अग्निपुराणम्/अध्यायः ६७

विकिस्रोतः तः
अग्निपुराणम्
















अथ सप्तषष्टितमोऽध्यायः

जीर्णोद्धारविधानं
भगवानुवाच
जीर्णाद्धारविधिं वक्ष्ये भूषितां स्नपयेद्गुरुः(१) ।६७.००१
अचलां विन्यसेद्गेहे अतिजीर्णां परित्यजेत् ॥६७.००१
व्यङ्गां भग्नां च शैलाढ्यां न्यसेदन्यां च पूर्ववत् ।६७.००२
संहारविधिना तत्र तत्त्वान् संहृत्य देशिकः ॥६७.००२
सहस्रं नारसिंहेन हुत्वा तामुद्धरेद्गुरुः ।६७.००३
दारवीं दारयेद्वह्नौ शैलजां प्रक्षिपेज्जले ॥६७.००३
धातुजां रत्नजां वापि अगाधे वा जलेऽम्बुधौ ।६७.००४
यानमारोप्य जीर्णाङ्गं छाद्य वस्त्रादिना नयेत् ॥६७.००४
वादित्रैः प्रक्षिपेत्तोये गुरवे दक्षिणां ददेत् ।६७.००५
यत्प्रमाणा च यद्द्रव्या तन्मानां स्थापयेद्दिने ।६७.००५
कूपवापीतडागादेर्जीर्णोद्धारे महाफलं ॥६७.००५
टिप्पणी
१ भूषिताञ्च यजेद्गुरुरिति घ, चिह्नितपुस्तकपाठः
इत्यादिमहापुराणे आग्नेये जीर्णोद्धारकथनं नाम सप्तषष्टितमोऽध्यायः ॥