महाभारतम्-01-आदिपर्व-189
← आदिपर्व-188 | महाभारतम् प्रथमपर्व महाभारतम्-01-आदिपर्व-189 वेदव्यासः |
आदिपर्व-190 → |
पुनरन्तर्हितायां तपत्यां मोहितस्य संवरणस्य समीपे अमात्यादीनामागमनं।। 1 ।।
अमात्येनाश्वासितस्य राज्ञः सूर्योपासनसमये वसिष्ठस्यागमनं।। 2 ।।
सूर्यसमीपं गत्वा वसिष्ठेनादित्यस्तुतिकरणं।। 3 ।।
स्तुत्या तुष्टेन सूर्येण संवरणार्थं वसिष्ठाय तपतीदानं।। 4 ।।
तस्मिन्नेव तपतीसंवरणयोर्विवाहः।। 5 ।।
तया सह तत्रैव रममाणस्य संवरणस्य राज्ये द्वादशवार्षिक्यनावृष्टिः।। 6 ।।
वसिष्ठेनानावृष्टिनिवर्तनं।। 7 ।।
तपत्युपाख्यानोपसंहारः।। 8 ।।
गन्धर्व उवाच।
एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिन्दिता।
तपतीतपतीत्येव विललापातुरो नृपः।। 1-189-1
प्रास्स्वलच्चासकृद्राजा पुनरुत्थाय धावति।
धावमानस्तु तपतीमदृष्ट्वैव महीपतिः।'
स तु राजा पुनर्भूमौ तत्रैव निपपात ह।। 1-189-2
अन्वेषमाणः सबलस्तं राजानं नृपोत्तमम्।
अमात्यः सानुयात्रश्च तं ददर्श महावने।। 1-189-3
क्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितम्।
त हि दृष्ट्वा महेष्वासं निरस्तं पतितं भुवि।। 1-189-4
बभूव सोऽस्य सचिवः संप्रदीप्त इवाग्निना।
त्वरया चोपसङ्गम्य स्नेहादागतसंभ्रमः।। 1-189-5
तं समुत्थापयामास नृपतिं काममोहितम्।
भूतलाद्भूमिपालेशं पितेव पतितं सुतम्।। 1-189-6
प्रज्ञया वयसा चैव वृद्धः कीर्त्या नयेन च।
अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः।। 1-189-7
उवाच चैनं कल्याण्या वाचा मधुरयोत्थिम्।
मा भैर्मनुजशार्दूल भद्रमस्तु तवानघ।। 1-189-8
क्षुत्पिपासापरिश्रान्तं तर्कयामास वै नृपम्।
पतितं पातनं सङ्ख्ये शात्रवाणां महीतले।। 1-189-9
वारिणा च सुशीतेन शिरस्तस्याभ्यषेचयत्।
अस्पृशन्मुकुटं राज्ञः पुण्डरीकसुगन्धिना।। 1-189-10
ततः प्रत्यागतप्राणस्तद्बलं बलवान्नृपः।
सर्वं विसर्जयामास तमेकं सचिवं विना।। 1-189-11
ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद्बलम्।
स तु राजा गिरिप्रस्थे तस्मिन्पुनरुपाविशत्।। 1-189-12
ततस्तस्मिन् गिरिवरे शुचिर्भूत्वा कृताञ्जलिः।
आरिराधयिषुः सूर्यं तस्थावूर्ध्वमुखः क्षितौ।। 1-189-13
जगाम मनसा चैव वसिष्ठमृषिसत्तमम्।
पुरोहितममित्रघ्नं तदा संवरणो नृपः।। 1-189-14
नक्तन्दिनमथैकत्र स्थिते तस्मिञ्जनाधिपे।
अथाजगाम विप्रर्षिस्तदा द्वादशमेऽहनि।। 1-189-15
स विदित्वैव नृपतिं तपत्या हृतमानसम्।
दिव्येन विधिना ज्ञात्वा भावितात्मा महानृपिः।। 1-189-16
तथा तु नियतात्मानं तं नृपं मुनिसत्तमः।
आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया।। 1-189-17
स तस्य मनुजेन्द्रस्य पश्यतो भगवानृषिः।
ऊर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः।। 1-189-18
योजनानां तु नियुतं क्षणाद्गत्वा तपोधनः।'
सहस्रांशुं ततो विप्रः कृताञ्जलिरुपस्थितः।
वसिष्ठोहमिति प्रीत्या स चात्मानं न्यवेदयत्।। 1-189-19
तमुवाच महातेजा विवस्वान्मुनिसत्तमम्।
महर्षे स्वागतं तेऽस्तु कथयस्व यथेप्सितम्।। 1-189-20
यदिच्छसि महाभाग मत्तः प्रवदतां वर।
तत्ते दद्यामभिप्रेतं यद्यपि स्यात्सुदुर्लभम्।। 1-189-21
एवमुक्तः स तेनर्षिर्वसिष्ठः संस्तुवन्गिरा।
प्रणिपत्य विवस्वन्तं भानुमन्तमथाब्रवीत्।। 1-189-22
`योजनानां चतुष्षष्टिं निमेषात्त्रिशतं तथा।
अश्वैर्गच्छति नित्यं यस्तत्पार्श्वस्थोऽब्रवीदिदम्।। 1-189-23
वसिष्ठ उवाच।
अजाय लोकत्रयपावनाय
भूतात्मने गोपतये वृषाय।
सूर्याय सर्गप्रलयालयाय
नमो महाकारुणिकोत्तमाय।। 1-189-24
विवस्वते ज्ञानभृतेऽन्तरात्मने
जगत्प्रदीपाय जगद्धितैषिणे।
स्वयंभुवे दीप्तसहस्रचक्षुषे
सुरोत्तमायामिततेजसे नमः।। 1-189-25
नमः सवित्रे जगदेकचक्षुषे
जगत्प्रसूतिस्थितिनाशहेतवे।
त्रयीमयाय त्रिगुणात्मधारिणे
विरिञ्चनारायणशङ्करात्मने।। 1-189-26
सूर्य उवाच।
संस्तुतो वरदः सोऽहं वरं वरय सुव्रत।
स्तुतिस्त्वयोक्ता भक्तानां जप्येयं वग्दोस्म्यहम्'।। 1-189-27
