शुक्लयजुर्वेदः/अध्यायः ३१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


अध्याय 31 विष्णु सूक्तम्
पुरुषसूक्ताध्यायः

31.1
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिꣳ सर्वत स्पृत्वात्य् अतिष्ठद् दशाङ्गुलम् ॥

31.2
पुरुषऽएवेदꣳ सर्वं यद् भूतं यच् च भाव्यम् ।
उतामृतत्वस्येशानो यद् अन्नेनातिरोहति ॥

31.3
एतावान् अस्य महिमातो ज्यायाꣳश् च पूरुषः ।
पादो ऽस्य विश्वा भूतानि त्रिपाद् अस्यामृतं दिवि ॥

31.4
त्रिपाद् ऊर्ध्व उद् ऐत् पुरुषः पादो ऽस्येहाभवत् पुनः ।
ततो विष्वङ् व्यक्रामत् साशनानशने ऽ अभि ॥

31.5
तस्माद् विराड् अजायत विराजो ऽ अधि पूरुषः ।
स जातो ऽ अत्य् अरिच्यत पश्चाद् भूमिम् अथो पुरः ॥

31.6
तस्माद् यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशूꣳस् ताꣳश् चक्रे वायव्यान् आरण्या ग्राम्याश् च ये ॥

31.7
तस्माद् यज्ञात् सर्वहुत ऽ ऋचः सामानि जज्ञिरे ।
छन्दाꣳसि जज्ञिरे तस्माद् यजुस् तस्माद् अजायत ॥

31.8
तस्माद् अश्वा ऽ अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात् तस्माज् जाता ऽ अजावयः ॥

31.9
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातम् अग्रतः ।
तेन देवा ऽ अयजन्त साध्या ऽ ऋषयश् च ये ॥

31.10
यत् पुरुषं व्य् अदधुः कतिधा व्यकल्पयन् ।
मुखं किम् अस्य कौ बाहू का ऊरू पादा ऽ उच्येते ॥

31.11
ब्राह्मणो ऽस्य मुखम् आसीद् बाहू राजन्यः कृतः ।
ऊरू तद् अस्य यद् वैश्यः पद्भ्याꣳ शूद्रो ऽ अजायत ॥

31.12
चन्द्रमा मनसो जातश् चक्षोः सूर्यो ऽ अजायत ।
श्रोत्राद् वायुश् च प्राणश् च मुखाद् अग्निर् अजायत ॥

31.13
नाभ्या ऽ आसीद् अन्तरिक्षꣳ शीर्ष्णो द्यौः सम् अवर्तत ।
पद्भ्यां भूमिर् दिशः श्रोत्रात् तथा लोकाꣳऽ अकल्पयन् ॥

31.14
यत् पुरुषेण हविषा देवा यज्ञम् अतन्वत ।
वसन्तो ऽस्यासीद् आज्यं ग्रीष्म ऽ इध्मः शरद् धविः ॥

31.15
सप्तास्यासन् परिधयस् त्रिः सप्त समिधः कृताः ।
देवा यद् यज्ञं तन्वाना ऽ अबध्नन् पुरुषं पशुम् ॥

31.16
यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥

31.17
अद्भ्यः सम्भृतः पृथिव्यै रसाच् च विश्वकर्मणः सम् अवर्तताग्रे ।
तस्य त्वष्टा विदधद् रूपम् एति तन् मर्त्यस्य देवत्वम् आजानम् अग्रे ॥

31.18
वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् ।
तम् एव विदित्वाति मृत्युम् एति नान्यः पन्था विद्यते ऽयनाय ॥

31.19
प्रजापतिश् चरति गर्भै ऽ अन्तर् अजायमानो बहुधा वि जायते ।
तस्य योनिं परि पश्यन्ति धीरास् तस्मिन् ह तस्थुर् भुवनानि विश्वा ॥

31.20
यो देवेभ्य ऽ आतपति यो देवानां पुरोहितः ।
पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये ॥

31.21
रुचं ब्राह्म्यं जनयन्तो देवा ऽ अग्रे तद् अब्रुवन् ।
यस् त्वैवं ब्राह्मणो विद्यात् तस्य देवा ऽ असन् वशे ॥

31.22
श्रीश् च ते लक्ष्मीश् च पत्न्याव् अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्ताम् ।
इष्णन्न् इषाणामुं म ऽ इषाण सर्वलोकं म ऽ इषाण ॥

भाष्यम्(उवट-महीधर)

