सामग्री पर जाएँ

अग्निपुराणम्/अध्यायः २९३

विकिस्रोतः तः
अग्निपुराणम्
















मन्त्रपरिभाषा

[सम्पाद्यताम्]

अग्निरुवाच
मन्त्रविद्याहरिं वक्ष्ये भुक्तिमुक्तिप्रदं शृणु ।२९३.००१
विंशत्यर्णाधिका मन्त्रा मालामन्त्राः स्मृता द्विज ॥२९३.००१
दशाक्षराधिका मन्त्रास्तदर्वाग्बीजसंज्ञिताः ।२९३.००२
वार्धक्ये सिद्धिदा ह्येते मालामन्त्रास्तु यौवने ॥२९३.००२
पञ्चाक्षराधिका मन्त्राः सिद्धिदाः सर्वदापरे ।२९३.००३
स्त्रीपुंनपुंसकत्वेन त्रिधाः स्युर्मन्त्रजातयः ॥२९३.००३
स्त्रीमन्त्रा वह्निजायन्ता नमोन्ताश्च नपुंसकाः ।२९३.००४
शेषाः पुमांसस्ते शस्ता वक्ष्योच्चाटविषेषु च[] ॥२९३.००४
क्षुद्रक्रियामयध्वंसे स्त्रियोऽन्यत्र[] नपुंसकाः ।२९३.००५
मन्त्रावाग्नेयसौम्याख्यौ ताराद्यन्तार्द्वयोर्जपेत् ॥२९३.००५
तारान्त्याग्निवियत्प्रायो मन्त्र आग्नेय इष्यते ।२९३.००६
शिष्टः सौम्यः प्रशस्तौ तौ कर्मणोः क्रूरसौम्ययोः ॥२९३.००६
आग्नेयमन्त्रः सौम्यः स्यात्प्रायशोऽन्ते नमोऽन्वितः ।२९३.००७
सौम्यमन्त्रस्तथाग्नेयः फट्कारेणान्ततो युतः ॥२९३.००७
सुप्तः प्रबुद्धमात्रो वा मन्त्रः सिद्धिं न यच्छति ।२९३.००८
स्वापकालो महाबाहो जागरो दक्षिणावहः ॥२९३.००८
आग्नेयस्य मनोः सौम्यमन्त्रस्यैतद्विपर्ययात् ।२९३.००९
प्रबोधकालं जानीयादुभयोरुभयोरहः ॥२९३.००९
दुष्टर्क्षराशिविद्वेषिवर्णादीन् वर्जयेन्मनून् ।२९३.०१०

नक्षत्रचक्रम्
रा आश्विनी अ आ
ज्य भरणी
ला कृत्तिका ई उ ऊ
भो रोहिणी ऋ ऋ ॄ लृ लॄ
मृगशिरा
का आर्द्रा
रा पुनर्वसु ओ औ
पुष्य
प्रा आश्लेषा ख ग
मघा घ ङ
भ्या पूर्वाफाल्गुनी
रिः उत्तराफाल्गुनी छ ज
स्व हस्त झ ञ
रः चित्रा ट ठ
कु स्वाती
रून् विशाखा ढ ण
गो अनुराधा त थ द
पा ज्येष्ठा
लान् मूल न प फ
कु पूर्वाषाढा
कु उत्तराषाढा
टी श्रवण
प्रा धनिष्ठा य र
यान् शतभिषा
फु पूर्वाभाद्रपद व श
ल्लौ उत्तरभाद्रपद ष स ह

