शुक्लयजुर्वेदः/अध्यायः ३०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २९ शुक्लयजुर्वेदः
अध्यायः ३०
[[लेखकः :|]]
अध्यायः ३१ →

अध्यायः 30
पुरुषमेध सम्बद्धा मन्त्राः

30.1
देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपतिं भगाय ।
दिव्यो गन्धर्वः केतुपूः केतं नः पुनातु वाचस्पतिर् वाजं नः स्वदतु ॥

30.2
तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयत् ॥

30.3
विश्वानि देव सवितर् दुरितानि परा सुव ।
यद् भद्रं तन् न ऽ आ सुव ॥

30.4
विभक्तारꣳ हवामहे वसोश् चित्रस्य राधसः ।
सवितारं नृचक्षसम् ॥

30.5
ब्रह्मणे ब्राह्मणं क्षत्राय राजन्यं मरुद्भ्यो वैश्यं तपसे शूद्रं तमसे तस्करं नारकाय वीरहणं पाप्मने क्लीबम् आक्रयाया ऽ अयोगुं कामाय पुꣳश्चलूम् अतिक्रुष्टाय मागधम् ॥

30.6
नृत्ताय सूतं गीताय शैलूषं धर्माय सभाचरं नरिष्ठायै भीमलं नर्माय रेभꣳ हसाय कारिम् आनन्दाय स्त्रीषखं प्रमदे कुमारीपुत्रं मेधायै रथकारं धैर्याय तक्षाणम् ॥

30.7
तपसे कौलालं मायायै कर्मारꣳ रूपाय मणिकारꣳ शुभे वपꣳ शरव्याया ऽ इषुकारꣳ हेत्यै धनुष्कारं कर्मणे ज्याकारं दिष्टाय रज्जुसर्जं मृत्यवे मृगयुम् अन्तकाय श्वनिनम् ॥

30.8
नदीभ्यः पौञ्जिष्ठम् ऋक्षीकाभ्यो नैषादं पुरुषव्याघ्राय दुर्मदं गन्धर्वाप्सरोभ्यो व्रात्यं प्रयुग्भ्य ऽ उन्मत्तꣳ सर्पदेवजनेभ्यो ऽप्रतिपदमयेभ्यः कितवम् ईर्यताया ऽ अकितवं पिशाचेभ्यो बिदलकारीं यातुधानेभ्यः कण्टकीकारीम् ॥

30.9
संधये जारं गेहायोपपतिम् आर्त्यै परिवित्तं निर्ऋत्यै परिविविदानम् अराद्ध्या ऽ एदिधिषुःपतिं निष्कृत्यै पेशस्कारीꣳ संज्ञानाय स्मरकारीं प्रकामोद्यायोपसदं वर्णायानुरुधं बलायोपदाम् ॥

30.10
उत्सादेभ्यः कुब्जं प्रमुदे वामनं द्वार्भ्यः स्रामꣳ स्वप्नायान्धम् अधर्माय बधिरं पवित्राय भिषजं प्रज्ञानाय नक्षत्रदर्शम् आशिक्षायै प्रश्निनम् उपशिक्षाया ऽ अभिप्रश्निनं मर्यादायै प्रश्नविवाकम् ॥

30.11
अर्मेभ्यो हस्तिपं जवायाश्वपं पुष्ट्यै गोपालं वीर्यायाविपालं तेजसे ऽजपालम् इरायै कीनाशं कीलालाय सुराकारं भद्राय गृहपꣳ श्रेयसे वित्तधम् आध्यक्ष्यायानुक्षत्तारम् ॥

30.12
भायै दार्वाहारं प्रभाया ऽ अग्न्येधं ब्रध्नस्य विष्टपायाभिषेक्तारं वर्षिष्ठाय नाकाय परिवेष्टारं देवलोकाय पेशितारं मनुष्यलोकाय प्रकरितारꣳ सर्वेभ्यो लोकेभ्यो ऽ उपसेक्तारम् अव ऽ ऋत्यै वधायोपमन्थितारं मेधाय वासःपल्पूलीं प्रकामाय रजयित्रीम् ॥

30.13
ऋतये स्तेनहृदयं वैरहत्याय पिशुनं विविक्त्यै क्षत्तारम् औपद्रष्ट्र्यायानुक्षत्तारं बालायानुचरं भूम्ने परिष्कन्दं प्रियाय प्रियवादिनम् अरिष्ट्या ऽ अश्वसादꣳ स्वर्गाय लोकाय भागदुघं वर्षिष्ठाय नाकाय परिवेष्टारम् ॥

30.14
मन्यवे ऽयस्तापं क्रोधाय निसरं योगाय योक्तारꣳ शोकायाभिसर्तारं क्षेमाय विमोक्तारम् उत्कीलेभ्यस् त्रिष्ठिनं वपुषे मानस्कृतꣳ शीलायाञ्जनीकारीं निर्ऋत्यै कोशकारीं यमायासूम् ॥

30.15
यमाय यमसूम् अथर्वभ्यो ऽवतोकाꣳ संवत्सराय पर्यायिणीं परिवत्सरायाविजाताम् इदावत्सरायातीत्वरीम् इद्वत्सरायातिष्कद्वरीं वत्सराय विजर्जराꣳ संवत्सराय पलिक्नीम् ऋभुभ्यो ऽजिनसंधꣳ साध्येभ्यश् चर्मम्नम् ॥

30.16
सरोभ्यो धैवरम् उपस्थावराभ्यो दाशं वैशन्ताभ्यो बैन्दं नड्वलाभ्यः शौष्कलं पाराय मार्गारम् अवराय केवर्तं तीर्थेभ्य ऽ आन्दं विषमेभ्यो मैनालꣳ स्वनेभ्यः पर्णकं गुहाभ्यः किरातꣳ सानुभ्यो जम्भकं पर्वतेभ्यः किम्पूरुषम् ॥

