महाभारतम्-13-अनुशासनपर्व-189
← अनुशासनपर्व-188 | महाभारतम् त्रतयोदशपर्व महाभारतम्-13-अनुशासनपर्व-189 अज्ञातलेखकः |
अनुशासनपर्व-190 → |
विष्णुनेन्द्रंप्रति स्वप्रीतिकरधर्मकथनम्।। 1 ।। तता बलदेवदेवाग्निविश्वामित्रादिभिः पृथक्पृथग्धर्मविशेषकथनम्।। 2 ।।
भीष्म उवाच।
केन ते च भवेत्प्रीतिः कथं तुष्टिं तु गच्छसि।
इति पृष्टः सुरेन्द्रेण प्रोवाच हरिरीश्वरः।। 1
ब्राह्मणानां परीवादो मम विद्वेषणं महत्।
ब्राह्मणैः पूजितैर्नित्यं पूजितोऽहं न संशयः।। 2
नित्याभिवाद्या विप्रेन्द्रा भुक्त्वा पादौ तथाऽऽत्मनः।
तेषां तुष्यामि मर्त्यानां यश्चक्रे च बलिं हरेत्।। 3
वामनं ब्राह्मणं दृष्ट्वा वराहं च जलोत्थितम्।
उद्धृतां धरणीं चैव मूर्ध्ना धारयते तु यः।
न तेषामशुभं किञ्चित्कल्मषं चोपपद्यते।। 4
अश्वत्थं रोचनां गां च पूजयेद्यो नरः सदा।
पूजितं च जगत्तेन सदेवासुरमानुषम्।। 5
तेन रूपेण तेषां च पूजां गृह्णामि तत्त्वतः।
पूजा ममैषा नास्त्यन्या यावल्लोकाः प्रतिष्ठिताः।। 6
अन्यथा हि वृथा मर्त्याः पूजयन्त्यल्पबुद्ध्यः।
नाहं तत्प्रतिगृह्णामि न सा तुष्टिकरी मम।। 7
इन्द्र उवाच।
चक्रं पादौ वराहं च ब्राह्मणं चापि वामनम्।
उद्धृतां धरणीं चैव किमर्थं त्वं प्रशंससि।। 8
भवान्सृजति भूतानि भावन्संहरति प्रजाः।
प्रकृतिः सर्वभूतानां समर्त्यानां सनातनी।। 9
भीष्म उवाच।
सम्प्रहस्य ततो विष्णुरिदं वचनमब्रवीत्।
चक्रेण निहता दैत्याः पद्म्यां क्रान्ता वसुन्धरा।। 10
वाराहं रूपमास्थाय हिरण्याक्षो निपातितः।
वामनं रूपमास्थाय जितो राजा मया बलिः। 11
परितुष्टो भवाम्येवं मानुषाणां महात्मनाम्।
तन्मां ये पूजयिष्यन्ति नास्ति तेषां पराभवः।। 12
अपि वा ब्राह्म्णं दृष्ट्वा ब्रह्म चारिणमागतम्।
ब्राह्मणाग्र्याहुतिं दत्त्वा अमृतं तस्य भोजनम्।। 13
ऐन्द्रीं संध्यामुपासित्वा आदित्याभिमुखः स्थितः।
सर्वतीर्थेषु स स्नातो मुच्यते सर्वकिल्बिषैः।। 14
एतद्वः कथितं गुह्यमखिलेनि तपोधनाः।
संशयं पृच्छमानानां किं भूयः कथयाम्यहम्।। 15
बलदेव उवाच।
श्रूयतां परमं गुह्यं मानुषाणां सुखावहम्।
अजानन्तो यदबुधाः क्लिश्यन्ते भूतपीडिताः।। 16
कल्य उत्थाय यो मर्त्यः स्पृशेद्गां वै घृतं दधि।
सर्षपं च प्रियङ्गं च कल्मषात्प्रतिमुच्यते।। 17
भूतानि चैव सर्वाणि अग्रतः पृष्ठतोपि वा।
उच्छिष्टं वाऽपि च्छिद्रेषु वर्जयन्ति तपोधनाः।। 18
देवा ऊचुः।
प्रगृह्यौदुम्बरं पात्रं तोयपूर्णमुदङ्भुखः।
उपवासं तु गृह्णीयाद्यद्वा सङ्कल्पयेद्व्रतम्।। 19
देवतास्तस्य तुष्यन्ति कामिकं चापि सिध्यति।
अन्यथा हि वृथा मर्त्याः कुर्वते स्वल्पबुद्धयः।। 20
उपवासे बलौ चापि ताम्रपात्रं विशिष्यते।
बलिर्भिक्षा तथाऽर्ध्यं च पितॄणां च तिलोदकं 21
ताम्रपात्रेण दातव्यमन्यथाऽल्पफलं भवेत्।
गुह्यमेतत्समुद्दिष्टं यथा तुष्यन्ति देवताः।। 22
धर्म उवाच।
राजपौरुषिके विप्रे घाण्टिके परिचारिके।
गोरक्षके वाणिजके तथा कारुकुशीलवे।। 23
मित्रद्रुह्यनधीयाने यश्च स्याद्वृषलीपतिः।
एतेषु दैवं पित्र्यं वा न देयं स्यात्कथञ्चन।
पिण्डदास्तस्य हीयन्ते न च प्रीणाति वै पितॄन्।। 24
