।१०६) इति षत्वम् । संहितायां दीर्घः । वसोः वासयितुः स्थितिहेतुभूतस्यान्धसोऽन्नस्य । षष्ठी तृतीयार्थे । अन्नेन मन्दानं मोदमानम् 'मदिङ् स्वप्ने जाड्ये मदे मोदे स्तुतौ गतौ' इति धातोः शानच्प्रत्ययेन शपो लुक् । दृष्टान्तमाह । वत्सं न । नकार इवार्थः। स्वसरेषु स्वेनैवात्मनैव सरन्ति प्रसरन्ति किरणा येषु ते स्वसरा दिवसाः तेषु । यथा धेनवो नवप्रसूता गावो वत्सं नुवन्ति स्तुवन्ति । शब्दैराह्वयन्तीयर्थः । तद्वद्वयमिन्द्रं स्तुमः ॥११॥

द्वादशी।
यद्वाहि॑ष्ठं॒ तद॒ग्नये॑ बृ॒हद॑र्च विभावसो । महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते ।। १२ ।।
उ० यद्वाहिष्ठम् । आग्नेय्यनुष्टुप् । हे उद्गातः, यत् वाहिष्ठं वोढृतमं बृहत्साम तत् अग्नये अर्थाय अर्च गाय । ततो दृष्ट्वाग्निं ब्रूहि । हे विभावसो विभूतधन अग्ने, महिषीव त्वद्रयिः महिषी प्रथमवित्ता । यथा प्रथमपत्नी धर्मार्थकामात्मिका उदीरते उत्तिष्ठति सुखात्मिका भवति एवं त्वद्रयिः सुखात्मिका उदीरते उत्तिष्ठति । अथवा महिषी यथा सर्वान्भोगान् उदीरते उत्क्षिपति परोपकाराय । एवं त्वत्तो रयिः उदीरते त्वत्तश्च वाजा अन्नानि उदीरते उद्गच्छन्ति परोपकाराय ॥ १२ ॥
म० अग्निदेवत्यानुष्टुब् वसूयुदृष्टा । हे उद्गातः, अग्नये अग्न्यर्थं तत् बृहत्साम अर्च गाय बृहत्साम्नो गानं कुरु । तत्किम् । यत् वाहिष्ठम् वाहयति प्रापयति इष्टमिति वाहयितृ । वहेर्ण्यन्तात् तृच् । अत्यन्तं वाहयितृ वाहिष्ठम् 'अतिशायने तमविष्ठनौ' (पा० ५। ३ । ५५) इत्यनुवृत्तौ 'तुश्छन्दसि' (पा० ५। ३ । ५९) इति इष्ठनि परे 'तुरिष्ठेमेयःसु' (पा. ५। ४ । १५४ ) इति च तृचो लोपे वाहिष्ठमिति रूपम् । किंच सामगानेन प्रत्यक्षमग्निं ब्रूहि । किम् । हे विभावसो, विभा कान्तिरेव वसु धनं यस्य स विभावसुः हे अग्ने, रयिः धनं वाजा अन्नानि च त्वत् त्वत्तः सकाशात् उदीरते उद्गच्छन्ति । 'ईर गतौ कम्पे च' लट् शपो लुक् 'अदभ्यस्तात्' (पा० ७।१।४) इत्यदादेशः । तत्र दृष्टान्तः । महिषीव यथा महिषी प्रथमपरिणीता स्त्री गृहात् भोगार्थं पतिं प्रति उदीर्ते उद्गच्छति । एकं त्वत्पदं पादपूरणम् । रयिः त्वदुदीर्ते इति वा ॥ १२ ॥