30.17
बीभत्सायै पौल्कसं वर्णाय हिरण्यकारं तुलायै वाणिजं पश्चादोषाय ग्लाविनं विश्वेभ्यो भूतेभ्यः सिध्मलं भूत्यै जागरणम् अभूत्यै स्वपनम् आर्त्यै जनवादिनं व्यृद्ध्या ऽ अपगल्भꣳ सꣳशराय प्रच्छिदम् ॥

30.18
अक्षराजाय कितवं कृतायादिनवदर्शं त्रेतायै कल्पिनं द्वापरायाधिकल्पिनम् आस्कन्दाय सभास्थाणुं मृत्यवे गोव्यच्छम् अन्तकाय गोघातं क्षुधे यो गां विकृन्तन्तं भिक्षमाण ऽ उपतिष्ठति दुष्कृताय चरकाचार्यं पाप्मने सैलगम् ॥

30.19
प्रतिश्रुत्काया ऽ अर्तनं घोषाय भषम् अन्ताय बहुवादिनम् अनन्ताय मूकꣳ शब्दायाडम्बराघातं महसे वीणावादं क्रोशाय तूणवध्मम् अवरस्पराय शङ्खध्मं वनाय वनपम् अन्यतोरण्याय दावपम् ॥

30.20
नर्माय पुꣳश्चलूꣳ हसाय कारिं यादसे शाबल्यां ग्रामण्यं गणकम् अभिक्रोशकं तान् महसे वीणावादं पाणिघ्नं तूणवध्मं तान् नृतायानन्दाय तलवम् ॥

30.21
अग्नये पीवानं पृथिव्यै पीठसर्पिणं वायवे चाण्डालम् अन्तरिक्षाय वꣳशनर्तिनं दिवे खलतिꣳ सूर्याय हर्यक्षं नक्षत्रेभ्यः किर्मिरं चन्द्रमसे किलासम् अह्ने शुक्लं पिङ्गाक्षꣳ रात्र्यै कृष्णं पिङ्गाक्षम् ॥

30.22
अथैतान् अष्टौ विरूपान् आ लभते ऽतिदीर्घं चातिह्रस्वं चातिस्थूलं चातिकृशं चातिशुक्लं चातिकृष्णं चातिकुल्वं चातिलोमशं च ।
अशूद्रा ऽ अब्राह्मणास् ते प्राजापत्याः ।
मागधः पुꣳश्चली कितवः क्लीबो ऽशूद्रा ऽ अब्राह्मणास् ते प्राजापत्याः ॥

भाष्यम्(उवट-महीधर)

त्रिंशोऽध्यायः।
तत्र प्रथमा। ।
देव॑ सवित॒: प्र सु॑व य॒ज्ञं प्र सु॑व य॒ज्ञप॑तिं॒ भगा॑य ।
दि॒व्यो ग॑न्ध॒र्वः के॑तु॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाजं॑ नः स्वदतु ।। १ ।।

द्वितीया ।
तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दयात् ।। २ ।।
उ० इत उत्तरं पुरुषमेधः द्वावध्यायौ नारायणः पुरुषोऽ. पश्यत् । देवसवितः तिस्रः सावित्रीराहवनीये जुहोति । देवसवितः । तत्सवितुर्वरेण्यम् । विश्वानि देवसवितरिति । तत्र द्वे व्याख्याते ॥ १ ॥२॥
म० इतउत्तरं पुरुषमेधः । द्वावध्यायौ नारायणः पुरुषोऽपश्यत् । ब्राह्मणराजन्ययोरतिष्ठाकामयोः पुरुषमेधसंज्ञको यज्ञो भवति । सर्वभूतान्यतिक्रम्य स्थानमतिष्ठा । चैत्रशुक्लदशम्यामारम्भः । अत्र त्रयोविंशतिर्दीक्षा भवन्ति द्वादशोपसदः पञ्च सुत्या इति चत्वारिंशद्दिनैः सिध्यति । अत्र यूपैकादशिनी भवति एकादशाग्नीषोमीयाः पशवो भवन्ति तेषां च प्रतियूपं मध्यमे वा यूपे यथेच्छं नियोजनम् । आज्येन सकृद्गृहीतेन देव सवितरिति प्रत्यृचं तिस्र आहुतीराहवनीये जुहोति । तत्र देव सवितः (११ । ७) तत्सवितुः ( ३ । ३५ ) द्वे व्याख्याते ॥ १ ॥ २॥

तृतीया ।
विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑ सुव ।
यद्भ॒द्रं तन्न॒ आ सु॑व ।। ३ ।।
उ० विश्वानि देव सवितरिति द्वे गायत्र्यौ । विश्वानि सर्वाणि हे देवसवितः, दुरितानि असत्यानि । परासुव पराञ्चि गमय । यच्च भद्रं भन्दनीयं तत् नः अस्माकम् । आसुव आगमय ॥ ३ ॥
म०. हे देव सवितः, विश्वानि सर्वाणि दुरितानि पापानि परासुव दूरे गमय । यद्भद्रं कल्याणं तन्नोऽस्मान् प्रति आसुव आगमय ॥३॥

