अग्निपुराणम्/अध्यायः १२२

विकिस्रोतः तः
← अध्यायः १२१ अग्निपुराणम्
अध्यायः १२२
वेदव्यासः
अध्यायः १२३ →

कालगणनं

अग्निरुवाच
कालः समागणो वक्ष्ये गणितं कालबुद्धये ।१२२.००१
कालः समागणोऽर्कघ्नो(१) मासैश्चैत्रादिभिर्युतः ॥१२२.००१
द्विघ्नो द्विस्ट्ःः सवेदः स्यात्पञ्चाङ्गष्टयुतो गुणः(२) ।१२२.००२
त्रिष्ठो मध्यो वसुगुणः पुनर्वेदगुणश्च सः ॥१२२.००२
अष्टरन्ध्राग्निहीनः(३) स्यादधः सैकरसाष्टकैः ।१२२.००३
मध्यो हीनः षष्टिहतो(४) लब्धयुक्तस्तथोपरि ॥१२२.००३
न्यूनः सप्तकृतो वारस्तदधस्तिथिनाडयः ।१२२.००४
सगुणो द्विगुणश्चोरोद्ध्वं त्रिभिरूनो गुणः पुनः ॥१२२.००४
अधः स्वरामसंयुक्तो रसार्काष्टफलैर्युतः ।१२२.००५
अष्टाविंशच्छेषपिण्डस्तिथिनाड्या अधः स्थितः ॥१२२.००५
टिप्पणी
१ समागणोर्काब्द इति ख.. , छ.. च
२ पञ्चदशयुतो गण इति ज..
३ अष्टचन्द्राग्निहीन इति ज..
४ षष्टिहत इति ङ..

गुणस्तिसृभिरूनोर्धं द्वाभ्यां च गुणयेत्पुनः ।१२२.००६
मध्ये रुद्रगुणः कार्यो ह्यधः सैको नवाग्निभिः(१) ॥१२२.००६
लब्धहीनो(२) भवेन्मध्यो द्वाविंशतिविवर्जितः ।१२२.००७
षष्टिशेषे ऋणं ज्ञेयं लब्धमूर्ध्वं विनिक्षिपेत् ॥१२२.००७
सप्तविंशतिशेषस्तु ध्रुवो नक्षत्रयोगयोः ।१२२.००८
मासि मासि क्षिपेद्वारन्द्वात्रिंशद्घटिकास्तिथौ ॥१२२.००८
द्वे पिण्डे द्वे च नक्षत्रे नाड्य एकादश ह्यृणे ।१२२.००९
वारस्थाने तिथिन्दद्यात्सप्तभिर्भार्गवमाहरेत् ॥१२२.००९
शेषवाराश्च सूर्याद्या घटिकासु च पातयेत् ।१२२.०१०
पिण्डिकेषु तिथिन्दद्याद्धरेच्चैव चतुर्दश ॥१२२.०१०
ऋणं धनं धनमृणं क्रमाज्ज्ञेयं चतुर्दशे ।१२२.०११
प्रथमे त्रयोदशे पञ्च द्वितीयद्वादशे दश ॥१२२.०११
पञ्चदशस्तृतीये च तथाचैकादशे स्मृतां ।१२२.०१२
चतुर्थे दशमे चैव भवेदेकोनविंशतिः ॥१२२.०१२
पञ्चमे नवमे चैव द्वाविंशतिरुदाहृताः ।१२२.०१३
षष्ठाष्टमे त्वखण्डाः स्युश्चतुर्विंशतिरेव च ॥१२२.०१३
सप्तमे पञ्चविंशः स्यात्खण्डशः पिण्डिकाद्भवेत्(३) ।१२२.०१४
कर्कटादौ हरेद्राशिमृतुवेदत्रयैः क्रमात् ॥१२२.०१४
तुलादौ प्रातिलोम्येन त्रयो वेदरसाः क्रमात् ।१२२.०१५
टिप्पणी
१ सैकेन सप्तकैरिति ख.. , ग.. च
२ ऋतुहीन इति ङ..
३ खण्डकः पिण्डकाद्भवेदिति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च

मकरादौ दीयते च रसवेदत्रयः क्रमात् ।१२२.०१५
मेषादौ प्रातिलोम्येन त्रयो वेदरसाः क्रमात्(१) ।१२२.०१६
खेषवः खयुगा मैत्रं मेषादौ विकला धनम् ॥१२२.०१६
कर्कटे प्रातिलोम्यं स्यादृणमेतत्तुलादिके ।१२२.०१७
चतुर्गुणा तिथिर्ज्ञेया विकलाश्चेह सर्वदा ॥१२२.०१७
हन्याल्लिप्तागतागामिपिण्डसङ्ख्याफलन्तरैः ।१२२.०१८
षष्ट्याप्तं प्रथमोच्चार्ये हानौ देयन्धने धनम् ॥१२२.०१८
द्वितीयोच्चरिते वर्गे वैपरीत्यमिति स्थितिः ।१२२.०१९
तिथिर्द्विगुणिता कार्या षड्भागपरिवर्जिता ॥१२२.०१९
रविकर्मविपरीता तिथिनाडीसमायुता ।१२२.०२०
ऋणे शुद्धे तु नाड्यः स्युर्ऋणं शुध्येत नो यदा ॥१२२.०२०
सषष्टिकं प्रदेयन्तत्षष्ट्याधिक्ये च तत्त्यजेत्(२) ।१२२.०२१
नक्षत्रं तिथिमिश्रं स्याच्चतुर्भिर्गुणिता तिथिः ॥१२२.०२१
तिथिस्त्रिभागसंयुक्ता ऋणेन च तथान्विता ।१२२.०२२
तिथिरत्र चिता कार्या तद्वेदाद्योगशोधनं ॥१२२.०२२
रविचन्द्रौ समौ कृत्वा योगो भवति निश्चलः ।१२२.०२३
एकोना तिथिर्द्विगुणा सप्तभिन्ना कृतिर्द्विधा(३) ॥१२२.०२३
तिथिश्च द्विगुणैकोना कृताङ्गैः करणन्निशि ।१२२.०२४
टिप्पणी
१ मकरादौ इत्यादिः, वेदरसाः क्रमादित्यन्तः पाठः छ.. पुस्तके नास्ति
२ सन्त्यजेदिति घ..
३ सप्तभिन्ना गतिर्द्विधेति ख.. । सप्तच्छिन्ना कृतिर्द्विधेति घ.. , ज.. च

कृष्णचतुर्दश्यन्ते शकुनिः पर्वणीह चतुष्पदं ॥१२२.०२४
प्रथमे तिथ्यर्धतो हि किन्तुघ्नं प्रतिपन्मुखे ॥२५॥१२२.०२५

इत्याग्नेये महापुराणे कालगणनं नाम द्वाविंशत्यधिकशततमोऽध्यायः ॥