त्रयोदशी।
एह्यू॒ षु ब्रवा॑णि॒ तेऽग्न॑ इ॒त्थेत॑रा॒ गिर॑: । ए॒भिर्व॑र्धास॒ इन्दु॑भिः ।। १३ ।।
उ० एहि । आग्नेयी गायत्री अधस्तनमन्त्रस्तुतोऽग्निरिह संबोध्यते । एहि आगच्छ हे अग्ने । ऊकारोऽनर्थकः । को हेतुरिति चेत् । सुब्रवाणि साधुब्रवाणि ते तव हे भगवन्नग्ने, इत्थेतरा इत्थं त्वदीयैर्नामबन्धकर्मरूपैर्ग्रथिता इतराः स्तुतिलक्षणाः गिरो वाचः । यद्वा इत्थमुद्गातृस्तोत्रजनिताः इतरा अन्या गिरो या गीयन्ते । हेतुं न्यस्यति । एभिश्च इन्दुभिः अध्वर्युणाभिषुतैः सोमैः त्वं वर्धासे वर्धस्व ॥ १३ ॥
म० अग्निदेवत्या गायत्री भरद्वाजदृष्टा । हे अग्ने, त्वमेहि आगच्छ । उः पादपूरणः । सुञ् चेति संहितायामुकारस्य दीर्घः । इत्था इत्थमनेन प्रकारेण न इतराः अन्याः गिरो वाणीः स्तुतिलक्षणाः ते तव सुब्रवाणि सुतरां वदानि । ब्रूञो लोट् । किंच एभिरिन्दुभिः सोमैः वर्धासे वर्धस्व 'लेटोऽडाटौ' ॥ १३ ॥

चतुर्दशी।
ऋ॒तव॑स्ते य॒ज्ञं वि त॑न्वन्तु॒ मासा॒ रक्ष॑न्तु ते॒ हवि॑: ।
सं॒व॒त्स॒रस्ते॑ य॒ज्ञं द॑धातु नः प्र॒जां च॒ परि॑ पातु नः ।। १४ ।।
उ० ऋतवस्ते यजमानेनाग्निरुच्यते अनया बृहत्या । ऋतवः ते तव यज्ञं वितन्वन्तु । मासाश्च ते हविः रक्षन्तु । संवत्सरश्च तव यज्ञं दधातु धारयतु । नः इति निपातोऽनर्थकः । प्रजां च परिपातु नः इति यजमान आत्मानमाह ।। नोऽस्माकं प्रजां च परिपातु संवत्सर एव ॥ १४ ॥
म० अग्निदेवत्या बृहती वर्णपादा विषमपादा । नवकाष्ठकैकादशाष्टिनो विषमपादेति वचनात् । हे अग्ने, ऋतवः ऋतूपलक्षिताः कालविशेषाः ते तव यज्ञं वितन्वन्तु विस्तारयन्तु । मासाः चैत्राद्यधिष्ठातारो देवास्ते तव हविः पुरोडाशादिकं रक्षन्तु पान्तु । संवत्सरस्तदधिष्ठाता देवः ते तुभ्यं त्वदर्थं नोऽस्माकं यज्ञं दधातु पुष्णातु । नोऽस्माकं प्रजां पुत्रादिकां च परिपातु रक्षतु संवत्सर एव ॥ १४ ॥

पञ्चदशी।
उ॒प॒ह्व॒रे गि॑री॒णाᳪं᳭ स॑ङ्ग॒मे च॑ न॒दी॒ना॑म् । धि॒या विप्रो॑ अजायत ।। १५ ।।
उ० उपह्वरे गिरीणाम् । चतस्रो गायत्र्यः सौम्यः । उपह्वरे निकटे गिरीणां पर्वतानाम् । प्रसिद्धमेतत् । एकाहाहीनसत्राणि क्रियन्तामित्यनया धिया बुद्ध्या विप्रः मेधावी सोमः अजायत जगद्धारयितुमिच्छन् ॥ १५ ॥
म० सोमदेवत्या गायत्री वत्सदृष्टा । गिरीणां पर्वतानामुपह्वरे निकटे नदीनां गङ्गादीनां च संगमे विप्रो मेधावी सोमः अजायत उत्पन्नः । जनेर्लङ् । कया । धिया बुद्ध्या । विप्रादयो मया यज्ञं करिष्यन्तीति विचार्येत्यर्थः ॥ १५ ॥