चतुर्थी।
वि॒भ॒क्तार॑ᳪं᳭ हवामहे॒ वसो॑श्चि॒त्रस्य॒ राध॑सः ।
स॒वि॒तारं॑ नृ॒चक्ष॑सम् ।। ४ ।।
उ० विभक्तारं कर्मानुरूपेण विभक्तारम् । हवामहे आह्वयामः । वसोः वासयितुः । चित्रस्य चायनीयस्य । राधसः धनस्य आयुषश्च । सवितारम् नृचक्षसम् नृणां द्रष्टारम् । ये नरो यथा द्रष्टव्यास्तांस्तथा पश्यति ॥ ४ ॥ (१ इत उत्तरमाध्यायान्तमौवटभाष्यं नोपलब्धमिति महीधरीयमेकमेव संगृहीतम् )।
म० वयं सवितारं हवामहे आह्वयामः । किंभूतम् । वसोः वासयितुश्चित्रस्य नानाविधस्य राधसः धनस्य विभक्तारं विभज्य दातारम् । नृचक्षसं नृणां द्रष्टारं यथायोग्यम् ॥ ४ ॥

पञ्चमी।
ब्रह्म॑णे ब्राह्म॒णं क्ष॒त्राय॑ राज॒न्यं॒ म॒रुद्भ्यो॒ वैश्यं॒ तप॑से शू॒द्रं तम॑से॒ तस्क॑रं नार॒काय॑ वीर॒हणं॑ पा॒प्मने॑ क्ली॒बमा॑क्र॒याया॑ अयो॒गूं कामा॑य पुँश्च॒लूमति॑क्रुष्टाय माग॒धम् ।। ५ ।।
म० अतः परं पुरुषमेधकाः पशवः आ अध्यायसमाप्तेः । ततः प्रतियूपमेकैकमेकादशिनं नियुज्य ब्राह्मणादीनष्टचत्वारिंशसंख्यान् पुरुषान् प्रकामोद्याय सदमित्यन्तानग्निष्टे यूपे नियुनक्ति इतरेषु यूपेष्वेकादशैकादश पुरुषान् वर्णायानुरुधमित्यादीन्नियुनक्ति । ब्रह्मणे ब्राह्मणम् तत्र ब्रह्मणे जुष्टं नियुनज्मीति अग्निष्टे ब्राह्मणं प्रथमं नियुनक्ति । एवमग्रे सर्वेषां यूपे एव बन्धनम् चतुर्थ्यन्तं देवतापदं द्वितीयान्तं पुरुषपदं बोद्धव्यम् । क्षत्राय राजन्यं क्षत्रियम् २ मरुद्भ्यो वैश्यम् ६ तपसे शूद्रम् ४ तपसे तस्करं स्तेनम् ५ नारकाय वीरहणं नष्टाग्निं शूरं वा ६ पाप्मने क्लीबं नपुंसकम् ७ आक्रयायै अयोगूमयसो गन्तारम् ८ कामाय पुंश्चलूं व्यभिचारिणीम् ९ अतिक्रुष्टाय मागधं मगधदेशजं क्षत्रियायां वैश्यपुंसो जातं वा १० ॥ ५॥

षष्ठी।
नृ॒त्ताय॑ सू॒तं गी॒ताय॑ शैलू॒षं धर्मा॑य सभाच॒रं न॒रिष्ठा॑यै भीम॒लं न॒र्माय॑ रे॒भᳪं᳭ हसा॑य॒ कारि॑मान॒न्दाय॑ स्त्रीष॒खं प्र॒मदे॑ कुमारीपु॒त्रं मे॒धायै॑ रथका॒रं धै॑र्याय॒ तक्षा॑णम् ।। ६ ।।
म० नृत्ताय सूतं ब्राह्मण्यां क्षत्रियाज्जातः सूतः ११ गीताय शैलूषं नटम् १२ धर्माय सभाचरं सभायां चरतीति तम् १३ नरिष्ठायै भीमलं भयङ्करम् १४ नर्माय रेभं शब्दकर्तारं वाचाटम् १५ हसाय कारिं करणविशिष्टम् १६ आनन्दाय स्त्रीषखं स्त्रियाः सखायम् १७ प्रमदे कुमारीपुत्रं कानीयम् १८ मेधायै रथकारं माहिष्येण कारण्यां जातम् १९ धैर्याय तक्षाणं सूत्रधारम् २० ॥ ६ ॥

सप्तमी।
तप॑से कौला॒लं मा॒यायै॑ क॒र्मार॑ᳪं᳭ रू॒पाय॑ मणिका॒रᳪं᳭ शु॒भे व॒पᳪं᳭ श॑र॒व्या॒या इषुका॒रᳪं᳭ हे॒त्यै ध॑नुष्का॒रं कर्म॑णे ज्याका॒रं दि॒ष्टाय॑ रज्जुस॒र्जं मृ॒त्यवे॑ मृग॒युमन्त॑काय श्व॒निन॑म् ।। ७ ।।
म० तपसे कौलालं कुलालापत्यम् २१ मायायै कर्मारं लोहकारम् २२ रूपाक्रमणिकारं रत्नकर्तारम् २३ शुभे शुभाय वपं बीजवप्तारम् २४ शरव्यायै इषुकारं बाणकर्तारम् २५ हेत्यै धनुष्कारं चापकारिणम् २६ कर्मणे ज्याकारं प्रत्यञ्चनकर्तारम् २७ दिष्टाय रज्जुसर्जं रज्जोः स्रष्टारं निर्मातारम् २८ मृत्यवे मृगयुं मृगग्राहम् २९ अन्तकाय श्वनिनं शुनो नेतारम् ३० ॥ ७ ॥