एकत्रिंशोऽध्यायः ।

तत्र प्रथमा।
स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् ।
स भूमि॑ᳪं᳭ स॒र्वत॑: स्पृ॒त्वाऽत्य॑तिष्ठद्दशाङ्गु॒॒लम् ।। १ ।।
उ० परमात्मविज्ञानानन्दादिगुणाध्यात्मनि प्रभूतः पुरुषमेधो यज्ञः प्रजापतिः लोककालाग्न्यादिवपुः पुरुषोत्पत्तिस्थितिसंहृतीनां हेतुः स्वर्गापवर्गैश्वर्यमोक्षदो ज्ञानकर्मसमुच्चयकारणं शरीरं 'यज्ञो वा अस्यात्मा भवतीति श्रुतिः । सहस्रशीर्षा पुरुष इत्यनुवाकेन षोडशर्चेनानुष्टुभेन त्रिष्टुबन्त्येन ब्रह्मणे ब्राह्मणमित्याद्यवयवभूतपुरुषद्वारेणावयवी स्तूयते । इदानीं स्तुत्यर्थं निर्वचनद्वारेण द्रढयितुमाह । 'अथ यस्मात्पुरुषमेधो नानेमे वै लोकाः पूरयमेव पुरुषो योयं पवते सोऽस्यां पुरि शेते तस्मात्पुरुषः। तस्य यदेषु लोकेष्वन्नं तदस्यान्नं मेधस्तदस्यैतदन्नं मेधस्तस्मात्पुरुषमेधः' । पुरुषसूक्तस्य नारायणऋषिः पुरुषो देवतानुष्टुप्छन्दः अन्त्या त्रिष्टुप् मोक्षे विनियोगः । अस्य भाष्यं शौनको नाम ऋषिरकरोत् । प्रथमं विच्छेदः क्रियाकारकसंबन्धः समासः प्रमेयार्थव्याख्येति सर्वमेतज्जनकाय मोक्षार्थं कथयामासेति । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सः भूमिम् सर्वतः स्पृत्वा अति अतिष्ठत् दशाङ्गुलम् । सः पुरुषः नारायणाख्यः सर्वतः भुवनकोशस्य भूमिं स्पृत्वा व्याप्य दशाङ्गुलम् अत्यतिष्ठत् । दश च तानि अङ्गुलानि दशाङ्गुलानीन्द्रियाणि । केचिदन्यथा रोचयन्ति दशाङ्गुलप्रमाणं हृदयस्थानम् । अपरे तु नासिकाग्रं दशाङ्गुलमिति । किंभूतोऽसौ सहस्रशीर्षा । अनेकपर्यायः सहस्रशब्दः । अनेकानि शिरांसि यस्य स सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्राण्यक्षीणि नेत्राणि यस्यासौ सहस्राक्षः । सहस्रपात् पादानामङ्गानां सहस्राणि यस्य स सहस्रपात् । एतद्गुणः पुरुषः तद्व्याप्य अतिक्रम्य स्थित इति ॥ १ ॥
रमाकान्तं गिरं नत्वा हेरम्बं शिवमम्बिकाम् ।
एकत्रिंशेऽधुनाध्याये वेददीपो वितन्यते ॥
म० 'नियुक्तान्ब्रह्माभिष्टौति होतृवदनुवाकेन सहस्रशीर्षेति' (कात्या० २१ । १ । ११)। अस्यार्थः । नियुक्तान्ब्राह्मणमित्यादिपशून् सहस्रशीर्षेत्यनुवाकेन षोडशर्चेन ब्रह्मा स्तौति होतृवदिति त्रिः प्रथमां त्रिरुत्तमामित्याद्युक्तप्रकारेणेत्यर्थः । 'त्रैधातव्यन्ते समारोह्यात्मन्नग्नी सूर्यमुपस्थायाद्भ्यः संभृत इत्यनुवाकेनानपेक्षमाणोऽरण्यं गवा न प्रत्यवेयाद् ग्रामे वाविवत्सन्नरण्योः ' (का० २१।१।१७-१८)। त्रैधातवी उदवसानीयेष्टिः तदन्ते अयं ते योनिरित्यमी आत्मनि समारोह्य तदुष्माणमास्ये प्रवेश्याद्भ्यः संभृत इति षडृचेनानुवाकेन सूर्यमुपस्थाय पश्चादपश्यन्वनं गत्वा ग्रामं नागच्छेत् । वानप्रस्थो भवेदित्यर्थः । यद्वा ग्रामे वस्तुमिच्छन् अरण्योरग्नी समारोप्यार्कोपस्थानानन्तरं ग्रामे गत्वा यज्ञान्कुर्यादिति सूत्रार्थः। अथ मन्त्रार्थः । नारायणपुरुषदृष्टा जगद्बीजपुरुषदेवत्याः षोडश ऋचः पञ्चदशानुष्टुभः षोडशी त्रिष्टुप् । ब्रह्मणे ब्राह्मणमित्याद्याः पुरुषमेधरूपस्य परमात्मनोऽवयवाः पूर्वाध्यायान्ते प्रोक्तास्तेषामवयवी पुरुषोऽत्र स्तूयते । अव्यक्तमहदादिविलक्षणश्चेतनो यः पुरुषः 'पुरुषान्न परं किंचि'दित्यादिश्रुतिषु प्रसिद्धः सर्वप्राणिसमष्टिरूपो ब्रह्माण्डदेहो विराजाख्योऽस्ति । कीदृशः। सहस्रशीर्षा सहस्रशब्दो बहुत्ववाची । संख्यावाचकत्वे सहस्राक्ष इति विरोधः स्यात् नेत्रसहस्रद्वयेन च भाव्यम् । ततः सहस्रमसंख्यानि शीर्षाणि शिरांसि यस्य सः 'शीर्षश्छन्दसि' (पा. ६।१।६०) इति शिरःशब्दस्य शीर्षन्नादेशः । शिरोग्रहणं सर्वावयवोपलक्षणम् । यानि सर्वप्राणिनां शिरांसि तानि सर्वाणि तद्देहान्तःपातित्वात् तस्यैवेति सहस्रशीर्षत्वम् । एवमग्रेऽपि । सहस्राक्षः सहस्रमक्षीणि यस्य सः । अक्षिग्रहणं सर्वज्ञानेन्द्रियोपलक्षकम् । सहस्रपात् सहस्रं पादा यस्य 'संख्यासुपूर्वस्य' (पा० ५। ४ । १४०) इति पादस्यान्त्यलोपः । पादग्रहणं कर्मेन्द्रियोपलक्षणम् । सः पुरुषो भूमिं ब्रह्माण्डलोकरूपां सर्वतः तिर्यक् ऊर्ध्वमधश्च स्पृत्वा व्याप्य । स्पृणोतिर्व्याप्तिकर्मा । यद्वा भूमिशब्दो भूतोपलक्षकः । पञ्च भूतानि व्याप्य दशाङ्गुलपरिमितं देशमध्यतिष्ठत् अतिक्रम्यावस्थितः । दशाङ्गुलमित्युपलक्षणम् । ब्रह्माण्डाद्बहिरपि सर्वतो व्याप्यावस्थित इत्यर्थः । यद्वा नाभेः सकाशाद्दशाङ्गुलमतिक्रम्य हृदि स्थितः । नाभित इति कुतो लभ्यते 'कतम आत्मे' त्युपक्रम्य 'सोऽयं विज्ञानमयः - प्राणेषु हृद्यन्तर्ज्योति'रिति श्रुतेः विज्ञानात्मनो हृद्यवस्थानं कर्मफलोपभोगाय अन्तर्यामिणो नियन्तृत्वेन । तदुक्तम् 'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति' ( मुण्ड० ३ । १।१) इति । स पुरुषोऽत्र देवता । तथाच श्रुतिः 'इमे वे लोकाः पूरयमेव पूरुषो योऽयं पवते सोऽस्यां पुरि शेते तस्मात्पुरुषः' (१३ । ६ । २।१) इति ॥१॥

द्वितीया।
पुरु॑ष ए॒वेदᳪं᳭ सर्वं॒ यद्भू॒तं यच्च॑ भा॒व्य॒म् ।
उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ।। २ ।।
उ० पुरुष एव । पुरुषः एव इदम् सर्वम् यत् भूतम् यत् च भाव्यम् । उत अमृतत्वस्य ईशानः यत् अन्नेन अतिरोहति । स एव पुरुषः पूर्वपर्यायविशेषित एवशब्दो नान्यः । इदं वर्तमानकं सर्वम् यच्च भूतमतीतम् यच्च भाव्यं भविष्यत् तस्य कालत्रयस्य ईशानः । न केवलं कालत्रयस्य ईशानः । उत अमृतत्वस्यापि मोक्षस्यापि । उतशब्दोऽपिशब्दार्थे । कस्मात्कारणात् । यत् अन्नेन अमृतेन अतिरोहति अतिरोधं करोति । सर्वस्येश्वर इति ॥ २॥
म० यत् इदं वर्तमानं जगत् तत्सर्वं पुरुष एव । यत् भूतमतीतं जगत् यच्च भाव्यं भविष्यं जगत् तदपि पुरुष एव । यथास्मिन् कल्पे वर्तमानाः प्राणिदेहाः सर्वेऽपि विराट्पुरुषस्यावयवाः तथैवातीतागामिनोरपि कल्पयोर्द्रष्टव्यमिति भावः । उतापि च अमृतत्वस्य देवस्य ईशानः स्वामी स पुरुषः यत् यस्मात् अन्नेन प्राणिनां भोग्येनान्नेन फलेन निमित्तभूतेनातिरोहति स्वीयां कारणावस्थामतिक्रम्य परिदृश्यमानां जगदवस्थां प्राप्नोति तस्मात्पुरुष एव । प्राणिनां कर्मफलभोगाय जगदवस्थास्वीकारान्नेदं तस्य वस्तुत्वमित्यर्थः । यद्वा सर्वं पुरुषश्चेत्तर्हि परिणामीत्याशङ्क्याह । अमृतत्वस्यामरणधर्मस्येशानः मुक्तेरीशः । यो हि मोक्षेश्वरो नासौ म्रियत इत्यर्थः । किंच यत् जीवजातमन्नेनातिरोहति उत्पद्यते तस्य सर्वस्य चेशानः ब्रह्मादिस्तम्बपर्यन्तो भूतग्राम उक्तः तस्यान्नेनैव स्थितेः 'इतःप्रदानाद्धि देवा उपजीवन्ति' इति श्रुतेः ॥ २॥

