अग्निपुराणम्/अध्यायः १८०

विकिस्रोतः तः

अथाशीत्यधिकशततमोऽध्यायः

अग्निपुराणम्
















पञ्चमीव्रतानि

अग्निरुवाच
पञ्चमीव्रतकं वक्ष्ये आरोग्यस्वर्गमोक्षदं(१) ।१८०.००१
नभोनभस्याश्विने च कार्त्तिके शुक्लपक्षके ॥१८०.००१
वासुकिस्तक्षकः पूज्यः कालीयो मणिभद्रकः ।१८०.००२
ऐरावतो धृतराष्ट्रः कर्कोटकधनञ्जयौ ॥१८०.००२
एते प्रयच्छन्त्यभयमायुर्विद्यायशः श्रियम् ॥३॥१८०.००३
टिप्पणी
१ आरोग्यमुखमोक्षदमिति ङ..

इत्याग्नेये महापुराणे पञ्चमीव्रतानि नाम अशीत्यधिकशततमोऽध्यायः ॥