अष्टमी।
न॒दीभ्य॑: पौञ्जि॒ष्ठमृ॒क्षीका॑भ्यो॒ नैषादं पुरुषव्या॒घ्राय॑ दु॒र्मदं॑ गन्धर्वाप्स॒रोभ्यो॒ व्रात्यं॑ प्र॒युग्भ्य॒ उन्म॑त्तᳪं᳭ सर्पदेवज॒नेभ्योऽप्र॑तिपद॒मये॑भ्यः कित॒वमी॒र्यता॑या॒ अकि॑तवं पिशा॒चेभ्यो॑ विदलका॒रीं या॑तु॒धाने॑भ्यः कण्टकीका॒रीम् ।। ८ ।।
म० नदीभ्यः पौञ्जिष्ठं पुञ्जिष्ठोऽन्त्यजः पुल्कसस्तदपत्यम् ६१ ऋक्षीकाभ्यो नैषादं निषादपुत्रम् ३२ पुरुषव्याघ्राय दुर्मदमुन्मत्तम् ३३ गन्धर्वाप्सरोभ्यो व्रात्यं सावित्रीपतितम् ३४ प्रयुग्भ्यः उन्मत्तम् ३५ सर्पदेवजनेभ्यः अप्रतिपदं प्रतिपद्यते जातानीति प्रतिपत् अतथाविधं विकलमित्यर्थः ३६ अयेभ्यः कितवं द्यूतकारम् ३७ ईर्यतायै अकितवमद्यूतकृतम् ३८ पिशाचेभ्यः विदलकारीं वंशविदारिणीं वंशपात्रकारिणीम् ३९ यातुधानेभ्यः कण्टकीकारीं कण्टकी कर्म तत्कारिणीम् ४० ॥८॥

नवमी।
स॒न्धये॑ जा॒रं गे॒हायो॑पप॒तिमार्त्यै॒ परि॑वित्तं॒ निरृ॑त्यै परिविविदा॒नमरा॑द्ध्या एदिधिषुः प॒तिं निष्कृ॑त्यै पेशस्का॒रीᳪं᳭ सं॒ज्ञाना॑य स्मरका॒रीं प्र॑का॒मोद्या॑योप॒सदं॒ वर्णा॑यानु॒रुधं॒ बला॑योप॒दाम् ।। ९ ।।
म० सन्धये जारमुपपतिम् ४१ गेहाय उपपतिं व्यभिचारिणम् ४२ आर्त्यै परिवित्तम् ऊढे कनिष्ठेऽनूढम् ४३ निर्ऋत्यै परिविविदानम् अनूढे ज्येष्ठे ऊढवन्तम् ४४ आराध्यै देव्यै एदिधिषुःपतिम् ज्येष्ठायां पुत्र्यामनूढायामूढा एदिधिषुः तत्पतिम् ४५ निष्कृत्यै पेशस्कारीं रूपकर्त्रीम् ४६ संज्ञानाय स्मरकारीं कामदीप्तिकरीम् ४७ प्रकामोद्याय तत्संज्ञाय देवाय उपसीदतीत्युपसत् समीपस्थितस्तम् ४८ एतानग्निष्टे नियुनक्ति। अथ द्वितीये यूपे । वर्णाय अनुरुधम् अनुरुध्यतेऽनुसरतीत्यनुरुत् तम् १ बलाय उपदाम् उपददातीत्युपदास्तमुपायनदातारम् २॥९॥

दशमी।
उ॒त्सा॒देभ्य॑: कु॒ब्जं प्र॒मुदे॑ वाम॒नं द्वा॒र्भ्यः स्रा॒मᳪं᳭ स्वप्ना॑या॒न्धमध॑र्माय बधि॒रं प॒वित्रा॑य भि॒षजं॑ प्र॒ज्ञाना॑य नक्षत्रद॒र्शमा॑शि॒क्षायै॑ प्र॒श्निन॑मुपशि॒क्षाया॑ अभिप्र॒श्निनं॑ म॒र्यादा॑यै प्रश्नविवा॒कम् ।। १० ।।
म० उत्सादेभ्यः कुब्जं वक्राङ्गम् ३ प्रमुदे वामनं ह्रस्वाङ्गम् ४ द्वार्भ्यः स्रामं सर्वदा जलक्लिन्ननेत्रम् ५ स्वप्नाय अन्धं नेत्रहीनम् ६ अधर्माय बधिरं कर्णेन्द्रियहीनम् ७ पवित्राय भिषजं वैद्यम् ८ प्रज्ञानाय नक्षत्रदर्शं नक्षत्राणि दर्शयति तं गणकम् ९ आशिक्षायै प्रश्निनं प्रश्नवन्तम् । शकुनादिप्रष्टारमित्यर्थः १० उपशिक्षायै अभिप्रश्निनमभिप्रश्नवन्तम् ११ अथ तृतीये यूपे । मर्यादायै प्रश्नविवाकं कृतान्प्रश्नान्यो विविनक्ति ब्रूते स प्रश्नविवाकस्तम् १ ॥ १० ॥

एकादशी।
अर्मे॑भ्यो हस्ति॒पं ज॒वाया॑श्व॒पं पुष्ट्यै॑ गोपा॒लं वी॒र्या॒याविपा॒लं तेज॑सेऽजपा॒लमिरा॑यै की॒नाशं॑ की॒लाला॑य सुराका॒रं भ॒द्राय॑ गृह॒पᳪं᳭ श्रेय॑से वित्त॒धमाध्य॑क्ष्यायानुक्ष॒त्तार॑म् ।। ११ ।।
म० अर्मेभ्यो हस्तिपं गजपालकम् २ जवाय अश्वपं तुरगपालकम् ३ पुष्ट्यै गोपालं धेनुपालकम् ४ वीर्याय अविपालम् ५ तेजसे अजपालम् ६ इरायै कीनाशं कर्षुकम् । 'कीनाशः कर्षुके यमे' ७ कीलालाय सुराकारं मद्यकृतम् ८ भद्राय गृहपं गेहपालकम् ९ श्रेयसे वित्तधं, वित्तं दधातीति वित्तधस्तं धनकर्तारम् १० आध्यक्ष्याय अनुक्षत्तारं सारथ्यनुसारिणम् ११ ॥११॥