तृतीया।
ए॒तावा॑नस्य महि॒मातो॒ ज्यायाँ॑श्च॒ पूरु॑षः ।
पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ।। ३ ।।
उ० एतावानस्य । एतवान् अस्य महिमा अतः ज्यायान् च पूरुषः । पादः अस्य विश्वा भूतानि त्रिपात् अस्य अमृतं दिवि । अस्य पुरुषस्य पूर्वोक्तविशेषणविशेषितस्य एतावान् महिमा एतदेव महत्त्वमस्य । अतः कारणात् ज्यायांश्च पुरुषः महानित्यर्थः । कस्मान्महत्त्वमायातम् । यस्मात्पादः एकोंशः अस्य पुरुषस्य । विश्वा भूतानि विश्वानि चतुर्दशभुवनसमूहे यानि चतुर्धा भूतानि तान्येकोंशः । त्रिपात्पुनः त्रयोंशाः अस्य पुरुषस्य अमृतम् ऋग्यजुःसामलक्षणम् आदित्यलक्षणं वा दिवि द्योतते इति ॥ ३ ॥
म० अतीतानागतवर्तमानकालसंबद्धं जगद्यावदस्ति एतावान्सर्वोऽपि अस्य पुरुषस्य महिमा स्वकीयसामर्थ्य विशेषो विभूतिः नतु वास्तवं स्वरूपम् । वास्तवपुरुषस्तु अतः अस्मात् महिम्ना जगज्जालात् ज्यायांश्च अतिशयेनाधिकः । एतदुभयं स्पष्टीक्रियते । अस्य पुरुषस्य विश्वा सर्वाणि भूतानि कालत्रयवर्तीनि प्राणिजातानि पादश्चतुर्थांशः । अस्य पुरुषस्यावशिष्टं त्रिपात्स्वरूपम् अमृतं विनाशरहितं तत् दिवि द्योतनात्मके स्त्रप्रकाशे स्वरूपेऽवतिष्ठत इति शेषः । यद्यपि 'सत्यं ज्ञानमनन्तं ब्रह्मे'त्याम्नातस्य परब्रह्मण इयत्ताया अभावात् पादचतुष्टयं निरूपयितुमशक्यं तथापि जगदिदं ब्रह्मरूपापेक्षयाल्पमिति विवक्षितत्वात्पादत्वोपन्यासः ॥ ३ ॥

चतुर्थी।
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑ष॒: पादो॑ऽस्ये॒हाभ॑व॒त् पुन॑: ।
ततो॒ विष्व॒ङ् व्य॒क्रामत्साशनानश॒ने अ॒भि ।। ४ ।।
उ० त्रिपादूर्ध्वः । त्रिपात् ऊर्ध्वः उत् ऐत् पुरुषः पादः अस्य इह अभवत् पुनः । ततः विष्वङ् वि. अक्रामत् साशनानशने अभि । यस्मादयं पुरुषः त्रिपात् त्र्यंशभूतः ऊर्ध्वः उपरिष्टात् उदैत् देदीप्यमानस्तिष्ठति । अस्य च पुरुषस्य पादः एकोंशः इह त्रैलोक्ये बीजभूतं चतुर्षु भूतेषु अभूत् भूतम् । ततः तस्मात्कारणात् विष्वङ् भुवनकोशं व्यक्रामत् उत्पन्नमित्यर्थः । तस्मादेव पुरुषात् । साशनानशने अभि साशनं स्वर्गम् अनशनं मोक्षम् सर्वं जगत्स्वर्गं प्रति मोक्षं प्रति च तस्मादेवोत्पन्नमित्यर्थः ॥ ४ ॥
म० योऽयं त्रिपात्पुरुषः संसारस्पर्शरहितब्रह्मरूपः अयमूर्ध्वः उदैत् अस्मादज्ञानकार्यात् संसाराद्बहिर्भूतोऽत्रत्यैर्गुणदोषैरस्पृष्टः उत्कर्षेण स्थितवान् । तस्यास्य पादो लेशो जगद्रूपः इह मायायां पुनः अभवत् सृष्टिसंहाराभ्यां पुनः पुनरागच्छति । सर्वस्य जगतः परमात्मलेशत्वं भगवताप्युक्तम् 'विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्' ( भग० १० । ४२) इति । ततो मायायामागत्यानन्तरं विष्वङ् विषु सर्वत्राञ्चतीति विष्वङ् देवतिर्यगादिरूपेण विविधः सन् व्यक्रामत् व्याप्तवान् । किंकृत्वा साशनानशने अभि अभिलक्ष्य अशनेन सह वर्तमानं साशनम् अशनादिव्यवहारोपेतं चेतनप्राणिजातम् अनशनं तद्रहितमचेतनं गिरिनद्यादिकम् ते अभिलक्ष्य स्वयमेव विविधो भूत्वा व्याप्तवानित्यर्थः ॥ ४॥

पञ्चमी।
ततो॑ वि॒राड॑जायत वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ।। ५ ।।
उ० ततो विराट् । ततः विराट् अजायत विराजः अधिपूरुषः । सः जातः अति अरिच्यत पश्चात् भूमिम् अथो पुरः । तस्मादेव पुरुषात् विश्वोत्पत्तिः । तत्र पूर्वं विराट् अजायत । विराजः अधिपूरुषः प्रधानं तेजः । स क्षेत्रज्ञः ब्रह्मा सृष्टिकृत् जातः सन् अतिरिच्यते । सोऽभितः पश्चात् अस्मात् क्षेत्रज्ञात् ब्रह्मणः भूमिः पृथिव्यादौ जाता उत्पन्ना इति । अथोऽनन्तरम् पुरः शरीराणि पुराणि चतुर्विधानि भूतानि अजायन्त । पुत्रादीनि तेनैवोत्पादितानि एवमेकोंशः तेनैव सर्वं विश्वमुत्पादितमिति ॥ ५॥
म० विष्वङ् व्यक्रामदिति यदुक्तं तदेव प्रपश्यते । ततः तस्मादादिपुरुषात् विराट् ब्रह्माण्डदेहोऽजायत जातः । विविधं राजन्ते वस्तून्यत्रेति विराट् । विराजः अधि विराड्देहस्योपरि तमेव देहमधिकरणं कृत्वा पुरुषः तद्देहाभिमानी एक एव पुमानजायत । सर्ववेदान्तवेद्यः परमात्मा स्वमायया विराड्देहं ब्रह्माण्डरूपं सृष्ट्वा तत्र जीवरूपेण प्रविश्य ब्रह्माण्डाभिमानी देवतात्मा जीवोऽभवदित्यर्थः । एतच्चाथर्वणोत्तरतापनीये स्पष्टमुक्तम् ‘स वा एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वात्र प्रविष्ट इव विहरति' (नृसिंहता. २।९) इति । किंच स जातो विराट्पुरुषोऽत्यरिच्यत अतिरिक्तो देवतिर्यङ्मनुष्यादिरूपोऽभूत् पश्चाद्देवादिजीवभावादूर्ध्वं भूमिं ससर्जेति शेषः । अथो भूमिसृष्टेरनन्तरं तेषां जीवानां पुरः ससर्ज । पूर्यन्ते सप्तभिर्धातुभिरिति पुरः शरीराणि ॥ ५ ॥

