"अग्निपुराणम्/अध्यायः ४७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎शालग्रामादिपूजनकथनम्: अग्निपुराणम् using AWB
अग्निपुराणम् using AWB
 
पङ्क्तिः १: पङ्क्तिः १:
{{अग्निपुराणम्}}

===शालग्रामादिपूजनकथनम्===
===शालग्रामादिपूजनकथनम्===
<poem>
<poem>

०९:२६, १९ जनवरी २०१६ समयस्य संस्करणम्

अग्निपुराणम्
















शालग्रामादिपूजनकथनम्[सम्पाद्यताम्]

भगवानुवाच
शालग्रामादिचक्राङ्कपूजाः सिद्ध्यैवदामि ते।
त्रिविधास्याद्धरेः पूजा काम्याकाम्योभयात्मिका ।। १ ।।

मीनादीनान्त पञ्चानां काम्याथो वोभयात्मिका
वराहस्प नृसिंहस्य वामनस्य चमुक्तये ।। २ ।।

चक्रादीनां त्रयाणान्तु शालग्रामार्च्चनं श्रृणु।
उत्तमा निष्फला पूजा कनिष्ठा सफलार्चना ।। ३ ।।

मध्यमा मूर्त्तिपूजा स्याच्चक्राव्जे चतुरस्रके।
प्रणवं हृदि विन्यस्य षडङ्गङ्करदेहयोः ।। ४ ।।

कृतमुद्रात्रयश्चक्राद् बहिः पूर्वे गुरुं यजेत्।
आप्ये गणं वायवे च धातारं नैर्ऋते यजेत् ।। ५ ।।

विधातारञ्च कर्त्तारं हर्त्तारं दक्षसौम्ययोः।
विष्वकसेनं यजेदीशे आग्नेये क्षेत्रपालकम् ।। ६ ।।

ऋगादिवेदान् प्रागादौ आधारानन्तकं भुवम्।
पीठं पद्मं चार्क वन्द्रवह्व्याख्यं मण्डलत्रयम् ।। ७ ।।

आसनं द्वादशार्णेन तत्र स्थाप्य शिलां यजेत्।
व्यस्तेन च समस्तेन स्वबीजेन यजेत् क्रमात् ।। ८ ।।

पूर्वादावथ वेदाद्यैर्गायत्रीभ्यां जितादिना।
प्रणवेनार्च्चयेत् पञ्चान्मुद्रास्तिस्रः प्रदर्शयेत् ।। ९ ।।

विष्वक्‌सेनस्य चक्रस्य क्षेत्रपालस्य दर्शयेत्।
शालग्रामस्य प्रथमा पूजाथो निष्फलोच्यते ।। १० ।।

पूर्ववत् षोडशारञ्च सपद्मं मण्डलं लिखेत्।
शङ्खचक्रगदाखड्‌गैर्गुर्वाद्यं पूर्वंवद्यजेत् ।। ११ ।।

पूर्वे सौम्ये धनुर्बाणान् वेदाद्यैरासनं ददेत्।
शिलां न्यसेद् द्वादशार्णैस्तृतीयं पूजनं श्रृणु ।। १२ ।।

अष्टारमब्जं विलिखेत् गुर्वाद्यं पूर्ववद्यजेत्।
अष्टर्णेनासनं दत्त्वा तेनैव च शिलां न्यसेत् ।। १३ ।।

पूजयेद्दशधा तेन गायत्रीभ्यां जितं तथा ।। १४ ।।

इत्यादिमहापुराणे आग्नेये शालग्रामादिपूजाकथनं नाम सप्तचत्वारिंशोऽध्यायः।