राज्यलाभोपकाराय प्रारभ्यारिः स्वरः कुरून् ॥२९३.०१०
गोपालककुटीं प्रायात्पूर्णामित्युदिता लिपिः ।२९३.०११
नक्षत्रेषु क्रमाद्योज्यौ स्वरान्त्यौ रेवतीयुजौ ॥२९३.०११
वेला गुरुः स्वराः शोणः कर्मणैवेतिभेदिताः ।२९३.०१२
लिप्यर्णा वशिषु ज्ञेया षष्ठेशादींश्च योजयेत् ॥२९३.०१२
लिपौ चतुष्पथस्थायामाख्यवर्णपदान्तराः ।२९३.०१३
सिद्धाः साध्या द्वितीयस्थाः सुसिद्धा वैरिणः परे ॥२९३.०१३
सिद्धादीन् कल्पयेदेवं सिद्धात्यन्तगुणैरपि[](१) ।२९३.०१४
सिद्धे सिद्धो जपात्साध्यो जपपूजाहुतादिना[](२) ॥२९३.०१४
सुसिद्धो ध्यानमात्रेण साधकं नाशयेदरिः ।२९३.०१५
दुष्टार्णप्रचुरो यः स्यान्मन्त्रः सर्वविनिन्दितः ॥२९३.०१५
प्रविश्य विधिवद्दीक्षामभिषेकावसानिकाम् ।२९३.०१६
श्रुत्वा तन्त्रं गुरोर्लब्धं साधयेदीप्सितं मनुम् ॥२९३.०१६
धीरो दक्षः शुचिर्भक्तो जपध्यानादितत्परः ।२९३.०१७
सिद्धस्तपस्वी कुशलस्तन्त्रज्ञः सत्यभाषणः ॥२९३.०१७
निग्रहानुग्रहे शक्तो गुरुरित्यभिधीयते ।२९३.०१८
शान्तो दान्तः पटुश्चीर्णब्रह्मचर्यो हविष्यभुक् ॥२९३.०१८
कुर्वन्नाचार्यशुश्रूषां सिद्धोत्साही स शिष्यकः ।२९३.०१९
स तूपदेश्यः पुत्रश्च विनयी वसुदस्तथा ॥२९३.०१९
मन्त्रन्दद्यात्सुसिद्धौ तु सहस्रं देशिकं जपेत् ।२९३.०२०
यदृच्छया श्रुतं मन्त्रं छलेनाथ बलेन वा ॥२९३.०२०
पत्रे स्थितञ्च गाथाञ्च जनयेद्यद्यनर्थकम् ।२९३.०२१
मन्त्रं यः साधयेदेकं जपहोमार्चनादिभिः ॥२९३.०२१
क्रियाभिर्भूरिभिस्तस्य सिध्यन्ते स्वल्पसाधनात् ।२९३.०२२
सम्यक्सिद्धैकमन्त्रस्य नासाध्यमिह किञ्चन ॥२९३.०२२
बहुमन्त्रवतः पुंसः का कथा शिव एव सः ।२९३.०२३
दशलक्षजपादेक वर्णो मन्त्रः प्रसिध्यति ॥२९३.०२३
वर्णवृद्ध्या जपह्रासस्तेनान्येषां समूहयेत् ।२९३.०२४
बीजाद्द्वित्रिगुणान्मन्त्रान्मालामन्त्रे जपक्रिया ॥२९३.०२४
सङ्ख्यानुक्तौ शतं साष्टं सहस्रं वा जपादिषु ।२९३.०२५
जपाद्दशांशं सर्वत्र साभिशेकं हुतं विदुः ॥२९३.०२५
द्रव्यानुक्तौ घृतं होमे जपोऽशक्तस्य सर्वतः ।२९३.०२६
मूलमन्त्राद्दशांशः स्यादङ्गादीनां जपादिकम् ॥२९३.०२६
जपात्सशक्तिमन्त्रस्य कामदा मन्त्रदेवताः ।२९३.०२७
साधकस्य भवेत्तृप्ता ध्यानहोमार्चनादिना ॥२९३.०२७
उच्चैर्जपाद्विशिष्टः स्यादुपांशुर्दशभिर्गुणैः ।२९३.०२८
जिह्वाजपे शतगुणः सहस्रो मानसः स्मृतः ॥२९३.०२८
प्राङ्मुखोऽवाङ्मुखो वापि मन्त्रकर्म समारभेत् ।२९३.०२९
प्रणवाद्याः सर्वमन्त्रा वाग्यतो विहिताशनः ॥२९३.०२९
आसीनस्तु जपेन्मन्त्रान्देवताचार्यतुल्यदृक् ।२९३.०३०
कुटीविविक्ता देशाः स्युर्देवालयनदीह्रदाः ॥२९३.०३०
सिद्धौ यवागूपूपैर्वा पयो भक्ष्यं हविष्यकम् ।२९३.०३१
मन्त्रस्य देवता तावत्[] तिथिवारेषु वै जपेत् ॥२९३.०३१
कृष्णाष्टमीचतुर्दश्योर्ग्रहणादौ च साधकः ।२९३.०३२
दस्रो यमोऽनलो धाता शशी रुद्रो गुरुर्दितिः ॥२९३.०३२
सर्पाः पितरोऽथ भगोऽर्यमा शीतेतरद्युतिः ।२९३.०३३
त्वष्टा मरुत इन्द्राग्नी मित्रेन्द्रौ निर्ऋतिर्जलम् ॥२९३.०३३
विश्वेदेवा हृषीकेशो वायवः सलिलाधिपः ।२९३.०३४