षष्ठी।
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒: सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूँस्ताँश्च॑क्रे वाय॒व्या॒नार॒ण्या ग्रा॒म्याश्च॒ ये ।। ६ ।।
उ० तस्माद्यज्ञात् । तस्मात् यज्ञात् सर्वहुतः संभृतं पृषदाज्यम्। पशून् तान् चक्रे वायव्यान् आरण्याः ग्राम्याः च ये। यथा अग्निष्टोमाख्यात्तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् तेन वायव्यान् पशून् आरण्या ग्राम्याश्च ये तान् कृतवन्तः। । एवमात्मयज्ञात् सर्वहुतात्पूरितात् उत्पन्नेन योगिनः सर्वान् पशून् सर्वाणि भूतजातानि करतलवत्पश्यन्ति । पश्यन्ति किल ज्ञानतेजसा भूतजातानि ॥ ६॥
म०. सर्वं हूयते यस्मिन् स सर्वहुत् तस्मात्पुरुषमेधाख्यात् यज्ञात् पृषदाज्यं दधिमिश्रमाज्यं संभृतं संपादितम् । दध्याज्यादिभोग्यजातं संपादितमित्यर्थः । पुरुषेणेति शेषः । तथा स पुरुषः वायव्यान्वायुदेवताकान् तान्प्रसिद्धान् पशून् चक्रे उत्पादितवान् । 'अन्तरिक्षदेवत्याः खलु वै पशवः' इति श्रुतेः। अन्तरिक्षस्य च वायुदेवत्यत्वात्पशूनां वायुदेवत्वम् । तान्कान् । ये चारण्याः अरण्ये भवाः हरिणादयः । ये च ग्रामभवा गवाश्वादयस्तान्पशून् चक्रे ॥ ६ ॥

सप्तमी।
तस्मा॑द्य॒ज्ञात् स॑र्व॒हुत॒ ऋच॒: सामा॑नि जज्ञिरे ।
छन्दा॑ᳪं᳭सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ।। ७ ।।
उ० तस्माद्यज्ञात्। तस्मात् यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्मात् यजुः तस्मात् अजायत । तस्मादेव यज्ञात्सर्वहुतः प्रज्वालितात् यथा ऋचः सामानि यजूंषि च देवा उत्पादयन्ति छन्दांसि च। एवमात्मयज्ञे प्रणवेन दीपिते स्वयमेव ज्ञानादधिष्ठितानि भवन्ति । एवं येन परमात्मनि ज्ञायते सर्वे जग्धाः(?)सर्वं वाङ्मयं ज्ञानं भवतीति ॥७॥
म०. सर्वहुतः तस्माद्यज्ञात् ऋचः सामानि च जज्ञिरे उत्पन्नानि । छन्दांसि गायत्र्यादीनि जज्ञिरे तस्माद्यजुरप्यजायत । ऋग्यजुःसामभिश्छन्दोभिश्च विना यज्ञा न सिध्यन्ति ॥ ७ ॥

अष्टमी।
तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वय॑: ।। ८ ।।
उ० तस्मात् । तस्मात् अश्वाः अजायन्त ये के च उभयादतः। गावः ह जज्ञिरे तस्मात् तस्मात् जाताः अजावयः। तस्माद्यज्ञात् अश्वाः अजायन्त उत्पन्नाः। तथा ये के चाश्वातिरिक्ता गर्दभादयोऽश्वतराश्च उभयादतः उभयोर्भागयोर्दन्ता येषां ते उभयदतः । छान्दसं दीर्घत्वम् । ऊर्ध्वाधोभागयोर्दन्तयुक्ताः सन्ति तेऽप्यजायन्त । तथा ह स्फुटं तस्माद्यज्ञात् गावः च जज्ञिरे। किंच तस्माद्यज्ञात् अजावयः अजाः अवयश्च जाताः। नहि पशुभिर्विना यज्ञः सिध्येत् ॥८॥
म० तस्माद्यज्ञात् अश्वाः अजायन्त उत्पन्नाः । तथा ये के चाश्वातिरिका गर्दभादयोऽश्वतराश्च उभयादतः उभयोर्भागयोर्दन्ता येषां ते उभयदतः । छान्दसं दीर्घत्वम् । ऊर्ध्वाधोभागयोर्दन्तयुक्ताः सन्ति तेऽप्यजायन्त । तथा ह स्फुटं तस्मात् यज्ञात् गावः च जज्ञिरे । किंच तस्माद्यज्ञात् अजावयः अजाः अवयश्च जाताः । न हि पशुभिर्विना यज्ञः सिध्येत् ॥८॥

नवमी।
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न् पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये ।। ९ ।।
उ० तं यज्ञम् । तम् यज्ञम् बर्हिषि प्रौक्षन् पुरुषम् जातम् अग्रतः। ते देवाः अयजन्त साध्याः ऋषयः च ये। यथेन्द्रेण तत्र यज्ञे अग्निष्टोमाख्ये बर्हिषा प्रोक्षितः पुरुषो जातः । तद्वदात्मयज्ञे बर्हिषा प्राणायामेन दीपितेन तस्मिन्पुरुषो जातः । ज्ञानमुत्पद्यते दिव्यम् । अग्रतः प्रथमतः । तेन देवा इन्द्रादयः साध्याश्च ऋषयश्च यथा अयजन्त । तथा देवा योगिनः कपिलादयश्च साध्याश्चापरे ऋषयः । ऋषयश्चाप्येतेनैव प्रणवाधिष्ठितेन पुरुषेणात्मयज्ञं कृतवन्त इति॥९॥
म० यज्ञसाधने यज्ञशब्दः । यज्ञं यज्ञसाधनभूतं तं पुरुषं पशुत्वमाभाव्य यूपे बद्धं बर्हिषि मानसे यज्ञे प्रौक्षन्प्रोक्षितवन्तः प्रोक्षणादिभिः संस्कारैः संस्कृतवन्तः । कीदृशम् । अग्रतः सृष्टेः पूर्वं जातं पुरुषत्वेनोत्पन्नम् । एतच्च प्रागेवोक्तम् तस्माद्विराडजायत विराजो अधि पूरुष इति । तेन पुरुषरूपेण पशुना देवा अयजन्त मानसयागं निष्पादितवन्तः । के ते देवा इत्यत्राह । ये साध्याः सृष्टिसाधनयोग्याः प्रजापतिप्रभृतयः । ये च तदनुकूला ऋषयः मन्त्रद्रष्टारः ते सर्वेऽप्ययजन्त ॥९॥

