महाभारतम्-01-आदिपर्व-024
← आदिपर्व-023 | महाभारतम् प्रथमपर्व महाभारतम्-01-आदिपर्व-024 वेदव्यासः |
आदिपर्व-025 → |
राहुणा कृतोपद्रवस्य सूर्यस्य क्रोधः।। 1 ।। ब्रह्माज्ञयाऽरुणस्य सूर्यसारथ्यकरणम्।। 2 ।।
सौतिरुवाच।
स श्रुत्वाऽथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम्।
शरीरप्रतिसंहारमात्मनः संप्रचक्रमे।। 1-24-1a
सुपर्ण उवाच।
न मे सर्वाणि भूतानि विभियुर्देहदर्शनात्।
भीमरूपात्समुद्विग्रास्तस्मात्तेजस्तु संहरे।। 1-24-2a
सौतिरुवाच।
ततः कामगमः पक्षी कामवीर्यो विहंगमः।
अरुणं चात्मनः पृष्ठमारोप्य स पितुर्गृहात्।। 1-24-3a
मातुरन्तिकमागच्छत्परं तीरं महोदधेः।
तत्रारुणश्च निक्षिप्तो पुरोदेशे महाद्युतेः।। 1-24-4a
सूर्यस्तेजोभिरत्युग्रैर्लोकान्दग्धुमना यदा। 1-24-5a
रुरुरुवाच।
किमर्थं भगवान्सूर्यो लोकान्दग्धुमनास्तदा।। 1-24-5b
किमस्तापहृतं देवैर्येनमं मन्युराविशत्। 1-24-6a
प्रमतिरुवाच।
चन्द्रार्काभ्यां यदा राहुराख्यातो ह्यमृतं पिबन्।। 1-24-6b
वैरानुबन्धं कृतवांश्चन्द्रादित्यौ तदाऽनघ।
बाध्यमानं ग्रहेणाथ ह्यादित्यं मन्युराविशत्।। 1-24-7a
सुरार्थाय समुत्पन्नो रोषो राहोस्तु मां प्रति।
बह्वनर्थकरं पापमेकोऽहं समवाप्नुयाम्।। 1-24-8a
सहाय एव कार्येषु न च कृच्छ्रेषु दृश्यते।
पश्यन्ति ग्रस्यमानं मां सहन्ते वै दिवौकसः।। 1-24-9a
तस्माल्लोकविनाशार्थं ह्यवतिष्ठे न संशयः।
एवं कृतमतिः सूर्यो ह्यस्तमभ्यगमद्गिरिम्।। 1-24-10a
तस्माल्लोकविनाशाय संतापयत भास्करः।
ततो देवानुपागम्य प्रोचुरेवं महर्षयः।। 1-24-11a
आद्यार्धरात्रसमये सर्वलोकभयावहः।
उत्पत्स्यते महान्दाहस्त्रैलोक्यस्य विनाशनः।। 1-24-12a
ततो देवाः सर्षिगणा उपगम्य पितामहम्।
अब्रुवन्किमिवेहाद्य महद्दाहकृतं भयम्।। 1-24-13a
न तावद्दृश्यते सूर्यः क्षयोऽयं प्रतिभाति च।
उदिते भगवन्भानौ कथनेतद्भविष्यति।। 1-24-14a
पितामह उवाच।
एष लोकविनाशाय रविरुद्यन्तुमुद्यतः।
दृश्यन्नेव हि लोकान्स भस्मराशीकरिष्यति।। 1-24-15a
तस्य प्रतिविधानं च विहितं पूर्वमेव हि।
कश्यपस्य सुतो धीमानरुणेत्यभिविश्रुतः।। 1-24-16a
महाकायो महातेजाः स स्थास्यति पुरो रवेः।
करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति।। 1-24-17a
लोकानां स्वस्ति चैवं स्यादृषीणां च दिवौकसाम्। 1-24-18a
प्रमतिरुवाच।
ततः पितामहाज्ञातः सर्वं चक्रे तदाऽरुणः।। 1-24-18b
उदितश्चैव सविता ह्यरुणेन समावृतः।
एतत्ते सर्वमाख्यातं यत्सूर्यं मन्युराविशत्।। 1-24-19a
अरुणश्च यथैवास्य सारथ्यमकरोत्प्रभुः।
भूय एवापरं प्रश्नं शृणु पूर्वमुदाहृतम्।। 1-24-20a
।। इति श्रीमन्महाभारते आदिपर्वणि
आस्तीकपर्वणि चतुर्विंशोऽध्यायः।। 24 ।।
1-24-2 समुद्विग्नाः समुद्विग्नानि।। 1-24-7 चन्द्रादित्यौ प्रतीति शेषः।। 1-24-12 किमुत सूर्ये उदिते इति शेः।। चतुर्विंशोऽध्यायः।। 24 ।।
आदिपर्व-023 | पुटाग्रे अल्लिखितम्। | आदिपर्व-025 |