"अग्निपुराणम्/अध्यायः १७१" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
अथ एकसप्तत्यधिकशततमोऽध्यायः <poem><span style="font-size: 14pt; line-hei... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः १: पङ्क्तिः १:
{{अग्निपुराणम्}}
अथ एकसप्तत्यधिकशततमोऽध्यायः
अथ एकसप्तत्यधिकशततमोऽध्यायः



२२:४८, ११ नवेम्बर् २०१७ समयस्य संस्करणम्

अग्निपुराणम्
















अथ एकसप्तत्यधिकशततमोऽध्यायः

प्रायश्चित्तानि

पुष्कर उवाच
प्रायश्चित्तं रहस्यादि वक्ष्ये शुद्धिकरं पर ।१७१.००१
पौरुषेण तु सूक्तेन मासं जप्यादिनाघहा ॥१७१.००१
मुच्यते पातकैः सर्वैर्जप्त्वा त्रिरघमर्षणं ।१७१.००२
वेदजप्याद्वायुयमाद्गायत्र्या व्रततोऽद्यहा(१) ॥१७१.००२
मुण्डनं सर्वकृच्छ्रेषु स्नानं होमो हरेर्यजिः ।१७१.००३
उत्थितस्तु दिवा तिष्ठेदुपविष्टस्तथा निशि ॥१७१.००३
एतद्वीरासनं प्रोक्तं कृच्छ्रकृत्तेन पापहा ।१७१.००४
अष्टभिः प्रत्यहं ग्रासैर्यतिचान्द्रायणं स्मृतं ॥१७१.००४
प्रातश्चतुर्भिः सायञ्च शिशुचान्द्रायणं स्मृतं ।१७१.००५
यथाकथञ्चित्पिण्डानां चत्वारिंशच्छतद्वयं ॥१७१.००५
मासेन भक्षयेदेतत्सुरचान्द्रायणं चरेत् ।१७१.००६
त्र्यहमुष्णं पिवेदापस्त्यहमुष्णं पयः पिबेत् ॥१७१.००६
त्र्याहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहं ।१७१.००७
तप्तकृच्छ्रमिदं प्रोक्तं शीतैः शीतं प्रकीर्तितं ॥१७१.००७
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिं ।१७१.००८
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकं ॥१७१.००८
टिप्पणी
१ जपतोऽवधहेति ख.. , घ.. , ज.. च

एकरात्रोपवासश्चकृच्छ्रं शान्तपनं स्मृतं ।१७१.००९
एतच्च प्रत्याभ्यस्तं महाशान्तपनं स्मृतं ॥१७१.००९
त्र्यहाभ्यस्तमथैकैकमतिशान्तपनं स्मृतं ।१७१.०१०
कृच्छ्रं पराकसञ्ज्ञं स्याद्द्वादशाहमभोजनं ॥१७१.०१०
एकभक्तं त्र्यहाभ्यस्तं क्रमान्नक्तमयाचितं ।१७१.०११
प्राजापत्यमुपोष्यान्ते पादः स्यात्कृच्छ्रपादकः ॥१७१.०११
फलैर्मासं फलं कृच्छ्रं बिल्वैः श्रीक्च्छ्र ईरितः ।१७१.०१२
पद्माक्षैः स्यादामलकैः पुष्पकृच्छ्रं तु पुष्पकैः ॥१७१.०१२
पत्रकृच्छ्रन्तथा पत्रैस्तोयकृच्छ्रं जलेन तु ।१७१.०१३
मूलकृच्छ्रन्तथा मूलैर्दृध्न क्षीरेण तक्रतः ॥१७१.०१३
मासं वायव्यकृच्छ्रं स्यात्पाणिपूरान्नभोजनात् ।१७१.०१४
तिलैर्द्वादशरात्रेण कृच्छ्रमाग्नेयमार्तिनुत् ॥१७१.०१४
पाक्षं प्रसृत्या लाजानां ब्रह्मकूर्चं तथा भवेत् ।१७१.०१५
उपोषितश्चतुर्दृश्यां पञ्चदश्यामनन्तरं ॥१७१.०१५
पञ्चगव्यं समश्नीयाद्धविष्याशीत्यनन्तरं ।१७१.०१६
मासेन द्विर्नरः कृत्वा सर्वपापैः प्रमुच्यते ॥१७१.०१६
श्रीकामः पुष्टिकामश्च स्वर्गकामोऽघनष्टये ।१७१.०१७
देवताराधनपरः कृच्छ्रकारी स सर्वभाक् ॥१७१.०१७

इत्याग्नेये महापुराणे रहस्यादिप्रायश्वित्तं नाम एकसप्तत्यधिकशततमोऽध्यायः ॥