अजैकपादहिर्बुध्न्यः पूषाश्विन्यादिदेवताः ॥२९३.०३४
अग्निदस्रावुमा निघ्नौ नागश्चन्द्रो दिवाकरः ।२९३.०३५
मातृदुर्गा दिशामीशः कृष्णो वैवस्वतः शिवः ॥२९३.०३५
पञ्चदश्याः शशाङ्कस्तु पितरस्तिथिदेवताः ।२९३.०३६
हरो दुर्गा गुरुर्विष्णुर्ब्रह्मा लक्ष्मीर्धनेश्वरः ॥२९३.०३६
एते सूर्यादिवारेशा लिपिन्यासोऽथ कथ्यते ।२९३.०३७
केशान्तेषु च वृत्तेषु चक्षुषोः श्रवणद्वये ॥२९३.०३७
नासागण्डौष्ठदन्तानां द्वे द्वे मूर्धस्ययोः क्रमात् ।२९३.०३८
वर्णान् पञ्चसुवर्गानां[] बाहुचरणसन्धिषु ॥२९३.०३८
पार्श्वयोः पृष्ठतो नाभौ हृदये च क्रमान्न्यसेत् ।२९३.०३९
यादींश्च हृदये न्यस्येदेषां स्युः सप्तधातवः ॥२९३.०३९
त्वगसृङ्मांसकस्नायुमेदोमज्जाशुक्राणि धातवः ।२९३.०४०
वसाः पयो वासको लिख्यन्ते चैव लिपीश्वराः ॥२९३.०४०
श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः ।२९३.०४१
अग्नीशो भावभूतिश्च तिथीशः स्थानुको हरः ॥२९३.०४१
दण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः ।२९३.०४२
अक्रूरश्च महासेनः शरण्या देवता अमूः ॥२९३.०४२
ततः क्रोधीशचण्डौ च पञ्चान्तकशिवोत्तमौ ।२९३.०४३
तथैव रुद्रकूर्मौ च त्रिनेत्रौ चतुराननः ॥२९३.०४३
अजेशः शर्मसोमेशौ तथा लाङ्गलिदारुकौ ।२९३.०४४
अर्धनारीश्वरश्चोमा कान्तश्चाषाढिदण्डिनौ ॥२९३.०४४
अत्रिर्मीनश्च मेषश्च लोहितश्च शिखी तथा ।२९३.०४५
छगलण्डद्विरण्डौ द्वौ समहाकालवालिनौ ॥२९३.०४५
भुजङ्गश्च पिनाकी च खड्गीशश्च वकः पुनः ।२९३.०४६
श्वेतो भृगुर्लगुडीशाक्षश्च सम्वर्तकः स्मृतः ॥२९३.०४६
रुद्रान्सशक्तान् लिख्यादीन्नमोन्तान् विन्यसेत्क्रमात् ।२९३.०४७
अङ्गानि विन्यसेत्सर्वे मन्त्राः साङ्गास्तु सिद्धिदाः ॥२९३.०४७
हृल्लेखाव्योमसंपूर्वाण्येतान्यङ्गानि विन्यसेत् ।२९३.०४८
हृदादीन्यङ्गमन्त्रान्तैर्यो जपेद्धृदये नमः ॥२९३.०४८
स्वाहा शिरस्यथ वषट्शिखायां कवचे हूम् ।२९३.०४९
वौषण्नेत्रेऽस्त्राय फटस्यात्पञ्चाङ्गं नेत्रवर्जितम् ॥२९३.०४९
निरङ्गस्यात्मना चाङ्गं न्यस्येमान्नियुतं जपेत् ।२९३.०५०
क्रमाभ्यां देवीं वागीशीं यथोक्तांस्तु तिलान् हुनेत् ॥२९३.०५०
लिपिदेवी साक्षसूत्रकुम्भपुस्तकपद्मधृक् ।२९३.०५१
कवित्वादि प्रयच्छेत कर्मादौ सिद्धये न्यसेत् ।२९३.०५१
निष्कविर्निर्मलः सर्वे मन्त्राः सिध्यन्ति मातृभिः ॥२९३.०५१


इत्याग्नेये महापुराणे मन्त्रपरिभाषा नाम त्रिनवत्यधिकद्विशततमोऽध्यायः


टिप्पणी

२९३.१० राज्यलाभोपकाराय प्रारभ्यारिः स्वरः कुरून् ॥ गोपालककुटीं प्रायात्फुल्लामित्युदिता लिपिः ।

अनेन जन्म, सम्पद्, विपत्, क्षेम, प्रत्यरि, साधक, वध, मित्र एवं अतिमित्रस्य तारकस्य विचारं क्रियते। साधकस्य नाम्नः यः आद्यक्षरः अस्ति, तदारभ्य मन्त्र्स्य आद्यक्षरं यावत् गण्येत। तं नवसंख्यया विभज्य यः शेषं स्यात्, तेनानुसारेण जन्मादि तारकं ज्ञायेत् (कल्याण अग्निपुराण विशेषांकः)।

  1. बन्धोच्चाटवशेषु चेति ज..
  2. स्त्रियो नात्रेति ख..
  3. सिद्धद्यन्तदलैरपीति ज..
  4. जपपूर्णाहुतादिनेति ख..
  5. १ तरेति ख..
  6. पञ्चस्वरवर्गाणामिति ख..