द्वादशी।
भायै॑ दार्वा॒हारं॑ प्र॒भाया॑ अग्न्ये॒धं ब्र॒ध्नस्य॑ वि॒ष्टपा॑याभिषे॒क्तारं॒ वर्षि॑ष्ठाय॒ नाका॑य परिवे॒ष्टारं॑ देवलो॒काय॑ पेशि॒तारं॑ मनुष्यलो॒काय॑ प्रकरि॒तार॒ᳪं᳭ सर्वे॑भ्यो लो॒केभ्य॑ उपसे॒क्तार॒मव॑ऋत्यै व॒धायो॑पमन्थि॒तारं॒ मेधा॑य वासः पल्पू॒लीं प्र॑का॒माय॑ रजयि॒त्रीम् ।। १२ ।।
म० अथ चतुर्थे यूपे । भायै दार्वाहारं काष्ठानामाहर्तारम् १ प्रभायै अग्न्येधम् अग्निमेधयतीति तमग्नेर्वर्धकम् २ ब्रध्नस्य विष्टपाय सूर्यलोकाय अभिषेक्तारम् ३ वर्षिष्ठाय नाकाय .उत्कृष्टवर्गाय परिवेषणकर्तारम् ४ देवलोकाय पेशितारम् 'पिश अवयवे' पिंशतीति पेशिता तम् प्रतिमाद्यवयवकर्तारम् ५ मनुष्यलोकाय प्रकरितारम् 'कॄ विक्षेपे' विक्षेप्तारम् ६ सर्वेभ्यो लोकेभ्यः उपसेक्तारमुपसेचनकर्तारम् ७ अवऋत्यै वधाय उपमन्थितारमुपमन्थनकर्तारम् ८ मेधाय वासःपल्पूलीम् वाससां प्रक्षालनकर्तारम् 'पल्पूल प्रक्षालनच्छेदनयोः' ९ प्रकामाय रजयित्रीं वस्त्राणां रङ्गकारीणीं नारीम् १० ॥ १२ ॥

त्रयोदशी।
ऋ॒तये॑ स्ते॒नहृ॑दयं वैर॑हत्याय॒ पिशु॑नं॒ विवि॑क्त्यै क्ष॒त्तार॒मौप॑द्रष्ट्र्यायानुक्ष॒त्तारं॒ बला॑यानुच॒रं भू॒म्ने प॑रिष्क॒न्दं प्रि॒याय॑ प्रियवा॒दिन॒मरि॑ष्ट्या अश्वसा॒दᳪं᳭ स्व॒र्गा॑य लो॒काय॑ भागदु॒घं वर्षि॑ष्ठाय॒नका॑य परिवे॒ष्टार॑म् ।। १३ ।।
म०. ऋतये स्तेनहृदयं स्तेनस्येव हृदयं यस्य तम् ११ अथ पञ्चमे यूपे । वैरहत्याय पिशुनं परवृत्तसूचकम् १ विविक्त्यै क्षत्तारं प्रतीहारम् २ औपद्रष्ट्याय अनुक्षत्तारं प्रतिहारसेवकम् ३ बलाय अनुचरं सेवकम् ४ भूम्ने परिष्कन्दम् परितः स्कन्दति रेतः सिञ्चति तम् ५ प्रियाय प्रियवादिनं मधुरभाषिणम् ६ अरिष्ट्यै अश्वसादम् अश्वारोहम् ७ स्वर्गाय लोकाय भागदुघम् भागं दुग्धे भागदुघस्तम् विभागप्रदम् ८ वर्षिष्ठायनकाय परिवेष्टारम् ९ ॥१३॥

चतुर्दशी।
म॒न्यवे॑ऽयस्ता॒पं क्रोधा॑य निस॒रं योगा॑य यो॒क्तार॒ᳪं᳭ शोका॑याभिस॒र्तारं॒ क्षेमा॑य विमो॒क्तार॑मुत्कूलनिकू॒लेभ्य॑स्त्रि॒ष्ठिनं॒ वपु॑षे मानस्कृ॒तᳪं᳭ शीला॑याञ्जनीका॒रीं निरृ॑त्यै कोशका॒रीं य॒माया॒सूम् ।। १४ ।।
म० मन्यवे अयस्तापमयस्तपं लोहतापकम् १० क्रोधाय निसरं नितरां सर्तारम् ११ । अथ षष्ठे यूपे । योगाय योक्तारं योगकर्तारम् १ शोकाय अभिसर्तारं संमुखमागच्छन्तम् २ क्षेमाय विमोक्तारं विमोचनकरम् ३ उत्कूलनिकूलेभ्यः त्रिष्ठिनम् त्रिषु तिष्ठतीति तिष्ठी तम् विद्यादिषु स्थितं शीलवन्तमित्यर्थः ४ वपुषे मानस्कृतं पूजाया अभिमानस्य वा कर्तारम् । सक् छान्दसः ५ शीलाय आञ्जनीकारीम् अञ्जनविद्याकर्त्रीम् ६ निर्ऋत्यै कोशकारीं खड्गाद्यावरणं कोशस्तत्कारिणीं स्त्रियम् ७ यमाय असूम् न सूते सा असूः ताम् वन्ध्याम् ८ ॥१४॥

