महाभारतम्-01-आदिपर्व-067
← आदिपर्व-066 | महाभारतम् प्रथमपर्व महाभारतम्-01-आदिपर्व-067 वेदव्यासः |
आदिपर्व-068 → |
ऋष्यादिवंशकथनम्।। 1 ।।
वैशंपायन उवाच।
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः।
एकादश सुताः स्थाणोः ख्याताः परमतेजसः।। 1-67-1
मृगव्याधश्च सर्पश्च निर्ऋतिश्च महायशाः।
अजैकपादहिर्बिध्न्यः पिनाकी च परन्तपः।। 1-67-2
दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः।
स्थाणुर्भगश्च भगवान् रुद्रा एकादश स्मृताः।। 1-67-3
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः।
षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः।। 1-67-4
त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः।
बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः।। 1-67-5
अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप।
सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः।। 1-67-6
राक्षसाश्च पुलस्त्यस्य वानराः किन्नरास्तथा।
यक्षाश्च मनुजव्याघ्र पुत्रास्तस्य च धीमतः।। 1-67-7
पुलहस्य सुता राजञ्शरभाश्च प्रकीर्तिताः।
सिंहाः किपुरुषा व्याघ्रा ऋक्षा ईहामृगास्तथा।। 1-67-8
क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः।
विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः।। 1-67-9
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः।
ब्रह्मणः पृथिवीपाल शान्तात्मा सुमहातपाः।। 1-67-10
वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः।
तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः।। 1-67-11
ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः।
पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः।। 1-67-12
ददौ स दश धर्माय सप्तविंशतिमिन्दवे।
दिव्येन विधिना राजन्कश्यपाय त्रयोदश।। 1-67-13
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे।
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा।। 1-67-14
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश।
द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा।। 1-67-15
सप्तविंशतिः सोमस्य पत्न्यो लोकस्य विश्रुताः।
कालस्य नयने युक्ताः सोमपत्न्याः शुचिव्रताः।। 1-67-16
सर्वा नक्षत्रयोगिन्यो लोकयात्राविधानतः।
पैतामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः।
तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम्।। 1-67-17
धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः।। 1-67-18
धूम्रायास्तु धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा।
चन्द्रमास्तु मनस्विन्याः श्वासायाः श्वसनस्तथा।। 1-67-19
रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः।
प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ।। 1-67-20
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा।
आपस्य पुत्रो वैतण्ड्यः श्रमः शान्तोमुनिस्तथा'।
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः।। 1-67-21
सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते।
मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा।। 1-67-22
अह्नः सुतस्तथा ज्योतिः शमः शान्तस्तथा मुनिः।
अग्नेः पुत्रः कुमारस्तु श्रीमाञ्छरवणालयः।। 1-67-23
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः।
कृत्तिकाभ्युपपत्तेश्च कार्तिकेय इति स्मृतः।। 1-67-24
अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः।
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु।। 1-67-25
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाऽथ देवलम्।
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ।
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मवादिनी।। 1-67-26
योगसिद्धा जगत्कृत्स्नमसक्ता विचचार ह।
प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह।। 1-67-27
विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः।
कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः।। 1-67-28
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः।
यो दिव्यानि विमानानि त्रिदशानां चकार ह।। 1-67-29
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः।
पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम्।। 1-67-30
स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः।
निःसृतो भगवान्धर्मः सर्वलोकसुखावहः।। 1-67-31
त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः।
शमः कामश्च हर्षश्च तेजसा लोकधारिणः।। 1-67-32
कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना।
नन्दा तु भार्या हर्षस्य यासु लोकाः प्रतिष्ठिताः।। 1-67-33
मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः।
जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः।। 1-67-34
त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी।
असूयत महाभागा सान्तरिक्षेऽस्विनावुभौ।। 1-67-35
द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप।
तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः।। 1-67-36
त्रयस्त्रिंशत यत्येते देवास्तेषामहं तव।
अन्वयं संप्रवक्ष्यामि पक्षैश्च कुलतो गणान्।। 1-67-37
रुद्राणामपरः पक्षः साध्यानां मरुतां तथा।
वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च।। 1-67-38
वैनतेयस्तु गरुडो बलवानरुणस्तथा।
बृहस्पतिश्च भगवानादित्येष्वेव गण्यते।। 1-67-39
अश्विनौ गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून्।
एते देवगणा राजन्कीर्तितास्तेऽनुपूर्वशः।। 1-67-40
यान्कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते।
ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः।। 1-67-41
भृगोः पुत्रः कविर्विद्वाञ्छुक्रः कविसुतो ग्रहः।
त्रैलोक्यप्राणयात्रार्थं वर्षावर्षे भयाभये।
स्वयंभुवा नियुक्तः सन्भुवनं परिधावति।। 1-67-42
योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः।
सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः।। 1-67-43
तस्मिन्नियुक्ते विधिना योगक्षेमाय भार्गवे।
अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम्।। 1-67-44
च्यवनं दीप्ततपसं धर्मात्मानं यशस्विनम्।
यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत।। 1-67-45
आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः।
और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः।। 1-67-46
महातेजा महावीर्यो बाल एव गुणैर्युतः।
ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत्।। 1-67-47
जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः।
रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः।
सर्वशस्त्रेषु कुशलः क्षत्रियान्तकरो वशी।। 1-67-48
और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम्।
तेषां पुत्रसहस्राणि बभूवुर्भुवि विस्तरः।। 1-67-49
द्वौ पुत्रो ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम्।
लोके धाता विधाता च यौ स्थितौ मनुना सह।। 1-67-50
तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा।
तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः।। 1-67-51
वरुणस्य भार्या या ज्येष्ठा शुक्राद्देवी व्यजायत।
तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम्।। 1-67-52
प्रजानामन्नकामानामन्योन्यपरिभक्षणात्।
अधर्मस्तत्र संजातः सर्वभूतविनाशकः।। 1-67-53
तस्यापि निर्ऋतिर्भार्या नैर्ऋता येन राक्षसाः।
घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा।। 1-67-54
भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा।
न तस्य भार्या पुत्रो वा कश्चिदस्त्यन्तको हि सः।। 1-67-55
काकीं श्येनीं तथा भासीं धृतराष्ट्रीं तथा शुकीम्।
ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः।। 1-67-56
उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत।