षोडशी।
उ॒च्चा ते॑ जा॒तमन्ध॑सो दि॒वि सद्भूम्या द॑दे । उ॒ग्रᳪं᳭ शर्म॒ महि॒ श्रव॑: ।। १६ ।।
उ० उच्चा ते । व्यवहितपदप्रायो मन्त्रः । हे सोम, ते तव अन्धसः अध्यानीयात् रसीभूतात् जातमुत्पन्नं यज्ञपरिणामभूतम् उच्चा उच्चैः । दिविसत् द्युलोके विद्यमानम् । पश्चात् भूमिः आददे गृहीतवती । किं तत् द्युलोकप्राप्तं भूमिराददे । उग्रम् उद्गूर्णं महाचौरादिभिरनाधृष्यम् शर्म शरणं गृहम् । महिश्रवः महच्च श्रवणीयं धनम् । पञ्चाहुतिपरिणामोद्घाटनमात्रमेतत्कृतम् । यथाहुतिः प्रथमं दिवि गच्छति ततोऽन्तरिक्षे जलरूपेण ततो भूमावन्नरूपेण ततो नरे रेतोरूपेण ततो योनौ पुरुषरूपेणेति पञ्चधाहुतिपरिणामः ॥ १६॥
म० सोमदेवत्यास्तिस्रो गायत्र्य आमहीयवदृष्टाः । हे सोम, ते तव अन्धसोऽन्नाद्रसरूपात् जातमुत्पन्नं होमतो जातमपूर्वम् । उच्चा उच्चं गतं दिवि स्वर्गे सत् विद्यमानं भूमिः आददे गृह्णाति । भूमिशब्दस्य विसर्गलोपे सन्धिश्छान्दसः । किं तत् द्युलोकस्थं भूमिर्गृह्णाति तदाह । उग्रमुत्कृष्टं शर्म सुखं गृहपुत्रादिजन्यं महि महत् श्रवः कीर्तिर्धनं वा । अनेन मन्त्रेण पञ्चाहुतिपरिणाम उक्तः । स यथा हुताहुतिरादौ दिवि गच्छति ततोऽन्तरिक्षे जलरूपेण ततो भूमावन्नरूपेण ततो नरे रेतोरूपेण ततो योनौ नररूपेणागत्य तं नरं धनयशोभ्यां सुखिनं करोतीति भावः ॥ १६ ॥

सप्तदशी।
स न॒ इन्द्रा॑य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्य॑: । व॒रि॒वो॒वित्परि॑ स्रव ।। १७ ।।
उ० स नः । यस्त्वं वरिवोवित् वरिवो धनम् तद्विन्दति वेत्ति वा योसौ वरिवोवित् यस्त्वं धनस्य लब्धा वेदिता वा। सः नः सोऽस्माकं यज्ञम् इन्द्राय यज्यवे यष्टव्याय वरुणाय च मरुद्भ्यश्चार्थाय । परिस्रव रक्ष । अथवा स त्वं नः यज्ञम् इन्द्राय यज्यवे वरुणाय मरुद्भ्यश्च वरिवोविदिति एतेषां विशेषणं कृतविभक्तिव्यत्ययं गृह्यते सामानाधिकरण्यात् । वरिवोविद्भ्यः धनविद्भ्यः परिस्रव । क्रियाविशेषणं वा । एतेभ्यो देवेभ्यः परिस्रव । तथाच परिस्रव यथा वरिवोविद्भवति ॥ १७ ॥
म० हे सोम, स त्वं नोऽस्माकं परिस्रव क्षर । रसरूपो भूत्वाहुतित्वमेहीत्यर्थः । किमर्थम् । इन्द्राय वरुणाय मरुद्भ्यश्च इन्द्रादीनां तृप्तये परिस्रवेत्यर्थः । कीदृशायेन्द्राय । यज्यवे यष्टुं योग्यो यज्युस्तस्मै यष्टव्याय । इदं त्रयाणां विशेषणम् । यज्युभ्य इति मरुताम् । कीदृशस्त्वम् । वरिवोवित् वरिवो धनं वेत्ति जानाति विन्दति लभते वा वरिवोवित् धनस्य ज्ञाता प्रापकश्च ॥ १७ ॥