पञ्चदशी।
य॒माय॑ यम॒सूमथ॑र्व॒भ्योऽव॑तोकाᳪं᳭ संवत्स॒राय॑ पर्या॒यिणीं॑ परिवत्स॒रायावि॑जातामिदावत्स॒राया॒तीत्व॑रीमिद्वत्स॒राया॑ति॒ष्कद्व॑रीं वत्स॒राय॒ विज॑र्जराᳪं᳭ संवत्स॒राय॒ पलि॑क्नीमृ॒भुभ्यो॑ऽजिनस॒न्धᳪं᳭ सा॒ध्येभ्य॑श्चर्म॒म्नम् ।। १५ ।।
म० यमाय यमसूं युग्मप्रसवित्रीम् ९ अथर्वभ्योऽवतोकां निरपत्याम् १० संवत्सराय पर्यायिणीम् पर्यायोऽनुक्रमस्तद्वतीमनुक्रमप्रज्ञाम् ११ । अथ सप्तमे यूपे । परिवत्सराय अविजाताम् अप्रसूताम् १ इदावत्सराय अतीत्वरीमत्यन्तं कुलटाम् 'पुंश्चली कुलटेत्वरी' २ इद्वत्सराय अतिष्कद्वरीम् अतिस्कन्दति स्रवति इत्यतिस्कद्वरी । स्कन्देर्वन्नन्तात् ङीव्रेफौ ३ वत्सराय विजर्जरां शिथिलशरीराम् ४ संवत्सराय पलिक्नीं श्वेतकेशाम् ५ ऋभुभ्यः अजिनसन्धं चर्मसन्धातारम् ६ साध्येभ्यः चर्मम्नं चर्माभ्यासकरम् ७ ॥ १५ ॥

षोडशी।
सरो॑भ्यो धैव॒रमु॑प॒स्थाव॑राभ्यो॒ दाशं॑ वैश॒न्ताभ्यो॑ बै॒न्दं न॑ड्व॒लाभ्यः शौष्क॑लं पा॒राय॑ मार्गा॒रम॑वा॒राय॑ कै॒वर्तं॑ ती॒र्थेभ्य॑ आ॒न्दं विष॑मेभ्यो मैना॒लᳪं᳭ स्वने॑भ्य॒: पर्ण॑कं॒ गुहा॑भ्य॒: किरा॑त॒ᳪं᳭ सानु॑भ्यो॒ जम्भ॑कं॒ पर्व॑तेभ्यः किम्पूरु॒षम् ।। १६ ।।
म० सरोभ्यो धैवरं कैवर्तापत्यम् ८ उपस्थावराभ्यः दाशम् 'दाशृ दाने' दातारम् । दाशो धीवरो वा ९ वैशन्ताभ्यो वैन्दं विन्दो निषादापत्यम् १० नड्वलाभ्यः शौष्कलं मत्स्यजीविनम् शुष्कला मत्स्यास्तैर्जीवति तम् ११ । अथाष्टमे यूपे । पाराय मार्गारम् मृगारेरपत्यं मार्गारस्तम् १ अवाराय कैवर्तम् २ तीर्थेभ्यः आन्दम् 'अदि बन्धने' अदति आन्दस्तं बन्धनकर्तारम् ३ विषमेभ्यो मैनालम् 'अल् वारणे' मीनानलति वारयति जालैरसौ मीनालस्तदपत्यम् ४ स्वनेभ्यः पर्णकं भिल्लम् ५ गुहाभ्यः किरातम् ६ सानुभ्यः जम्भकं 'जभि नाशने' जम्भयतीति तत् हिंसकम् ७ पर्वतेभ्यः किंपूरुषं कुत्सितनरम् ८ ॥ १६ ॥

सप्तदशी।
बी॒भ॒त्सायै॑ पौल्क॒सं वर्णा॑य हिरण्यका॒रं तु॒लायै॑ वाणि॒जं प॑श्चादो॒षाय॑ ग्ला॒विनं॒ विश्वे॑भ्यो भू॒तेभ्य॑: सिध्म॒लं भूत्यै॑ जागर॒णमभू॑त्यै स्वप॒नमार्त्यै॑ जनवा॒दिनं॒ व्यृ॒द्ध्या अपग॒ल्भᳪं᳭ स॑ᳪं᳭श॒राय॑ प्र॒च्छिद॑म् ।। १७ ।।
म० बीभत्सायै पौल्कसं पुल्कसापत्यम् ९ वर्णाय हिरण्यकारं स्वर्णनिष्पादकम् १० तुलायै वाणिजं वणिगपत्यम् ११ । अथ नवमे यूपे । पश्चादोषाय ग्लाविनं 'ग्लै हर्षक्षये' अहृष्टम् १ विश्वेभ्यो भूतेभ्यः सिध्मलं सिध्माख्यरोगवन्तम् २ भूत्यै जागरणं जागरूकम् ३ अभूत्यै स्वपनं शयालुम् ४ आर्त्यै जनवादिनं जनान् वदति तम् ५ वृद्ध्यै अपगल्भम् । संशराय प्रच्छिदं प्रच्छेदनकर्तारम् ७ ॥ १७ ॥