दशमी।
यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्यासी॒त् किं बा॒हू किमू॒रू पादा॑ उच्येते ।। १० ।।
उ० यत्पुरुषम् । यत् पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखम् किम् अस्य आसीत् किं बाहू किम् उरू पादौ उच्येते । यत्पुरुषम् देवा इन्द्रादयः तस्मिन् यज्ञे व्यदधुः कृतवन्तो यथा । तद्वत् योगिनः आत्मयज्ञे पुरुषं ज्ञानम् यत् ज्ञानान्तं तत्कृतवन्तः कतिप्रकारं विकल्पितवन्तः । तस्यैवंविधस्य किं मुखम् कौ बाहू कौ ऊरू पादौ उच्येते उच्यन्तामित्यर्थः । ब्राह्मणक्षत्रियवैश्यशूद्राः स्थिता इत्यर्थः ॥ १०॥
म० प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टिं वक्तुं ब्रह्मवादिनां प्रश्ना उच्यन्ते । प्रजापतेः प्राणरूपा देवा यत् यदा पुरुषं व्यदधुः कालेनोदपादयन् तदा कतिधा कतिमिः प्रकारैर्व्यकल्पयन् विविधं कल्पितवन्तः । अस्य पुरुषस्य मुखं किमासीत् किं बाहू ऊरू चास्ताम् । किंच पादौ उच्येते पादावपि किमास्तामित्यर्थः ॥ १०॥

एकादशी ।
ब्रा॒ह्म॒णो॒ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्य॒: कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वै॑श्यः प॒द्भ्याᳪं᳭ शू॒द्रो अ॑जायत ।। ११ ।।
उ० ब्राह्मणोऽस्य । ब्राह्मणः अस्य मुखम् आसीत् बाहू राजन्यः कृतः । उरू तत् अस्य यत् वैश्यः पद्भ्याम् शूद्रः अजायत । अस्य यज्ञोत्पन्नस्य पुरुषस्य ये केचिद्ब्राह्मणाः ते मुखम् आसीत् । ये क्षत्रियाः ते बाहूकृताः । ये वैश्याः ते अस्य ऊरू कृताः । ये शूद्रा ते पद्भ्याम् अजायन्त इति कल्प्यन्ते तदस्योत्पन्नत्वादिति । एवमेतेऽवयवाः शिरःप्रभृतयः पुरुषस्य विद्यन्ते नान्ये इति ॥ ११ ॥
म० पूर्वोक्तप्रश्नोत्तराण्याह । ब्राह्मणः ब्रह्मत्वजातिविशिष्टः पुरुषोऽस्य प्रजापतेर्मुखमासीत् । मुखादुत्पन्न इत्यर्थः । राजन्यः क्षत्रियत्वजातिविशिष्टो बाहू कृतः बाहुत्वेन निष्पादितः । तत् तदानीमस्य प्रजापतेः यत् यावूरू तद्रूपो वैश्यः संपन्नः । ऊरुभ्यामुत्पादित इत्यर्थः । तथास्य पद्भ्यां शूद्रत्वजातिमान्पुरुषोऽजायत उत्पन्नः॥११॥

द्वादशी।
च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ अजायत ।
श्रोत्रा॑द्वा॒युश्च॑ प्रा॒णश्च॒ मुखा॑द॒ग्निर॑जायत ।। १२ ।।
उ० चन्द्रमा मनसः । चन्द्रमाः मनसः जातः चक्षोः सूर्यः अजायत । श्रोत्रात् वायुः च प्राणः च मुखात् अग्निः अजायत । तस्यैवंविधस्य यज्ञोत्पन्नस्य पुरुषस्य । चन्द्रमाः मनसः चेतसः जातः अजायतेति कल्पना । मन एव चन्द्रमाः । चक्षोः नेत्राभ्यां सूर्यः। नेत्रे एव सूर्यः । यः प्राणो जीवः स एव वायुः श्रोत्रात् अजायतेति कल्प्यते श्रोत्रमेव वायुः । योऽयमग्निः स मुखात् अजायतेति कल्प्यते मुखमेवाग्निः अंशोत्पन्नत्वादिति ॥ १२ ॥
म० यथा दध्यादिद्रव्याणि गवादयः पशवः ऋगादिवेदाः ब्राह्मणादयो मनुष्याश्च तस्मादुत्पन्नाः एवं चन्द्रादयो देवा अपि तस्मादेवोत्पन्ना इत्याह । मनसः सकाशाच्चन्द्रमाः जातः । चक्षोः चक्षुषः सकाशात्सूर्यः अजायत । वायुः प्राणश्च श्रोत्रात्कर्णादजायत । मुखादग्निरजायत ॥ १२ ॥

त्रयोदशी।
नाभ्या॑ आसीद॒न्तरि॑क्षᳪं᳭ शी॒र्ष्णो द्यौ॒: सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिश॒: श्रोत्रा॒त्तथा॑ लो॒काँ२ अ॑कल्पयन् ।। १३ ।।
उ० नाभ्या आसीत् । नाभ्याः आसीत् अन्तरिक्षम् शीर्ष्णः द्यौः सम् अवर्तत । पद्भ्याम् भूमिः दिशः श्रोत्रात् तथा लोकान् अकल्पयन् । तस्यैवंविधस्य पुरुषस्य या नाभिः तदेवान्तरिक्षं नभः । या द्यौः तत् शीर्षं शिरः । समवर्ततेति कल्पितम् । पादौ भूमिरेव । श्रोत्रे श्रवणौ दिशः । श्रोत्रावयवाः यस्माद्दिशः ब्रह्मणो जाताः तथैव सर्वान् लोकान् पुरुषस्यावयवभूतान् अकल्पयदिति ॥ ३॥
म० यथा प्रजापतेर्मनःप्रभृतयश्चन्द्रादीनकल्पयन् तथान्तरिक्षादिलोकानित्याह नाभ्येति । प्रजापतेः नाभेः सकाशात् अन्तरिक्षमासीत् । शीर्ष्णः शिरसः द्यौः स्वर्गः समवर्ततोत्पन्ना। अस्य पद्भ्यां पादाभ्यां भूमिरुत्पन्ना । श्रोत्राद्दिशः उत्पन्नाः । तथा तेनोक्तेन विधिना लोकान्भूरादीन् प्रजापतेः सकाशादकल्पयन् कल्पितवन्तः । फलादानोत्सुकाः काला इति शेषः ॥ १३ ॥