अष्टादशी।
ए॒ना विश्वा॑न्य॒र्य आ द्यु॒म्नानि॒ मानु॑षाणाम् । सिषा॑सन्तो वनामहे ।। १८ ।।
उ० एना विश्वानि । एना एनानि विश्वानि सर्वाणि द्युम्नानि धनानि । अर्य ईश्वरः सोमः आ आदाय अस्मभ्यं ददात्विति शेषः । तानि च सोमदत्तानि । सिषासन्तः । 'षणु दाने' । अस्य सन्यनुनासिकस्याकारः । दातुमिच्छन्तः दानाभिमुखीभूताः सन्तो वयं धनानि वनामहे संभुज्महे ॥ १८॥
म० अर्यः ईश्वरः सोमः एना एनानि विश्वानि सर्वाणि मानुषाणां नराणां द्युम्नानि धनानि यशांसि वा आनयत्विति शेषः । अस्मभ्यं ददात्वित्यर्थः । तानि सोमदत्तानि द्युम्नानि वयं वनामहे 'वन संभक्तिशब्दयोः' लट् । संभजामहे । कीदृशा वयम् । सिषासन्तः 'षणु दाने' सनितुं दातुमिच्छन्ति सिषासन्ति ते सिषासन्तः । सनेर्धातोः सन्नन्ताच्छतृप्रत्ययः 'जनसनखनां सन्झलोः (पा० ६।४ । ४२) इत्यात्वम् 'सन्यतः' (पा० ७।४ । ७९ ) इति अभ्यासेकारः । दानं कुर्वाणा धनभाजः स्यामेत्यर्थः ॥ १८ ॥

एकोनविंशी।
अनु॑ वीरै॒रनु॑ पुष्यास्म॒ गोभि॒रन्वश्वै॒रनु॒ सर्वे॑ण पु॒ष्टैः ।
अनु॒ द्विप॒दाऽनु॒ चतु॑ष्पदा व॒यं दे॒वा नो॑ य॒ज्ञमृ॑तु॒था न॑यन्तु ।। १९ ।।
उ० किमर्थं धनमतो दातुमिच्छन्तो धनवन्त इत्याह । अनुवीरैः। आशीर्देवता त्रिष्टुप् । अनु पुष्यास्म वीरैः वयम् । अनु पुष्यास्म च गोभिः वयम् । अन्वश्वैः । अनु पुष्यास्म च वयमश्वैः । अनु सर्वेण पुष्टैः । अनुपुष्यास्म च वयं सर्वेण पुष्टेनेति वचनव्यत्ययः । अनु द्विपदा अनुपुष्यास्म च वयं द्विपदा द्विपादेन अनु पुष्यास्म च चतुष्पादेन । किंच । देवाः नोऽस्माकं यज्ञम् ऋतुथा ऋतावृतौ कालेकाले नयन्तु ॥ १९॥
म० आशीरियं देवदेवत्या त्रिष्टुप् मुद्गलदृष्टा । वयं वीरैः पुत्रैः अनुपुष्यास्म पुष्टा भवेम । पुषेराशीर्लिङि उत्तमबहुवचनम् । गोभिर्धेनुभिः अनुपुष्यास्म उपसर्गावृत्त्या क्रियावृत्तिः । अश्वैरनु पुष्यास्म । सर्वेणान्येनापि कामेन पुष्यास्म । पुष्टैः सर्वपदार्थैर्गृहादिभिः पुष्यास्म । द्वौ पादौ यस्येति द्विपात् तेन द्विपदा मनुष्येण दासादिना चतुष्पदा गजादिना च पुष्यास्म 'पादोऽन्यतरस्याम्' (पा० ४ । १ । ८) इत्यन्तलोपः ‘पादः पत्' (पा० ६ । ४ । १३० ) इति पदादेशः । किंच ऋतुथा ऋतावृतौ कालेकाले देवा नोऽस्माकं यज्ञं नयन्तु प्रापयन्तु प्राप्नुवन्तु ॥ १९ ॥