अष्टादशी।
अ॒क्ष॒रा॒जाय॑ कित॒वं कृ॒ताया॑दिनवद॒र्शं त्रेता॑यै क॒ल्पिनं॑ द्वा॒परा॑याधिक॒ल्पिन॑मास्क॒न्दाय॑ सभास्था॒णुं मृ॒त्यवे॑ गोव्य॒च्छमन्त॑काय गोघा॒तं क्षु॒धे यो गां वि॑कृ॒न्तन्तं॒ भिक्ष॑माण उप॒तिष्ठ॑ति दुष्कृ॒ताय॒ चर॑काचार्यं पा॒प्मने॑ सैल॒गम् ।। १८ ।।
म० अक्षराजाय कितवं धूर्तम् ८ कृताय आदिनवदर्शम् आदीनवो दोषस्तं पश्यति तथाभूतम् ९ त्रेतायै कल्पिनं कल्पकम् १० द्वापराय अधिकल्पिनम् अधिकल्पनाकर्तारम् ११ । अथ दशमे यूपे । आस्कन्दाय सभास्थाणुं सभायां स्थिरम् १ मृत्यवे गोव्यच्छं गाः प्रति गमनशीलम् २ अन्तकाय गोघातं गवां हन्तारम् ३ क्षुधे यो गां विकृन्तन्तं भिक्षमाण उपतिष्ठति यः पुमान् गां विकृन्तन्तं छिन्दन्तम् । भिक्षमाणो याचमानः उपतिष्ठते तं याचितारं क्षुधे देव्यै आलमेत ४ | दुष्कृताय चरकाचार्यं चरकाणां गुरुम् ५ पाप्मने सैलगं | सीलगो दुष्टस्तदपत्यम् ६ ॥ १८ ॥

एकोनविंशी।
प्र॒ति॒श्रुत्का॑या अर्त॒नं घोषा॑य भ॒षमन्ता॑य बहुवा॒दिन॑मन॒न्ताय॒ मूक॒ᳪं᳭ शब्दा॑याडम्बराघा॒तं मह॑से वीणावा॒दं क्रोशा॑य तूणव॒ध्मम॑वरस्प॒राय॑ शङ्ख॒ध्मं वना॑य वन॒पम॒न्यतो॑रण्याय दाव॒पम् ।। १९ ।।
म० प्रतिश्रुत्कायै अर्तनं दुःखिनम् ७ घोषाय भषं जल्पकम् ८ अन्ताय बहुवादिनम् ९ अनन्ताय मूकं वाग्विकलम् १० शब्दाय आडम्बराघातम् आडम्बरमाहन्ति तं कोलाहलकर्तारम् ११ । अथैकादशे यूपे । महसे वीणावादं वीणावादनकर्तारम् १ क्रोशाय तूणवध्मं वाद्यविशेषं धमति तथाभूतम् २ अवरस्पराय शङ्खध्मं शङ्खवादकम् ३ वनाय वनपं वनपालकम् ४ अन्यतोऽरण्याय दावपं वनवह्निपम् ५ ॥१९॥

विंशी।
न॒र्माय॑ पुँश्च॒लूᳪं᳭ हसा॑य॒ कारिं॒ याद॑से शाब॒ल्यां ग्रा॑म॒ण्यं गण॑कमभि॒क्रोश॑कं॒ तान्मह॑से वीणावा॒दं पा॑णि॒घ्नं तू॑णव॒ध्मं तान्नृ॒त्ताया॑न॒न्दाय॑ तल॒वम् ।। २० ।।

म०. नर्माय पुंश्चलूं दुष्टां नारीम् ६ हसाय कारिं करणशीलम् ७ यादसे शाबल्याम् शबलः कर्बुरवर्णः तदपत्यभूतां स्त्रियम् ८ ग्रामण्यं ग्रामनेतारम् ९ गणकं ज्योतिर्विदम् १०
अभिक्रोशकं निन्दकम् ११ तान् त्रीन्महसे जुष्टं नियुनज्मीति एकादशे यूपे आलभते । एवं प्रतियूपमेकादशस्वेकादशसु नियुक्तेषु येऽधिका अवशिष्टास्तान् समाप्तिपर्यन्तान् द्वितीयोच्छ्रिते यूपे नियुनक्ति । तांश्च वीणावादं पाणिघ्नमित्यादीन् रात्र्यै कृष्णं पिङ्गाक्षमित्यन्ताश्चतुर्दश । ततोऽथैतानष्टौ विरूपानित्यष्टौ च मागधादींश्चतुरः एवं षड्विंशतिं द्वितीये। यूपे पूर्वोक्ता एकादश एवं सप्तत्रिंशत् । तानेवाह । वीणावादम् पाणिघ्नं हस्ततालवादकम् तूणवध्मम् तान् त्रीन् नृत्ताय आलभते ३ आनन्दाय तलवम् 'वा गतिगन्धनयोः' गन्धनं हिंसा तलं हस्तादितलं वाति वाद्यमुखं हन्ति स तलवस्तम् वाद्यवादकम् ४ ॥२०॥

एकविंशी ।
अ॒ग्नये॒ पीवा॑नं पृथि॒व्यै पी॑ठस॒र्पिणं॑ वा॒यवे॑ चाण्डा॒लम॒न्तरि॑क्षाय वᳪं᳭शन॒र्तिनं॑ दि॒वे ख॑ल॒तिᳪं᳭ सूर्या॑य हर्य॒क्षं नक्ष॑त्रेभ्यः किर्मि॒रं च॒न्द्रम॑से कि॒लास॒मह्ने॑ शु॒क्लं पि॑ङ्गा॒क्षᳪं᳭ रात्र्यै॑ कृ॒ष्णं पि॑ङ्गा॒क्षम् ।। २१ ।।
म० अग्नये पीवानं स्थूलम् ५ पृथिव्यै पीठसर्पिणं पीठेनासनेन सर्पति गच्छति पीठसर्पी तं पङ्गुम् ६ वायवे चाण्डालं चण्डालकर्माणम् ७ अन्तरिक्षाय वंशनर्तिनम् वंशेन नर्तनशीलम् ८ दिवे खलतिमलोमशिरस्कं खल्वाटमित्यर्थः ९ सूर्याय हर्यक्षं हरितनेत्रम् १० नक्षत्रेभ्यः किर्मिरं कर्बुरवर्णम् ११ चन्द्रमसे किलासं सिध्मरोगवन्तम् १२ अह्ने शक्लवर्णं पिङ्गाक्षम् १३ रात्र्यै कृष्णवर्णं पिङ्गाक्षम् १४ ॥ २१॥