भासी भासानजनयद्गृध्रांश्चैव जनाधिप।। 1-67-57
धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः।
चक्रवाकांश्च भद्रा तु जनयामास सैव तु।। 1-67-58
शुकी च जनयामास शुकानेव यशस्विनी।
कल्याणगुणसंपन्ना सर्वलक्षणपूजिता।। 1-67-59
नव क्रोधवशा नारीः प्रजज्ञे क्रोधसंभवाः।
मृगी च मृगमन्दा च हरी भद्रमना अपि।। 1-67-60
मातङ्गी त्वथ शार्दूली श्वेता सुरभिरेव च।
सर्वलक्षणसंपन्ना सुरसा चैव भामिनी।। 1-67-61
अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम।
ऋक्षाश्च मृगमन्दायाः सृमराश्च परंतप।। 1-67-62
ततस्त्वैरावतं नागं जज्ञे भद्रमनाः सुतम्।
ऐरावतः सुतस्तस्या देवनागो महागजः।। 1-67-63
हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः।
गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते।। 1-67-64
प्रजज्ञे त्वथ शार्दूली सिंहान्व्याग्राननेकशः।
द्वीपिनश्च महासत्वान्सर्वानेव न सशंयः।। 1-67-65
मातङ्ग्यपि च मातङ्गानपत्यानि नराधिप।
दिशां गजं तु श्वेताख्यं श्वेताऽजनयदाशुगम्।। 1-67-66
तथा दुहितरौ राजन्सुरभिर्वै व्यजायत।
रोहिणी चैव भद्रं ते गन्धर्वी तु यशस्विनी।। 1-67-67
विमलामपि भद्रं ते अनलामपि भारत।
रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः।। 1-67-68
`इरायाः कन्यका जातास्तिस्रः कमललोचनाः।
वनस्पतीनां वृक्षाणां वीरुधां चैव मातरः।। 1-67-69
लतारुहे च द्वे प्रोक्ते वीरुधां चैव ताः स्मृताः।
गृह्णन्ति ये विना पुष्पं फलानि तरवः पृथक्।। 1-67-70
लतासुतास्ते विज्ञेयास्तानेवाहुर्वनस्पतीन्।
पुष्पैः फलग्रहान्वृक्षान्रुहायाः प्रसवं विदुः।। 1-67-71
लतागुल्मानि वृक्षाश्च त्वक्सारतृणजन्तवः।
वीरुधो याः प्रजास्तस्यास्तत्र वंशः समाप्यते।। 1-67-72
सप्तपिम्डफलान्वृक्षाननलापि व्यजायत।। 1-67-73
अनलायाः शुकी पुत्री कंकस्तु सुरसासुतः।
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ।। 1-67-74
संपातिं जनयामास वीर्यवन्तं जटायुषम्।
सुरसाऽजनयन्नागान्कद्रूः पुत्रांस्तु पन्नगान्।। 1-67-75
द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ।
इत्येष सर्वभूतानां महतां मनुजाधिप।
प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर।। 1-67-76
यं श्रुत्वा पुरुषः सम्यङ्मुक्तो भवति पाप्मनः।
सर्वज्ञतां च लभते रतिमग्र्यां च विन्दति।। 1-67-77
।। इति श्रीमन्महाभारते आदिपर्वणि
संभवपर्वणि सप्तषष्टितमोऽध्यायः।। 67 ।।
1-67-1 ब्रह्मण इति षण्महर्षयः स्थाणुश्च सप्तम इति बोध्यम्। तत्रादौ स्थाणुसंततिमेवाह एकादशेति। एकादश तथा रुद्राः स्थाणोश्चैव हि मानसाः इति पाठान्तरम्। अत्र स्थिरत्वात्स्थाणुर्ब्रह्मा।। 1-67-5 बृहस्पतिरुचथ्यश्चेति पाठान्तरम्।। 1-67-8 ईहामृगाः वृकाः।। 1-67-9 पतङ्गसहचारिणः सूर्यसहचरा वालखिल्याः।। 1-67-16 नयने ज्ञापने।। 1-67-17 नक्षत्रयोगिन्यो नक्षत्रनामयुक्ताः। विधानतः विधानार्थमभवन्। पैतामहो देवो धर्मः पितामहस्तनाज्जातत्वात्। तस्य पितामहस्य पुत्रो दक्षः तदङ्गुष्ठाज्जातत्वात्। तस्य संबन्धिनी वसुनाम्नी कन्या तस्यां धर्माद्वसवोष्टौ जाता इत्यर्थः। वसोस्तु वसवः पुत्रा इत्यन्यत्रोक्तेः।। 1-67-19 धूम्राय इति वसोरेव धूम्रादीनि नामान्तराणि कल्पभेदात्। अन्या एता न दक्षकन्या इति वा।। 1-67-24 कृत्तिकानां षण्णां मातृत्वेनाभ्युपपत्तेरङ्गीकारात्।। 1-67-35 बडवा अश्वा अन्तरिक्षे अश्विनावसूत नासिकायां शुक्रप्रक्षेपात्।। 1-67-37 त्रयस्त्रिंशत् अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च।। 1-67-43 योगाचार्य इति। चापी व्यस्तौ। सुराणामपि च गुरुरिति संबन्धः। देवानां गुरुरेव योगाचार्यो योगबलेन कायद्वयं कृत्वा दैत्यानामप्याचार्योऽभवदित्यर्थः।। 1-67-73 पिण्डफलान्सप्त। खर्जूरतालहिंताला ताली खर्जूरिका तथा। गुवाकानारिकेलश्च सप्त पिण्डफला द्रुमाः इत्युक्तरूपान्। इह पुराणान्तरविरोधो नामभेदात्कल्पभेदाद्वापनेयः।। सप्तषष्टितमोऽध्यायः।। 67 ।।
आदिपर्व-066 | पुटाग्रे अल्लिखितम्। | आदिपर्व-068 |