विंशी।
अग्ने॒ पत्नी॑रि॒हा व॑ह दे॒वाना॑मुश॒तीरुप॑ । त्वष्टा॑र॒ᳪं᳭ सोम॑पीतये ।। २० ।।
उ० अग्ने पत्नीः । इत उत्तरं पञ्च नेष्टुर्याज्याः । आद्या गायत्री । देवानां पत्न्यः त्वष्टा च देवता । हे अग्ने, देवानां पत्नीः इहास्मिन्यज्ञे उपावह आगमय । कथंभूताः । उशती: कामयमानाः अस्मान् । त्वष्टारं च उपावह । किमर्थम् । सोमपीतये सोमपानाय ॥ २० ॥
म० अग्निदेवत्या गायत्री मेधातिथिदृष्टा । इतः पञ्च ऋचोऽग्निष्टोमे नेष्टुर्याज्याः। आद्या प्रातःसवने नेष्टृचमसयागे याज्या । हे अग्ने, देवानां पत्नीः इह यज्ञे त्वमुपावह आगमय । कीदृशीः पत्नीः । उशतीः हविःकामयमानाः । वशेः शत्रन्तात् 'उगितः-' (पा० ४ । १।६) इति ङीप् । किंच सोमपीतये सोमपानाय त्वष्टारं देवं चोपावह ॥ २० ॥

एकविंशी ।।
अ॒भि य॒ज्ञं गृ॑णीहि नो॒ ग्नावो॒ नेष्ट॒: पिब॑ ऋ॒तुना॑ ।
त्वᳪं᳭ हि र॑त्न॒धा असि॑ ।। २१ ।।
उ० अभि यज्ञम् । द्वे गायत्र्यौ ऋतुग्रहाणां याज्ये । नेष्टा स्वकीयामधिष्ठात्रीं देवतां ब्रवीति । अभिगृणीहि स्तुहि यज्ञं नोऽस्मत्संबन्धिनम् । हे ग्नावः ग्नाः पत्न्यः ता विद्यन्तेऽस्य स ग्नावान् तत्संबोधनं हे ग्नावः । 'मतुवसो रुः संबुद्धौ छन्दसि' इति रुत्वम् । हे नेष्टः, पिब च ऋतुना कालेन सह । कस्मात्त्वमेवमुच्यसे इतिचेत्तत्राह । त्वं हि रत्नधा असि । यस्मात्त्वमेव रमणीयानां धनानां दातासि ॥ २१ ॥
म०. द्वे ऋतुदेवते गायव्यौ मेधातिथिदृष्टे ऋतुयागे नेष्टुर्याज्ये । ग्नाः पत्न्योऽस्य सन्तीति ग्नावा । 'तदस्यास्ति-' (पा. ५। २ । ९४ ) इति मतुप् । 'मादुपधायाः-' (पा० ८ । २।९) इति वत्वम् । तस्य संबोधनं हे ग्नावः पत्नीवन् , हे नेष्टः, नोऽस्माकं यज्ञमभिगृणीहि स्तुहि 'गॄ शब्दे' क्र्यादित्वात् श्ना 'ई हल्यघोः' (पा० ६ । ४ । ११३) इति तस्येकारः 'प्वादीनां ह्रस्वः' (पा. ७ । ३ । ८०) इति धातोर्र्ईस्वः । किंच ऋतुना देवेन सह पिब सोममिति शेषः । हि यस्मात् त्वं रत्नधा असि रत्नानि दधाति ददाति रत्नधाः रमणीयधनानां दातासि ॥ २१॥