द्वाविंशी।
अथै॒तान॒ष्टौ विरू॑पा॒नाल॑भ॒तेऽति॑दीर्घं॒ चाति॑ह्रस्वं॒ चाति॑स्थूलं॒ चाति॑कृशं॒ चाति॑शुक्लं॒ चाति॑कृष्णं॒ चाति॑कुल्वं॒ चाति॑लोमशं च ।
अशू॑द्रा॒ अब्रा॑ह्मणा॒स्ते प्रा॑जाप॒त्याः ।
मा॒ग॒धः पुँ॑श्च॒ली कि॑त॒वः क्ली॒बोऽशू॑द्रा॒ अब्रा॑ह्मणा॒स्ते प्रा॑जाप॒त्याः ।। २२ ।।

इति माध्यन्दिनीयायां वाजसनेयिसंहितायां त्रिंशोऽध्यायः ॥ ३०॥
म०. तत एतान् वक्ष्यमाणानष्टौ विरूपान् परस्परं विरुद्धरूपान् पशूनालभते । तानाह । अतिदीर्घम् अतिह्रस्वम् अतिस्थूलम् अतिकृशम् अतिशुक्लम् अतिकृष्णम् अतिकुल्वं रोमरहितम् अतिलोमशं सर्वाङ्गयापिरोमाणम् । ते अष्टौ अशूद्राः अब्राह्मणाः शूद्रब्राह्मणव्यतिरिक्ताः पशवो भवन्ति । तेऽष्टावपि प्राजापत्याः प्रजापतिदेवताः 'अष्टावुत्तमानालभत' इत्युपक्रम्य 'ते वै प्राजापत्या भवन्ति' (१३ । ६।२ । ७-८) इति श्रुतेः । अत्र जातिनियमात्पूर्वेषु जातेरनियमः । वीणावादादयश्चतुर्दश अतिदीर्घादयोऽष्टौ एवं द्वाविंशतिः शेषाः । तथा मागधः पुंश्चली कितवः क्लीबः एते चत्वारोऽपि शूद्रब्राह्मणव्यतिरिक्ताः प्रजापतिदेवताः पूर्वैः सहैते षड्विंशतिः ते सर्वे द्वितीययूपे नियोज्याः । सर्वेषां नियोगानन्तरं तान्नियुक्तान् पुरुषान् 'सहस्रशीर्षा पुरुषः' ( ३१ । १-१६ )इति षोडशर्चेनानुवाकेन दक्षिणत उपविष्टो होतृवदभिष्टौति । होतृवदिति प्रथमोत्तमयोस्त्रिर्वचनम् ऋगन्तानां प्रणवेन संधानं च। यथा सहस्रशीर्षा पुरुषः-०ङ्गुलो३म् पुरुष एवेदऽᳪं᳭ -०रोहतो३म् । एवमभिष्टौति । तत आलम्भनक्रमेण यथादेवतं प्रोक्षणादि । ब्राह्मणादीनां पर्यग्निकरणानन्तरमिदं ब्रह्मणे इदं क्षत्रायेत्येवं सर्वेषां यथास्वस्वदेवतोद्देशेन त्यागः । ततः सर्वान् ब्राह्मणादीन् यूपेभ्यो विमुच्योत्सृजति । तत एकादशिनैः पशुभिः संज्ञपनादिप्रधानयागान्तं वनस्पतियागं कृत्वा प्राक् स्विष्टकृतः अध्वर्युराज्यं संस्कृत्य सकृद्गृहीतमाज्यं गृहीत्वा ओम् पुरुषदेवताभ्यो ब्रह्मादिभ्यः आहवनीये जुहोति ओम् ब्रह्मणे स्वाहा १ क्षत्राय स्वाहा २ मरुद्भ्यः ३ तपसे ४ तमसे ५ इत्याद्यध्यायान्तं सर्वदेवताभ्यः चतुरशीत्युत्तरशतसंख्याकाभ्यः तावतीर्घृताहुतीर्हुत्वा स्विष्टकृदादि उदवसानीयान्तं कर्म कृत्वान्ते यजमानः 'अयं ते योनिः' इति मन्त्रेणात्मन्यग्नीन् समारोप्य 'अद्भ्यः संभृत' (३१ । १७) इति षडृचेनानुवाकेन सूर्यमुपस्थाय पश्चादनवलोकयन्नरण्यं गत्वा संन्यसेत् । 'गार्हपत्येऽधरारणिमनुप्रहृत्याहवनीय उत्तरारणिमात्मन्यग्नी समारोप्यारण्यं व्रजेत्' इति शाङ्खायनोक्तेः । यदि पुरुषमेधानन्तरं ग्रामवासेच्छा तर्ह्युदवसानीयान्ते सायमाहुती हुत्वारण्योरग्नी समारोप्योत्तरनारायणेनार्कमुपस्थाय देवयजनमादीप्य गृहं व्रजेत् । गृहे आगत्य निर्मथ्याग्निं स्थापयेत् यथेच्छं यज्ञानपि कुर्यात् । अयमपि पक्षोऽस्ति । तत् पुरुषमेधानन्तरं संन्यास एव ॥ २२॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
त्रिंशेध्याये प्रकथिताः पशवो नरमेधिके ॥ ३० ॥