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते।
पितरस्तस्य देवाश्च अग्नयश्च तथैव हि।
निराशाः प्रतिगच्छन्ति अतिथेरप्रतिग्रहात्।। 25
स्त्रीघ्नैर्गोघ्नैः कृतघ्नैश्च ब्रह्मघ्नैर्गुरुतल्पगैः।
तुल्यदोषो भवत्येभिर्यस्यातिथितरनर्चितः।। 26
अग्निरुवाच।
पादमुद्यम्य यो मर्त्यः स्पृशेद्गाश्च सुदुर्मतिः।
ब्राह्मणं वा महाभागं दीप्यमानं तथाऽनलम्।
तस्य दोषान्प्रवक्ष्यामि तच्छृणुध्वं समाहिताः।। 27
दिवं स्पृशत्यशब्दोऽस्य त्रस्यन्ति पितरश्च वै।
वैमनस्यं च देवानां कृतं भवति पुष्कलम्।
पावकश्च महातेजा हव्यं न प्रतिगृह्णति।। 28
आजन्मनां शतं चैव नरके पच्यते तु सः।
निष्कृतिं च न तस्यापि अनुमन्यन्ति कर्हिचित्।। 29
तस्माद्गावो न पादेन स्प्रष्टव्या वै कदाचन।
ब्राह्मणश्च महातेजा दीप्यमानस्तथाऽनलः।
श्रद्दधानेन मर्त्येन आत्मनो हितमिच्छता।। 30
एते दोषा मया प्रोक्तास्त्रिषु यः पादमुत्सृजेत्। 31
विश्वामित्र उवाच।
श्रूयतां परमं गुह्यं रहस्यं धर्मसंहितम्।
परमान्नेन यो दद्यात्पितॄणामौपहारिकम्।। 32
गजच्छायायां पूर्वस्यां कुतपे दक्षिणामुखः।
यदा भाद्रपदे मासि भवते बहुले मघा।। 33
श्रूयतां तस्य दानस्य यादृशो गुणविस्तरः।
कृतं तेन महच्छ्राद्धं वर्षाणीह त्रयोदश।। 34
बहपल् समङ्गे ह्यकुतोभये च
क्षेमे च संख्येव हि भूयसी च।
यथा पुरा ब्रह्मपुरे सवत्सा
शतक्रतोर्वज्रधरस्य यज्ञे।। 35
भूयश्च या विष्णुपदे स्थिताया
विभावसोश्चापि पथे स्थिता या।
देवाश्च सर्वे सह नारदेन
प्रकुर्वते सर्वसहेति नाम।। 36
मन्त्रेणैतेनाभिवन्देत यो वै
विमुच्यते पापकृतेन कर्मणा।
लोकानवाप्नोति पुरंदरस्य
गवां फलं चन्द्रमसो द्युतिं च।। 37
एवं हि मन्त्रं त्रिदशाभिजुष्टं
पठेत यः पर्वसु गोष्ठमध्ये।
न तस्यि पापं न भयं न शोकः
सहस्रनेत्रस्य च याति लोकम्।। 38
भीष्म उवाच।
अथ सप्त महाभाग ऋषयो लोकविश्रुताः।
वसिष्ठप्रमुखाः सर्वे ब्रह्मणं पद्मसम्भवम्। 39
प्रदक्षिणमभिक्रम्य सर्वे प्राञ्जलयः स्थिताः।।
उवाच वचनं तेषां वसिष्ठो ब्रह्मवित्तमः। 40
सर्वप्राणिहितं प्रश्नं ब्रह्मिक्षत्रे विशेषतः।।
द्रव्यहीनाः कथं मर्त्या दरिद्राः साधुवर्तिनः। 41
प्राप्नुवन्तीह यज्ञस्य फलं केन च कर्मणा।।
एतच्छ्रुत्वा वचस्तेषां ब्रह्मा वचनमब्रवीत्।। 42
अहो प्रश्नो महाभाग गूढार्थः परमः शुभः।
सूक्ष्मः श्रेयांश्च मर्त्यानां भवद्भिः समुदाहृतः।। 43
श्रूयतां सर्वमाख्यास्ये निखिलेन तपोधनाः।
यथा यज्ञफलं मर्त्यो लभते नात्र संशयः।। 44
पौषमासस्य शुक्ले वै यदा युज्येत रोहिणी।
तेन नक्षत्रयोगेन आकाशशयनो भवेत्।। 45
एकवस्त्रः शुचिः स्नातः श्रद्दधानः समाहितः।
सोमस्य रश्मयः पीत्वा महायज्ञफलं लभेत्।। 46
एतद्वः परमं गुह्यं कथितं द्विजसत्तमाः।
यन्मां भवन्तः पृच्छन्ति सूक्ष्मतत्त्वार्थदर्शिनः]।। 47
इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकोननवत्यधिकशततमोऽध्यायः।। 189 ।।
==
3 चक्रे गोमयोपलिप्ते मण्डले सुदर्शनमन्त्रेण पूजिते।।
28 अशब्दः अपशब्दः निन्दारूपः।।
46 रश्मयः रश्मीन्।।
अनुशासनपर्व-188 | पुटाग्रे अल्लिखितम्। | अनुशासनपर्व-190 |