द्वाविंशी।
द्र॒वि॒णो॒दाः पि॑पीषति जु॒होत॒ प्र च॑ तिष्ठत । ने॒ष्ट्रादृ॒तुभि॑रिष्यत ।। २२ ।।
उ० द्रविणोदाः । ऋत्विज उच्यन्ते । अयमग्निः द्रविणोदाः धनस्य बलस्य वा दाता । पिपीषति पातुमिच्छति । पिबतेः सनीकारः । सोममिति शेषः । एवंचेदतो ब्रवीमि । हे ऋत्विजः, जुहोत प्र च तिष्ठत जुहुत च प्रतिष्ठत च कर्मसु । किंच । नेष्ट्रात् नेष्ट्रियात् धिष्ण्यात् ऋतुभिः कालैः सह सोमम् इष्यत पुनःपुनः पिबत ॥ २२ ॥
म०. द्रविणस्शब्दः सान्तो धनवाची । द्रविणो धनं ददाति द्रविणोदाः धनदाताग्निः । पिपीषति पातुमिच्छति सोममिति शेषः । 'पीङ् पाने' अस्माद्दैवादिकात्सन्प्रत्ययः । अतो हे ऋत्विजः, यूयं जुहोत जुहुत प्रतितिष्ठत च । 'तप्तनप्-' (पा० ७ । १ । ४५ ) इति तबादेशः । कर्मसूद्युक्ता भवतेत्यर्थः । किंच नेष्टुरिदं नेष्ट्रम् । वृद्ध्यभाव आर्षः। नेष्टुर्धिष्ण्यात् ऋतुभिः देवैः सह इष्यत सोमं प्रतिगच्छत । 'इष गतौ' दिवादित्वाच्छयन् लोट् ॥ २२ ॥

त्रयोविंशी।
तवा॒यᳪं᳭ सोम॒स्त्वमेह्य॒र्वाड् श॑श्वत्त॒मᳪं᳭ सु॒मना॑ अ॒स्य पा॑हि ।
अ॒स्मिन् य॒ज्ञे ब॒र्हिष्या नि॒षद्या॑ दधि॒ष्वेमं ज॒ठर॒ इन्दु॑मिन्द्र ।। २३ ।।
उ० तवायम् । ऐन्द्री त्रिष्टुप् माध्यन्दिनीया । हे इन्द्र यतः तवायं माध्यम्दिनीयः सोमः अतः अस्माभिः प्रार्थ्यमानः त्वम् आ इहि आगच्छ । कथंभूतः । अर्वाङ् अर्वागञ्चनः अवरेणाञ्चितः । एत्य च शश्वत्तमं शाश्वतिकतमम् सोमं सोमभागं गृहाण । संगृह्य च सुमना भूत्वा अस्य सोमस्य पाहि पिब । पीत्वा च अस्मिन्यज्ञे बर्हिषि निषद्य अवस्थानं कृत्वा दधिष्व धारयस्व । इमं जठरे इन्दुं सोमम् हे इन्द्र ॥ २३ ॥
म० इन्द्रदेवत्या त्रिष्टुप् विश्वामित्रदृष्टा । माध्यन्दिने सवने नेष्टृचमसयागे याज्या । हे इन्द्र, तव अयं सोमोऽस्ति । अतः अर्वाङ् अस्मदभिमुखः त्वमेहि आगच्छ । शश्वत्तमं सर्वकालमस्य पाहि । कर्मणि षष्ठी । इमं सोमं रक्ष 'पा रक्षणे' लोट् । कीदृशः त्वम् । सुमनाः शोभनं मनो यस्य सः प्रसन्नचित्तः । किंच अस्मिन् यज्ञे बर्हिषि आस्तृतदर्भेषु निषध उपविश्य इममिन्दुं सोमं जठरे उदरे दधिष्व धारय । 'धि धारणे' नुदादिः व्यत्ययेन शपः श्लुस्तङ् च । अभ्यासेकारस्याकार आर्षः ॥ २३ ॥

