अग्निपुराणम्/अध्यायः १७९

विकिस्रोतः तः

अथैकोनाशीत्यधिकशततमोऽध्यायः

अग्निपुराणम्
















चतुर्थीव्रतानि

अग्निरुवाच
चतुर्थी व्रतान्याख्यास्ये भुक्तिमुक्तिप्रदानि ते(१) ।१७९.००१
माघे शुक्लचतुर्थ्यान्तु उपवासी यजेद्गुणं ॥१७९.००१
पञ्चम्याञ्च तिलान्नादी वर्षान्निर्विघ्नतः(२) सुखी ।१७९.००२
गं स्वाहा(३) मूलमन्त्रोऽयं गामाद्यं हृदयादिकं ॥१७९.००२
आगच्छोल्काय चावाह्य गच्छोल्काय विसर्जनं ।१७९.००३
उल्कान्तैर्गादिगन्धाद्यैः पूजयेन्मोदकादिभिः ॥१७९.००३

ओं महोल्काय विद्महे वक्रतुण्डाय(४) धीमहि तन्नो दन्ती प्रचोदयात्
मासि भाद्रपदे चापि चतुर्थीकृच्छिवं व्रजेत् ।१७९.००४
चतुर्थ्यां फाल्गुने नक्तमविघ्नाख्या व्रजेत् ॥१७९.००४
चतुर्थ्यां फाल्गुने नक्तमविघ्नाख्या चतुर्थ्यपि ।१७९.००५
चतुर्थ्यां दमनैः पूज्य चैत्रे प्रार्च्य गणं सुखी ॥१७९.००५
टिप्पणी
१ चतुर्थी व्रतकं वक्ष्ये भुक्तिमुक्तिप्रदायकमिति ङ..
२ वर्षन्निर्विघ्नत इति ङ.. , ञ.. च । वर्षन्निर्विघ्नवानिति ग..
३ हां स्वाहेति ख..
४ चक्रमुण्डायेति ख.. , घ.. च । वक्रमुण्डायेति ङ.. । रक्ततुण्डायेति ज.. , झ.. च

इत्याग्नेये महपुराणे चतुर्थीव्रतानि नाम एकोनाशीत्यधिकशततमोऽध्यायः ॥