चतुर्दशी।
यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो॒ऽस्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ।। १४ ।।
उ० यत्पुरुषेण । यत् पुरुषेण हविषा देवाः यज्ञम् अतन्वत । वसन्तः अस्य आसीत् आज्यम् ग्रीष्मः इध्मः शरत् हविः कथमन्नेनाधिरोहति । यत् यस्मात्कारणात् पुरुषेण हविषा हविर्भूतेन देवा इन्द्रादयः यथा यज्ञम् अतन्वत विस्तारितवन्तः । तथा योगिनोऽपि पुरुषेणैवामृतभूतेन दीपितेनात्मना आत्मयज्ञं समधिकृतवन्तः । अत्र यज्ञे वसन्तः आज्यमासीत् ग्रीष्मः इध्मः शरद्धविरिति । | इतरयागे वसन्तशब्देन सात्विको गुण उच्यते । ग्रीष्मशब्देन राजसः । शरच्छब्देन तामसः । त्रयो हि गुणास्तत्रात्मयज्ञे योगिनो जुह्वतीति ॥ १४ ॥
म० यत् यदा पूर्वोक्तक्रमेण देवशरीरेषु सत्सु देवाः उत्तरसृष्टिसिद्ध्यर्थं बाह्यद्रव्यस्यानुत्पन्नत्वेन पुरुषस्वरूपमेव मनसा हविष्ट्वेन संकल्प्य पुरुषेण पुरुषाख्येन हविषा मानसं यज्ञमतन्वतातनिषत तदानीमस्य यज्ञस्य वसन्तः ऋतुरेवाज्यमासीत् । आज्यत्वेन संकल्पितवन्त इत्यर्थः । एवं ग्रीष्मः इध्मः आसीत् । ग्रीष्ममेवेध्मत्वेन संकल्पितवन्तः । तथा शरत् हविः आसीत् । शरदमेव पुरोडाशादिहविष्ट्वेन संकल्पितवन्तः । पूर्वं पुरुषस्य हविःसामान्यरूपत्वेन संकल्पः अनन्तरं वसन्तादीनामाज्यादिविशेषरूपत्वेन संकल्प इति द्रष्टव्यम् । अत्र कण्डिकाव्युत्क्रमोऽस्ति अस्यानन्तरं तं यज्ञम् (९) ततः तस्माद्यज्ञादिति (६) तिस्रः क्रमेणैव । ततः सप्तास्यासन्निति (१५) क्रमोऽपेक्षितः ॥ १४ ॥

पञ्चदशी ।
स॒प्तास्या॑सन् परि॒धय॒स्त्रिः स॒प्त स॒मिध॑: कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न् पुरु॑षं प॒शुम् ।। १५ ।।
उ० सप्तास्यासन् सप्त अस्य आसन् परिधयः त्रिःसप्त समिधः कृताः । देवाः यत् यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् । देवा इन्द्रादयः यथा यजं पुरुषमेधाख्यं विस्तारयन्तः पुरुषं पशुम् अबध्नन् हतवन्तः अस्य पुरुषमेधयज्ञस्य सप्त समुद्राः परिधयः आसन् । भारते हि वर्षे यागः प्रवर्तते । त्रिःसप्त छन्दांसि गायत्र्यादीनि समिधः कृताः आत्मयागे परिधिशब्देन पृथिव्यापस्तेजोवायुराकाशं मनोबुद्धिरित्येते परिधयः कल्प्यन्ते । त्रिःसप्त समिधः । पञ्चमहाभूतानि पृथिव्यादीनि । पञ्चतन्मात्राणि रूपादीनि । पञ्च बुद्धीन्द्रियाणि श्रोत्रादीनि । पञ्च कर्मेन्द्रियाणि पाण्यादीनि मनश्च एताः त्रिःसप्त समिधः। कल्पयन्ति । तथा देवा दीप्यमाना ज्ञानेन योगिनः समाध्याख्यं यज्ञं तन्वाना विस्तारयन्तः । पुरुषं ज्ञानं पुरुषमेधपशुरूपेणावस्थितम् अबध्नन् अगृह्णन् ॥ १५ ॥
म० यत् यदा देवाः प्रजापतिप्राणेन्द्रियरूपाः यज्ञं तन्वानाः मानसं यज्ञं कुर्वाणाः पुरुषं पशुमबध्नन् विराट्पुरुषमेव पशुत्वेन भावितवन्तः । एतदेवाभिप्रेत्य पूर्वं ( १४ ) पुरुषेण हविषेत्युक्तम् । तदा संकल्पितस्य यज्ञस्य सप्त गायत्र्यादीनि छन्दांसि परिधयः आसन् ऐष्टिकस्याहवनीयस्य त्रयः परिधय औत्तरवेदिकाः त्रयः आदित्यः सप्तमः परिधिःप्रतिनिधिरूपः तथा च श्रुतिः 'गुप्त्यै वा अभितः परिधयो भवन्त्यथैतत्सूर्यमेव पुरस्ताद्गोप्तारं करोति' इति । तत एते आदित्यसहिताः सप्त परिधयोत्र सप्तच्छन्दोरूपाः। त्रिःसप्त त्रिगुणाः सप्त एकविंशतिसंख्याकाः समिधः कृताः 'द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्यः' एते एकविंशतिरेकविंशतिदारुयुक्तेध्मत्वेन भाविताः । यद्वा सप्त समुद्राः क्षीरोदादयोऽस्य यज्ञस्य परिधयः आसन् । भारतखण्डे यागा भवन्तीति समुद्राणां परिधित्वम् । त्रिः त्रिगुणाः सप्त छन्दोवर्गाः समिधः कृताः गायत्र्यादीनि सप्त अतिजगत्यादीनि सप्त कृत्यादीनि सप्तेति ॥ १५ ॥

षोडशी।
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मान॑: सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ।। १६ ।।
उ० यज्ञेन यज्ञम् । यज्ञेन यज्ञम् अयजन्त देवाः तानि धर्माणि प्रथमानि आसन् । ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः । यथा इन्द्रादयो देवाः यज्ञेन ज्योतिष्टोमाख्येन यज्ञपुरुषं वासुदेवम् विधिना अयजन्त । यतः तानि यजनरूपाणि धर्माणि प्रथमानि आसन् ते ह महाभाग्ययुक्ताः नाकं सचन्त स्वर्गं सेवन्ते । यत्र पूर्वे साध्याः प्रथमे सुराः सन्ति विद्यन्ते देवाः तेजसा देदीप्यमानाः । एवं योगिनोऽपि दीपनाद्देवा यज्ञेन समाधिना . नारायणाख्यं ज्ञानरूपम् अयजन्त । यतः तानि समाधिरूपाणि धर्माणि प्रथमान्यासन् । ते तु नाकं सनकादीनां स्थानं गच्छन्ति । ये तु योगिनो महिमानः जन्मान्तरैर्निर्धूतगुणाः शुद्धाः ते नारायणाख्यं पुरुषमाविशन्ति । मुक्तिं गच्छन्तीत्यर्थः ॥ १६॥
म० पूर्वप्रपञ्चेनोक्तमर्थं संक्षिप्याह । देवाः प्रजापतिप्राणरूपा यज्ञेन यथोक्तेन मानसेन संकल्पेन यज्ञेन यज्ञं यज्ञस्वरूपं प्रजापतिमयजन्त पूजितवन्तः । तस्मात्पूजनात् तानि प्रसिद्धानि धर्माणि जगद्रूपविकाराणां धारकाणि प्रथमानि मुख्यानि भूतानि आसन् । एतावता सृष्टिप्रतिपादकसूक्तभागार्थ उक्तः । अथोपासनतत्फलानुवादकभागार्थः संगृह्यते । यत्र यस्मिन्विराट्प्राप्तिरूपे नाके पूर्वे साध्याः पुरातनाः विराडुपाधिसाधकाः देवाः सन्ति तिष्ठन्ति तं नाकं विराट्प्राप्तिरूपं स्वर्गं ह एव ते महिमानः तदुपासका महात्मानः सचन्त सचन्ते समवयन्ति प्राप्नुवन्ति । अडभाव आर्षः। सृष्टेः प्रवाहनित्यतां दर्शयति । तदुक्तम् 'सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्' इति ॥ १६ ॥
इति पुरुषसूक्तानुवाकः ।