चतुर्विंशी।
अ॒मेव॑ नः सुहवा॒ आ हि गन्त॑न॒ नि ब॒र्हिषि॑ सदतना॒ रणि॑ष्टन ।
अथा॑ मन्दस्व जुजुषा॒णो अन्ध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिः सु॒मद्ग॑णः ।। २४ ।।
उ० अमेव नः । देवपत्न्यः त्वष्टा चात्र दृश्यन्ते । जगती तार्तीयसवनीया याज्या । अमाशब्दो गृहवचनः । यथा गृहाणि स्वानि एवं नः अस्माकं यज्ञगृहाणि । सुहवाः साध्वाह्वानाः आहिगन्तन आगच्छत । हिः पादपूरणः । आगत्य च निबर्हिषि सदतन निषीदत उपविशत बर्हिषि । निषद्य च रणिष्टन रतिं कुरुत । अथ उपविष्टासु देवपत्नीषु । मन्दस्व तृप्यस्व । जुजुपाणः सेवमानः । अन्धसः सोमस्य । स्वमंशम् । हे त्वष्टः, देवेभिर्देवैः जनिभिः जननहेतुभूताभिः देवपत्नीभिः सुमद्गणः सन् । शोभनमदा देवास्तेषां स्त्रीणां च गणः यत्य स सुमद्गणः ॥ २४ ॥
म० त्वटृदेवत्या जगती गृत्समददृष्टा । तृतीयसवने नेष्टृचमसयागे याज्या । देवपत्न्यः प्रार्थ्यन्ते । अमाशब्दो गृहवाचकः । अमेव स्वगृहमिव नोऽस्माकं यज्ञगृहाणि हे देवपत्न्यः, यूयमागन्तन आगच्छत । गमेः शपो लुक् लोटि मध्यमबहुवचने । हिः पादपूरणः । बर्हिषि दर्भ् निसदतन निषीदत उपविशत । 'सदिलृ गतौ' रणिष्टन 'रण शब्दे' अस्य लुङि रूपम् अडागमाभावः। परस्परं वार्तां कुरुतेत्यर्थः । 'तप्तनप्-' (पा. ७ । १ । ४५) इति सर्वत्र तनबादेशः । कीदृश्यो यूयम् । सुवहाः शोभनः सुकरो हव आह्वानं यासां ताः । एवं देवपत्नीरुक्त्वाथ त्वष्टारमाह । हे त्वष्टः, त्वमथानन्तरं देवपत्नीष्वागतासु मदस्व मोदस्व तृप्यस्वेत्यर्थः । कीदृशस्त्वम् । अन्धसः अन्धः हविर्लक्षणमन्नं । जुजुषाणः सेवमानः । 'जुषी प्रीतिसेवनयोः' व्यत्ययेन शानचि शपः श्लुः । अन्धसः इति कर्मणि षष्ठी । देवेभिः देवैः जनिभिः देवपत्नीभिश्च सुमद्गणः सुष्ठु माद्यन्ति हृष्यन्ति मुमदः । मदेः क्विप् । सुमदः सन्तुष्टा गणा देवाः स्त्रीगणाश्च यस्य स सुमद्गणः । जनयन्तीति जनयो नार्यः ॥२४॥