वसिष्ठ उवाच।
यैषा ते तपती नाम सावित्र्यवरजा सुता।
तां त्वां संवरणस्यार्थे वरयामि विभावसो।। 1-189-28
स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधीः।
युक्तः संवरणो भर्ता दुहितुस्ते विहङ्गम।। 1-189-29
गन्धर्व उवाच।
इत्युक्तः स तदा तेन ददानीत्येव निश्चितः।
प्रत्यभाषत तं विप्रं प्रतीनन्द्य दिवाकरः।। 1-189-30
वरः संवरणो राज्ञां त्वमृषीणां वरो मुने।
तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात्।। 1-189-31
ततः सर्वानवद्याङ्गीं तपतीं तपनः स्वयम्।
ददौ संवरणस्यार्थे वसिष्ठाय महात्मने।। 1-189-32
प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा।
वसिष्ठोऽथ विसृष्टस्तु पुनरेवाजगाम ह।। 1-189-33
यत्र विख्यातकीर्तिः स कुरूणामृषभोऽभवत्।
स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना।। 1-189-34
दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम्।
वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ।। 1-189-35
रुरुचे साऽधिकं सुभ्रूरापतन्ती नभस्तलात्।
सौदामनीव विभ्रष्टा द्योतयन्ती दिशस्त्विषा।। 1-189-36
कृच्छ्राद्द्वादशरात्रे तु तस्य राज्ञः समाहिते।
आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः।। 1-189-37
तपसाऽऽराध्य वरदं देवं गोपतिमीश्वरम्।
लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा।। 1-189-38
ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते।
जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः।। 1-189-39
वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे।
सोऽकामयत राजर्षिर्विहर्तुं सह भार्यया।। 1-189-40
ततः पुरे च राष्ट्रे च वनेषूपवनेषु च।
आदिदेश महीपालस्तमेव सचिवं तदा।। 1-189-41
नृपतिं त्वभ्यनुज्ञाप्य वसिष्ठोऽथापचक्रमे।
सोऽथ राजा गिरौ तस्मिन्विजहारामरो यथा।। 1-189-42
ततो द्वादशवर्षाणि काननेषु वनेषु च।
रेमे तस्मिन्गिरौ राजा तयैव सह भार्यया।। 1-189-43
तस्य राज्ञः पुरे तस्मिन्समा द्वादश सत्तम।
न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य भारत।। 1-189-44
ततस्तस्यामनावृष्ट्यां प्रवृत्तायामरिन्दम।
प्रजाः क्षयमुपाजग्मुः सर्वाः सस्थाणुजङ्गमाः।। 1-189-45
तस्मिंस्तथाविधे काले वर्तमाने सुदारुणे।
नावश्यायः पपातोर्व्यां ततः सस्यानि नाऽरुहन्।। 1-189-46
ततो विभ्रान्तमनसो जनाः क्षुद्भपीडिताः।
गृहाणि संपरित्यज्य बभ्रमुः प्रदिशो दिशः।। 1-189-47
ततस्तस्मिन्पुरे राष्ट्रे त्यक्तदारपरिग्रहाः।
परस्परममर्यादाः क्षुधार्ता जघ्निरे जनाः।। 1-189-48
तत्क्षुधार्तैर्निरानन्दैः शवभूतैस्तथा नरैः।
अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम्।। 1-189-49
ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः।
अभ्याद्रवत धर्मात्मा वसिष्ठो मुनिसत्तमः।। 1-189-50
तं च पार्थिवशार्दूलमानयामास तत्पुरम्।
तपत्या सहितं राजन्वर्षे द्वादशमे गते।
ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा।। 1-189-51
तस्मिन्नृपतिशार्दूले प्रविष्टे नगरं पुनः।
प्रववर्ष सहस्राक्षः सस्यानि जनयन्प्रभुः।। 1-189-52
ततः सराष्ट्रं मुमुदे तत्पुरं परया मुदा।
तेन पार्थिवमुख्येन भावितं भावितात्मना।। 1-189-53
ततो द्वादश वर्षाणि पुनरीजे नराधिपः।
तपत्या सहितः पत्न्या यथा शच्या मरुत्पतिः।। 1-189-54
गन्धर्व उवाच।
एवमासीन्महाभागा तपती नाम पौर्विकी।
तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः।। 1-189-55
तस्यां संजनयामास कुरुं संवरणो नृपः।
तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन।। 1-189-56
।। इति श्रीमन्महाभारते आदिपर्वणि
चैत्ररथपर्वणि एकोननवत्यधिकशततमोऽध्यायः।। 189 ।।
1-189-10 मुकुटं तत्स्थानं ललाटम्।। 1-189-15 द्वादशमे द्वादशसंख्यया मिते।। 1-189-16 दिव्येन विधिना योगबलेन।। एकोननवत्यधिकशततमोऽध्यायः।। 189 ।।
आदिपर्व-188 | पुटाग्रे अल्लिखितम्। | आदिपर्व-190 |