सप्तदशी।
अ॒द्भ्यः सम्भृ॑तः पृथिव्यै॒ रसा॑च्च वि॒श्वक॑र्मण॒: सम॑वर्त॒ताग्रे॑ ।
तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति॒ तन्मर्त्य॑स्य देव॒त्वमा॒जान॒मग्रे॑ ।। १७ ।।
उ० अद्भ्यः संभृतः । अद्भ्यः संभृतः पृथिव्यै रसात् च विश्वकर्मणः सम् अवर्तत अग्रे । तस्य त्वष्टा विदधत् रूपम् एति तत् मर्त्यस्य देवत्वम् आजानम् अग्रे । त्वष्टा प्रजापतिर्ब्रह्मा यद्रूपमेकांशभूतं विदधत्कृतवान् तदेव मर्त्यस्य मर्त्ये भूलोके देवत्वं प्रभुत्वम् आजानमाप्तमित्यर्थः । किंभूतोसौ । अद्भ्यः सकाशात् संभृतः पिण्डीभूतः पृथिव्या रसात् च । विश्वकर्मणः अग्रे प्रथमतः समवर्तत संयोगरूपेण कृतः । तस्यैव नान्यस्य तदेव कारणान्मर्त्ये प्राप्तवान् सतु पालनीयदानवादिविनाशनायेति ॥ १७ ॥
म० 'अद्भ्यः संभृत इत्युत्तरनारायणेनादित्यमुपस्थायेति' (१।३। ६ । २ । २०) षट् कण्डिका उत्तरनारायणम् । उपान्त्ये द्वे अनुष्टुभौ शेषास्त्रिष्टुभः आदित्यदेवत्याः । पूर्वकल्पे पुरुषमेधयाजी आदित्यरूपं प्राप्तः स्तूयते । अद्भ्यः जलात् पृथिव्याः सकाशाच्च पृथिव्यपां ग्रहणं भूतपञ्चकोपलक्षकम् । भूतपञ्चकात् यो रसः संभृतः पुष्टः । तथा विश्वं कर्म यस्य विश्वकर्मणः कालस्य रसात्प्रीतेः यो रसोऽग्रे प्रथमं समवर्तत समभवत् । भूतपञ्चकस्य कालस्य च सर्वं प्रति कारणत्वात्पुरुषमेधयाजिनो लिङ्गशरीरे पञ्च भूतानि तुष्टानि कालश्च । ततस्तुप्टेभ्यः कश्चिद्रसविशेषफलरूप उत्तमजन्मप्रद उत्पन्न इत्यर्थः । तस्य रसस्य रूपं विदधत् धारयन् त्वष्टा आदित्यः एति प्रत्यहमुदयं करोति । अग्रे प्रथमं मर्त्यस्य मनुष्यस्य सतस्तस्य पुरुषमेधयाजिनः आजानदेवत्वं मुख्यं देवत्वम् सूर्यरूपेण । द्विविधा देवाः कर्मदेवा आजानदेवाश्च । कर्मणोत्कृष्टेन देवत्वं प्राप्ताः कर्मदेवाः । सृष्ट्यादावुत्पन्ना आजानदेवाः । ते कर्मदेवेभ्यः श्रेष्ठाः 'ये शतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दः' ( बृह० मा० ४ । १ । ३५) इति श्रुतेः सूर्यादय आजानदेवाः ॥ १७॥

अष्टादशी।
वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑मादि॒त्यव॑र्णं॒ तम॑सः प॒रस्ता॑त् ।
तमे॒व वि॑दि॒त्वाति॑ मृ॒त्युमे॑ति॒ नान्यः पन्था॑ विद्य॒तेऽय॑नाय ।। १८ ।।
उ०. वेदाहम् वेद अहम् एतं पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् । तम् एव विदित्वा अतिमृत्युम् एति न अन्यः पन्था विद्यते अयनाय । ऋषेः प्रतिवचनम्। अहमेतं पुरुषं वेद । महान्तं देशकालाद्यवच्छेदरहितम् । आदित्यवर्णं स्वप्रकाशम् । तमसः परस्तात् अविद्यायाः भेददर्शनम् । तमेव विदित्वा अतिमृत्युम् एति अतिक्रम्य मृत्युं तं पुरुषमनुप्रविशति । न अन्यः पन्था मार्गः तस्यायनाय गमनाय विद्यते ॥ १८॥
म० एतं महान्तं सर्वोत्कृष्टं पुरुषं सूर्यमण्डलस्थमहं वेद जानामि इति ऋषेर्वचनम् । कीदृशम् । आदित्यवर्णमादित्यस्येव वर्णो यस्य तम् । उपमान्तराभावात्स्वोपमम् । तथा तमसः परस्ताद्दूरतरम् । तमोरहितमित्यर्थः । तमःशब्देनाविद्योच्यते । तमेवादित्यं विदित्वा ज्ञात्वा मृत्युमत्येति अतिक्रामति परंब्रह्म गच्छति । अयनायाश्रयायान्यः पन्था मार्गः न विद्यते । सूर्यमण्डलान्तःपुरुषमात्मरूपं ज्ञात्वैव मुक्तिः ॥ १८ ॥

एकोनविंशी।
प्र॒जाप॑तिश्च॒रति॒ गर्भे॑ अ॒न्तरजा॑यमानो बहु॒धा वि जा॑यते ।
तस्य॒ योनिं॒ परि॑ पश्यन्ति॒ धीरा॒स्तस्मि॑न् ह तस्थु॒र्भुव॑नानि॒ विश्वा॑ ।। १९ ।।
उ० किंभूतं तं विशिष्यते । प्रजापतिश्चरति । प्रजापतिः चरति गर्भे अन्तः अजायमानः बहुधा विजायते । तस्य योनिम् परिपश्यन्ति धीराः तस्मिन् ह तस्थुः भुवनानि विश्वा । स एव पुरुष एकांशभूतः प्रजापतिः अस्य गर्भस्यान्तः अजायमानः चरति चतुर्विधेषु भूतेषु । स एव जायमानः बहुधाऽनेकप्रकारं विजायते । ये धीराः योगिनः ते तस्य योनिं परिपश्यन्ति सर्वत्यागेन परिहरन्ति । विश्वे त्रैलोक्ये भुवनानि तस्मिन्नातस्थुः ॥ १९ ॥
म० यः सर्वात्मा प्रजापतिः अन्तर्हृदि स्थितः सन् गर्भे चरति गर्भमध्ये प्रविशति । यश्चाजायमानोऽनुत्पद्यमानो नित्यः सन् बहुधा कार्यकारणरूपेण विजायते मायया प्रपञ्चरूपेणोत्पद्यते । धीराः ब्रह्मविदस्तस्य प्रजापतेः योनिं स्थानं स्वरूपं परिपश्यन्ति अहं ब्रह्मास्मीति जानन्ति । विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि तस्मिन् ह तस्मिन्नेव कारणात्मनि ब्रह्मणि तस्थुः स्थितानि । सर्वं तदात्मकमेवेत्यर्थः ॥ १९ ॥