पञ्चविंशी।
स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या । इन्द्रा॑य॒ पात॑वे सु॒तः ।। २५ ।।
उ० स्वादिष्ठया । सौम्यौ पावमान्यौ गायत्र्यौ । जपादिषु विनियोगः । उक्तं च । 'रसीभूतो यदा सोमः पवित्राक्षरति ग्रहम् । ऋग्भिः स्वादिष्ठयाद्याभिः पवमानः स उच्यते। स्वादिष्ठया स्वादुतमया मदिष्ठया मदयितृतमया पवस्व दशापवित्रात् द्रोणकलशं प्रति गच्छ । हे सोम धारया । यस्वम् इन्द्राय पातवे इन्द्रः पिबतु इत्यनेनाभिप्रायेण सुतः अभिषुतोऽस्माभिः ॥ २५ ॥
म० सोमदेवत्ये द्वे गायत्र्यौ मधुच्छन्दोदृष्टे जपादिषु विनियुक्ते । हे सोम, धारया कृत्वा पवस्व गच्छ दशापवित्राद्रोणकलशं प्रति गच्छ । कीदृश्या धारया । स्वादिष्ठया वादो विद्यते यस्यां सा खादवती अत्यन्तं खादवती स्वादिष्ठा तया। 'विन्मतोलक' (पा० ५। ३ । ६५) इतीष्टनि मतुपो लुक । स्वादुतमया । मदिष्ठया मदयतीति मदयित्री अत्यन्तं मदयित्री मदिष्ठा तया । इष्टनि 'तुरिष्ठेमेयःसु' (पा० ६ । ४ । १५४) इति तृचो लोपः । यत इन्द्राय पातवे इन्द्रस्य पातुं वं सुतोऽभिषुतोऽसि अस्माभिरतो धारया पवख ॥ २५ ॥

पड़्विंशी।
र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो॑हते । द्रोणे॑ स॒धस्थ॒मास॑दत् ।। २६ ।।
इति माध्यन्दिनीयायां वाजसनेविसंहितायां षड्विंशोऽध्यायः ॥ २६ ॥
उ० रक्षोहा विश्वचर्षणिः । अयमेव सोमः रक्षोहा रक्षसामपहन्ता । विश्वचर्षणिः सर्वस्य जगतो द्रष्टा । यथार्हं प्रति । अभि आसदत आभिमुख्येन सन्तः सीदेति वा । किमभ्यासदत् । योनिं स्थानम् । कथंभूताम् । अयोहते अयसा कृष्णलोहेन हतमुत्कीर्णं सोमभाजनीकृतम् । हतमिति विभक्तिव्यत्ययः योनिसामानाधिकरण्यात् । किंनामानं योनिम् । द्रोणे । अत्रापि विभक्तिव्यत्ययः । द्रोणं द्रोणकलशलक्षणम् । सधस्थं सहस्थानलक्षणं सोमानाम् ॥ २६ ॥ इति उवटकृतौ मन्त्रभाष्ये षड्विंशतितमोऽध्यायः ॥ २६ ॥
म० सोमः द्रोणे । विभक्तिव्यत्ययः । द्रोणं द्रोणकलशलक्षणं योनिं स्थानमभि आसदत् आभिमुख्येन सीदति तिष्ठति । कीदृशः सोमः । रक्षोहा रक्षांसि हन्तीति रक्षोहा दुष्टनाशकः । विश्वचर्षणिः विश्वं सर्व जगत् चष्टे पश्यति विश्वचर्षणिः । सर्वस्य शुभाशुभद्रष्टा । यद्वा चर्षणिरिति मनुष्यनामसु पठितम् । विश्वे सर्वे चर्षणयो मनुष्या ऋत्विग्यजमानलक्षणा यस्य कण्डनाहरणादिषु सः । तथा कीदृशं द्रोणम् । अयः 'सुपां सुलुक्' इति तृतीयैकवचनलोपः । अयसा लोहेन हतमुत्कीर्णम् । वास्या कृत्वा तक्ष्णा सोमभाजनीकृतम् हतमिति विभक्तिव्यत्ययः । तथा सधस्थं सह सार्धं तिष्ठन्ति सोमाः यत्र स सहस्थः 'सुपि स्थः' ( पा० ३ । २ । ४ ) इति कप्रत्ययः । 'आतो लोपः' (पा० ६ । ४ । ६४ ) इति आलोपः 'सधमादस्थयोश्छन्दसि' (पा. ६ । ३ । ९६ ) इति सहस्य सधादेशः । असदत् 'पुषादि-' (पा० ६ । १ । ५५) इति लुङि च्लेरङ् 'छन्दसि लुङ्लङ्लिटः' (पा० ३ । ४ । ६) इति लडर्थे लुङ् ॥ २६ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
अनुक्तमन्त्रकथनः षड्विंशोऽध्याय ईरितः ॥ २६ ॥