महाभारतम्-13-अनुशासनपर्व-171
← अनुशासनपर्व-170 | महाभारतम् त्रतयोदशपर्व महाभारतम्-13-अनुशासनपर्व-171 अज्ञातलेखकः |
अनुशासनपर्व-172 → |
भीष्मेण युधिष्ठिरंप्रति मार्गशीर्षादि कार्तिकान्तेषु द्वादशमासेषु द्वादशद्वादशीषु केशवादिदामोदरान्तभगवद्रूपविशेषपूजाफलविशेषकथनम्।। 1 ।।
*युधिष्ठिर उवाच।
सर्वेषामुपवासानां यच्छ्रेयः सुमहत्फलम्।
यच्चाप्यसंशयं लोके तन्मे त्वं वक्तुमर्हसि।। 1
भीष्म उवाच।
शृणु राजन्यथा गीतं स्वयमेव स्वयंभुवा।
यत्कृत्वा निर्वृतो भूयात्पुरुषो नात्र संशयः।। 2
द्वादश्यां मार्गशीर्षे तु अहोरात्रेण केशवम्।
अर्च्याश्वमेधं प्राप्नोति दुष्कृतं चास्य नश्यति।। 3
तथैव पौषमासे तु पूज्यो नारायणेति च।
वाजपेयमवाप्नोति सिद्धिं च परमां व्रजेत्।। 4
अहोरात्रेण द्वादश्यां माघमासे तु माघवम्।
राजसूयमवाप्नोति कुलं चैव समुद्धरेत्।। 5
तथैव फाल्गुने मासि गोविन्देति च पूजयन्।
अतिरात्रमवाप्नोति सोमलोकं च गच्छति।। 6
अहोरात्रेण द्वादश्यां चैत्रे विष्णुरिति स्मरन्।
पौण्डरीकमवाप्नोति देवलोकं च गच्छति।। 7
वैशाखमासे द्वादश्यां पूजयन्मधुसूदनम्।
अग्निष्टोममवाप्नोति सोमलोकं च गच्छति।। 8
अहोरात्रेण द्वादश्यां ज्येष्ठे मासि त्रिविक्रमम्।
गवां मेधमवाप्नोति अप्सरोभिश्च मोदते।। 9
आषाढे मासि द्वादश्यां वामनेति च पूजयन्।
नरमेधमवाप्नोति पुण्यं च लभते महत्।। 10
अहोरात्रेण द्वादश्यां श्रावणे मासि श्रीधरम्।
पञ्चयज्ञानवाप्नोति विमानस्थश्च मोदते।। 11
तथा भाद्रपदे मासि हृषीकेशेति पूजयन्।
सौत्रामणिमवाप्नोति पूतात्मा भवते च हि।। 12
द्वादश्यामाश्विने मासि पद्मनाभेति चार्चयन्।
गोसहस्रफलं पुण्यं प्राप्नुयान्नात्र संशयः।। 13
द्वादश्यां कार्तिके मासि पूज्यो दामोदरेति च।
गवां यज्ञमवाप्नोति पुमान्स्त्री वा न संशयः।। 14
अर्चयेत्पुण्डरीकाक्षमेवं संवत्सरं तु यः।
जातिस्मरत्वं प्राप्नोति विन्द्याद्बहु सुवर्णकम्।। 15
अहन्यहनि तद्भावमुपेन्द्रं योऽधिगच्छति।
समाप्ते भोजयेद्विप्रानथवा दापयेद्धृतम्।। 16
अतः परं नोपवासो भवतीति विनिश्चयः।।
उवाच भगवान्विष्णुः स्वयमेव पुरातनम्।।] 17
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकसप्तत्यधिकशततमोऽध्यायः।। 171 ।।
- एतदाद्यध्यायद्वयं झ.पुस्तक एव दृश्यते।
3 अर्च्य अभ्यर्च्य।।
अनुशासनपर्व-170 | पुटाग्रे अल्लिखितम्। | अनुशासनपर्व-172 |