विंशी।
यो दे॒वेभ्य॑ आ॒तप॑ति॒ यो दे॒वानां॑ पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तो नमो॑ रु॒चाय॒ ब्राह्म॑ये ।। २० ।।
उ० यो देवेभ्यः । यः देवेभ्यः आतपति यः देवानां | पुरः हितः । पूर्वः यः देवेभ्यः जातः नमः रुचाय ब्राह्मये । अग्रे यो देवेभ्यः । योगिनस्तं नमन्ति ध्यायन्ति । यो देवेभ्यः सर्वेभ्यः आतपति अतिशयेन तेजसा तपति आदित्यरूपेणेत्यर्थः । यश्व देवानां पुरोऽग्रे इन्द्रत्वेन स्थितः। यश्च पूर्वः अग्रे ब्रह्मरूपेण देवेभ्यो जातः । तस्मै रुचाय तेजसे ब्राह्मये ब्रह्मपुरुषापत्याय नमः ॥ २० ॥ ।
म० यः प्रजापतिरादित्यरूपो देवेभ्योऽर्थायातपति द्योतते। यश्च देवानां पुरोहितः सर्वकार्येष्वग्रे नीतः । यश्च देवेभ्यः सकाशात्पूर्वः जातः प्रथममुत्पन्नः तस्मै आदित्याय नमः। कीदृशाय । रोचतेऽसौ रुचस्तस्मै दीप्यमानाय 'इगुपध-' (पा. ३ । १ । १३५ ) इति कप्रत्ययः । तथा ब्राह्मये ब्रह्मणोऽपत्यं ब्राह्मिः । इञि टिलोपः। ब्रह्मावयवभूताय वा ॥ २० ॥

एकविंशी।
रु॒चं ब्रा॒ह्मं ज॒नय॑न्तो दे॒वा अग्रे॒ तद॑ब्रुवन् ।
यस्त्वै॒वं ब्रा॑ह्म॒णो वि॒द्यात्तस्य॑ दे॒वा अ॑स॒न् वशे॑ ।। २१ ।।
उ० रुचं ब्राह्मम् । रुचं ब्राह्मम् जनयन्तः देवाः अग्रे तत् अब्रुवन् । यः त्वा एवम् ब्राह्मणः विद्यात् तस्य देवाः असन् वशे । रुचं देदीप्यमानं ब्राह्मं ब्रह्मण उत्पन्नं जनयन्तः सृष्ट्यर्थम् देवा योगिनः तेजसा दीप्यमानाः यत् अब्रुवन् यद्ब्रूयुः अग्रे प्रथमतः । किमूचुः । अपरोपि यो ब्राह्मणः स ब्रह्म विद्याज्जानीयात् तस्य देवा असन्वशे । सोऽपि सनकादीनां स्थानं गच्छतीत्यर्थः ॥ २१ ॥
म० देवाः दीप्यमानाः प्राणाः रुचं शोभनं ब्राह्मं ब्रह्मणोऽपत्यमादित्यं जनयन्तः उत्पादयन्तः अग्रे प्रथमं तत् वचोऽब्रुवन् ऊचुः । 'ब्राह्मो जातौ' (पा० ६ । ४ । १७१) इति निपातः । तत्किमत आह । यो ब्राह्मणः हे आदित्य, त्वा त्वामेवमुक्तविधिना उत्पन्नं विद्याज्जानीयात् तस्य ब्राह्मणस्य देवा वशे असन् वश्या भवन्ति । आदित्योपासिता जगत्पूज्यो भवतीत्यर्थः ॥ २१॥

द्वाविंशी।
श्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्या॑वहोरा॒त्रे पा॒र्श्वे नक्ष॑त्राणि रू॒पम॒श्विनौ॒ व्यात्त॑म् ।
इ॒ष्णन्नि॑षाणा॒मुं म॑ इषाण सर्वलो॒कं म॑ इषाण ।। २२ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां एकत्रिंशोऽध्यायः ॥ ३१॥
उ० श्रीश्च ते । श्रीः च ते लक्ष्मीः च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम्। इष्णन् इषाण अमुम् मे इषाण सर्वलोकम् मे इषाण। अस्य पुरुषस्यै
तेऽवयवाः । श्रीश्च लक्ष्मीश्च पत्न्यौ भार्ये । अहश्च रात्रिश्च ते पार्श्वे । नक्षत्राणि रूपम् । अश्विनौ व्यात्तं मुखम् । इष्णन इषाण स्वर्गस्य लोकस्य ईशानः । एतद्गुणविशिष्टः नाम मोक्षस्य ईशानः सर्वलोकस्य च स एव देवानामीशान इति ॥२२॥
इति शौनकप्रणीतं पुरुपसूक्तभाष्यं समाप्तम् ॥
म० ऋषिरादित्यं स्तुत्वा प्रार्थयते । हे आदित्य, श्री लक्ष्मीश्च ते तव पत्न्यौ । जायास्थानीये त्वद्वश्ये इत्यर्थ । यया सर्वजनाश्रयणीयो भवति सा श्री श्रीयतेऽनया श्री सपदित्यर्थः । यया लक्ष्यते दृश्यते जनै सा लक्ष्मी । सौन्दर्यमित्ययः । अहोरात्रे तव पार्श्वे पार्श्वस्थानीये । नक्षत्राणि गगनगास्तारा तव रूपम् । तवैव तेजसा भासमानत्वात् 'तेजसा गोलक सूर्यो नक्षत्राण्यम्बुगोलका' इति ज्योति शास्त्रोक्तेः । अश्विनौ द्यावापृथिव्यौ तव व्यात्तं विकासितमुखस्थानीये अश्नुवाते व्याप्नुतस्तौ अश्विनौ 'अश्विनौ द्यावापृथिव्यौ इमे हीदᳪं᳭ सर्वमश्नुवाता' इति श्रुते । य ईदृशस्तं त्वा याचे । इष्णन्कर्मफलमिच्छन्सन् इषाण इच्छ 'इषु इच्छायाम्' विकरणव्यत्यय । यद्वा 'इष आभीक्ष्ण्ये' क्र्यादिः अत्रेच्छार्थ । किमेषणीयं तत्राह । अमुं परलोकं मे मम इषाण मम परलोकः समीचीनोऽस्त्वितीच्छा । अमोघेच्छत्वादिष्टं भवतीत्यर्थः । सर्वं मे मम इषाण सर्वलोकात्मकोऽहं भवेयमितीच्छेत्यर्थ । मुक्तो भवेयमित्यर्थः । 'सर्वं खल्विदं ब्रह्म' इति सामश्रुतेः ॥ २२ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
नरमेधाध्याय एष एकत्रिंशोऽयमीरितः॥ ३१॥